पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
अभ्र्यादानं विधत्ते —
“देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते प्रसूत्या अश्विनोबार्हुम्यामित्याहाश्विनौ हि देवातामध्वर्यू आस्तां पूष्णो हस्ताभ्यामित्याह यत्यै” [सं. का. ६ प्र. २ अ. १०) इति।
नारिशब्दप्रयोजनमाह —
“वज्र इव वा एषा यदभ्रिरभ्रिरसि नारिरसीत्याह शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।
परिलिखितमिति। कल्पः — “तयौदुम्बर्या अवटं परिलिखति परिलिखितरक्षः परिलिखिता अरातय इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामीति” इति।
परिलेखनप्रयोजनमाह —
“काण्डेकाण्डे वै क्रियमाणे यज्ञ रक्षासि जिघासन्ति परिलिखित रक्षः परिलिखिता अरातय इत्याह रक्षसामपहत्या इदमह रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तयोरेवानन्तरायं ग्रीवाः कृन्तति” (सं. का. ६ प्र. २ अ. १०) इति।
औदुम्बरीभागानां(णां) लोकत्रयात्मकत्वं मन्त्रेणाभिप्रेतमित्याह —
“दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वेत्याहैभ्य एवैनां लोकेभ्यः प्रोक्षति” (सं. का. ६ प्र. २ अ. १०) इति।
अग्रमारभ्य मूलपर्यन्तं प्रोक्षणं विधत्ते —
“परस्तादर्वाचीं प्रोक्षति तस्मात्परस्तादर्वाचीं मनुष्या उर्जमुप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।
ऊर्ध्ववर्तिनो मुख्या(खा)दारभ्यार्वाचीमुदरावसानम्।
अवनयनं विधत्ते —
“क्रूरमिव वा एतत्करोति यत्खनत्यपोऽव नयति शान्त्यै” (सं. का. ६ प्र. २ अ. १०) इति।
पूर्वोक्तास्वप्सु यवप्रस्कन्दनं विधत्ते —
“यवमतीरव नयत्यूर्ग्वै यव ऊर्गुदुम्बर ऊर्जैवोर्ज समर्थयति” (सं. का. ६ प्र. २ अ. १०) इति।
औदुम्बर्या निखातभागादूध्वर्भागे प्रमाणं विधत्ते —
“यजमानेन संमितौदुम्बरी भवति यावानेव यजमानस्तावतीमेवास्मिन्नूर्जं दधाति” (सं. का. ६ प्र. २ अ. १०) इति।
यजमानस्य यावत्पर्याप्तं तावदन्नं भवतीत्यर्थः।
विधत्ते —
“पितृणा सदनमसीति बर्हिरव स्तृणाति पितृदेवत्यं ह्येतद्यन्निखातम्” ( सं. का. ६ प्र. २ अ. १०) इति।
निखातस्य पितरो देवतेत्यर्थवादान्तरादवगन्तव्यम्।
उच्छ्रयणं विधत्ते —
“यद्बर्हिरनवस्तीर्य मिनुयात्पितृदेवत्या निखाता स्याद्बर्हिरवस्तीर्य मिनोत्यस्यामेवैनां मिनोत्यथो स्वारुहमेवैनां करोति” [सं. का. ६ प्र. २ अ. १०] इति।
यदि बर्हिरस्तीर्त्वा प्रथमत एव तामुच्छ्रयेत्तदा पितृणां निखातं मनुष्याणामूर्ध्वं निखातादित्ययं विभागो न स्यात्किंतु कृत्स्ना पितृदेवत्यैव स्थापिता भवेत्। बर्हिषः पृथिवीजन्यत्वेन तत्पृथिव्यामेव कृतं भवति। किंच स्वसंबद्धामेवैनां करोतीति नोक्तदोषः।
मन्त्रे दिवमित्यादिपदानामुपयोगमाह —
“उद्दिव स्तभानाऽन्तरिक्षं पृणेत्याहैषां लोकानां विधृत्यै” (सं. का. ६ प्र. २ अ. १०) इति।
इतरपरित्यागेन द्युतानस्वीकारकारणमाह —
‘द्युतानस्त्वा मारुतो मिनोत्वित्याह द्युतानो ह स्म वै मारुतो देवानामौदुम्बरीं मिनोति तेनैवैनां मिनोति’ [सं. का. ६ प्र. २ अ. १०] इति।
मन्त्रस्य स्पष्टार्थतां दर्शयति —
‘ब्रह्मवनिं त्वा क्षत्रवनिमित्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।
विधत्ते —
“घृतेन द्यावापृथिवी आ पृणेथामित्यौदुम्बर्यां जुहोति द्यावापृथिवी एव रसेनानक्ति” (सं. का. ६ प्र. २ अ. १०) इति।
अग्रे हुतस्याऽऽज्यस्य मूलपर्यन्तातां विधत्ते —
‘आन्तमन्वनस्रावयत्यान्तमेव यजमानं तेजसाऽनक्ति’ (सं. का. ६ प्र. २ अ. १०) इति।
यजमानस्य शिर आरभ्य पादपर्यन्तं तेजः संपादितं भवति।
विधत्ते —
‘एन्द्रमसीति छदिरधि नि दधात्यैन्द्र हि देवतया सदो विश्वजनस्य छायेत्याह विश्वजनस्य ह्येषा छाया यत्सदः’ (सं. का. ६ प्र. २ अ. १०) इति।
इन्द्रस्य सदोऽसीत्ययं मन्त्र उपेक्षितः।
सदस्थानां कामनाभेदेन च्छदिषां संख्यां विधत्ते —
‘नवछदि तेजस्कामस्य मिनुयात्त्रिवृता स्तोमेन संमितं तेजस्त्रिवृत्तेजस्व्येव भवत्येकादशछदीन्द्रियकामस्यैकादशाक्षरा त्रिष्टुगिन्द्रियं त्रिष्टुगिन्द्रियाव्येव भवति पञ्चदशछदि भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशछदि प्रजा-
कामस्य सप्तदशः प्रजापतिः प्रजापतेराप्त्यै एकविशतिछदि प्रतिष्ठाकामस्यैकविंशः स्तोमानां प्रतिष्ठा प्रतिष्ठित्यै’ (सं. का. ६ प्र. २ अ. १०) इति।
नवसंख्याकानि च्छदींषि यस्य सदसस्तन्नवछदि मिनुयात्कुर्यात्। त्रिवृत्पञ्चदशसप्तदशैकविंशशब्दैः साम्न आवृत्तिभेदेन निष्पन्ना स्तोमा उच्यन्ते। त्रिवृत्स्तोमे सामावृत्त्यभावेऽपि ऋचां नवत्वात्संख्यासाम्यम्। प्रजापतिमुखादग्निना सहोत्पन्नत्वात्त्रिवृतस्तेजस्त्वम्। वीर्यवतः प्रजापतिबाहुत उत्पन्नतया पञ्चदशस्य वज्रत्वम्। आ श्रावयेत्यादिमन्त्राक्षराणां संख्यया समत्वात्सप्तदशस्य प्रजापतित्वम्। त्रिवृदादीनामन्तर्भावेनैकाविंशस्य प्रतिष्ठात्वम्।
औदुम्बरीस्थापनसदोमण्डपमध्यप्रदेशं विधत्ते —
“उदरं वै सद ऊर्गुदुम्बरो मध्यत औदुम्बरीं मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मान्मध्यत ऊर्जा भुञ्जते” [सं. का. ६ प्र. २ अ. १०] इति।
दक्षिणदिग्गतच्छदिषामग्राण्युत्तरदिग्गतच्छदिषामुपरि दृश्यमानतया स्थापनीयानीति विधत्ते —
‘यजमानलोके वै दक्षिणानि छदीपि भ्रातृव्यलोक उत्तराणि दक्षिणान्युत्तराणि करोति यजमानमेवायजमानादुत्तरं करोति तस्माद्यजमानोऽयजमानादुत्तरः’ [सं. का. ६ प्र. २ अ. १०] इति।
लोके स्थाने। उत्तर उत्कृष्टः।
छदिषामन्तरालच्छिद्रेषु तृणमूलैराधानं विधत्ते —
“अन्तर्वर्तान्करोति व्यावृत्त्यै तस्मादरण्यं प्रजा उप जीवन्ति” (सं. का. ६ प्र. २ अ. १०) इति।
मूलानां विलक्षणत्वाच्छदिर्भ्यो व्यावृत्तिर्भवति। यस्मात्तृणमरण्यजन्यं तस्मात्तृणकाष्ठलाभाय प्रजा अरण्यमुपजीवन्ति।
मन्त्रस्य स्पष्टार्थतां दर्शयति —
‘परि त्वा गिर्वणो गिर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. २ अ. १०) इति।
व्याचष्टे —
‘इन्द्रस्य स्यूरसीन्द्रस्य ध्रुवमसीत्याहैन्द्र हि देवतया सदः’ (सं. का. ६ प्र. २ अ. १०) इति।
प्रज्ञातग्रन्थेर्विस्त्रंसनं विधत्ते —
‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्त्रसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. १०) इति।