पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
मन्त्रान्व्याचिख्यासुरादौ कालविशेषसहितमातिथ्यं कर्म विधत्ते —
“यदुभौ विमुच्याऽऽतिथ्यं गृह्णीयाद्यज्ञं विच्छिन्द्याद्यदुभावविमुच्य यथाऽनागतायाऽऽतिथ्यं क्रियते तादृगेव तद्विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथाऽऽतिथ्यं गृह्णाति यज्ञस्य संतत्यै” (सं. का. ६ प्र. २ अ. १) इति।
द्वयोर्बलीवर्दयोर्विमुक्तयोः सतोः सोमगमनरूपं कर्म सर्वथा परित्यक्तं भवति। आतिथ्यकर्म तूपक्रान्तं, ततो यज्ञमध्ये यज्ञो विच्छिद्येत। अविमुक्तयोस्तु द्वयोर्गमनस्यासंपूर्णत्वादनागताय सोमायाऽऽतिथ्यं कृतं भवेत्। एकस्मिन्विमुक्ते च विमुक्तत्वादेव गमनं संपूर्णं भवति। इतरस्य विमोकाभावत्पूर्वकर्मापि न त्यक्तम्। अतस्तस्मिन्काले निर्वापाद्यज्ञः संततो भवति।
निर्वापकालेऽध्वर्युमनु पत्न्याः शकटस्पर्शं विधत्ते —
“पत्न्यन्वारभते पत्नी हि पारीणह्यास्यशे पत्नियैवानुमतं निर्वपति यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. १) इति।
परि(री)णद्गृहं त्र भवं व्रीह्यादिद्रव्यं पारीणह्यं तस्येशाना पत्नी। किंच यज्ञः पुमान्पत्नी स्त्रीत्येतन्मिथुनम्। किंच योऽयं पत्न्याः शकटस्य यज्ञाङ्गस्य स्पर्शः स यज्ञस्य विच्छेदराहित्याय भवति।
मन्त्रान्व्याचष्टे —
“यावद्भिर्वै राजाऽनुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दांसि खलु वै सोमस्य राज्ञोऽनुचराण्यग्नेरातिथ्यमसि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति सोमस्याऽऽतिथ्यमसि विष्णवे त्वेत्याह त्रिष्टुभ एवैतेन करोत्यतिथेरातिथ्यमसि विष्णवे त्वेत्याह जगत्या एवैतेन करोत्यग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वेत्याहानुष्टुभ एवैतेन करोति श्येनाय त्वा सोमभृते विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति” [सं. का. ६ प्र. २ अ. १] इति।
सौमस्य भृत्यैरग्न्यादिर्भृत्यान्तराणि गायत्र्यादीन्युपलक्ष्यन्ते। उपलक्षकविशेषाणामग्न्यादीनामुपलक्ष्यविशेषैर्गायत्र्यादिभिः प्रातिस्विकसंबन्धविशेषे प्रमाणमिदं ब्राह्मणमेव।
निर्वापावृत्तिसंख्यां विधत्ते —
“पञ्च कृत्वो गृह्णाति पञ्चक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे” [सं. का. ६ प्र. २ अ. १] इति।
आद्यन्तयोर्मन्त्रयोर्गायत्र्या द्विरुपलक्षितत्वं प्रश्नोत्तराभ्यामुपपादयति —
“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्रिया उभयत आतिथ्यस्य क्रियत इति यदेवादः सोममाहरत्तस्माद्गायत्रिया उभयत आतिथ्यस्व क्रियते पुरस्ताच्चोपरिष्टाच्च” [सं. का. ६ प्र. २ अ. १] इति।
आतिथ्यं क्रियत इत्यर्थः।
निरुप्तैस्तण्डुलैर्नवकपालः पुरोडाशः कार्य इति विधत्ते —
“शिरो वा एतद्यज्ञस्य यदातिथ्यं नवकपालः पुरोडाशो भवति तस्मान्नवधा शिरो विष्यूतम्” [सं. का. ६ प्र. २ अ. १] इति।
आतिथ्येष्टेः सत्काररूपत्वेन शिरोवदुत्तमाङ्गत्वम्। यस्मादत्र कपालेषु नवसंख्या तस्माद्दृष्टान्तभूतं शिरोऽपि नवभिः कपालैर्विशेषेण स्यूतम्। पौरोडाशिकब्राह्मणे ह्येवमाम्नातम् — “तस्मादष्टाकपालं पुरुषस्य शिरः” इति। ततोऽष्टानां कपालानां परस्परमष्टधा स्यूतिस्ततस्तत्समूहरूपस्य शिरसोऽधस्तनेन कबन्धेन सहैकधा स्यूतिः।
उक्तमेव विधिमनूद्य प्रशंसति —
“नवकपालः पुरोडोशो भवति ते त्रयस्त्रिकपालास्त्रिवृता स्तोमेन संमिता-
स्तेजस्त्रिवृत्तेज एव यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।
त्रिवृन्नामके स्तोमे त्रीणि सूक्तानि। तेष्वेकैकस्मिन्सूक्ते तिस्रस्तिस्र ऋचः। अतः संख्यासाम्यान्नवकपालस्य त्रिवृद्रूपत्वम्। त्रिवृच्च प्रजापतेर्मुखादग्निना सह जातत्वात्तेजोरूपम्। तथा सति यज्ञशिरोरूप आतिथ्ये तेजः स्थापितं भवति।
पुनरप्यनूद्य प्रशंसति —
“नवकपालः पुरोडाशो भवति ते त्रयस्त्रिकपालास्त्रिवृता प्राणेन संमितास्त्रिवृद्धै प्राणस्त्रिवृतमेव प्राणमभिपूर्वं यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।
त्रिभिः कपालैः संस्कृतः पुरोडाशस्त्रिकपालः। तादृशाश्च पुरोडाशास्त्रयः। नवसंख्यायां विभज्यमानायामेवं संपद्यते। तथा सति यत्कपालगतं त्रिवृत्त्वं यच्च पुरोडाशगतं तेन सदृशी प्राणसंख्या प्राणस्योर्ध्वाधोमध्यवृत्तिभिस्त्रिगुणत्वात्। अथवा नवसु च्छिद्रेषु वर्तमानो नवसंख्याकः प्राणः। तस्य त्रेधा विभागे सति प्रकृतनवकपालसादृश्यं भवति। तादृशं प्राणमभिपूर्वमनुक्रमेण यज्ञस्य शिरस्यातिथ्ये स्थापयति।
प्रजापतेर्वा एतानि पक्ष्माणि यदश्ववाला ऐक्षवी तिरश्ची यदाश्ववालः प्रस्तरो भवत्यैक्षवी तिरश्ची प्रजापतेरेव तच्चक्षुः सं भरति” [सं. का. ६ प्र. २ अ. १] इति।
पक्ष्माण्यक्षिरोमाणि। अश्ववालाः काशाख्या दर्भविशेषाः। ऐक्षवी इक्षुपत्रिके। तिरश्ची चक्षुषश्चर्मपुटिके। यथा सोमपर्णस्य पलाशवृक्षरूपेणोत्पत्तिर्यथा चाप्सु मेध्यांशो दर्भरूपेणोत्पन्नस्तथैव प्रजापतेः पक्ष्मणां चर्मपुटयोश्च काशरूपेणेक्षुपत्ररूपेण चाऽऽविर्भावोऽर्थवादान्तरे द्रष्टव्यः। एवं सति प्रशस्तत्वादत्र प्रस्तराख्यस्तृणमुष्टिराश्ववालः कर्तव्यः। तस्याधस्तात्तिर्यक्त्वेन स्थापनीये विधृती ऐक्षव्यौ कुर्यात्। तावता प्रजापतेस्तच्चक्षुः संपादितं भवति।
परिधिषु श्रीपर्णीवृक्षं विधत्ते —
“देवा वै या आहुतीरजुहवुस्ता असुरा निष्कावमादन्ते देवाः कार्ष्मर्यमपश्यन्कर्मण्यो वै कर्मैनेन कुर्वीतेति ते कार्ष्मर्यमयान्परिधीनकुर्वत तैर्वै ते रक्षास्यपाघ्नत यत्कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसामपहत्यै” (सं. का. ६ प्र. २ अ. १) इति।
निष्कावं निःशब्दं चर्वणादिशब्देन देवा ज्ञास्यन्तीति मत्वा चौर्येणाभक्षयन्। कार्ष्मर्यवृक्षो रक्षोनिवारकत्वेन कर्मण्यः। तस्मात्तेनैव कर्म कुर्वीतेति मत्वा तन्मयान्परिधीनकुर्वत। तथैवान्येनापि कर्म कर्तव्यम्।
मध्यमपरिधेर्दक्षिणोत्तरपरिधिभ्यां सह संस्पर्शं विधत्ते —
“सस्पर्शयति रक्षसामन्ववचाराय” (सं. का. ६ प्र. २ अ. १) इति।
स्पर्शाभावे परिध्योः संधौ रक्षसामन्तरनुप्रवेशः स्यात्।
पूर्वस्यां दिशि रक्षःप्रवेशनिवारणाय प्रसक्तं चतुर्थपरिधिं निषेधति —
“न पुरस्तात्परि दधात्यादित्यो ह्येवोद्यन्पुरस्ताद्रक्षास्यपहन्ति” (सं. का. ६ प्र. २ अ. १) इति।
आघारसमिधोर्द्वयोराहवनीयपूर्वभागे स्थापनं विधत्ते —
“ऊर्ध्वे समिधावा दधात्युपरिष्टादेव रक्षास्यप हन्ति” (सं. का. ६ प्र. २ अ. १) इति।
यद्युप्यूर्ध्वायां दिशि रक्षसां निवारणायोपरिष्टादेव समिधौ स्थापनीये तथाऽपि व्योम्नि स्थापयितुमशक्यत्वादूर्ध्वदिशि(गग्रे) स्थापनीये।
तत्र कंचिद्विशेषं विधत्ते —
“यजुषाऽन्यां तूष्णीमन्यां मिथुनत्वाय” (सं. का. ६ प्र. २ अ. १) इति।
वीतिहोत्रं त्वा कव इति मन्त्रेण दक्षिणामादध्यात्तूष्णीमुत्तराम्। समन्त्रकामन्त्रकयोः स्त्रीपुरुषलक्षणत्वान्मिथुनत्वम्।
समित्संख्यां विधत्ते —
“द्वे आ दधाति द्विपाद्यजमानः प्रतिष्ठित्यै” (सं. का. ६ प्र. २ अ. १) इति।
द्वित्वं पादद्वयप्रतिष्ठायै भवति। ननु संस्पर्शादिविधयः प्रकृतौ दर्शपूर्णमासेष्टावपि सन्तीत्यतिदेशादेव तदनुष्ठानस्यात्र प्राप्तत्वान्न पृथग्विध्यपेक्षेति चेन्न। उपसदर्थं विधेयत्वात्। तर्हि तत्रैव विधीयतामिति चेन्न। आतिथ्योपसदोः परिध्यादिभेदं वारयितुं साधारणत्वेनात्रैव विधेयत्वात्।
आतिथ्येष्टिमध्ये वह्निमन्थनपूर्वकमाहवनीये मथिताग्निप्रक्षेपं विधत्ते —
“ब्रह्मवादिनो वदन्त्यग्निश्च वा एतौ सोमश्च कथा सोमायाऽऽतिथ्यं क्रियते नाग्नय इति यदग्नावग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते” (सं. का. ६ प्र. २ अ. १) इति।
अग्निश्च सोमश्चेत्येतावुभावपि यागनिर्वाहकौ देवौ, तयोः साम्ये सति कथमग्नय आतिथ्यं नेति प्रश्नः। अग्निं मथित्वाऽऽहवनीये प्रहरेत्तदिदमाहवनीयाग्नेरातिथ्यम्।
मथनस्य कालं विधत्ते —
“अथो स्वल्वाहुरग्निः सर्वा देवता इति यद्धविरासाद्याग्निं मन्थति हव्यायै वाऽऽसन्नाय सर्वा देवता जनयति” (सं. का. ६ प्र. २ अ. १) इति।
अपि चैते ब्रह्मवादिनः कालविवक्षावन्तस्तदुपोद्घातत्वेन वह्नेः सर्वात्मकत्वमाहुः। तच्च सर्वदेवतात्मकत्वमेकद्वित्रितानामुत्पत्तौ विस्पष्टमाम्नातम्। यदातिथ्पपुरोडाशं वेद्यामासाद्य तस्मिन्कालेऽग्निं मथ्नीयात्तथा मथ्यमानाग्नावन्तर्भूताः सर्वा अपि देवता आसन्नहविर्मोक्तुमुत्पादिता भवन्ति तत्स एव काल इत्यर्थः। मथनमन्त्रास्त्वाध्वर्यवा अग्नीषोमीयपशुप्रस्तावे समाम्नास्यन्ते। हौत्रास्तु बह्वृचब्राह्मण आतिथ्येष्टिसमीपे एवोदाहृताः।
आपतय इति।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
षष्ठं काण्डम्
द्वितीयः प्रपाठकः
इति षष्ठे द्वितीये प्रथमोनुवाकः ।