पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
त्रीनेतानुपसद्धोमान्विधातुं प्रस्तौति -
'तेषामसुराणां तिस्रः पुर आसन्नयस्मय्यवमाऽथ रजताऽथ हरिणी ता देवा जेतुं नाशक्नुवन्ता उपसदैवाजिगीषन्तस्मादाहुर्यश्चैवं वेद यश्च नोपसदा वै महापुरं जयन्तीति त इषुं समस्कुर्वताग्निमनीकं सोमं शल्यं विष्णुं तेजनं तेऽब्रुवन्क इमामसिष्यतीति रुद्र इत्यब्रुवन्रुद्रो वै क्रूरः सोऽस्यत्विति सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति तस्माद्रुद्रः पशूनामधिपतिस्ता रुद्रोऽवासृजत्स तिस्रः पुरो भित्त्वैभ्यो लोकेभ्योऽसुरान्प्राणुदत' इति ।
ये पूर्वमग्निना वरूथेन पराभूता असुरास्तेषामसुराणां पृथिव्यन्तरिक्षद्युलोकेषु स्वरक्षार्थं तिस्रः पुरो दुर्गरूपा आसन् । तासु पृथिवीवर्तिनी लोहप्राकारवेष्टिता । अन्तरिक्षवर्तिनी रजतप्राकारवेष्टिता । द्युलोकवर्तिनी हिरण्यप्राकारवेष्टिता । तादृशीः पुरो देवा अग्निना वरूथेनापि जेतुमशक्ता युद्धं परित्यज्योपसदैव जेतुमैच्छन् । दुर्गं परितोऽवरुध्य चिरं तत्समीपेऽवस्थाय तमुप(पा)वसन् । चिरकालावस्थाने सति दुर्गमध्येऽन्नपानादिक्षयादन्तर्भेदाद्वा जयो भव[ती]ति । यस्माद्देवैश्चिरवासो जयोपायत्वेन विचारितस्तस्माल्लोकेऽप्याहुः । के किमाहुः? यश्च ब्राह्मणादिर्वेदाध्ययनेन वेदविचारं जानाति यश्च शूद्रादिर्न जानाति ते सर्वेऽपि युद्धेनाजेयं महापुरमुपसदा जेतुं शक्यमित्याहुः । ततो देवाः कालविलम्बो मा भूदिति विचार्य युद्धेनैव जेतुमिषुं संस्कृतवन्तः । अग्निं सोमं विष्णुं च संभूयैकबाणं कृत्वा तेन जेतुमुद्युक्ताः । अनीकशब्दो बाणस्य प्रथमभागकाष्ठमाचष्टे, शल्यशब्दो लोहं, तेजनशब्दस्तदग्रम् । तामिमां देवतात्रयसमष्टिरूपामिषुं स्त्रीबालसहितकृत्स्नासुरघातिनीं को नाम मोक्ष्यतीति विचार्य शक्तो निर्घृणश्च रुद्र एवेति निश्चित्य तस्मै वरं दत्तवन्तः । स रुद्रस्तामिषुं मुक्त्वा तया प्राकारत्रयं विभिद्य त्रिभ्यो लोकेभ्योऽसुरान्निःसारयामास ॥
विधत्ते - 'यदुपसद उपसद्यन्ते भ्रातृव्यपराणुत्त्यै' इति ।
वैरिदुर्गोपसदनकार्यकारित्वादेता आहुतय उपसद इत्युच्यन्ते । तत्राग्निः सोमो विष्णुरित्येवंरूपास्तिस्रो देवताः, तासां याज्यापुरोनुवाक्या हौत्र एवाऽऽम्नायन्ते । अयाशयादितनुधारी वह्निश्चतुर्थी देवता । तदीयमन्त्र आध्वर्यवत्वादत्रैवाऽऽम्नातः ।
उपसदामाज्यहविष्ट्वेनोपांशुयाजवत्प्रयाजाज्यभागाद्याहुतिप्रसक्तौ प्रतिषेधति — “नान्यामाहुतिं पुरस्ताज्जुहुयाद्यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्प्रुखं कुर्यात्” इति ।
अग्निमनीकमिति बाणव्याजेनाग्नेः प्रथमभावित्वलक्षणं मुखत्वमुक्तम्। तत्र प्रयाजादिहोमे वह्नेर्मुखत्वं हीयेत ।
आहुत्यन्तराणां सर्वेषां निषेधप्राप्तौ कांचिदाहुतिं विधत्ते — “स्रुवेणाऽऽघारमा घारयति यज्ञस्य प्रज्ञात्यै” इति ।
दर्शपूर्णमासादियज्ञानामाघारोपेतत्वादुपसदामपि यज्ञत्वप्रत्यभिज्ञानाय स्रुवाघारः ।
तिसृणामुपसदां होमप्रकारं विधत्ते — “पराङतिक्रम्य जुहोति पराच एवैभ्यो लोकेभ्यो यजमानो भ्रातृव्यान्प्र णुदते” इति ।
पराङ्पुनरावृत्तिरहितो वेद्याहवनीययोर्मध्यमतिक्रम्य दक्षिणस्यां दिश्युदङ्गमुखः स्थित्वा क्रमेणाग्नेः सोमस्य विष्णोश्च तिस्र आहुतीर्जुहुयात् । तथा सति वैरिणोऽपि पुनरावृत्तिरहितानेव कृत्वा लोकत्रयान्निःसारयति ।
चतुर्थाहुतिप्रकारं विधत्ते — “पुनरत्याक्रम्योपसदं जुहोति प्रणुद्यैवैभ्यो लोकेभ्यो भ्रातृव्याञ्जित्वा भ्रातृव्यलोकमभ्यारोहति” इति ।
दक्षिणदेशादुत्तरस्यां दिशि समागत्य चतुर्थीमुपसद जुहुयात् । तथा सति वैरिणो निःसार्य स्वर्गं गत्वा वैरिस्थानं पुरत्रयमधितिष्ठति ।
कालद्वये तदनुष्ठानं विधत्ते — “देवा वै याः प्रातरुपसद उपासीदन्नह्नस्ताभिरसुरान्प्राणुदन्त याः साय रात्रियै ताभिर्यत्सायंप्रातरुपसद उपसद्यन्तेऽहोरात्राभ्यामेव तद्यजमानो भ्रातृव्यान्प्रणुदते” इति ।
उपासीदन्ननुष्ठितवन्तः । प्रातरनुष्ठिताभिरह्नो वैरिनिःसारणं सायमनुष्ठिताभिस्तु रात्रेः ।
कालद्वये याज्यानुवाक्ययोर्व्यत्यासं विधत्ते — “याः प्रातर्याज्याः स्युस्ताः सायं पुरोनुवाक्याः कुर्यादयातयामत्वाय” इति ।
यातयामत्वं गतरसत्वं तद्वर्जनाय व्यत्यासः ।
दिनत्रये तदनुष्ठानं विधत्ते — “तिस्र उपसद उपैति त्रय इमे लोका इमानेव लोकान्प्रीणाति” इति ।
त्रिषु दिनेषु कालद्वयेऽनुष्ठानं प्रशंसति — “षट्सं पद्यन्ते षड्वा ऋतव ऋतूनेव प्रीणाति” इति ।
प्रसङ्गादहीने द्विरात्रादावुपसद्दिनसंख्यां विधत्ते — “द्वादशाहीने सोम उपैति द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणाति” इति ।
अहःसंघेन निष्पाद्यः सोमयागोऽहीनः । सत्रमप्यनेनोपलक्ष्यते । अहःसमूहस्य समानत्वात् ।
द्वादशदिनेषु कालद्वयानुष्ठानं प्रशंसति — “चतुर्विंशतिः संपद्यन्ते चतुर्विशतिरर्धमासा अर्धमासानेव प्रीणाति” इति ।
एतेषूपसद्दिनेष्ववान्तरदीक्षान्व्रतपाने स्तनसंख्यां विधत्ते — “आराग्रामवान्तरदीक्षामुपेयाद्यः कामयेतास्मिन्मे लोकेऽर्धुकं स्यादित्येकमग्नेऽथ द्वावथ त्रीनथ चतुर एषा वा आराग्राऽवान्तरदीक्षाऽस्मिन्नेवास्मै लोकेऽर्धुकं भवति” इति ।
बलीवर्दप्रतोदनं लोहमारं तद्वदल्पमग्रं मुखं यस्याः साऽऽराग्रा । अर्धुकं समृद्धिशीलं फलम् । सोमक्रयदिने सायमेकं स्तनं दुह्यात्, अपरेद्युः प्रातर्द्वौ स्तनौ, सायं त्रीन्स्तनान्, परेद्युः प्रातश्चतुरः ।
यस्तु परलोकसमृद्धिकामस्तस्योक्तवैपरीत्यं विधत्ते — “परोवरीयसीमवान्तरदीक्षामुपेयाद्यः कामयेतामुष्मिन्मे लोकेऽर्धुक स्यादिति चतुरोऽग्रेऽथ त्रीनथ द्वावथैकमेषा वै परोवरीयस्यवान्तरदीक्षाऽमुष्मिन्नेवास्मै लोकेऽर्धुकं भवति” इति ।
परःशब्देनात्र श्रेष्ठत्वादुपक्रमो विवक्षितः । उपक्रमे वरीयोऽधिकं यस्याः सा परोवरीयसी ।