पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
अशक्तस्य क्षीरव्रतादूर्ध्वमाहारमल्पमनुजानाति —
“सुवर्गं वा एते लोकं यन्ति य उपसद उपयन्ति तेषां य उन्नयते हीयत एव स नोदनेषीति सून्नीयमिव” (सं. का. ६ प्र. २ अ. ४) इति।
उपसदां स्वर्गप्राप्तिहेतुत्वात्तदनुष्ठायिभिरवहितैर्भवितव्यम्। तेषां मध्ये यः कोऽपि हीनमनस्को यथोक्तव्रतादूर्ध्वमोदनादिकमन्तर्नयेत्स स्वर्गाद्धीयत एव। तस्मादशक्तोऽपि श्रद्धालुतया नोदनेषि न किंचिदपि व्रतादूर्ध्वमन्तर्नेष्यामीति यदि मन्येत तेन सून्नीयमिव शोभनं वाक्यान्तराभ्यनुज्ञातं वस्तून्नीतमिव कुर्यात्।
अशक्तिपरिहारमात्रोपयुक्तं किंचिदेव स्वीकार्तव्यम्।
अनुव्रते कृतेऽपि फलभ्रंशो नास्तीत्यस्मिन्नर्थे दृष्टान्तमाह —
“यो वै स्वार्थेतां यता श्रान्तो हीयत उत स निष्ट्याय सह वसति” (सं. का. ६ प्र. २ अ. ४) इति।
स्वार्थं यन्ति गच्छन्तीति स्वार्थेतस्तेषां स्वार्थेताम्। यतन्त इति यतस्तेषां यताम्। मकरमासे प्रयागस्नानं केषांचित्स्वार्थस्तं प्राप्तुं प्रयतमानानां स्वग्रामान्निर्गत्य गच्छतां मध्ये यः कश्चिच्छ्रान्तो गन्तुमशक्तः संक्रान्तिकालीनस्नानाद्धीयते सोऽपि निष्ट्याय परेद्युर्निर्गत्य तीर्थे गत्वा तैस्तीर्थवासिभिः सहावशिष्टं मासं वसति तद्वदयमप्येकेनानुव्रतेनाशक्तिं परिहृत्य शिष्टं नियममनुतिष्ठेत्।
तमिममर्थं निगमयति —
“तस्मात्सकृदुन्नीय नापरमुन्नयेत” (सं. का. ६ प्र. २ अ. ४) इति।
सकृदुन्नयने द्रव्यं विधत्ते —
“दध्नोन्नयेतैतद्वै पशूना रूप रूपेणैव पशूनव रुन्धे” (सं. का. ६ प्र. २ अ. ४) इति।
“यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा स पृथिवीं प्राविशत्तं देवा हस्तान्त्सरभ्यैच्छन्तमिन्द्र उपर्युपर्यत्यक्रामत्सोऽब्रवीत्को माऽयमुपर्युपर्यत्यक्रमीदित्यहं दुर्गे हन्तेत्यथ कस्त्वमित्यहं दुर्गादाहर्तेति सोऽब्रवीद्दुर्गे वै हन्ताऽवोचथा वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद्वित्तं वेद्यमसुराणां बिभर्ति तं जहि यदि दुर्गे हन्ताऽसीति स दर्भपुञ्जीलमुद्वृत्य सप्तगिरीन्भित्त्वा तमहन्त्सोऽब्रवीद्दुर्गाद्वा आहर्ताऽवोचथा एतमा हरेति तमेभ्यो यज्ञ एव यज्ञमाऽहरद्यत्तद्वित्तं वेद्यमसुराणामविन्दन्त तदेकं वेद्यै वेदित्वम्” (सं. का. ६ प्र. २ अ. ४) इति।
स्वर्गलोके स्थितो यज्ञपुरुषस्तिरोधानाय विष्णुर्भूत्वा वैष्णवं रूपं संपूर्णं कृत्वा देवेभ्यः पलाय्य पृथिवीं प्राविशत्। देवाश्च पृष्ठत एव समागत्य हस्तान्प्रसार्य तं धर्तुमैच्छन्। अयं यज्ञो यत्र यत्र गच्छति तत्र तत्रेन्द्रस्तमतिक्रम्य पुरतो मार्गमवरुध्यातिष्ठत्। कोऽयं मामत्यक्रमीदिति यज्ञेनाऽक्षिप्त इन्द्रः केनाप्यगम्ये दुर्गे गत्वा विरोधिनं ताडयिष्यामीति स्वमहिमानं प्रतिजज्ञे। अथैवं मच्छक्तेः परीक्षकः को नाम त्वमसीतीन्द्रेणाऽऽक्षिप्तो यज्ञस्तादृशश्च दुर्गात्तं विरोधिनमाहरिष्यामीति स्वाशक्तिं प्रतिजज्ञौ(ज्ञे)। प्रतिज्ञाय स्वकीयं पूर्ववृत्तान्तमिन्द्रस्य पुरतः सर्वमवोचत्। पुरा कदाचिदसुरप्राबल्यं दृष्ट्वा मदङ्गभूतदीक्षाद्यभिमानिनः सर्वेऽपि स्वर्गलोकवासिनो मत्तो निर्गत्य पृथिवीं प्राविशन्। ते च के, चतुस्रो दीक्षास्तिस्र उपसद एका सुत्येत्यष्टदिवससाध्यानि कर्माणि।। तत्र दीक्षोपसदः सप्तपृथिव्यां गत्वा गिरयोऽभवन्। सुत्याभिमानी देवो वाममोषो वामं कमनीयं सौमिकवेदिग्रहचमसादिरूपं दैवं वित्तं मुष्णात्यपहरतीति वाममोषः। स च मुषितं तत्सर्वमसुरेभ्यो दत्त्वा स्वयं वराहो भूत्वा सप्तभ्यो गिरिभ्यः परस्तादसुराणां तद्वित्तं स्थितं विरोधिनं हन्ताऽसि तर्हि तं वराहं जहीत्युक्त इन्द्रो दर्भस्तम्बेनैव गिरीन्भित्त्वा वराहं ताडितवान्। तत इन्द्रो यज्ञमुवाच विरोधिनमाहरिष्यामीति यत्प्रतिज्ञातं तत्कर्तुं शक्नोषि चेदेनं विरोधिनं वराहमाहरेत्युक्तो यज्ञाभिमान्यवे तं वराहाकारं वेदिग्रहचमसादिवित्तोपेतं यज्ञमेभ्यो देवेभ्य आहृत्य ददौ। यस्माद्देवैर्लब्धव्यमसुराणां तद्वेदिरूपं वित्तं देवा अविन्दन्तालभन्त तस्माद्विद्यते लभ्यत इति व्युत्पत्त्या वेदेर्वेदिनाम संपन्नम्। वक्ष्यमाणमपेक्ष्यायमेकः प्रकारः। तस्मादेकं वेदित्वमित्युच्यते।
प्रकारान्तरेणापि वेदित्वं दर्शयति —
“असुराणां वा इयमग्र आसीद्यावदासीनः परापश्यति तावद्देवानां ते देवा अब्रुवन्नस्त्वेव नोऽस्यामपीति कियद्वो दास्याम इति यावदिय सलावृकी त्रिः परिक्रामति तावन्नो दत्तेति स इन्द्रः सलावृकी रूपं कृत्वेमां त्रिः सर्वतः पर्यक्रामत्तदिमामविन्दन्त यदिमामविन्दन्त तद्वेद्यै वेदित्वम्” (सं. का. ६ प्रं. २ अ. ४) इति।
दार्शिके वेदिब्राह्मणेऽप्येतदुपाख्यानं श्रुतम्। तत्र वसवस्त्वेति मन्त्रैर्यावान्प्रदेशः परिगृहीतस्तावत्येव वेदिः। अत्र तु कृत्स्नाऽपि भूमिर्वेदिरिति विशेषः।
कृत्स्नभूमेर्वेदित्वेऽपि यागोपयुक्तप्रदेशः पृथक्कल्पनीय इति विधत्ते —
“सा वा इय सर्वैव वेदिरियति शक्ष्यामीति त्वा अवमाय यजन्ते” (सं. का. ६ प्रं. २ अ. ४)इति।
भूमिः सर्वा यद्यपि वेदिरेव तथाऽपि न यत्र क्वापि यष्टव्यं किंत्वेतावति प्रदेशे सदोहविर्धानादिकं निर्मातुं शक्ष्यामीति निश्चित्य तावन्तं प्रदेशमवमाय पदैः परिमित्य तस्मिन्प्रदेशे यजेरन्।
तत्र पदसंख्यां विधत्ते —
“त्रिंशत्पदानि पश्चात्तिरश्ची भवति षट्त्रिशत्प्राची चतुर्विशतिः पुरस्तात्तिरश्ची दशदश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे” [सं. का. ६ प्रं. २ अ. ४] इति।
अत्रोक्तपदसंख्यायां सर्वस्यां मेलितायां नवसंख्याकानि दशकानि संपद्यन्ते। तदेवं वेदिप्रदेशप्रमाणं मध्यम उपसद्दिने प्रातःकालीनाया उपसद ऊर्ध्वं कर्तव्यम्।
यथोक्तपरिमाणवति प्रदेश उपरितनमृत्तिकाया अपनयनं विधत्ते —
“उद्धन्ति यदेवास्या अमेध्यं तदपहन्ति” (सं. का. ६ प्रं. २ अ. ४) इति।
निष्ठीवनादिकृतमशुचित्वमुद्धनेनापैति।
तमेव विधिमनूद्य प्रशंसति —
“उद्धन्ति तस्मादोषधयः परा भवन्ति बर्हिः स्तृणाति तस्मादोषधयः पुनरा भवन्ति” [सं. का. ६ प्रं. २ अ. ४] इति।
पूर्वं तस्मिन्प्रदेशे समुत्पन्नास्तृणविशेषा उद्धननेन पराभूता भवन्ति तस्मात्कृत्स्नवेद्यां बर्हिरास्तरणादोषधयः पुनरागता भवन्ति।
तस्य बर्हिष उपरि पुनरप्यग्नीषोमीयपश्वर्थं बर्हिरुत्तरवेदिप्रदेशे स्तृणीयादिति विधत्ते —
“उत्तर बर्हिष उत्तरबर्हिः स्तृणाति प्रजा वै बर्हिर्यजमान उत्तरबर्हिर्यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः” (सं. का. ६ प्रं. २ अ. ४) इति।
उत्कृष्ट इत्यर्थः।