अनुवाकः 4 TS 6.2.4

(A4)

(रु॒न्धे॒ - वा॒म॒मो॒षो - वे॑दि॒त्वमसु॑राणां - ॅवेदि॒त्वं - भ॑वन्ति॒ - पञ्च॑विꣳशतिश्च)

अनुवाकः 4 - Complete Audio

TS 6.2.4 - स्वरानुगामी

0:00 0:00
PS1.1 सु॒व॒र्गं ॅवा ए॒ते लो॒कं
PS1.2 ॅय॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒
PS1.3 तेषां॒ ॅय उ॒न्नय॑ते॒ हीय॑त
PS1.4 ए॒व स नोद॑ने॒षीति॒ सू᳚न्नीयमिव॒
PS1.5 यो वै स्वा॒र्थेतां᳚ ॅय॒ताꣳ
PS1.6 श्रा॒न्तो हीय॑त उ॒त स
PS1.7 नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्मा᳚थ्
PS1.8 स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत द॒द्ध्नोन्न॑येतै॒तद्वै प॑शू॒नाꣳ
PS1.9 रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे-
PS1.10 [ ]
PS2.1 य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑
PS2.2 रू॒पं कृ॒त्वा स पृ॑थि॒वीं
PS2.3 प्रावि॑श॒त् तं दे॒वा हस्ता᳚न्थ्
PS2.4 सꣳ॒॒ रभ्यै᳚च्छ॒न् तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒थ्
PS2.5 सो᳚ऽब्रवी॒त् को मा॒ऽयमु॒पर्यु॑प॒र्यत्य॑क्रमी॒-दित्य॒हं दु॒र्गे
PS2.6 हन्तेत्यथ॒ कस्त्वमित्य॒हं दु॒र्गादाह॒र्तेति॒ सो᳚ऽब्रवीद्
PS2.7 दु॒र्गे वै हन्ता॑ऽवोचथा वरा॒हो॑ऽयं
PS2.8 ॅवा॑ममो॒षः- [ ]
PS3.1 स॑प्ता॒नां गि॑री॒णां प॒रस्ता᳚द्वि॒त्तं ॅवेद्य॒मसु॑राणां
PS3.2 बिभर्ति॒ तं ज॑हि॒ यदि॑
PS3.3 दु॒र्गे हन्ताऽसीति॒ स द॑र्भपुञ्जी॒लमु॒द्-वृह्य॑
PS3.4 स॒प्त गि॒रीन् भि॒त्त्वा तम॑ह॒न्थ्
PS3.5 सो᳚ऽब्रवीद् दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा
PS3.6 ह॒रेति॒ तमे᳚भ्यो य॒ज्ञ् ए॒व
PS3.7 य॒ज्ञ्माऽह॑र॒द्यत् तद्वि॒त्तं ॅवेद्य॒मसु॑राणा॒-मवि॑न्दन्त॒ तदेकं॒
PS3.8 ॅवेद्यै॑ वेदि॒त्वमसु॑राणां॒- [ ]
PS4.1 ॅवा इ॒यमग्र॑ आसी॒द् याव॒दासी॑नः
PS4.2 परा॒पश्य॑ति॒ ताव॑द् दे॒वानां॒ ते
PS4.3 दे॒वा अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो
PS4.4 दास्याम॒ इति॒ याव॑दि॒यꣳ स॑लावृ॒की
PS4.5 त्रिः प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒
PS4.6 स इन्द्रः॑ सलावृ॒की रू॒पं
PS4.7 कृ॒त्वेमां त्रिः स॒र्वतः॒ पर्य॑क्राम॒त्
PS4.8 तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद् वेद्यै॑
PS4.9 वेदि॒त्वꣳ- [ ]
PS5.1 सा वा इ॒यꣳ सर्वै॒व
PS5.2 वेदि॒रिय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑
PS5.3 यजन्ते त्रिꣳ॒॒शत् प॒दानि॑ प॒श्चात्
PS5.4 ति॒रश्ची॑ भवति॒ षट्त्रिꣳ॑श॒त् प्राची॒
PS5.5 चतु॑र्विꣳशतिः पु॒रस्ता᳚त् ति॒रश्ची॒ दश॑दश॒
PS5.6 संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड्
PS5.7 वि॒राजै॒वान्नाद्य॒मव॑ रुन्ध॒ उद्ध॑न्ति॒ यदे॒वास्या॑
PS5.8 अमे॒द्ध्यं तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒
PS5.9 परा॑ भवन्ति ( )
PS5.10 ब॒र्॒.हिः स्तृ॑णाति॒ तस्मा॒दोष॑धयः॒ पुन॒रा
PS5.11 भ॑व॒न्त्युत्त॑रं ब॒र्॒.हिष॑ उत्तरब॒र्॒.हिः स्तृ॑णाति
PS5.12 प्र॒जा वै ब॒र्॒.हिर्यज॑मान उत्तर
PS5.13 ब॒र्॒.हि र्यज॑मान-मे॒वा-य॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्-यज॑मा॒नो
PS5.14 ऽय॑जमाना॒दुत्त॑रः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.2.4.1 TS 6.2.4.1
सु॒व॒र्गं ॅवा ए॒ते लो॒कं ॅय॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒ तेषां॒ ॅय उ॒न्नय॑ते॒ हीय॑त ए॒व स नोद॑ने॒षीति॒ सू᳚न्नीयमिव॒ यो वै स्वा॒र्थेतां᳚ ॅय॒ताꣳ श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्मा᳚थ् स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत द॒द्ध्नोन्न॑येतै॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे- [ ]
पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । वै । ए॒ते । लो॒कम् । य॒न्ति॒ । ये । उ॒प॒सद॒ इत्यु॑प - सदः॑ । उ॒प॒यन्तीयु॑प - यन्ति॑ । तेषा᳚म् । यः । उ॒न्नय॑त॒ इत्यु॑त् - नय॑ते । हीय॑ते । ए॒व । सः । न । उदिति॑ । अ॒ने॒षि॒ । इति॑ । सू᳚न्नीय॒मिति॒ सु - उ॒न्नी॒य॒म् । इ॒व॒ । यः । वै । स्वा॒र्थेता॒मिति॑ स्वार्थ-इता᳚म् । य॒ताम् । श्रा॒न्तः । हीय॑ते । उ॒त । सः । नि॒ष्ट्याय॑ । स॒ह । व॒स॒ति॒ । तस्मा᳚त् । स॒कृत् । उ॒न्नीयेत्यु॑त्-नीय॑ । न । अप॑रम् । उदिति॑ । न॒ये॒त॒ । द॒द्ध्ना । उदिति॑ । न॒ये॒त॒ । ए॒तत् । वै । प॒शू॒नाम् । रू॒पम् । रू॒पेण॑ । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अशक्तस्य क्षीरव्रतादूर्ध्वमाहारमल्पमनुजानाति —

“सुवर्गं वा एते लोकं यन्ति य उपसद उपयन्ति तेषां य उन्नयते हीयत एव स नोदनेषीति सून्नीयमिव” (सं. का. ६ प्र. २ अ. ४) इति।

उपसदां स्वर्गप्राप्तिहेतुत्वात्तदनुष्ठायिभिरवहितैर्भवितव्यम्। तेषां मध्ये यः कोऽपि हीनमनस्को यथोक्तव्रतादूर्ध्वमोदनादिकमन्तर्नयेत्स स्वर्गाद्धीयत एव। तस्मादशक्तोऽपि श्रद्धालुतया नोदनेषि न किंचिदपि व्रतादूर्ध्वमन्तर्नेष्यामीति यदि मन्येत तेन सून्नीयमिव शोभनं वाक्यान्तराभ्यनुज्ञातं वस्तून्नीतमिव कुर्यात्।

अशक्तिपरिहारमात्रोपयुक्तं किंचिदेव स्वीकार्तव्यम्।

अनुव्रते कृतेऽपि फलभ्रंशो नास्तीत्यस्मिन्नर्थे दृष्टान्तमाह —

“यो वै स्वार्थेतां यता श्रान्तो हीयत उत स निष्ट्याय सह वसति” (सं. का. ६ प्र. २ अ. ४) इति।

स्वार्थं यन्ति गच्छन्तीति स्वार्थेतस्तेषां स्वार्थेताम्। यतन्त इति यतस्तेषां यताम्। मकरमासे प्रयागस्नानं केषांचित्स्वार्थस्तं प्राप्तुं प्रयतमानानां स्वग्रामान्निर्गत्य गच्छतां मध्ये यः कश्चिच्छ्रान्तो गन्तुमशक्तः संक्रान्तिकालीनस्नानाद्धीयते सोऽपि निष्ट्याय परेद्युर्निर्गत्य तीर्थे गत्वा तैस्तीर्थवासिभिः सहावशिष्टं मासं वसति तद्वदयमप्येकेनानुव्रतेनाशक्तिं परिहृत्य शिष्टं नियममनुतिष्ठेत्।

तमिममर्थं निगमयति —

“तस्मात्सकृदुन्नीय नापरमुन्नयेत” (सं. का. ६ प्र. २ अ. ४) इति।

सकृदुन्नयने द्रव्यं विधत्ते —

“दध्नोन्नयेतैतद्वै पशूना रूप रूपेणैव पशूनव रुन्धे” (सं. का. ६ प्र. २ अ. ४) इति।

अथ सौमिकीं वेदिं विधातुं प्रस्तौति —

“यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा स पृथिवीं प्राविशत्तं देवा हस्तान्त्सरभ्यैच्छन्तमिन्द्र उपर्युपर्यत्यक्रामत्सोऽब्रवीत्को माऽयमुपर्युपर्यत्यक्रमीदित्यहं दुर्गे हन्तेत्यथ कस्त्वमित्यहं दुर्गादाहर्तेति सोऽब्रवीद्दुर्गे वै हन्ताऽवोचथा वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद्वित्तं वेद्यमसुराणां बिभर्ति तं जहि यदि दुर्गे हन्ताऽसीति स दर्भपुञ्जीलमुद्वृत्य सप्तगिरीन्भित्त्वा तमहन्त्सोऽब्रवीद्दुर्गाद्वा आहर्ताऽवोचथा एतमा हरेति तमेभ्यो यज्ञ एव यज्ञमाऽहरद्यत्तद्वित्तं वेद्यमसुराणामविन्दन्त तदेकं वेद्यै वेदित्वम्” (सं. का. ६ प्र. २ अ. ४) इति।

स्वर्गलोके स्थितो यज्ञपुरुषस्तिरोधानाय विष्णुर्भूत्वा वैष्णवं रूपं संपूर्णं कृत्वा देवेभ्यः पलाय्य पृथिवीं प्राविशत्। देवाश्च पृष्ठत एव समागत्य हस्तान्प्रसार्य तं धर्तुमैच्छन्। अयं यज्ञो यत्र यत्र गच्छति तत्र तत्रेन्द्रस्तमतिक्रम्य पुरतो मार्गमवरुध्यातिष्ठत्। कोऽयं मामत्यक्रमीदिति यज्ञेनाऽक्षिप्त इन्द्रः केनाप्यगम्ये दुर्गे गत्वा विरोधिनं ताडयिष्यामीति स्वमहिमानं प्रतिजज्ञे। अथैवं मच्छक्तेः परीक्षकः को नाम त्वमसीतीन्द्रेणाऽऽक्षिप्तो यज्ञस्तादृशश्च दुर्गात्तं विरोधिनमाहरिष्यामीति स्वाशक्तिं प्रतिजज्ञौ(ज्ञे)। प्रतिज्ञाय स्वकीयं पूर्ववृत्तान्तमिन्द्रस्य पुरतः सर्वमवोचत्। पुरा कदाचिदसुरप्राबल्यं दृष्ट्वा मदङ्गभूतदीक्षाद्यभिमानिनः सर्वेऽपि स्वर्गलोकवासिनो मत्तो निर्गत्य पृथिवीं प्राविशन्। ते च के, चतुस्रो दीक्षास्तिस्र उपसद एका सुत्येत्यष्टदिवससाध्यानि कर्माणि।। तत्र दीक्षोपसदः सप्तपृथिव्यां गत्वा गिरयोऽभवन्। सुत्याभिमानी देवो वाममोषो वामं कमनीयं सौमिकवेदिग्रहचमसादिरूपं दैवं वित्तं मुष्णात्यपहरतीति वाममोषः। स च मुषितं तत्सर्वमसुरेभ्यो दत्त्वा स्वयं वराहो भूत्वा सप्तभ्यो गिरिभ्यः परस्तादसुराणां तद्वित्तं स्थितं विरोधिनं हन्ताऽसि तर्हि तं वराहं जहीत्युक्त इन्द्रो दर्भस्तम्बेनैव गिरीन्भित्त्वा वराहं ताडितवान्। तत इन्द्रो यज्ञमुवाच विरोधिनमाहरिष्यामीति यत्प्रतिज्ञातं तत्कर्तुं शक्नोषि चेदेनं विरोधिनं वराहमाहरेत्युक्तो यज्ञाभिमान्यवे तं वराहाकारं वेदिग्रहचमसादिवित्तोपेतं यज्ञमेभ्यो देवेभ्य आहृत्य ददौ। यस्माद्देवैर्लब्धव्यमसुराणां तद्वेदिरूपं वित्तं देवा अविन्दन्तालभन्त तस्माद्विद्यते लभ्यत इति व्युत्पत्त्या वेदेर्वेदिनाम संपन्नम्। वक्ष्यमाणमपेक्ष्यायमेकः प्रकारः। तस्मादेकं वेदित्वमित्युच्यते।

प्रकारान्तरेणापि वेदित्वं दर्शयति —

“असुराणां वा इयमग्र आसीद्यावदासीनः परापश्यति तावद्देवानां ते देवा अब्रुवन्नस्त्वेव नोऽस्यामपीति कियद्वो दास्याम इति यावदिय सलावृकी त्रिः परिक्रामति तावन्नो दत्तेति स इन्द्रः सलावृकी रूपं कृत्वेमां त्रिः सर्वतः पर्यक्रामत्तदिमामविन्दन्त यदिमामविन्दन्त तद्वेद्यै वेदित्वम्” (सं. का. ६ प्रं. २ अ. ४) इति।

दार्शिके वेदिब्राह्मणेऽप्येतदुपाख्यानं श्रुतम्। तत्र वसवस्त्वेति मन्त्रैर्यावान्प्रदेशः परिगृहीतस्तावत्येव वेदिः। अत्र तु कृत्स्नाऽपि भूमिर्वेदिरिति विशेषः।

कृत्स्नभूमेर्वेदित्वेऽपि यागोपयुक्तप्रदेशः पृथक्कल्पनीय इति विधत्ते —

“सा वा इय सर्वैव वेदिरियति शक्ष्यामीति त्वा अवमाय यजन्ते” (सं. का. ६ प्रं. २ अ. ४)इति।

भूमिः सर्वा यद्यपि वेदिरेव तथाऽपि न यत्र क्वापि यष्टव्यं किंत्वेतावति प्रदेशे सदोहविर्धानादिकं निर्मातुं शक्ष्यामीति निश्चित्य तावन्तं प्रदेशमवमाय पदैः परिमित्य तस्मिन्प्रदेशे यजेरन्।

तत्र पदसंख्यां विधत्ते —

“त्रिंशत्पदानि पश्चात्तिरश्ची भवति षट्त्रिशत्प्राची चतुर्विशतिः पुरस्तात्तिरश्ची दशदश सं पद्यन्ते दशाक्षरा विराडन्नं विराड्विराजैवान्नाद्यमव रुन्धे” [सं. का. ६ प्रं. २ अ. ४] इति।

अत्रोक्तपदसंख्यायां सर्वस्यां मेलितायां नवसंख्याकानि दशकानि संपद्यन्ते। तदेवं वेदिप्रदेशप्रमाणं मध्यम उपसद्दिने प्रातःकालीनाया उपसद ऊर्ध्वं कर्तव्यम्।

यथोक्तपरिमाणवति प्रदेश उपरितनमृत्तिकाया अपनयनं विधत्ते —

“उद्धन्ति यदेवास्या अमेध्यं तदपहन्ति” (सं. का. ६ प्रं. २ अ. ४) इति।

निष्ठीवनादिकृतमशुचित्वमुद्धनेनापैति।

तमेव विधिमनूद्य प्रशंसति —

“उद्धन्ति तस्मादोषधयः परा भवन्ति बर्हिः स्तृणाति तस्मादोषधयः पुनरा भवन्ति” [सं. का. ६ प्रं. २ अ. ४] इति।

पूर्वं तस्मिन्प्रदेशे समुत्पन्नास्तृणविशेषा उद्धननेन पराभूता भवन्ति तस्मात्कृत्स्नवेद्यां बर्हिरास्तरणादोषधयः पुनरागता भवन्ति।

तस्य बर्हिष उपरि पुनरप्यग्नीषोमीयपश्वर्थं बर्हिरुत्तरवेदिप्रदेशे स्तृणीयादिति विधत्ते —

“उत्तर बर्हिष उत्तरबर्हिः स्तृणाति प्रजा वै बर्हिर्यजमान उत्तरबर्हिर्यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः” (सं. का. ६ प्रं. २ अ. ४) इति।

उत्कृष्ट इत्यर्थः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उक्तमुपसत्सु स्तनव्रतं, तत्राशक्तविषये कथं कर्तव्यमित्याह - सुवर्गमित्यादि ।। द्वादशाहविषयमेवेति केचित् । य उपसद उपयन्ति उपगच्छन्ति स्वर्गं खल्वेते यन्ति प्राप्नुवन्ति न तुच्छसुखान्तरं तस्मादेभिर्मात्राऽपि नापचरितव्या । अवहितैरेव विहितकरणाय भवितव्यम् । एवं स्थिते तेषां मध्ये य उन्नयत उत्कृष्य नयते नयनं देहयात्रा अशनमिति यावत् । यथोक्तं स्तनव्रतमतिक्रम्य ओदनादिना देहं धारयतीत्यर्थः । यद्वा - स्तन्यं य उन्नयते उपरि नयते ओदनादेरुपर्युन्नीय भुङ्क्ते एवमपि स्तन्यमुपकृतं भवतीति । हीयत एव स इति । सः तत्कारी हीयत एव फलात्स्वर्गप्राप्तिलक्षणात् । विहितकरणात् तस्मान्नो हीयते इति ।।
2 इदानीमशक्तैः कथं प्रतिपत्तव्यमित्याह - नोदनेषीति सून्नीयमिवेति ।। नोदनेषि नोन्नयनं करोमि नोन्नयनमकार्षमित्येव वा यथा वकुं शक्यते तथा सून्नीयं साधून्नेतव्यं तथाऽशितव्यं साध्वेवाशक्तैरित्यभिप्रायः, 'श्रान्तो हीयते' इति दृष्टान्तदर्शनात् । 'छन्दसि निष्टर्क्य' इत्यादिना उन्नीयशब्दो निपात्यते, ततः प्रादिसमासे अव्ययपर्वूपदप्रकृतिस्वरत्वम् । 'स्वरितो वाऽनुदात्ते पदादौ' इति स्वरितत्वम् । केचिदाहुः - उदञ्चनेषु सकृदिति कृत्वा सून्नेतव्यं भूय उन्नेतव्यं; तदयुक्तं, उन्नयनविशेषणत्वे गतित्वेन कृदुत्तरपदप्रकृतिस्वरत्वप्रसंगादिति । नयतेर्लुङि सिचि गुणे च कृते उदनेषीति रूपम् । उन्नयननिवृत्तिरेव साधीयसीति प्रदर्शनार्थमुन्नयतेररुचिं द्योतयितुमिवेत्युक्तम् ।।
3 अथ योऽशक्तानामनुग्रह उक्तः तं लौकिकेन दृष्टान्तेन द्रढयितुमाह - यो वा इत्यादि ।। स्वार्थेतां स्वार्थं गच्छतां आत्मीयं प्रयोजनं साधयितुं गच्छताम् । एतेन एतेरनुदात्तेतो भाव उक्तः । एतेः क्विप् । यतां यतमानानाम्, यतेः क्विप्, 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । एतेनालस्याभाव उक्तः । यद्वा - स्वार्थेतां स्वप्रयोजनमुपगतानां यतां स्वप्रयोजनं साधयितुं गच्छताम् । एतेश्शतरि 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । ईदृशानां मध्ये यः कश्चिच्छ्रान्तो हीयते स्वार्थात्प्रच्युतो भवति, उत सोपि निष्ट्याय स्वार्थान्निर्गत्य विश्राम्य च सह वसति पुनस्स्वार्थेनैकीभूतः शेषं कार्यं सह करोति । स्त्यायतेर्ल्यपि कृदुत्तरपदप्रकृतिस्वरत्वम् । स यथा स्वार्थान्न हीयते एवमयमपि फलान्न हीयते इति ।।
4 तर्हि कथमुन्नयने कृते नोदनेषीति वक्तुं शक्यते इत्याह - तस्मात्सकृदित्यादि ।। यस्मादेवमुन्नेतव्यश्च भवाति तस्मात्सकृदेकवारमुन्नीय नापरं न पुनर्द्वितीयमुन्नयेत । तद्धि नैवोन्नीतं नैवानुन्नीतम् । उन्नयनेऽशक्तो ध्रियते, अनुन्नयने विहिताकरणदोषप्रसङ्गात् । दध्नोन्नयेतेत्यादि । गतम् । 'अस्थिदधि' इत्यादिनानङ्, अल्लोपे उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् 'नामन्यतरस्याम्' इति नामउदात्तत्वम् ।।
5 अथ सौमिकीं विधास्यन्नाह - यज्ञो देवेभ्य इत्यादि ।। निलायत निरगच्छत् । अयतेर्लङि 'उपसर्गस्यायतौ ' इति लत्वम् । विष्णुर्भूत्वा रूपं च वैष्णवं व्यापनशीलमव्यक्तलक्षणं कृत्वा देवेभ्यः अगच्छत् । ततस्स पृथिवीं प्राविशत् । तं यज्ञं देवाः इन्द्रादयः हस्तान् संरभ्य अन्योन्यस्य गृहीत्वा वेष्टित्वा तमैच्छन् । यद्वा - हस्तान् संरभ्य संसृष्टान् वितत्य तं ग्रहीतुमैच्छन् । इन्द्रस्तु तं यज्ञमुपर्युपरि यत्रयत्र गतः तत्रतत्रोपर्यत्यक्रामत् अतिक्रम्य स्थितः । 'उपर्यध्यधस्सामीप्ये' इति द्विर्वचनम्, 'अनुदात्तं च' इति द्वितीयस्यानुदात्तत्वम् ।।
6 स यज्ञोब्रवीत् - को यज्ञं मामुपर्युपर्यत्यक्रमीदिति । अद्यतनत्वाल्लङ्न भवति । लुङि 'नेटि' इति वृद्ध्यभावः । अथोचे - अहं दुर्गे हन्ता यत्रान्येन केन चिद्गन्तुं न शक्यते तत्रागन्तुं तत्र न्यञ्चं गन्तुं शक्तोहं कश्चिदिति । 'सुदुरोरधिकरणे' इति डः । हन्तेस्साधुकारिणि तृन् । एवमुक्त्वा इन्द्र एव पुनरूचे - अथ कस्त्वमिति । अथ यज्ञ ऊचे - अहं तादृशाद्दुर्गादाहर्तेति दुर्गादिष्टमाहर्तुं समर्थोहं कश्चिदिति । पूर्ववत् तृनि 'तादौ च' इति गतेः प्रकृतिस्वरत्वमुभयत्र । एवमुक्त्वा स एवाब्रवीद्यज्ञः - दुर्गे हन्तेत्यवोचथास्त्वमिदानीम् । प्रूर्ववदद्यतनत्वात् लुङेव । सत्यमुच्यते वराहः सुत्यायज्ञाख्यो वरणीयदिवसात्मा वाममोषः वननीयानां धनानां मोषकः वननीयो वा मोषकः सप्तानां गिरीणामहरात्मनां दुर्गाणां परस्तात्परतः असुराणां वित्तं वसु वेद्यं वेदितव्यं वेत्तुं वा शक्यं यावत्किंचित्तत्सर्वं बिभर्ति रक्षति तं जहीति दुर्गे हन्ताऽसि अहं दुर्गे हन्तेति यत्त्वयोक्तं यदि तत्सत्यमिति । स इन्द्रः दर्भपुञ्जीलमुद्वृह्य आदाय तेन सप्त गिरीन् भित्त्वा तमहन् तं हतवान् । हत्वा च सोब्रवीदिन्द्रः - त्वमपि दुर्गादाहर्तेत्यवोचथाः तद्यदि सत्यं यदि तथा तत्कर्तुं शक्यते तमाहर यमहं हतवानिति । अथ तं यज्ञं वराहाख्यं यज्ञ एव विष्णुरूपः एभ्यो देवेभ्य आहरत् । ततो देवा असुराणां वित्तं वेद्यं यावत्किंचित् वराहो बिभर्ति स्म तत्सर्वमविन्दन्त, यतस्तेन तत्सर्वं देवेभ्यो दत्तमित्यर्थाद्गम्यते । यदाह - यत्तदित्यादि । अहो एषां संगतं यदिदमसुराणां वित्तं वेद्यं देवा अविन्दन्त तदिदं वेद्या वेदित्वमिति । अयमभिप्रायः - वेदिलक्षणविशिष्टसंबन्धसमासादितमहिमातिशयाङ्गिना यज्ञेन यद्वित्तं वेद्यं देवा अलभन्त तदङ्गेन वेद्या अलभन्तेत्यपि हि वक्तुं शक्यते, तस्माद्वित्तं वेद्यते लभ्यते अनयेति वेदिः । कलो 'इन् सर्वधातुभ्यः' इतीन्प्रत्ययः । केचिदाहुः - विद्यत इति वेदिरिति कर्मणि इन्प्रत्ययः । यदा हिं यज्ञो देवैरलभ्यत तदा वेदिरपि लब्धेति तेषां यत्तद्वित्तं वेद्यमित्यस्योपन्यासोनर्थकस्स्यात् । तस्मात् यत्तदसुराणां वित्तं वेद्यं यज्ञेन देवा अलभन्त तत्तदङ्गस्य वेद्या वेदित्वं तद्द्वारवमिति वेदितव्यम् । इदं तावदेकं वेद्या वेदित्वम् ।।
7 अथापरं वेदित्वं दर्शयितुमाह - सुराणां वा इयमित्यादि ।। इयं पृथिवी प्रथममग्रे असुराणामासीत् । यावदासीनः परापश्यति दूरं पश्यति तावद्देवानामासीत् । ते देवा अब्रुवन् - अस्यामितरस्यामपि नोस्माकं किञ्चिदस्त्वेव अवश्यमस्त्वेवेति । असुरा ऊचुः - कियद्वो युष्मभ्यं दास्याम इति । 'किमिदम्भ्यां वोघः', 'इदंकिमोरीश्की', छान्दसो वर्णलोपः । देवा ऊचिरे - यावदियं सलावृकी सालावृकीति केचित् । गजमतंगजवत् । सृगालीत्यन्ये । वानरीत्यपरे । त्रिः परिक्रामति अश्रान्ता त्रिः परिक्रामति तावन्नोऽस्मभ्यं दत्तेति । अथ स इन्द्रः तथा देवैः कृतसंकेतः सलावृकी भूत्वा रूपं रूपं च तस्याः कृत्वा परिगृह्य इमां पृथिवीं सर्वतस्सर्वां त्रिः पर्यक्रामत्, तत्तस्मादिमां पृथिवीं सर्वां देवा अविन्दन्त । इमां पृथिवीम् । तदप्येकं वेद्या वेदित्वं, तदवयवत्वात् । कर्मणीन् प्रत्ययः । सा खल्वियं सर्वैव पृथिवी वेदिः, विन्दतिकर्मत्वात् । विशेषस्तु - इयति एतावति प्रदेशे यष्टुं शक्यमिति तद्योग्यमवकाशमवमाय मित्वा ता वेदिं मन्यमानास्तत्र यजन्ते यजमानाः । तु वै इति द्वौ निपातौ, वर्णलोपश्छान्दसः ।।
8 अधुना कियानवकाशो वेदित्वेन गृह्यते इति तत्प्रमाणं दर्शयितुमाह - त्रिंशत्पदानीति ।। तस्मादपरस्यां दिशि त्रिंशत्पदानि । तिरश्ची दक्षिणोत्तरायता सौमिकी वेदिर्भवति । तिर्यगञ्चतीति ऋत्विगादिना क्विनि लुप्तयोर्नकाराकारयोः 'चौ' इति पूर्वपदान्तोदात्तत्वम् । षट्त्रिंशत्पदानि प्राची भवति । पुरस्तात्पूर्वस्यां दिशि चतुर्विंशतिपदानि तिरश्ची भवति । एवं सा मातव्या । प्राग्वंशस्य मध्यमाल्ललाटिकात् त्रीन् प्राचः प्रक्रमान् प्रक्रम्य शङ्कून्निहन्ति । ततः पुरस्तात् षट्रिंशतिशङ्कुव्यापिनी रेखा पृष्ठ्या । अथ षट्त्रिंशिकायां रज्ज्वां अष्टादशोपसमस्या- परस्मादन्ताद्द्वादशसु लक्षणं पञ्चदशसु लक्षणम् । पृष्ठ्यन्तयोरन्तौ नियम्य पञ्चदशिकेन दक्षिणावायम्य शङ्कुं निहन्ति । एवमुत्तरतस्ते श्रोणी विपर्यस्तया तया अंसावुत्पादयेत् । पञ्चदशिकेन दक्षिणावायम्य शङ्कुं निहन्ति । एवमुत्तरतस्तावंसाविति । दशदशेति । त्रिंशत् षट्त्रिंशत् चतुर्विंशतिश्चेत्येकत्र पिण्डिता नवतिः । सा च दशभागहारेण ह्रियमाणा शुद्धं भागं ददातीत्यर्थः । अन्नं विराडिति । अन्नसाधनत्वात् । अन्नाद्यमन्नस्यादनम् । छान्दसो यत्, कृदुत्तरपदप्रकृतिस्वरत्वम्, 'यतोऽनावः' ।।
9 उद्धन्तीति विधिः ।। अमेध्यममेधार्हम् । 'ययतोश्चातदर्थे' इत्युत्तरपदान्तोदात्तत्वम् । गुणान्तरबाधनार्थं द्वितीयं विधानम् । उद्धननेनौषधयो नश्यन्ति । तस्मात् बर्हिस्स्तृणातीति विधिः । तस्मादोषधयः पुनरुद्भवन्ति ।।
10 उत्तरमित्यादिविधिः ।। सौमिकस्योपरि पाशुकं बर्हिस्स्तृणाति । उत्तरं च तद्बर्हिश्चेत्युत्तरबर्हिः । प्रवा वा इत्यादि । गतम् ।।
इति षष्ठे द्वितीये चतुर्थोनवाकः ॥
पञ्चशत् 2 #
TS 6.2.4.2 TS 6.2.4.2
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पं कृ॒त्वा स पृ॑थि॒वीं प्रावि॑श॒त् तं दे॒वा हस्ता᳚न्थ् सꣳ॒॒ रभ्यै᳚च्छ॒न् तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒थ् सो᳚ऽब्रवी॒त् को मा॒ऽयमु॒पर्यु॑प॒र्यत्य॑क्रमी॒-दित्य॒हं दु॒र्गे हन्तेत्यथ॒ कस्त्वमित्य॒हं दु॒र्गादाह॒र्तेति॒ सो᳚ऽब्रवीद् दु॒र्गे वै हन्ता॑ऽवोचथा वरा॒हो॑ऽयं ॅवा॑ममो॒षः- [ ]
पदपाठः (Word-by-word)
य॒ज्ञ्ः । दे॒वेभ्यः॑ । निला॑यत । विष्णुः॑ । रू॒पम् । कृ॒त्वा । सः । पृ॒थि॒वीम् । प्रेति॑ । अ॒वि॒श॒त् । तम् । दे॒वाः । हस्तान्॑ । सꣳ॒॒रभ्येति॑ सं - रभ्य॑ । ऐ॒च्छ॒न्न् । तम् । इन्द्रः॑ । उ॒पर्यु॑प॒रीत्यु॒परि॑ - उ॒प॒रि॒ । अतीति॑ । अ॒क्रा॒म॒त् । सः । अ॒ब्र॒वी॒त् । कः । मा॒ । अ॒यम् । उ॒पर्यु॑प॒रीत्यु॒परि॑ - उ॒प॒रि॒ । अतीति॑ । अ॒क्र॒मी॒त् । इति॑ । अ॒हम् । दु॒र्ग इति॑ दुः - गे । हन्ता᳚ । इति॑ । अथ॑ । कः । त्वम् । इति॑ । अ॒हम् । दु॒र्गादिति॑ दुः - गात् । आह॒र्तेत्या - ह॒र्ता॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । दु॒र्ग इति॑ दुः - गे । वै । हन्ता᳚ । अ॒वो॒च॒थाः॒ । व॒रा॒हः । अ॒यम् । वा॒म॒मो॒ष इति॑ वाम - मो॒षः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.2.4.3 TS 6.2.4.3
स॑प्ता॒नां गि॑री॒णां प॒रस्ता᳚द्वि॒त्तं ॅवेद्य॒मसु॑राणां बिभर्ति॒ तं ज॑हि॒ यदि॑ दु॒र्गे हन्ताऽसीति॒ स द॑र्भपुञ्जी॒लमु॒द्-वृह्य॑ स॒प्त गि॒रीन् भि॒त्त्वा तम॑ह॒न्थ् सो᳚ऽब्रवीद् दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा ह॒रेति॒ तमे᳚भ्यो य॒ज्ञ् ए॒व य॒ज्ञ्माऽह॑र॒द्यत् तद्वि॒त्तं ॅवेद्य॒मसु॑राणा॒-मवि॑न्दन्त॒ तदेकं॒ ॅवेद्यै॑ वेदि॒त्वमसु॑राणां॒- [ ]
पदपाठः (Word-by-word)
स॒प्ता॒नाम् । गि॒री॒णाम् । प॒रस्ता᳚त् । वि॒त्तम् । वेद्य᳚म् । असु॑राणाम् । बि॒भ॒र्ति॒ । तम् । ज॒हि॒ । यदि॑ । दु॒र्ग इति॑ दुः - गे । हन्ता᳚ । असि॑ । इति॑ । सः । द॒र्भ॒पु॒ञ्जी॒लमिति॑ दर्भ - पु॒ञ्जी॒लम् । उ॒द्वृह्येत्यु॑त् - वृह्य॑ । स॒प्त । गि॒रीन् । भि॒त्वा । तम् । अ॒ह॒न्न् । सः । अ॒ब्र॒वी॒त् । दु॒र्गादिति॑ दुः - गात् । वै । आह॒र्तेत्या - ह॒र्ता॒ । अ॒वो॒च॒थाः॒ । ए॒तम् । एति॑ । ह॒र॒ । इति॑ । तम् । ए॒भ्यः॒ । य॒ज्ञ्ः । ए॒व । य॒ज्ञ्म् । एति॑ । अ॒ह॒र॒त् । यत् । तत् । वि॒त्तम् । वेद्य᳚म् । असु॑राणाम् । अवि॑न्दन्त । तत् । एक᳚म् । वेद्यै᳚ । वे॒दि॒त्वमिति॑ वेदि - त्वम् । असु॑राणाम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.2.4.4 TS 6.2.4.4
ॅवा इ॒यमग्र॑ आसी॒द् याव॒दासी॑नः परा॒पश्य॑ति॒ ताव॑द् दे॒वानां॒ ते दे॒वा अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दास्याम॒ इति॒ याव॑दि॒यꣳ स॑लावृ॒की त्रिः प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒ स इन्द्रः॑ सलावृ॒की रू॒पं कृ॒त्वेमां त्रिः स॒र्वतः॒ पर्य॑क्राम॒त् तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद् वेद्यै॑ वेदि॒त्वꣳ- [ ]
पदपाठः (Word-by-word)
वै । इ॒यम् । अग्रे᳚ । आ॒सी॒त् । याव॑त् । आसी॑नः । प॒रा॒पश्य॒तीति॑ परा - पश्य॑ति । ताव॑त् । दे॒वाना᳚म् । ते । दे॒वाः । अ॒ब्रु॒व॒न्न् । अस्तु॑ । ए॒व । नः॒ । अ॒स्याम् । अपीति॑ । इति॑ । किय॑त् । वः॒ । दा॒स्या॒मः॒ । इति॑ । याव॑त् । इ॒यम् । स॒ला॒वृ॒की । त्रिः । प॒रि॒क्राम॒तीति॑ परि-क्राम॑ति । ताव॑त् । नः॒ । द॒त्त॒ । इति॑ । सः । इन्द्रः॑ । स॒ला॒वृ॒की । रू॒पम् । कृ॒त्वा । इ॒माम् । त्रिः । स॒र्वतः॑ । परीति॑ । अ॒क्रा॒म॒त् । तत् । इ॒माम् । अ॒वि॒न्द॒न्त॒ । यत् । इ॒माम् । अवि॑न्दन्त । तत् । वेद्यै᳚ । वे॒दि॒त्वमिति॑ वेदि - त्वम् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.2.4.5 TS 6.2.4.5
सा वा इ॒यꣳ सर्वै॒व वेदि॒रिय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते त्रिꣳ॒॒शत् प॒दानि॑ प॒श्चात् ति॒रश्ची॑ भवति॒ षट्त्रिꣳ॑श॒त् प्राची॒ चतु॑र्विꣳशतिः पु॒रस्ता᳚त् ति॒रश्ची॒ दश॑दश॒ संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्ध॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒द्ध्यं तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति ( ) ब॒र्॒.हिः स्तृ॑णाति॒ तस्मा॒दोष॑धयः॒ पुन॒रा भ॑व॒न्त्युत्त॑रं ब॒र्॒.हिष॑ उत्तरब॒र्॒.हिः स्तृ॑णाति प्र॒जा वै ब॒र्॒.हिर्यज॑मान उत्तर ब॒र्॒.हि र्यज॑मान-मे॒वा-य॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्-यज॑मा॒नो ऽय॑जमाना॒दुत्त॑रः ॥
पदपाठः (Word-by-word)
सा । वै । इ॒यम् । सर्वा᳚ । ए॒व । वेदिः॑ । इय॑ति । श॒क्ष्या॒मि॒ । इति॑ । तु । वै । अ॒व॒मायेत्य॑व - माय॑ । य॒ज॒न्ते॒ । त्रिꣳ॒॒शत् । प॒दानि॑ । प॒श्चात् । ति॒रश्ची᳚ । भ॒व॒ति॒ । षट्त्रिꣳ॑श॒दिति॒ षट् - त्रिꣳ॒॒श॒त् । प्राची᳚ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । पु॒रस्ता᳚त् । ति॒रश्ची᳚ । दश॑द॒शेति॒ दश॑-द॒श॒ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्धे॒ । उदिति॑ । ह॒न्ति॒ । यत् । ए॒व । अ॒स्याः॒ । अ॒मे॒द्ध्यम् । तत् । अपेति॑ । ह॒न्ति॒ । उदिति॑ । ह॒न्ति॒ । तस्मा᳚त् । ओष॑धयः । परेति॑ । भ॒व॒न्ति॒ ( ) । ब॒र्॒.हिः । स्तृ॒णा॒ति॒ । तस्मा᳚त् । ओष॑धयः । पुनः॑ । एति॑ । भ॒व॒न्ति॒ । उत्त॑र॒मित्युत् - त॒र॒म् । ब॒र्॒.हिषः॑ । उ॒त्त॒र॒ब॒र्॒.हिरित्यु॑त्तर - ब॒र्॒.हिः । स्तृ॒णा॒ति॒ । प्र॒जा इति॑ प्र - जाः । वै । ब॒र्॒.हिः । यज॑मानः । उ॒त्त॒र॒ब॒र॒.हिरित्यु॑त्तर - ब॒र॒.हिः । यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत् - त॒र॒म् । क॒रो॒ति॒ । तस्मा᳚त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत् - त॒रः॒ ॥
पदसंख्या: 75