पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
विधत्ते —
‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं प्राणा उपरवा हविर्धाने खायन्त तस्माच्छीर्षन्प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
उपरवबिलानां श्रोत्रनासिकादिच्छिद्रगतप्राणस्थानीयत्वाच्छिरःस्थानीये हविर्धाने खननं युक्तम्।
विधत्ते —
‘अधस्तात्खायन्ते तस्मादधस्ताच्छीर्ष्णः’ [सं. का. ६ प्र. २ अ. ११] इति।
यस्माद्धविर्धानस्याधोभागे भूमावुपरवास्तस्माल्लोकेऽपि शिरस्यूर्ध्वकपालदध एव प्राणसंचारः।
वैष्णवानिति तद्धितो देवतावाचीत्याह —
‘रक्षोहणो वलगहनो वैष्णवान्खनामीत्याह वैष्णवा हि देवतयोपरवाः’ (सं. का. ६ प्र. २ अ. ११) इति।
वितस्तित्रयप्रमाणं विधत्ते –
‘असुरा वै निर्यन्तो देवानां प्राणेषु वलगान्न्यखनन्तान्बाहुमात्रेऽन्वविन्दन्तस्माद्बाहुमात्राः खायन्ते’ (सं. का. ६ प्र. २ अ. ११) इति।
निर्यन्तः पलायनोद्युक्ताः। प्राणविनाशनिमित्तम्। न्यखनन्निति नितरां भूमावन्तर्धापितवन्तः।
अशेषशात्रुसंग्रहाय समानासमानशब्दावुभावप्युपादेयावित्याह —
‘इदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखानेत्याह द्वौ वाव पुरुषौ यश्चैव समानो यश्चासमानो यमेवास्मै तौ वलगं निखनतस्तमेवोद्वपति” (सं. का. ६ प्र. २ अ. ११) इति।
चतुर्णामुपरवाणामधस्तादेकीकरणं विधत्ते —
‘सं तृणत्ति तस्मात्संतृण्णा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
प्राणापानचक्षुःश्रोत्रादयः सर्वेऽपि शरीरस्याभ्यन्तरे हृद्येकीभूय वर्तन्ते।
तदुपरि चतुर्णां पृथक्करणं विधत्ते —
‘न सं भिनत्ति तस्मादसंभिन्नाः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
संभेद एकीभावस्तं न कुर्यात्। प्राणाश्च बहिः स्वस्वगोलकेषु तिष्ठन्तो नैकी भवन्ति।
प्रोक्षणशेषस्य जलस्योपरवदेशेऽवनयनं विधत्ते —
‘अपोऽव नयति तस्मादार्द्रा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
मुखनासिकाचक्षुरादिगोलकेषु द्रवदर्शनात्प्राणानामार्द्रत्वम्।
अवनीते जले यवप्रक्षेपं विधत्ते —
‘यवमतीरव नयत्यूर्ग्वै यवः प्राणा उपरवाः प्राणेष्वेवोर्जं दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।
या अपोऽवनयति ता यवयुक्ताः कुर्यादिति योजना।
उपरवेषु दर्भप्रक्षेपणं विधत्ते —
‘बर्हिरव स्तृणाति तस्माल्लोमशा अन्तरतः प्राणाः’ (सं. का. ६ प्र. २ अ. ११) इति।
अक्षिपक्ष्मनासिकादिषु लोमदर्शनाल्लोमशत्वम्।
होमं विधत्ते —
‘आज्येन व्याघारयति तेजो वा आज्यं प्राणा उपरवाः प्राणेष्वेव तेजो दधाति’ (सं. का. ६ प्र. २ अ. ११) इति।
फलकयोरत्यन्तसंश्लेषं निषेधति —
‘हनू वा एते यज्ञस्य यदधिषवणे न सं तृणत्त्यसंतृण्णे हि हनू’ [सं. का. ६ प्र. २ अ. ११] इति।
हनू मुखस्याऽऽधारफलके सोमाभिषवाधारफलके। संतर्दनं रज्जुबन्धनादिना दृढसंश्लेषस्तमत्र न कुर्यात्।
तद्द्विरात्रादौ प्रसङ्गाद्विधत्ते –
‘अथो खलु दीर्घसोमे संतृद्ये धृत्यै’ (सं. का. ६ प्र. २ अ. ११) इति। आवृत्तत्वात्सोमस्य दीर्घत्वम्। अभिषवबाहुल्याद्दार्ढ्यार्थं तत्र संतर्दनम्।
‘शिरो वा एतद्याज्ञस्य यद्धविर्धानं प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखमाहवनीयो नासिकोत्तरवेदिरुदर सदो यदा खलु वै जिह्वया दत्स्वधि खादत्यथ मुखं गच्छति यदा मुखं गच्छत्यथोदरं गच्छति तस्माद्धविर्धाने चर्मन्नधि ग्रावभिषुत्याऽऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति’ [सं. का. ६ प्र. २ अ. ११] इति।
अत्राभिषवहोमौ विधेयस्य भक्षणस्य निमित्तम्।
पुनरप्युपरवस्तुत्यै प्रकारान्तरेण रूपकं परिकल्प्य तद्वेदनं प्रशंसति —
‘यो वै विराजो यज्ञमुखे दोहं वेद दुह एवैनामियं वै विराट्तस्यै त्वक्चर्मोधोऽधिषवणे स्तना उपरवा ग्रावाणो वत्सा ऋत्विजो दुहन्ति सोमः पयो य एवं वेद दुह एवैनाम्’ (सं. का. ६ प्र. २ अ. ११) इति।
अग्निष्टोमे द्वादशसु स्तोत्रेषु विद्यमाना ऋच आवर्त्यमानाः सत्यो नवतिः संपद्यन्ते। तत्र नवसु दशकेषु प्रत्येकं विराट्छन्दोऽक्षरसंख्याऽस्तीत्ययं यज्ञो विराडित्युच्यते। एतदेवाभिप्रेत्य सप्तमकाण्डस्य प्रथमानुवाके समाम्नायते ‘विराजमभिसंपद्यते’ इति। सोऽयं यज्ञो विराडत्र कामधेनुत्वेन निरूप्यते। इयं च महावेदिरेव विराडाख्या धेनुस्तस्या धेनोर्या त्वक्तदिदमास्तृतं चर्म। ऊध आपीनभारः। तद्रूपं फलकद्वयम्। एवमन्यद्योज्यम्। परेद्युः कर्तव्यस्य यज्ञस्यायं कल्पः प्रारम्भोऽन्तःपातित्वान्मुखं, तस्मिन्मुखे विराजो धेनोर्दोहनप्रकारं यो वेद स एनां कामधेनुं सर्वथा दुग्धे। य एवं वेद दुह एवैनामिति पुनर्वचनमुपसंहारार्थम्। सेयमुपरवप्रशंसेति केचित्। स्वतन्त्रोपास्तिविधिरित्यन्ये। यथा सप्तमकाण्डान्तेऽश्वमेधप्रकरणे — ‘उषा वा अश्वस्य मेध्यस्य शिरः’ इति स्वतन्त्रोपास्तिराम्नाता तद्वत्। तस्याश्च स्वातन्त्र्यं बृहदारण्यकस्याऽऽदौ विस्पष्टम्। एतादृशानां वाक्यानां कर्मप्रकरणादुत्कर्ष उत्तरमीमांसायां गुणोपसंहारे मनश्चिदाद्यधिकरणे निर्णीतः। तस्मात्दुत्कर्षे स्वातन्त्र्यमनुत्कर्षे तु स्तुतित्वेनोपरववाक्याङ्गत्वमित्याकारद्वयमभ्युपेयम्। अवेष्टेश्चातुर्मास्यानां च राजसूयान्तःप्रयोगबहिष्प्रयोगो(गौ) यथा तद्वदेतद्द्रष्टव्यम्।
—----------------------------
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
प्रश्नश्च समाप्तः ॥
……………………………………………………………………………………………………………
प्रश्नः-3