अनुवाकः 10 TS 6.2.10

(A10)

(अप॑हत्यै॒ - तस्मा᳚त् - पितृदेव॒त्यं॑ - तेनै॒व - नव॑छदि॒ - तस्मा॒थ् - सदः॒ - पञ्च॑दश च)

अनुवाकः 10 - Complete Audio

TS 6.2.10 - स्वरानुगामी

0:00 0:00
PS1.1 दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व
PS1.2 इत्यभ्रि॒मा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚
PS1.3 र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्तां᳚
PS1.4 पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑
PS1.5 इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒
PS1.6 नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑ काण्डे॒
PS1.7 वै क्रि॒यमा॑णे य॒ज्ञ्ꣳ रक्षाꣳ॑सि
PS1.8 जिघाꣳसन्ति॒ परि॑लिखितꣳ॒॒ रक्षः॒ परि॑लिखिता॒
PS1.9 अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्या- [
PS1.10 ]
PS2.1 इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑
PS2.2 कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं
PS2.3 च॑ व॒यं द्वि॒ष्म इत्या॑ह॒
PS2.4 द्वौ वाव पुरु॑षौ॒ यं
PS2.5 चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒
PS2.6 तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति दि॒वे
PS2.7 त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑है॒भ्य
PS2.8 ए॒वैनां᳚ ॅलो॒केभ्यः॒ प्रोक्ष॑ति प॒रस्ता॑द॒र्वाचीं॒
PS2.9 प्रोक्ष॑ति॒ तस्मा᳚त्- [ ]
PS3.1 प॒रस्ता॑द॒र्वाचीं᳚ मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति
PS3.2 क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒
PS3.3 यत् खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒
PS3.4 यव॑मती॒रव॑ नय॒त्यूर्ग्वै॑ यव॒ ऊर्गु॑दु॒बंर॑
PS3.5 ऊ॒र्जैवोर्जꣳ॒॒ सम॑र्द्धयति॒ यज॑मानेन॒ सम्मि॒तौदु॑बंरी
PS3.6 भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑ती-मे॒वास्मि॒-न्नूर्जं॑ दधाति
PS3.7 पितृ॒णाꣳ सद॑नम॒सीति॑ ब॒र्॒.हिरव॑ स्तृणाति
PS3.8 पितृदेव॒त्या᳚(1॒)ꣳ॒- [ ]
PS4.1 ह्ये॑तद्-यन्निखा॑तं॒ ॅयद्-ब॒र्॒.हिरन॑वस्तीर्य मिनु॒यात् पि॑तृदेव॒त्या॑
PS4.2 निखा॑ता स्याद्-ब॒र्॒.हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनां᳚ मिनो॒त्यथो᳚
PS4.3 स्वा॒रुह॑मे॒वैनां᳚ करो॒त्युद्-दिवꣳ॑ स्तभा॒नाऽऽन्तरि॑क्षं पृ॒णेत्या॑है॒षां
PS4.4 ॅलो॒कानां॒ ॅविधृ॑त्यै द्युता॒नस्त्वा॑ मारु॒तो
PS4.5 मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒
PS4.6 वै मा॑रु॒तो दे॒वाना॒मौदु॑बंरीं मिनोति॒
PS4.7 तेनै॒वै- [ ]
PS5.1 -नां᳚ मिनोति ब्रह्म॒वनिं॑ त्वा
PS5.2 क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद् घृ॒तेन॑ द्यावापृथिवी॒
PS5.3 आ पृ॑णेथा॒मित्यौदु॑बंर्यां जुहोति॒ द्यावा॑पृथि॒वी
PS5.4 ए॒व रसे॑नानक्त्या॒-न्तम॒न्व-व॑स्रावयत्या॒न्तमे॒व यज॑मानं॒ तेज॑सा-नक्त्यै॒न्द्रम॒सीति॑
PS5.5 छ॒दिरधि॒ नि द॑धात्यै॒न्द्रꣳ हि
PS5.6 दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह
PS5.7 विश्वज॒नस्य॒ ह्ये॑षा छा॒या यथ्
PS5.8 सदो॒ नव॑छदि॒- [ ]
PS6.1 तेज॑स्कामस्य मिनुयात् त्रि॒वृता॒ स्तोमे॑न॒
PS6.2 सम्मि॑तं॒ तेज॑स्त्रि॒वृत् ते॑ज॒स्व्ये॑व भ॑व॒-त्येका॑दश-छदीन्द्रि॒यका॑म॒-स्यैका॑दशाक्षरा
PS6.3 त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशछदि॒
PS6.4 भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै
PS6.5 स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः
PS6.6 प्र॒जाप॑ते॒राप्त्या॒ एक॑विꣳशतिछदि प्रति॒ष्ठाका॑म-स्यैकविꣳ॒॒शः स्तोमा॑नां
PS6.7 प्रति॒ष्ठा प्रति॑ष्ठित्या उ॒दरं॒ ॅवै
PS6.8 सद॒ ऊर्गु॑दु॒बंरो॑ मद्ध्य॒त औदु॑बंरीं
PS6.9 मिनोति मद्ध्य॒त ए॒व प्र॒जाना॒मूर्जं॑
PS6.10 दधाति॒ तस्मा᳚न्- [ ]
PS7.1 मद्ध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के
PS7.2 वै दक्षि॑णानि छ॒दीꣳषि॑ भ्रातृव्यलो॒क
PS7.3 उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मान-मे॒वा-य॑जमाना॒दुत्त॑रं
PS7.4 करोति॒ तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो ऽन्तर्व॒र्तान्
PS7.5 क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यं प्र॒जा
PS7.6 उप॑ जीवन्ति॒ परि॑ त्वा
PS7.7 गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒
PS7.8 स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रꣳ हि दे॒वत॑या॒
PS7.9 सदो॒ ( ) यं
PS7.10 प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत् तं
PS7.11 न वि॑स्रꣳ॒॒ सये॒दमे॑हेनाद्ध्व॒र्युः प्रमी॑येत॒
PS7.12 तस्मा॒थ् स वि॒स्रस्यः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.2.10.1 TS 6.2.10.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚ र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्तां᳚ पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑ काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ परि॑लिखितꣳ॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्या- [ ]
पदपाठः (Word-by-word)
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र -स॒वे । इति॑ । अभ्रि᳚म् । एति॑ । द॒त्ते॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । अ॒श्विनोः᳚ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ᳚ । हि । दे॒वाना᳚म् । अ॒द्ध्व॒र्यू इति॑ । आस्ता᳚म् । पू॒ष्णः । हस्ता᳚भ्याम् । इति॑ । आ॒ह॒ । यत्यै᳚ । वज्रः॑ । इ॒व॒ । वै । ए॒षा । यत् । अभ्रिः॑ । अभ्रिः॑ । अ॒सि॒ । नारिः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । शान्त्यै᳚ । काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञ्म् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । अरा॑तयः । इति॑ । आ॒ह॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अभ्र्यादानं विधत्ते —

“देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते प्रसूत्या अश्विनोबार्हुम्यामित्याहाश्विनौ हि देवातामध्वर्यू आस्तां पूष्णो हस्ताभ्यामित्याह यत्यै” [सं. का. ६ प्र. २ अ. १०) इति।

नारिशब्दप्रयोजनमाह —

“वज्र इव वा एषा यदभ्रिरभ्रिरसि नारिरसीत्याह शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।

परिलिखितमिति। कल्पः — “तयौदुम्बर्या अवटं परिलिखति परिलिखितरक्षः परिलिखिता अरातय इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीति” इति।

परिलेखनप्रयोजनमाह —

“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्ति परिलिखित रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. २ अ. १०) इति।

औदुम्बरीभागानां(णां) लोकत्रयात्मकत्वं मन्त्रेणाभिप्रेतमित्याह —

“दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेत्याहैभ्य एवैनां लोकेभ्यः प्रोक्षति” (सं. का. ६ प्र. २ अ. १०) इति।

अग्रमारभ्य मूलपर्यन्तं प्रोक्षणं विधत्ते —

“परस्तादर्वाचीं प्रोक्षति तस्मात्परस्तादर्वाचीं मनुष्या उर्जमुप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।

ऊर्ध्ववर्तिनो मुख्या(खा)दारभ्यार्वाचीमुदरावसानम्।

अवनयनं विधत्ते —

“क्रूरमिव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।

पूर्वोक्तास्वप्सु यवप्रस्कन्दनं विधत्ते —

“यवमतीरव नयत्यूर्ग्वै यव ऊर्गुदुम्बर ऊर्जैवोर्ज समर्थयति” (सं. का. ६ प्र. २ अ. १०) इति।

औदुम्बर्या निखातभागादूध्वर्भागे प्रमाणं विधत्ते —

“यजमानेन संमितौदुम्बरी भवति यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति” (सं. का. ६ प्र. २ अ. १०) इति।

यजमानस्य यावत्पर्याप्तं तावदन्नं भवतीत्यर्थः।

विधत्ते —

“पितृणा सदनमसीति बर्हिरव स्तृणाति पितृदेवत्यं ह्येतद्यन्निखातम्” ( सं. का. ६ प्र. २ अ. १०) इति।

निखातस्य पितरो देवतेत्यर्थवादान्तरादवगन्तव्यम्।

उच्छ्रयणं विधत्ते —

“यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्या निखाता स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनां मिनोत्यथो स्वारुहमेवैनां करोति” [सं. का. ६ प्र. २ अ. १०] इति।

यदि बर्हिरस्तीर्त्वा प्रथमत एव तामुच्छ्रयेत्तदा पितृणां निखातं मनुष्याणामूर्ध्वं निखातादित्ययं विभागो न स्यात्किंतु कृत्स्ना पितृदेवत्यैव स्थापिता भवेत्। बर्हिषः पृथिवीजन्यत्वेन तत्पृथिव्यामेव कृतं भवति। किंच स्वसंबद्धामेवैनां करोतीति नोक्तदोषः।

मन्त्रे दिवमित्यादिपदानामुपयोगमाह —

“उद्दिव स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै” (सं. का. ६ प्र. २ अ. १०) इति।

इतरपरित्यागेन द्युतानस्वीकारकारणमाह —

‘द्युतानस्त्वा मारुतो मिनोत्वित्याह द्युतानो ह स्म वै मारुतो देवानामौदुम्बरीं मिनोति तेनैवैनां मिनोति’ [सं. का. ६ प्र. २ अ. १०] इति।

मन्त्रस्य स्पष्टार्थतां दर्शयति —

‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।

विधत्ते —

“घृतेन द्यावापृथिवी आ पृणेथामित्यौदुम्बर्यां जुहोति द्यावापृथिवी एव रसेनानक्ति” (सं. का. ६ प्र. २ अ. १०) इति।

अग्रे हुतस्याऽऽज्यस्य मूलपर्यन्तातां विधत्ते —

‘आन्तमन्वनस्रावयत्यान्तमेव यजमानं तेजसाऽनक्ति’ (सं. का. ६ प्र. २ अ. १०) इति।

यजमानस्य शिर आरभ्य पादपर्यन्तं तेजः संपादितं भवति।

विधत्ते —

‘एन्द्रमसीति छदिरधि नि दधात्यैन्द्र हि देवतया सदो विश्वजनस्य छायेत्याह विश्वजनस्य ह्येषा छाया यत्सदः’ (सं. का. ६ प्र. २ अ. १०) इति।

इन्द्रस्य सदोऽसीत्ययं मन्त्र उपेक्षितः।

सदस्थानां कामनाभेदेन च्छदिषां संख्यां विधत्ते —

‘नवछदि तेजस्कामस्य मिनुयात्त्रिवृता स्तोमेन संमितं तेजस्त्रिवृत्तेजस्व्येव भवत्येकादशछदीन्द्रियकामस्यैकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदशछदि भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशछदि प्रजा-

कामस्य सप्तदशः प्रजापतिः प्रजापतेराप्त्यै एकविशतिछदि प्रतिष्ठाकामस्यैकविंशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्यै’ (सं. का. ६ प्र. २ अ. १०) इति।

नवसंख्याकानि च्छदींषि यस्य सदसस्तन्नवछदि मिनुयात्कुर्यात्। त्रिवृत्पञ्चदशसप्तदशैकविंशशब्दैः साम्न आवृत्तिभेदेन निष्पन्ना स्तोमा उच्यन्ते। त्रिवृत्स्तोमे सामावृत्त्यभावेऽपि ऋचां नवत्वात्संख्यासाम्यम्। प्रजापतिमुखादग्निना सहोत्पन्नत्वात्त्रिवृतस्तेजस्त्वम्। वीर्यवतः प्रजापतिबाहुत उत्पन्नतया पञ्चदशस्य वज्रत्वम्। आ श्रावयेत्यादिमन्त्राक्षराणां संख्यया समत्वात्सप्तदशस्य प्रजापतित्वम्। त्रिवृदादीनामन्तर्भावेनैकाविंशस्य प्रतिष्ठात्वम्।

औदुम्बरीस्थापनसदोमण्डपमध्यप्रदेशं विधत्ते —

“उदरं वै सद ऊर्गुदुम्बरो मध्यत औदुम्बरीं मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मान्मध्यत ऊर्जा भुञ्जते” [सं. का. ६ प्र. २ अ. १०] इति।

दक्षिणदिग्गतच्छदिषामग्राण्युत्तरदिग्गतच्छदिषामुपरि दृश्यमानतया स्थापनीयानीति विधत्ते —

‘यजमानलोके वै दक्षिणानि छदीपि भ्रातृव्यलोक उत्तराणि दक्षिणान्युत्तराणि करोति यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः’ [सं. का. ६ प्र. २ अ. १०] इति।

लोके स्थाने। उत्तर उत्कृष्टः।

छदिषामन्तरालच्छिद्रेषु तृणमूलैराधानं विधत्ते —

“अन्तर्वर्तान्करोति व्यावृत्त्यै तस्मादरण्यं प्रजा उप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।

मूलानां विलक्षणत्वाच्छदिर्भ्यो व्यावृत्तिर्भवति। यस्मात्तृणमरण्यजन्यं तस्मात्तृणकाष्ठलाभाय प्रजा अरण्यमुपजीवन्ति।

मन्त्रस्य स्पष्टार्थतां दर्शयति —

‘परि त्वा गिर्वणो गिर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।

व्याचष्टे —

‘इन्द्रस्य स्यूरसीन्द्रस्य ध्रुवमसीत्याहैन्द्र हि देवतया सदः’ (सं. का. ६ प्र. २ अ. १०) इति।

प्रज्ञातग्रन्थेर्विस्त्रंसनं विधत्ते —

‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्त्रसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. १०) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवस्य त्वेत्यादिविधिः ।। खनित्रमभ्रिं औदुम्बर्यवटपरिलेखनार्थमादत्ते अनेन सावित्रेण मन्त्रेण । तत्प्रसूत्यै सवितुर्देवस्यानुज्ञानाय भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । अश्विनोरित्यादि । गतम् । यत्यै नियतत्वाय तद्भवति । आयुधत्वाद्वज्रतुल्या अभ्रिः । शान्त्या इति । अपां भरणात् 'बिभर्तेरन् रिश्च' इति वचनात् स्त्रीत्वेन चाभ्रीणां शान्तिर्भवति ।।
2 काण्डेकाण्ड इत्यादि ।। व्याख्यातम् । परिलिखितमित्यादि । रक्षसामपहत्यै भवति । पूर्ववद्गतेः प्रकतिस्वरत्वम् ।। इदमहमित्यादि ।। व्याख्यातम् । अनन्तरायं अव्यवधानेन ग्रीवाश्छिनत्ति ।।
3 दिव इत्यादि एभ्यः दिवादिलोकार्थं एनामौदुम्बरीं प्रोक्षति । परस्तादित्यादि । अग्रादारभ्य मूलात्प्रोक्षति । परशब्दादस्तातिः पञ्चम्याः । अर्वागञ्चतीति क्विनि नकाराकारयोर्लुप्तयोः 'चौ' इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च । ततस्स्वादग्रादारम्य यावन्मूलमन्नं भुञ्जते । यद्वा - परस्तात्प्रक्षिप्तां अर्वाचीमधोगच्छन्तीं मनुष्या भुञ्जते ।।
4 क्रूरमिवेत्यादि ।। गतम् । अवटेऽपोवनयनं शान्त्यै भवति । यवमतीरिति । उभयोरेतद्धेतुत्वादुभयोर्योगस्तत्समृद्ध्यै भवति ।।
5 यजमानेन संमितेति ।। निखातादूर्ध्वमित्याहुः । औदुम्बरी उदुम्बरविकारा । अनुदात्तादेरञ् । यावानिति । यजमानमात्रमन्नमस्मिन्नेव यजमाने दधाति ।।
6 पितृणामिति ।। पितृदेवत्यं निखातं, मन्त्रलिङ्गात्, पितृणां निखातप्रदेशान्तरे दर्शनाच्च । देवतान्तात्तादर्थ्ये यत् । 'तित्स्वरितम्' इति स्वरितत्वम्, 'उदात्तस्वरितयोर्यणः' इति ततः पर एकारस्स्वर्यते । पूर्वत्र सांहितिको दीर्घः अध्ययनविकारः । निखातशब्दे 'जनसनखनां' इति आत्वम्, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । यदित्यादि । यद्यवटे वर्हिरनवस्तीर्य औदुम्बरीं मिनुयात् प्रक्षिपेत् उच्छ्रयेदिति यावत् । डुमिञ् प्रक्षेपणे । पितृदेवत्या पित्रर्थे उच्छ्रिता औदुम्बरी स्यात् सर्वाऽपि पित्रर्था स्यात् 'पितृणां निखातं मनुष्याणामूर्ध्वं निखातात्' इति विभागो न स्यात् । तस्माद्बर्हिरवस्तीर्य मिनोति अस्यां पृथिव्यामेव एनां मिनोति नावटे । गर्तश्च पितृदेवत्यः । अवटाद्व्यावृत्तेर्यथोक्तदोषाप्रसङ्गः । अथो अपिच स्वारुहं आत्मार्थमारोहितामेतां करोति न पित्रर्थमेव । स्वार्थं रोहन्ती स्वारुट्, सांहितिको दीर्घ: ।।
7 उद्दिवमिति ।। एषां त्रयाणां लोकानां विधारणाय भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
8 द्युतान इति ।। द्युताननामा मारुतः देवानामौदुम्बरीं मिनोति अमिनोत् । मिनोतेर्व्यत्ययेन लट् । तेनैवैनां मिनोति । मापयति वा तेन सहायेन सह विमिनोति ।।
9 ब्रह्मवनिमित्यादि ।। पुरीषेण पर्यूहनम् । त्वं ब्रह्मवननादिसिद्धिः । यथायजुस्तत्फलत्येव । घृतेनेति । द्यावापृथिव्यौ सारवत्यौ करोति । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम्, 'देवताद्वन्द्रे च' इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ।।
10 आन्तमिति ।। आमूलं यजमानमप्यान्तं यूपात् अतस्तेजसाऽनक्ति प्रकाशयति ।।
11 ऐन्द्रमिति ।। देवतातद्धितग्रहणात् 'इन्द्रस्य सदः' हति मन्त्रगता षष्ठी व्याख्यायत इत्येके । शाखान्तरीयं पदं ब्राह्मणं दर्शयतीत्यन्ये । छदिरधि निदधाति छादनार्थं कटमुपरि निदधाति । देवतासम्बन्धेन हि सद ऐन्द्रम् । तस्मादिन्द्रस्य सदः सदनमित्युच्यते इन्द्रस्य प्राधान्यात् ।।
12 विश्वजनस्येति ।। विश्वयोः [पार्श्वयोः] छदिनिधानमन्त्रः । विश्वो जनो विश्वजनः । यो वा कश्चिदागतः तस्य सर्वस्यैषा छाया ग्रहणं यत्सदो नाम ।।
13 नवछदीत्याद्याः काम्याः ।। विश्वजनाद्याः काम्याः । विश्वजनादित्वात्तुगभावः । 'शीलिकामि' इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वम्, 'अतः कृकमि' इति सत्वम् । त्रिवृतेति । तस्यापि नवस्तोत्रीयत्वान्नवत्वयोगेन तुल्यता । तेजस्त्रिवृदिति । तेजोहेतुत्वात्तेजसा सहोत्पन्नत्वाच्च, यथा - 'तमग्निर्देवताऽन्वसृज्यत' इति । तेजस्व्येव भवति यजमानः ।।
14 एकादशछदीति ।। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्, तत्रापि 'संख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्रियं त्रिष्टुगिति । इन्द्रियहेतुत्वादिन्द्रियतुल्यत्वाद्वा इन्द्रियाणामप्येकादशत्वात् । इन्द्रियावी इन्द्रियवान् । 'बहुलं छन्दसि' इति विनिः, 'मन्त्रे सोमाश्व' इति दीर्घत्वं व्यत्ययेनामन्त्रेऽपि भवति ।
15 पञ्चदशो वज्र इति ।। वज्रतुल्यत्वात् वीर्यवत्वाद्वा । तस्माद्वीर्यावन्त इति । 'स्तोमे डविधिः पञ्चदशाद्यर्थे' इति डः, भ्रातृव्याभिभूत्यै । दासीभारादिः ।।
16 सप्तदशः प्रजापतिरिति ।। 'यो वे सप्तदशं प्रजापतिम्' इत्यादिषु प्रसिद्धम् । प्रजापतेराख्या इति । तदाप्तौ हि प्रजास्सिध्यन्त्येवेति ॥
17 एकविंशस्स्तोमानां प्रतिष्ठेति ।। त्रिवृदादीनां ज्योतिषां तत्रान्तर्भावात् प्रतिष्ठित्यै प्रतिष्ठार्थं भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
18 उदरस्थानीयं सदः, ऊर्गन्नं तत्स्थानीयः तद्धेतुत्वादुदुम्बरः । मध्यतः मध्ये । 'आद्यादिभ्यस्तसिः' । मिनोति प्रक्षिपति । तस्मान्मध्यतः मध्यमे उरसि [वयसि] ऊर्जा भुञ्जते भूयिष्ठेन प्रजास्सुखिता भवन्ति ।।
19 यजमानलोक इत्यादि ।। दक्षिणानीति । उत्तराणि स्युः उत्तारकाणि । दक्षिणानि उत्तराणि उद्गततराणि भवन्ति यथोदगग्राणि छदींषि दृश्यन्ते । एवं हि अयजमानाद्भातृव्यादुत्तरं उद्गततरं करोति । तस्मादित्यादि । गतम् । उच्छब्दात् 'साधनक्रियावचने' इत्यादिना तरप् ।।
20 अन्तर्वर्तानिति ।। अन्तर्वर्तयन्तीत्यन्तर्वर्ताः, 'अन्तरपरिग्रहे' इति गतित्वं, पचाद्यचि थाथादिनोत्तरपदान्तोदात्तत्वम् । छदिरन्तर्धानाच्छादिततृणमूलान्युच्यन्ते । आरण्यकतृणकुला नामियं संज्ञेति केचित् । छदिच्छायमुपरि करोति अवस्तात्करोति । तद्व्यावृत्त्यै भवति । केभ्यः? ग्राम्येभ्यः छदिभ्य इति केचित् । अयजमानेभ्यो यजमानस्यैवेत्यन्ये । ग्राम्येभ्यस्तृणादिम्यः आरण्यानामित्यन्ये । तस्मादिति । यस्मादेव यजमानेनारण्यकोपजीवनं क्रियते तस्मादारण्यमपि प्रजा उपजीवन्ति ।।
21 'परित्वा गिर्वणो गिरः' इत्यादिसदःपरिश्रयणमन्त्रः । तेन प्रतिपादितमेवं सर्वं यथायजुर्भवत्येव । पूर्ववदस्य यजुष्ट्वं वेदितव्यम् ।।
22 इन्द्रस्यस्यूरसीत्यादि ।। गतम् । यं प्रथममित्यादि। व्याख्यातम् ।।
इति षष्ठे द्वितीये दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.2.10.2 TS 6.2.10.2
इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑है॒भ्य ए॒वैनां᳚ ॅलो॒केभ्यः॒ प्रोक्ष॑ति प॒रस्ता॑द॒र्वाचीं॒ प्रोक्ष॑ति॒ तस्मा᳚त्- [ ]
पदपाठः (Word-by-word)
इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इति॑ । आ॒ह॒ । द्वौ । वाव । पुरु॑षौ । यम् । च॒ । ए॒व । द्वेष्टि॑ । यः । च॒ । ए॒न॒म् । द्वेष्टि॑ । तयोः᳚ । ए॒व । अन॑न्तराय॒मित्यन॑न्तः - आ॒य॒म् । ग्री॒वाः । कृ॒न्त॒ति॒ । दि॒वे । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । पृ॒थि॒व्यै । त्वा॒ । इति॑ । आ॒ह॒ । ए॒भ्यः । ए॒व । ए॒ना॒म् । लो॒केभ्यः॑ । प्रेति॑ । उ॒क्ष॒ति॒ । प॒रस्ता᳚त् । अ॒र्वाची᳚म् । प्रेति॑ । उ॒क्ष॒ति॒ । तस्मा᳚त् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.2.10.3 TS 6.2.10.3
प॒रस्ता॑द॒र्वाचीं᳚ मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यत् खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै॑ यव॒ ऊर्गु॑दु॒बंर॑ ऊ॒र्जैवोर्जꣳ॒॒ सम॑र्द्धयति॒ यज॑मानेन॒ सम्मि॒तौदु॑बंरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑ती-मे॒वास्मि॒-न्नूर्जं॑ दधाति पितृ॒णाꣳ सद॑नम॒सीति॑ ब॒र्॒.हिरव॑ स्तृणाति पितृदेव॒त्या᳚(1॒)ꣳ॒- [ ]
पदपाठः (Word-by-word)
प॒रस्ता᳚त् । अ॒र्वाची᳚म् । म॒नु॒ष्याः᳚ । ऊर्ज᳚म् । उपेति॑ । जी॒व॒न्ति॒ । क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । खन॑ति । अ॒पः । अवेति॑ । न॒य॒ति॒ । शान्त्यै᳚ । यव॑मती॒रिति॒ यव॑ - म॒तीः॒ । अवेति॑ । न॒य॒ति॒ । ऊर्क् । वै । यवः॑ । ऊर्क् । उ॒दु॒म्बरः॑ । ऊ॒र्जा । ए॒व । ऊर्ज᳚म् । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । यज॑मानेन । सम्मि॒तेति॒ सं - मि॒ता॒ । औदु॑बंरी । भ॒व॒ति॒ । यावान्॑ । ए॒व । यज॑मानः । ताव॑तीम् । ए॒व । अ॒स्मि॒न्न् । ऊर्ज᳚म् । द॒धा॒ति॒ । पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ । इति॑ । ब॒र्॒.हिः । अवेति॑ । स्तृ॒णा॒ति॒ । पि॒तृ॒दे॒व॒त्य॑मिति॑ पितृ - दे॒व॒त्य᳚म् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.2.10.4 TS 6.2.10.4
ह्ये॑तद्-यन्निखा॑तं॒ ॅयद्-ब॒र्॒.हिरन॑वस्तीर्य मिनु॒यात् पि॑तृदेव॒त्या॑ निखा॑ता स्याद्-ब॒र्॒.हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनां᳚ मिनो॒त्यथो᳚ स्वा॒रुह॑मे॒वैनां᳚ करो॒त्युद्-दिवꣳ॑ स्तभा॒नाऽऽन्तरि॑क्षं पृ॒णेत्या॑है॒षां ॅलो॒कानां॒ ॅविधृ॑त्यै द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदु॑बंरीं मिनोति॒ तेनै॒वै- [ ]
पदपाठः (Word-by-word)
हि । ए॒तत् । यत् । निखा॑त॒मिति॒ नि - खा॒त॒म् । यत् । ब॒र्॒.हिः । अन॑वस्ती॒र्येत्यन॑व-स्ती॒र्य॒ । मि॒नु॒यात् । पि॒तृ॒दे॒व॒त्येति॑ पितृ - दे॒व॒त्या᳚ । निखा॒तेति॒ नि - खा॒ता॒ । स्या॒त् । ब॒र॒.हिः । अ॒व॒स्तीर्येत्य॑व- स्तीर्य॑ । मि॒नो॒ति॒ । अ॒स्याम् । ए॒व । ए॒ना॒म् । मि॒नो॒ति॒ । अथो॒ इति॑ । स्वा॒रुह॒मिति॑ स्व-रुह᳚म् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ । उदिति॑ । दिव᳚म् । स्त॒भा॒न॒ । एति॑ । अ॒न्तरि॑क्षम् । पृ॒ण॒ । इति॑ । आ॒ह॒ । ए॒षाम् । लो॒काना᳚म् । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । द्यु॒ता॒नः । त्वा॒ । मा॒रु॒तः । मि॒नो॒तु॒ । इति॑ । आ॒ह॒ । द्यु॒ता॒नः । ह॒ । स्म॒ । वै । मा॒रु॒तः । दे॒वाना᳚म् । औदु॑बंरीम् । मि॒नो॒ति॒ । तेन॑ । ए॒व ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.2.10.5 TS 6.2.10.5
-नां᳚ मिनोति ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद् घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदु॑बंर्यां जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्त्या॒-न्तम॒न्व-व॑स्रावयत्या॒न्तमे॒व यज॑मानं॒ तेज॑सा-नक्त्यै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्यै॒न्द्रꣳ हि दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यथ् सदो॒ नव॑छदि॒- [ ]
पदपाठः (Word-by-word)
ए॒ना॒म् । मि॒नो॒ति॒ । ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । त्वा॒ । क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् । इति॑ । आ॒ह॒ । य॒था॒य॒जु॒रिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । घृ॒तेन॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । एति॑ । पृ॒णे॒था॒म् । इति॑ । औदु॑बंर्याम् । जु॒हो॒ति॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ए॒व । रसे॑न । अ॒न॒क्ति॒ । आ॒न्तमित्या᳚ - अ॒न्तम् । अ॒न्वव॑स्रावय॒तीय॑नु -अव॑स्रावयति । आ॒न्तमित्या᳚-अ॒न्तम् । ए॒व । यज॑मानम् । तेज॑सा । अ॒न॒क्ति॒ । ऐ॒न्द्रम् । अ॒सि॒ । इति॑ । छ॒दिः । अधि॑ । नीति॑ । द॒धा॒ति॒ । ऐ॒न्द्रम् । हि । दे॒वत॑या । सदः॑ । वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । छा॒या । इति॑ । आ॒ह॒ । वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । हि । ए॒षा । छा॒या । यत् । सदः॑ । नव॑छ॒दीति॒ नव॑ - छ॒दि॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.2.10.6 TS 6.2.10.6
तेज॑स्कामस्य मिनुयात् त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑तं॒ तेज॑स्त्रि॒वृत् ते॑ज॒स्व्ये॑व भ॑व॒-त्येका॑दश-छदीन्द्रि॒यका॑म॒-स्यैका॑दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशछदि॒ भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विꣳशतिछदि प्रति॒ष्ठाका॑म-स्यैकविꣳ॒॒शः स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्या उ॒दरं॒ ॅवै सद॒ ऊर्गु॑दु॒बंरो॑ मद्ध्य॒त औदु॑बंरीं मिनोति मद्ध्य॒त ए॒व प्र॒जाना॒मूर्जं॑ दधाति॒ तस्मा᳚न्- [ ]
पदपाठः (Word-by-word)
तेज॑स्काम॒स्येति॒ तेजः॑ - का॒म॒स्य॒ । मि॒नु॒या॒त् । त्रि॒वृतेति॑ त्रि-वृता᳚ । स्तोमे॑न । सम्मि॑त॒मिति॒ सं - मि॒त॒म् । तेजः॑ । त्रि॒वृदिति॑ त्रि -वृत् । ते॒ज॒स्वी । ए॒व । भ॒व॒ति॒ । एका॑दशछ॒दीत्येका॑दश - छ॒दि॒ । इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ । एका॑दशाक्ष॒रेत्येका॑दश-अ॒क्ष॒रा॒ । त्रि॒ष्टुक् । इ॒न्द्रि॒यम् । त्रि॒ष्टुक् । इ॒न्द्रि॒या॒वी । ए॒व । भ॒व॒ति॒ । पञ्च॑दशछ॒दीति॒ पञ्च॑दश-छ॒दि॒ । भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य - व॒तः॒ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । वज्रः॑ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । स॒प्तद॑शछ॒दीति॑ स॒प्तद॑श - छ॒दि॒ । प्र॒जाका॑म॒स्येति॑ प्र॒जा - का॒म॒स्य॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । एक॑विꣳशतिछ॒दीत्येक॑विꣳशति - छ॒दि॒ । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । ए॒क॒विꣳ॒॒श इत्ये॑क-विꣳ॒॒शः । स्तोमा॑नां । प्र॒ति॒ष्ठेति॑ प्रति - स्था । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒दर᳚म् । वै । सदः॑ । ऊर्क् । उ॒दु॒बंरः॑ । म॒द्ध्य॒तः । औदु॑बंरीम् । मि॒नो॒ति॒ । म॒द्ध्य॒तः । ए॒व । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 6.2.10.7 TS 6.2.10.7
मद्ध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के वै दक्षि॑णानि छ॒दीꣳषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मान-मे॒वा-य॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो ऽन्तर्व॒र्तान् क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यं प्र॒जा उप॑ जीवन्ति॒ परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रꣳ हि दे॒वत॑या॒ सदो॒ ( ) यं प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत् तं न वि॑स्रꣳ॒॒ सये॒दमे॑हेनाद्ध्व॒र्युः प्रमी॑येत॒ तस्मा॒थ् स वि॒स्रस्यः॑ ॥
पदपाठः (Word-by-word)
म॒द्ध्य॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ । य॒ज॒मा॒न॒लो॒क इति॑ यजमान - लो॒के । वै । दक्षि॑णानि । छ॒दीꣳषि॑ । भ्रा॒तृ॒व्य॒लो॒क इति॑ भ्रातृव्य - लो॒के । उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ । दक्षि॑णानि । उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ । क॒रो॒ति॒ । यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत् - त॒र॒म् । क॒रो॒ति॒ । तस्मा᳚त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत् - त॒रः॒ । अ॒न्त॒र्व॒र्तानित्य॑न्तः - व॒र्तान् । क॒रो॒ति॒ । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै । तस्मा᳚त् । अर॑ण्यम् । प्र॒जा इति॑ प्र - जाः । उपेति॑ । जी॒व॒न्ति॒ । परीति॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । इन्द्र॑स्य । स्यूः । अ॒सि॒ । इन्द्र॑स्य । ध्रु॒वम् । अ॒सि॒ । इति॑ । आ॒ह॒ । ऐ॒न्द्रम् । हि । दे॒वत॑या । सदः॑ ( ) । यम् । प्र॒थ॒मम् । ग्र॒न्थिम् । ग्र॒थ्नी॒यात् । यत् । तम् । न । वि॒स्रꣳ॒॒सये॒दिति॑ वि - स्रꣳ॒॒सये᳚त् । अमे॑हेन् । अ॒द्ध्व॒र्युः । प्रेति॑ । मी॒ये॒त॒ । तस्मा᳚त् । सः । वि॒स्रस्य॒ इति॑ वि - स्रस्यः॑ ॥
पदसंख्या: 65