अनुवाकः 1 TS 6.2.1

(A1)

(पत्नि॑या ए॒व - जग॑त्या॒ - आ - त्रि॒वृद्वै - प॑रि॒धीन् - व॑द॒न्त्ये - क॑चत्वारिꣳशच्च)

अनुवाकः 1 - Complete Audio

TS 6.2.1 - स्वरानुगामी

0:00 0:00
PS1.1 यदु॒भौ वि॒मुच्या॑ऽऽ*ति॒थ्यं गृ॑ह्णी॒याद्-य॒ज्ञ्ं ॅविच्छि॑न्द्या॒द्-यदु॒भाव-वि॑मुच्य॒
PS1.2 यथाऽना॑गतायाऽऽति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्-विमु॑क्तो॒-ऽन्यो॑ऽन॒ड्वान्
PS1.3 भव॒त्य वि॑मुक्तो॒ऽन्यो-ऽथा॑ऽऽ*ति॒थ्यं गृ॑ह्णाति य॒ज्ञ्स्य॒
PS1.4 सन्त॑त्यै॒ पत्न्य॒न्वार॑भते॒ पत्नी॒ हि
PS1.5 पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒ वानु॑मतं॒ निर्व॑पति॒
PS1.6 यद्वै पत्नी॑ य॒ज्ञ्स्य॑ क॒रोति॑
PS1.7 मिथु॒नं तदथो॒ पत्नि॑या ए॒वै-
PS1.8 [ ]
PS2.1 -ष य॒ज्ञ्स्या᳚न्वार॒भ्ॐ ऽन॑वच्छित्त्यै॒ याव॑द्-भि॒र्वै
PS2.2 राजा॑ऽनुच॒रैरा॒गच्छ॑ति॒ सर्वे᳚भ्यो॒ वै तेभ्य॑
PS2.3 आति॒थ्यं क्रि॑यते॒ छन्दाꣳ॑सि॒ खलु॒
PS2.4 वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्ने-रा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒
PS2.5 त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒
PS2.6 सोम॑स्याऽऽ*ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑
PS2.7 ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒
PS2.8 जग॑त्या- [ ]
PS3.1 ए॒वैतेन॑ करोत्य॒ग्नये᳚ त्वा रायस्पोष॒दाव्न्ने॒
PS3.2 विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति
PS3.3 श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒
PS3.4 त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒
PS3.5 पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा᳚क्षरा
PS3.6 प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑
PS3.7 रुन्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ्
PS3.8 स॒त्याद्-गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒
PS3.9 इति॒ यदे॒वादः सोम॒मा- [
PS3.10 ]
PS4.1 ऽह॑र॒त् तस्मा᳚द्-गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑
PS4.2 क्रियते पु॒रस्ता᳚च्चो॒ परि॑ष्टाच्च॒ शिरो॒
PS4.3 वा ए॒तद् य॒ज्ञ्स्य॒ यदा॑ति॒थ्यं
PS4.4 नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मा᳚न्नव॒धा
PS4.5 शिरो॒ विष्यू॑तं॒ नव॑कपालः पुरो॒डाशो॑
PS4.6 भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒
PS4.7 संमि॑ता॒स्तेज॑स्त्रि॒वृत् तेज॑ ए॒व य॒ज्ञ्स्य॑
PS4.8 शी॒र्॒.षन् द॑धाति॒ नव॑कपालः पुरो॒डाशो॑
PS4.9 भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता᳚ प्रा॒णेन॒
PS4.10 संमि॑तास्त्रि॒वृद्वै- [ ]
PS5.1 प्रा॒ण-स्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वं ॅय॒ज्ञ्स्य॑ शी॒र्॒.षन्
PS5.2 द॑धाति प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒
PS5.3 यद॑श्ववा॒ला ऐ᳚क्ष॒वी ति॒रश्ची॒ यदाश्व॑वालः
PS5.4 प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची᳚ प्र॒जाप॑तेरे॒व
PS5.5 तच्चक्षुः॒ संभ॑रति दे॒वा वै
PS5.6 या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न्
PS5.7 ते दे॒वाः का᳚र्ष्म॒र्य॑मपश्यन् कर्म॒ण्यो॑
PS5.8 वै कर्मै॑नेन कुर्वी॒तेति॒ ते
PS5.9 का᳚र्ष्मर्य॒मया᳚न् परि॒धीन॑- [ ]
PS6.1 -कुर्वत॒ तैर्वै ते रक्षाꣳ॒॒स्यपा᳚घ्नत॒
PS6.2 यत् का᳚र्ष्मर्य॒मयाः᳚ परि॒धयो॒ भव॑न्ति॒
PS6.3 रक्ष॑सा॒मप॑हत्यै॒ सꣳ स्प॑र्.शयति॒ रक्ष॑सा॒मन॑न्व-वचाराय॒
PS6.4 न पु॒रस्ता॒त् परि॑ दधात्यादि॒त्यो
PS6.5 ह्ये॑वोद्यन् पु॒रस्ता॒द्-रक्षाꣳ॑स्यप॒हन्त्यू॒र्द्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व
PS6.6 रक्षाꣳ॒॒स्यप॑ हन्ति॒ यजु॑षा॒ऽन्यां तू॒ष्णीम॒न्यां
PS6.7 मि॑थुन॒त्वाय॒ द्वे आ द॑धाति
PS6.8 द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्त्य॒-
PS6.9 [ ]
PS7.1 -ग्निश्च॒ वा ए॒तौ सोम॑श्च
PS7.2 क॒था सोमा॑याऽऽ*ति॒थ्यं क्रि॒यते॒ नाग्नय॒
PS7.3 इति॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति॒
PS7.4 तेनै॒वाग्नय॑ आति॒थ्यं क्रि॑य॒ते ऽथो॒
PS7.5 खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒
PS7.6 यद्ध॒विरा॒साद्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वाऽऽ*स॑न्नाय॒ सर्वा॑
PS7.7 दे॒वता॑ जनयति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.2.1.1 TS 6.2.1.1
यदु॒भौ वि॒मुच्या॑ऽऽ*ति॒थ्यं गृ॑ह्णी॒याद्-य॒ज्ञ्ं ॅविच्छि॑न्द्या॒द्-यदु॒भाव-वि॑मुच्य॒ यथाऽना॑गतायाऽऽति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्-विमु॑क्तो॒-ऽन्यो॑ऽन॒ड्वान् भव॒त्य वि॑मुक्तो॒ऽन्यो-ऽथा॑ऽऽ*ति॒थ्यं गृ॑ह्णाति य॒ज्ञ्स्य॒ सन्त॑त्यै॒ पत्न्य॒न्वार॑भते॒ पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒ वानु॑मतं॒ निर्व॑पति॒ यद्वै पत्नी॑ य॒ज्ञ्स्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वै- [ ]
पदपाठः (Word-by-word)
यत् । उ॒भौ । वि॒मुच्येति॑ वि-मुच्य॑ । आ॒ति॒थ्यम् । गृ॒ह्णी॒यात् । य॒ज्ञ्म् । वीति॑ । छि॒न्द्या॒त् । यत् । उ॒भौ । अवि॑मु॒च्येत्यवि॑ - मु॒च्य॒ । यथा᳚ । अना॑गता॒येत्यना᳚-ग॒ता॒य॒ । आ॒ति॒थ्यम् । क्रि॒यते᳚ । ता॒दृक् । ए॒व । तत् । विमु॑क्त॒ इति॒ वि - मु॒क्तः॒ । अ॒न्यः । अ॒न॒ड्वान् । भव॑ति । अवि॑मुक्त॒ इत्यवि॑ - मु॒क्तः॒ । अ॒न्यः । अथ॑ । आ॒ति॒थ्यम् । गृ॒ह्णा॒ति॒ । य॒ज्ञ्स्य॑ । सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । पत्नी᳚ । अ॒न्वार॑भत॒ इत्य॑नु - आर॑भते । पत्नी᳚ । हि । पारी॑णह्य॒स्येति॒ पारि॑ - न॒ह्य॒स्य॒ । ईशे᳚ । पत्नि॑या । ए॒व । अनु॑मत॒मित्यनु॑ - म॒त॒म् । निरिति॑ । व॒प॒ति॒ । यत् । वै । पत्नी᳚ । य॒ज्ञ्स्य॑ । क॒रोति॑ । मि॒थु॒नम् । तत् । अथो॒ इति॑ । पत्नि॑याः । ए॒व ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रान्व्याचिख्यासुरादौ कालविशेषसहितमातिथ्यं कर्म विधत्ते —

“यदुभौ विमुच्याऽऽतिथ्यं गृह्णीयाद्यज्ञं विच्छिन्द्याद्यदुभावविमुच्य यथाऽनागतायाऽऽतिथ्यं क्रियते तादृगेव तद्विमुक्तोऽन्योऽनड्वान्भवत्यविमुक्तोऽन्योऽथाऽऽतिथ्यं गृह्णाति यज्ञस्य संतत्यै” (सं. का. ६ प्र. २ अ. १) इति।

द्वयोर्बलीवर्दयोर्विमुक्तयोः सतोः सोमगमनरूपं कर्म सर्वथा परित्यक्तं भवति। आतिथ्यकर्म तूपक्रान्तं, ततो यज्ञमध्ये यज्ञो विच्छिद्येत। अविमुक्तयोस्तु द्वयोर्गमनस्यासंपूर्णत्वादनागताय सोमायाऽऽतिथ्यं कृतं भवेत्। एकस्मिन्विमुक्ते च विमुक्तत्वादेव गमनं संपूर्णं भवति। इतरस्य विमोकाभावत्पूर्वकर्मापि न त्यक्तम्। अतस्तस्मिन्काले निर्वापाद्यज्ञः संततो भवति।

निर्वापकालेऽध्वर्युमनु पत्न्याः शकटस्पर्शं विधत्ते —

“पत्न्यन्वारभते पत्नी हि पारीणह्यास्यशे पत्नियैवानुमतं निर्वपति यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. १) इति।

परि(री)णद्गृहं त्र भवं व्रीह्यादिद्रव्यं पारीणह्यं तस्येशाना पत्नी। किंच यज्ञः पुमान्पत्नी स्त्रीत्येतन्मिथुनम्। किंच योऽयं पत्न्याः शकटस्य यज्ञाङ्गस्य स्पर्शः स यज्ञस्य विच्छेदराहित्याय भवति।

मन्त्रान्व्याचष्टे —

“यावद्भिर्वै राजाऽनुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दांसि खलु वै सोमस्य राज्ञोऽनुचराण्यग्नेरातिथ्यमसि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति सोमस्याऽऽतिथ्यमसि विष्णवे त्वेत्याह त्रिष्टुभ एवैतेन करोत्यतिथेरातिथ्यमसि विष्णवे त्वेत्याह जगत्या एवैतेन करोत्यग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वेत्याहानुष्टुभ एवैतेन करोति श्येनाय त्वा सोमभृते विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति” [सं. का. ६ प्र. २ अ. १] इति।

सौमस्य भृत्यैरग्न्यादिर्भृत्यान्तराणि गायत्र्यादीन्युपलक्ष्यन्ते। उपलक्षकविशेषाणामग्न्यादीनामुपलक्ष्यविशेषैर्गायत्र्यादिभिः प्रातिस्विकसंबन्धविशेषे प्रमाणमिदं ब्राह्मणमेव।

निर्वापावृत्तिसंख्यां विधत्ते —

“पञ्च कृत्वो गृह्णाति पञ्चक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे” [सं. का. ६ प्र. २ अ. १] इति।

आद्यन्तयोर्मन्त्रयोर्गायत्र्या द्विरुपलक्षितत्वं प्रश्नोत्तराभ्यामुपपादयति —

“ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्गायत्रिया उभयत आतिथ्यस्य क्रियत इति यदेवादः सोममाहरत्तस्माद्गायत्रिया उभयत आतिथ्यस्व क्रियते पुरस्ताच्चोपरिष्टाच्च” [सं. का. ६ प्र. २ अ. १] इति।

आतिथ्यं क्रियत इत्यर्थः।

निरुप्तैस्तण्डुलैर्नवकपालः पुरोडाशः कार्य इति विधत्ते —

“शिरो वा एतद्यज्ञस्य यदातिथ्यं नवकपालः पुरोडाशो भवति तस्मान्नवधा शिरो विष्यूतम्” [सं. का. ६ प्र. २ अ. १] इति।

आतिथ्येष्टेः सत्काररूपत्वेन शिरोवदुत्तमाङ्गत्वम्। यस्मादत्र कपालेषु नवसंख्या तस्माद्दृष्टान्तभूतं शिरोऽपि नवभिः कपालैर्विशेषेण स्यूतम्। पौरोडाशिकब्राह्मणे ह्येवमाम्नातम् — “तस्मादष्टाकपालं पुरुषस्य शिरः” इति। ततोऽष्टानां कपालानां परस्परमष्टधा स्यूतिस्ततस्तत्समूहरूपस्य शिरसोऽधस्तनेन कबन्धेन सहैकधा स्यूतिः।

उक्तमेव विधिमनूद्य प्रशंसति —

“नवकपालः पुरोडोशो भवति ते त्रयस्त्रिकपालास्त्रिवृता स्तोमेन संमिता-

स्तेजस्त्रिवृत्तेज एव यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।

त्रिवृन्नामके स्तोमे त्रीणि सूक्तानि। तेष्वेकैकस्मिन्सूक्ते तिस्रस्तिस्र ऋचः। अतः संख्यासाम्यान्नवकपालस्य त्रिवृद्रूपत्वम्। त्रिवृच्च प्रजापतेर्मुखादग्निना सह जातत्वात्तेजोरूपम्। तथा सति यज्ञशिरोरूप आतिथ्ये तेजः स्थापितं भवति।

पुनरप्यनूद्य प्रशंसति —

“नवकपालः पुरोडाशो भवति ते त्रयस्त्रिकपालास्त्रिवृता प्राणेन संमितास्त्रिवृद्धै प्राणस्त्रिवृतमेव प्राणमभिपूर्वं यज्ञस्य शीर्षन्दधाति” [सं. का. ६ प्र. २ अ. १] इति।

त्रिभिः कपालैः संस्कृतः पुरोडाशस्त्रिकपालः। तादृशाश्च पुरोडाशास्त्रयः। नवसंख्यायां विभज्यमानायामेवं संपद्यते। तथा सति यत्कपालगतं त्रिवृत्त्वं यच्च पुरोडाशगतं तेन सदृशी प्राणसंख्या प्राणस्योर्ध्वाधोमध्यवृत्तिभिस्त्रिगुणत्वात्। अथवा नवसु च्छिद्रेषु वर्तमानो नवसंख्याकः प्राणः। तस्य त्रेधा विभागे सति प्रकृतनवकपालसादृश्यं भवति। तादृशं प्राणमभिपूर्वमनुक्रमेण यज्ञस्य शिरस्यातिथ्ये स्थापयति।

प्रजापतेर्वा एतानि पक्ष्माणि यदश्ववाला ऐक्षवी तिरश्ची यदाश्ववालः प्रस्तरो भवत्यैक्षवी तिरश्ची प्रजापतेरेव तच्चक्षुः सं भरति” [सं. का. ६ प्र. २ अ. १] इति।

पक्ष्माण्यक्षिरोमाणि। अश्ववालाः काशाख्या दर्भविशेषाः। ऐक्षवी इक्षुपत्रिके। तिरश्ची चक्षुषश्चर्मपुटिके। यथा सोमपर्णस्य पलाशवृक्षरूपेणोत्पत्तिर्यथा चाप्सु मेध्यांशो दर्भरूपेणोत्पन्नस्तथैव प्रजापतेः पक्ष्मणां चर्मपुटयोश्च काशरूपेणेक्षुपत्ररूपेण चाऽऽविर्भावोऽर्थवादान्तरे द्रष्टव्यः। एवं सति प्रशस्तत्वादत्र प्रस्तराख्यस्तृणमुष्टिराश्ववालः कर्तव्यः। तस्याधस्तात्तिर्यक्त्वेन स्थापनीये विधृती ऐक्षव्यौ कुर्यात्। तावता प्रजापतेस्तच्चक्षुः संपादितं भवति।

परिधिषु श्रीपर्णीवृक्षं विधत्ते —

“देवा वै या आहुतीरजुहवुस्ता असुरा निष्कावमादन्ते देवाः कार्ष्मर्यमपश्यन्कर्मण्यो वै कर्मैनेन कुर्वीतेति ते कार्ष्मर्यमयान्परिधीनकुर्वत तैर्वै ते रक्षास्यपाघ्नत यत्कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसामपहत्यै” (सं. का. ६ प्र. २ अ. १) इति।

निष्कावं निःशब्दं चर्वणादिशब्देन देवा ज्ञास्यन्तीति मत्वा चौर्येणाभक्षयन्। कार्ष्मर्यवृक्षो रक्षोनिवारकत्वेन कर्मण्यः। तस्मात्तेनैव कर्म कुर्वीतेति मत्वा तन्मयान्परिधीनकुर्वत। तथैवान्येनापि कर्म कर्तव्यम्।

मध्यमपरिधेर्दक्षिणोत्तरपरिधिभ्यां सह संस्पर्शं विधत्ते —

“सस्पर्शयति रक्षसामन्ववचाराय” (सं. का. ६ प्र. २ अ. १) इति।

स्पर्शाभावे परिध्योः संधौ रक्षसामन्तरनुप्रवेशः स्यात्।

पूर्वस्यां दिशि रक्षःप्रवेशनिवारणाय प्रसक्तं चतुर्थपरिधिं निषेधति —

“न पुरस्तात्परि दधात्यादित्यो ह्येवोद्यन्पुरस्ताद्रक्षास्यपहन्ति” (सं. का. ६ प्र. २ अ. १) इति।

आघारसमिधोर्द्वयोराहवनीयपूर्वभागे स्थापनं विधत्ते —

“ऊर्ध्वे समिधावा दधात्युपरिष्टादेव रक्षास्यप हन्ति” (सं. का. ६ प्र. २ अ. १) इति।

यद्युप्यूर्ध्वायां दिशि रक्षसां निवारणायोपरिष्टादेव समिधौ स्थापनीये तथाऽपि व्योम्नि स्थापयितुमशक्यत्वादूर्ध्वदिशि(गग्रे) स्थापनीये।

तत्र कंचिद्विशेषं विधत्ते —

“यजुषाऽन्यां तूष्णीमन्यां मिथुनत्वाय” (सं. का. ६ प्र. २ अ. १) इति।

वीतिहोत्रं त्वा कव इति मन्त्रेण दक्षिणामादध्यात्तूष्णीमुत्तराम्। समन्त्रकामन्त्रकयोः स्त्रीपुरुषलक्षणत्वान्मिथुनत्वम्।

समित्संख्यां विधत्ते —

“द्वे आ दधाति द्विपाद्यजमानः प्रतिष्ठित्यै” (सं. का. ६ प्र. २ अ. १) इति।

द्वित्वं पादद्वयप्रतिष्ठायै भवति। ननु संस्पर्शादिविधयः प्रकृतौ दर्शपूर्णमासेष्टावपि सन्तीत्यतिदेशादेव तदनुष्ठानस्यात्र प्राप्तत्वान्न पृथग्विध्यपेक्षेति चेन्न। उपसदर्थं विधेयत्वात्। तर्हि तत्रैव विधीयतामिति चेन्न। आतिथ्योपसदोः परिध्यादिभेदं वारयितुं साधारणत्वेनात्रैव विधेयत्वात्।

आतिथ्येष्टिमध्ये वह्निमन्थनपूर्वकमाहवनीये मथिताग्निप्रक्षेपं विधत्ते —

“ब्रह्मवादिनो वदन्त्यग्निश्च वा एतौ सोमश्च कथा सोमायाऽऽतिथ्यं क्रियते नाग्नय इति यदग्नावग्निं मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते” (सं. का. ६ प्र. २ अ. १) इति।

अग्निश्च सोमश्चेत्येतावुभावपि यागनिर्वाहकौ देवौ, तयोः साम्ये सति कथमग्नय आतिथ्यं नेति प्रश्नः। अग्निं मथित्वाऽऽहवनीये प्रहरेत्तदिदमाहवनीयाग्नेरातिथ्यम्।

मथनस्य कालं विधत्ते —

“अथो स्वल्वाहुरग्निः सर्वा देवता इति यद्धविरासाद्याग्निं मन्थति हव्यायै वाऽऽसन्नाय सर्वा देवता जनयति” (सं. का. ६ प्र. २ अ. १) इति।

अपि चैते ब्रह्मवादिनः कालविवक्षावन्तस्तदुपोद्घातत्वेन वह्नेः सर्वात्मकत्वमाहुः। तच्च सर्वदेवतात्मकत्वमेकद्वित्रितानामुत्पत्तौ विस्पष्टमाम्नातम्। यदातिथ्पपुरोडाशं वेद्यामासाद्य तस्मिन्कालेऽग्निं मथ्नीयात्तथा मथ्यमानाग्नावन्तर्भूताः सर्वा अपि देवता आसन्नहविर्मोक्तुमुत्पादिता भवन्ति तत्स एव काल इत्यर्थः। मथनमन्त्रास्त्वाध्वर्यवा अग्नीषोमीयपशुप्रस्तावे समाम्नास्यन्ते। हौत्रास्तु बह्वृचब्राह्मण आतिथ्येष्टिसमीपे एवोदाहृताः।

आपतय इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीय संहितायां

षष्ठं काण्डम्

द्वितीयः प्रपाठकः

1 गतः क्रयः । आतिथ्यः प्रस्तूयते - यदुभावित्यादि ।। यदुभावनड्वाहौ विमुच्यातिथ्यं गृह्णीयात् आतिथ्यं हविर्निर्वपेत् । 'अतिथेर्ण्यः' इत्यातिथ्यः प्रारम्भोभिप्रेतः, ग्रहणस्योपलक्षणार्थत्वात् । यज्ञं विच्छिन्द्यात् पूर्वोत्तरयोः कर्मणोः परस्परापेक्षायाः प्रतिपादकाभावात् ऐदमर्थ्यस्य दुर्ज्ञानत्वात् मध्ये यज्ञविच्छित्तिस्स्यात् । अथ यदुभावविमुच्यातिथ्यं गृह्णीयात, तद्दूषयति - यथाऽनागतायातिथ्यं क्रियते तादृगेव तत्स्यात् । आतिथ्यं नामागताय क्रियते । उभयोरविमोके आगमनस्यापरिसमाप्तत्वेन अनागतावस्थातुल्यत्वात् आगमनसमाप्तिनिमित्तमिदानीमनर्थकं स्यात् ।।
2 कथं तर्हि कर्तव्यमित्याह - विमुक्त इत्यादिविधिः ।। एकोनड्वान्विमुक्तः कार्यः अनागतत्वनिवृत्तये, एकमविमुक्तं कुर्यात् अविच्छेदार्थं कर्मणोऽपेक्षां द्योतयितुम् । अथास्मिन् काले आतिथ्यं गृह्णाति एवं यज्ञस्य सन्तत्यै अविच्छेदाय भवति आगतायैव चातिथ्यं कृतं भवति । 'एकान्याभ्यां समर्थाभ्याम्' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । विमुक्ताविमुक्तसन्ततिशब्दानां पूर्वपदप्रकृतिस्वरत्वमुक्तम् ।।
3 पत्न्यन्वारभते स्पृशतीति विधिः ।। यस्मात्पत्नी पारीणह्यस्य धनस्य ईशे ईष्टे । 'लोपस्त आत्मनेपदेषु' इति तलोपः, 'हि च' इति निघाताभावः । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वम् । परितस्सर्वतो नह्यते बध्यते इति परिणत् गृहमुच्यते । 'नहिवृति' इति परेर्दीर्घत्वम् । शकटनामेति केचित् । तत्र भवं व्रीह्यादि धनं पारीणह्यम्, छान्दसो ञ्यः । यद्वा - 'परिमुखादिभ्यश्च' इति व्यत्ययेनानव्ययीभावादपि ञ्यः । एवं पत्न्या स्पृष्टे तयाऽनुमतमेव निर्वपति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् । यस्मात्पत्न्यपि यज्ञस्य करोति मिथुनं भवति यजमानकर्मणा सह । द्वितीयो गुणः । अथ तृतीयो गुण उच्यते - अथो डति । अपिच पत्न्या अपि यज्ञस्यैव एषोन्वारम्भः यजमानमारभमाणमिवान्वारभते । एवं हि क्रियमाणे यज्ञस्यानवच्छित्यै अविरतये भवति । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । थाथादिस्वरेणान्वारम्भशब्दोन्तोदात्तः ।।
4 यावद्भिरित्यादि ।। यत्परिमाणैर्भृत्यैस्सह राजा आगच्छति तेभ्यस्सर्वेभ्योप्यातिथ्यं कार्यम्, न पुनः केभ्यश्चिदेव । छन्दांसि च गायत्र्यादीनि सोमस्य राज्ञोनुचराणि, अतस्तेभ्योप्यातिथ्यं कर्तव्यम् । यद्येवं कस्मात्तर्हि 'अग्रेरातिथ्यमसि' इत्यादिभिर्मन्त्रैः अग्न्यादिभ्य एवानुचरेभ्यः क्रियते, न तु गायत्र्यादिभ्य इत्यत आह - गायत्र्या अपि क्रियत एवातिथ्यं, तमग्निर्देवता यागात्मा सोमात्मा वा परमात्मैव वा । स हि विश्वात्मा सोमलतात्मना इदानीं गृहमागच्छति, तस्मै सानुचरायातिथ्यं क्रियते । तत्र 'अग्नेरातिथ्यमसि' इति यस्मादग्नये क्रियते एतेनैव गायत्र्या अपि क्रियत एवातिथ्यम्; 'तमग्निर्देवताऽन्वसृज्यत गायत्री छन्दः' इति द्वयोरपि प्रजापतेर्मुखजातत्वात्; अग्निग्रहणस्य च मुखजातत्वोपलक्षणत्वात् । एवं त्रिष्टुबादीनां सोमादिभिस्संबन्धविशेषोन्वेष्टव्यः, इदमेव वा वचनं प्रमाणमिति श्रद्धातव्यम् ।।
5 पञ्च कृत्व इति विधिः ।। पञ्चाक्षरेत्यादि । व्याख्यातम् ।।
6 ब्रह्मवादिन इत्यादि ।। कस्मात्कारणात् गायत्र्या उभयतः क्रियते । किं कारणान्तरेणेत्येवशब्दार्थः । क्रियते इति किं विवक्षितं ब्रह्मवादिनामित्याह - पुरस्ताच्चोपरिष्टाच्चेति । पूर्वस्मिन् काले ऊर्ध्वकाले च । 'अस्ताति च' इति पूर्वशब्दस्य पुरादेशः 'उपर्युपरिष्टात्' इत्यूर्ध्वशब्दस्य निपात्यते ।।
7 अथ नवकपालत्वं पुरोडाशस्य विधातुमाह - शिरो वा इति ।। शिर एवैतत् प्रधानमातिथ्यं यज्ञस्य, सोमार्थत्वात् । तस्मात् नवकपाल इत्यादिविधिः । नवसु कपालेषु संस्कृतः इत्युत्पन्नस्याणः 'द्विगोर्लुक्' इति लुक्, 'इगन्तकाल' इति पूर्वपदप्रकृतिस्वरत्वम् । पुरो दाशन्ते एनमिति पुरोडाशाः, पृषोदरादिः, 'छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम्, 'पुरोव्ययम्' इति गतित्वात्थाथादिस्वरः प्राप्तो बाध्यते । तस्मादिति । शिरोव्रतस्यातिथ्यस्य नवकपालत्वात् नवधा विष्यूतं परस्परस्यूतं नवकपालखण्डं शिरः प्रजानाम् । सिवेर्निष्ठायां 'छ्वोश्शूठ्' इत्यूठ्, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ।।
8 द्वितीयं विधत्ते गुणान्तरं दर्शयितुं - नवकपाल इति ।। ते इत्याधारभूतानि कपालानि बुद्ध्या निष्कृष्य निर्दिश्यन्ते, वक्ष्यमाणस्वरूपापेक्षया पुल्लिङ्गता । तानि नव कपालानि त्रयस्त्रिकपालाः कपालत्रयवन्तः संघातविशेषा इत्यर्थः । यथा मध्ये त्रीणि प्राचीनानि, त्रीणि दक्षिणतः, त्रीण्युत्तरतः । त्रीणि कपालानि येषां सन्तीति त्रिकपालाः, मत्त्वर्थीयोऽकारः, अर्श आदित्वादच्, बहुव्रीहौ वा स्वरव्यत्ययः, त्रिचक्रादिर्वा द्रष्टव्यः । द्विगावेव वा स्वरलिङ्गव्यत्ययः । यस्मादेवं तस्मात्ते त्रिवृता स्तोमेन सम्मिताः तुल्याः । त्रिवृदिति । त्रिभिस्तृचैः नव स्तोत्रिया भवन्ति । तस्मात्तत्सामान्यात् त्रिवृता तुल्यत्वं नवानां कपालानाम् । समुदायस्य तत्तुल्यत्वात्समुदायिनामपि तत्तुल्यत्वमुपचर्यते । एतदुक्तं भवति - कपालत्रयावृत्तनवकपालसंबन्धात् तृचत्रयात्मकेन त्रिवृता तुल्यो नवकपालः पुरोडाश डति । त्रिचक्रादित्वात् त्रिवृत उत्तरपदान्तोदात्तत्वम् । संमिते गतेः पूर्वपदप्रकृतिस्वरत्वं पूर्ववत् । तेजस्त्रिवृदिति । तेजसा सहोत्पन्नत्वात् यथा - 'स मुखतस्त्रिवृतं निरमिमीत तमग्रिर्देवताऽन्वसृज्यत' इति । तेजस्साधनत्वाद्वा । तस्मात् यज्ञस्य शीर्षन् शिरस्स्थानीये आतिथ्ये तेजो दधाति स्थापयति । 'शीर्षञ्छन्दसि' इति शीर्षादेशः, 'सुपां सुलुक्' इति ङेर्लुक्, 'न ङिसंबुद्ध्योः' इति नलोपप्रतिषेधः ।।
9 अथ तृतीयं विधत्ते गुणान्तरप्रदर्शनार्थं - नवकपाल इति ।। पूर्वेणैवावगतप्रायमिदम्, प्राणेन साम्यं प्रतिपाद्यते इति विशेषः । त्रिवृता त्रिवृत्तुल्येन प्राणेन ते संमिताः; प्राणोपि हि त्रिवृता तुल्यो भवति, नवत्वयोगात्, 'नव वै पुरुषे प्राणाः' इति नवाधिष्ठानत्वात् । तस्मात्त्रिवृतं नवाधिष्ठानं प्राणं यज्ञस्य प्रधानभूते अस्मिन्नातिथ्ये अभिपूर्वमनुक्रमेण दधाति स्थापयति । अत्रापि त्रिकत्रयात्मकत्वं प्राणस्य द्रष्टव्यम् । त्रयो दक्षिणतस्तिर्यक्स्वर्गते, त्रय उत्तरतस्तिर्यक्, त्रय उपर्यधोभावेनेति ।।
10 प्रस्तरादिविशेषान्विधास्यन् आह - प्रजापतेर्वा इत्यादि ।। पक्ष्माणि अक्षिरोमाणि । 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । अश्ववालाः अश्वस्य पुच्छरोमाणीति केचित् । अन्य आहुः - ऐक्षवी स्या[वीव]त् समुदायप्रसिद्धेश्च । अश्वकर्णादिवत्संज्ञैषा; तेन काशा उच्यन्ते न प्राजापत्यपक्ष्मतया स्तूयन्त इति । ऐक्षवी इक्षुलतिके तिरश्ची तिरश्चीने प्रजापेतरक्ष्णोश्चर्मपुटिके तिर्यक्त्वयोगादुच्यते । वक्ष्यति च 'प्रजापतेरेव तच्चक्षुस्सं भरति' इति । 'चौ' इति पूर्वपदान्तोदात्तत्वम् । उभयत्रापि 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । प्रजापतेर्वा एते अक्ष्णोश्चर्मपुटिके तिरश्च्यौ यदैक्षव्यौ लतिके इत्यर्थः । यदिति । अश्ववालविकार आश्ववालः । 'अनुदात्तादेश्च' इत्यम् । प्रस्तीर्यते इति प्रस्तरः, 'ऋदोरप्', थाथादिनोत्तरपदान्तोदात्तत्वम् । अत्र तु तिरश्ची इति विधृती उच्येते तिर्यक्त्वयोगादेव । यस्मादेवं तस्मादाश्ववालः प्रस्तरः कार्यः, ऐक्षवी विधृती इति विधिरनुमीयते ।।
11 देवा वा इत्यादि ।। निष्कावं निष्कृष्यग्न्यास्यादाच्छिद्याच्छिद्य आदन् अभक्षयन् आहुतिम् । कवति कौति कूव[कुना]तीनामन्यतमस्तस्मादाभीक्ष्ण्ये णमुल्, द्विर्वचनं तु न क्रियते, अनित्यत्वात् । गतिकर्मा चायमत्र द्रष्टव्यः । यद्वा - निष्कावं अशब्दयित्वा निःशब्दं, निरिति प्रतिषेधमाचष्टे । ते देवाः कार्ष्मर्यं श्रीपर्णीवृक्षं अपश्यन् शक्तिविशेषं तत्राधातुं विशिष्टसंकल्पात्मिकां दृष्टिं तत्र कृतवन्तः । कथमित्याह - कर्मण्य इत्यादि । एष कर्मण्यः कर्मणि साधुः अभिमतकर्मसाधनयोग्यः । तस्मादेनेन सर्वमभिमतं कर्म कुर्वीत; तत्कारणं वयमित्थं प्रतिजानीमहे इति । एनादेशोनुदात्तः । ततस्ते देवाः कार्ष्मर्यमयान् कार्ष्मर्यविकारान् परिधीनकुर्वत । 'नित्यं वृद्धशरादिभ्यः' इति मयट् । परितो धीयन्ते इति परिधयः, 'उपसर्गे घोः किः' कृदुत्तरपदप्रकृतिस्वरत्वम् । तैरित्यादि । गतम् ।।
12 संस्पर्शयतीत्यादि ।। किमर्थमिदम्, ननु प्रकृतावुक्तमत्रापि भविष्यति? तर्हि साधाराणविधानार्थमिदं, तेन यद्यत्प्राप्तं तदर्थं भविष्यति । तेन उपसत्सु विस्रंभयति संस्पर्शयति परिधीनिति विधिः । अनन्ववचाराय अननुप्रवेशाय । आदित्य एव पूर्वस्यां दिशि परिधिकार्यकारी । ऊर्ध्वे समिधो आघाराख्ये । उपरिष्टादूर्ध्वायां दिशि स्थितानि रक्षांसि अपहन्ति । यजुषेति । 'वीतिहोत्रं त्वा' हति गायत्र्यपि अनवसानत्वाद्यजुरुच्यते । दक्षिणां यनुषा उत्तरा तूष्णीम् । मिथुनत्वायेति । द्वैरूप्येण हि मिथुनत्वं भवति । द्वे इति द्वित्वविधिः । द्विपादिति । 'संख्या सुपूर्वस्य' इति लोपस्समासान्तः, 'द्वित्रिभ्यां पद्दन्' इत्युत्तरपदान्तोदात्तत्वम् । प्रतिष्ठित्यै भवति यजमानस्य यस्माद्द्विपाद्यजमानः तस्माद्वे आदधाति; तस्य प्रतिष्ठित्यै अप्रच्युतस्वरूपत्वाय तद्भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
13 ब्रह्मवादिन इत्यादि ।। द्वावेतौ देवौ अग्निश्च सोमश्च; तत्कथा केन हेतुना सोमायैवातिथ्यं क्रियते नाग्नय इति प्रश्नमाहुर्ब्रह्यवादिनः । 'था हेतौ च' इति थाप्रत्ययः । उत्तरम् - यदग्नावित्यादि । योयं मथितस्याग्रेः अग्नौ प्रहारः तेनैवाग्निः कृतातिथ्यो भवति, न पृथक्कर्तव्यमिति । अथो इति । अथ खल्वन्य आहुः - अग्निस्सर्वा देवताः यद्धविरातिथ्यमासाद्याग्रिं मन्थति, तत्तस्मै आतिथ्याय हव्याय सर्वा देवता जनयति प्रादुर्भावयति, तस्मादासन्नमातिथ्यं हविः सर्वदेवतार्थं सदग्न्यर्थमपि भविष्यतीति । यदुक्तं 'यदग्नावग्निं मथित्वा प्र हरति तेनैवाग्नय आतिथ्यं क्रियते' इति तेनैतत्समीचीनमुत्तरमिति तेषामभिप्रायः । यद्वा - मथित्वा प्रहरणेनैवाग्निः कृतातिथ्य इत्युक्तम्, इदानीं तदेव मथनं स्नूयते - हविरासादनानन्तरं यदिदं मथितं क्रियते तेनैतद्धविरर्थं सर्वा देवता जनयति, तस्मादग्निं मन्थेदिति विधिरनुमीयते । हवमर्हतीति 'छन्दसि च' इति यः ।।

इति षष्ठे द्वितीये प्रथमोनुवाकः ।

पञ्चशत् 2 #
TS 6.2.1.2 TS 6.2.1.2
-ष य॒ज्ञ्स्या᳚न्वार॒भ्ॐ ऽन॑वच्छित्त्यै॒ याव॑द्-भि॒र्वै राजा॑ऽनुच॒रैरा॒गच्छ॑ति॒ सर्वे᳚भ्यो॒ वै तेभ्य॑ आति॒थ्यं क्रि॑यते॒ छन्दाꣳ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्ने-रा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याऽऽ*ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्या- [ ]
पदपाठः (Word-by-word)
ए॒षः । य॒ज्ञ्स्य॑ । अ॒न्वा॒र॒म्भ इत्य॑नु - आ॒र॒म्भः । अन॑वच्छित्त्या॒ इत्यन॑व - छि॒त्त्यै॒ । याव॑द्भि॒रिति॒ याव॑त् - भिः॒ । वै । राजा᳚ । अ॒नु॒च॒रैरित्य॑नु - च॒रैः । आ॒गच्छ॒तीत्या᳚ - गच्छ॑ति । सर्वे᳚भ्यः । वै । तेभ्यः॑ । आ॒ति॒थ्यम् । क्रि॒य॒ते॒ । छन्दाꣳ॑सि । खलु॑ । वै । सोम॑स्य । राज्ञ्ः॑ । अ॒नु॒च॒राणीत्य॑नु - च॒राणि॑ । अ॒ग्नेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । गा॒य॒त्रि॒यै । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । सोम॑स्य । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । त्रि॒ष्टुभे᳚ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । अति॑थेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । जग॑त्यै ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.2.1.3 TS 6.2.1.3
ए॒वैतेन॑ करोत्य॒ग्नये᳚ त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद्-गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादः सोम॒मा- [ ]
पदपाठः (Word-by-word)
ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । अ॒ग्नये᳚ । त्वा॒ । रा॒य॒स्पो॒ष॒दाव्न्न॒ इति॑ रायस्पोष - दाव्न्ने᳚ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभे᳚ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । श्ये॒नाय॑ । त्वा॒ । सो॒म॒भृत॒ इति॑ सोम - भृते᳚ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । गा॒य॒त्रि॒यै । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । पञ्च॑ । कृत्वः॑ । गृ॒ह्णा॒ति॒ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । कस्मा᳚त् । स॒त्यात् । गा॒य॒त्रि॒यै । उ॒भ॒यतः॑ । आ॒ति॒थ्यस्य॑ । क्रि॒य॒ते॒ । इति॑ । यत् । ए॒व । अ॒दः । सोम᳚म् । एति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.2.1.4 TS 6.2.1.4
ऽह॑र॒त् तस्मा᳚द्-गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ता᳚च्चो॒ परि॑ष्टाच्च॒ शिरो॒ वा ए॒तद् य॒ज्ञ्स्य॒ यदा॑ति॒थ्यं नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मा᳚न्नव॒धा शिरो॒ विष्यू॑तं॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ संमि॑ता॒स्तेज॑स्त्रि॒वृत् तेज॑ ए॒व य॒ज्ञ्स्य॑ शी॒र्॒.षन् द॑धाति॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता᳚ प्रा॒णेन॒ संमि॑तास्त्रि॒वृद्वै- [ ]
पदपाठः (Word-by-word)
अह॑रत् । तस्मा᳚त् । गा॒य॒त्रि॒यै । उ॒भ॒यतः॑ । आ॒ति॒थ्यस्य॑ । क्रि॒य॒ते॒ । पु॒रस्ता᳚त् । च॒ । उ॒परि॑ष्टात् । च॒ । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । आ॒ति॒थ्यम् । नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । तस्मा᳚त् । न॒व॒धेति॑ नव - धा । शिरः॑ । विष्यू॑त॒मिति॒ वि - स्यू॒त॒म् । नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । ते । त्रयः॑ । त्रि॒क॒पा॒ला इति॑ त्रि - क॒पा॒लाः । त्रि॒वृतेति॑ त्रि - वृता᳚ । स्तोमे॑न । संमि॑ता॒ इति॒ सं - मि॒ताः॒ । तेजः॑ । त्रि॒वृदिति॑ त्रि - वृत् । तेजः॑ । ए॒व । य॒ज्ञ्स्य॑ । शी॒र्॒.षन्न् । द॒धा॒ति॒ । नव॑कपाल॒ इति॒ नव॑-क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । ते । त्रयः॑ । त्रि॒क॒पा॒ला इति॑ त्रि - क॒पा॒लाः । त्रि॒वृतेति॑ त्रि-वृता᳚ । प्रा॒णेनेति॑ प्र-अ॒नेन॑ । संमि॑ता॒ इति॒ सं-मि॒ताः॒ । त्रि॒वृदिति॑ त्रि - वृत् । वै ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.2.1.5 TS 6.2.1.5
प्रा॒ण-स्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वं ॅय॒ज्ञ्स्य॑ शी॒र्॒.षन् द॑धाति प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ यद॑श्ववा॒ला ऐ᳚क्ष॒वी ति॒रश्ची॒ यदाश्व॑वालः प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची᳚ प्र॒जाप॑तेरे॒व तच्चक्षुः॒ संभ॑रति दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न् ते दे॒वाः का᳚र्ष्म॒र्य॑मपश्यन् कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते का᳚र्ष्मर्य॒मया᳚न् परि॒धीन॑- [ ]
पदपाठः (Word-by-word)
प्रा॒ण इति॑ प्र -अ॒नः । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । ए॒व । प्रा॒णमिति॑ प्र -अ॒नम् । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । य॒ज्ञ्स्य॑ । शी॒र्॒.षन्न् । द॒धा॒ति॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । वै । ए॒तानि॑ । पक्ष्मा॑णि । यत् । अ॒श्व॒वा॒ला इत्य॑श्व - वा॒लाः । ऐ॒क्ष॒वी इति॑ । ति॒रश्ची॒ इति॑ । यत् । आश्व॑वाल॒ इत्याश्व॑ - वा॒लः॒ । प्र॒स्त॒र इति॑ प्र - स्त॒रः । भव॑ति । ऐ॒क्ष॒वी इति॑ । ति॒रश्ची॒ इति॑ । प्र॒जाप॑ते॒रिति॑ प्र॒जा -प॒तेः॒ । ए॒व । तत् । चक्षुः॑ । समिति॑ । भ॒र॒ति॒ । दे॒वाः । वै । याः । आहु॑ती॒रित्या - हु॒तीः॒ । अजु॑हवुः । ताः । असु॑राः । नि॒ष्काव᳚म् । आ॒द॒न्न् । ते । दे॒वाः । का॒र्ष्म॒र्य᳚म् । अ॒प॒श्य॒न्न् । क॒र्म॒ण्यः॑ । वै । कर्म॑ । ए॒ने॒न॒ । कु॒र्वी॒त॒ । इति॑ । ते । का॒र्ष्म॒र्य॒मया॒निति॑ कार्ष्मर्य - मयान्॑ । प॒रि॒धीनिति॑ परि - धीन् ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.2.1.6 TS 6.2.1.6
-कुर्वत॒ तैर्वै ते रक्षाꣳ॒॒स्यपा᳚घ्नत॒ यत् का᳚र्ष्मर्य॒मयाः᳚ परि॒धयो॒ भव॑न्ति॒ रक्ष॑सा॒मप॑हत्यै॒ सꣳ स्प॑र्.शयति॒ रक्ष॑सा॒मन॑न्व-वचाराय॒ न पु॒रस्ता॒त् परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन् पु॒रस्ता॒द्-रक्षाꣳ॑स्यप॒हन्त्यू॒र्द्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षाꣳ॒॒स्यप॑ हन्ति॒ यजु॑षा॒ऽन्यां तू॒ष्णीम॒न्यां मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्त्य॒- [ ]
पदपाठः (Word-by-word)
अ॒कु॒र्व॒त॒ । तैः । वै । ते । रक्षाꣳ॑सि । अपेति॑ । अ॒घ्न॒त॒ । यत् । का॒र्ष्म॒र्य॒मया॒ इति॑ कार्ष्मर्य - मयाः᳚ । प॒रि॒धय॒ इति॑ परि - धयः॑ । भव॑न्ति । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । समिति॑ । स्प॒र्॒.श॒य॒ति॒ । रक्ष॑साम् । अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ । न । पु॒रस्ता᳚त् । परीति॑ । द॒धा॒ति॒ । आ॒दि॒त्यः । हि । ए॒व । उ॒द्यन्नित्यु॑त्- यन्न् । पु॒रस्ता᳚त् । रक्षाꣳ॑सि । अ॒प॒हन्तीत्य॑प - हन्ति॑ । ऊ॒द्‌र्ध्वे इति॑ । स॒मिधा॒विति॑ सं - इधौ᳚ । एति॑ । द॒धा॒ति॒ । उ॒परि॑ष्टात् । ए॒व । रक्षाꣳ॑सि । अपेति॑ । ह॒न्ति॒ । यजु॑षा । अ॒न्याम् । तू॒ष्णीम् । अ॒न्याम् । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । द्वे इति॑ । एति॑ । द॒धा॒ति॒ । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ ।
पदसंख्या: 50
पञ्चशत् 7 #
TS 6.2.1.7 TS 6.2.1.7
-ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याऽऽ*ति॒थ्यं क्रि॒यते॒ नाग्नय॒ इति॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं क्रि॑य॒ते ऽथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वाऽऽ*स॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ॥
पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । वै । ए॒तौ । सोमः॑ । च॒ । क॒था । सोमा॑य । आ॒ति॒थ्यम् । क्रि॒यते᳚ । न । अ॒ग्नये᳚ । इति॑ । यत् । अ॒ग्नौ । अ॒ग्निम् । म॒थि॒त्वा । प्र॒हर॒तीति॑ प्र - हर॑ति । तेन॑ । ए॒व । अ॒ग्नये᳚ । आ॒ति॒थ्यम् । क्रि॒य॒ते॒ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अ॒ग्निः । सर्वाः᳚ । दे॒वताः᳚ । इति॑ । यत् । ह॒विः । आ॒साद्येत्या᳚ - साद्य॑ । अ॒ग्निम् । मन्थ॑ति । ह॒व्याय॑ । ए॒व । आस॑न्ना॒येत्या - स॒न्ना॒य॒ । सर्वाः᳚ । दे॒वताः᳚ । ज॒न॒य॒ति॒ ॥
पदसंख्या: 41