अनुवाकः 5 TS 6.2.5

(A5)

(ए॒तद्वै-क्रू॒र इ॒वै-क॑व्रता-आ॒त्मना॒-यज॑मानस्य॒-त्रयो॑दश च)

अनुवाकः 5 - Complete Audio

TS 6.2.5 - स्वरानुगामी

0:00 0:00
PS1.1 यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि
PS1.2 वै स लि॑शते॒ यद्
PS1.3 द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस्ति॒स्त्रो॑ऽहीन॑स्य य॒ज्ञ्स्य॒
PS1.4 विलो॑म क्रियेत ति॒स्र ए॒व
PS1.5 सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञ्स्य॑ सवीर्य॒त्वायाथो॒
PS1.6 सलो॑म क्रियते व॒थ्सस्यैकः॒ स्तनो॑
PS1.7 भा॒गी हि सोऽथैकꣳ॒॒ स्तनं॑
PS1.8 ॅव्र॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑
PS1.9 एतद्वै- [ ]
PS2.1 क्षु॒रप॑वि॒ नाम॑ व्र॒तं ॅयेन॒
PS2.2 प्र जा॒तान् भ्रातृ॑व्यान् नु॒दते॒
PS2.3 प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒
PS2.4 उपै॑ति च॒तुरोऽग्रे॒ स्तना᳚न् व्र॒तमुपै॒त्यथ॒
PS2.5 त्रीनथ॒ द्वावथैक॑मे॒तद्वै सु॑जघ॒नं नाम॑
PS2.6 व्र॒तं त॑प॒स्यꣳ॑ सुव॒र्ग्य॑मथो॒ प्रैव
PS2.7 जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू रा॑ज॒न्य॑स्य
PS2.8 व्र॒तं क्रू॒रेव॒ वै य॑वा॒गूः
PS2.9 क्रू॒र इ॑व- [ ]
PS3.1 राज॒न्यो॑ वज्र॑स्य रू॒पꣳ समृ॑द्ध्या
PS3.2 आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञ्स्य॑ रू॒पं
PS3.3 पुष्ट्यै॒ पयो᳚ ब्राह्म॒णस्य॒ तेजो॒
PS3.4 वै ब्रा᳚ह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व तेजः॒
PS3.5 पय॑ आ॒त्मन् ध॒त्ते ऽथो॒
PS3.6 पय॑सा॒ वै गर्भा॑ वर्द्धन्ते॒
PS3.7 गर्भ॑ इव॒ खलु॒ वा
PS3.8 ए॒ष यद् दी᳚क्षि॒तो यद॑स्य॒
PS3.9 पयो᳚ व्र॒तं भव॑त्या॒त्मान॑मे॒व तद्
PS3.10 व॑र्द्धयति॒ त्रिव्र॑तो॒ वै मनु॑रासी॒द्
PS3.11 द्विव्र॑ता॒ असु॑रा॒ एक॑व्रता- [
PS3.12 ]
PS4.1 दे॒वाः प्रा॒तर्म॒द्ध्यंदि॑ने सा॒यं तन्
PS4.2 मनो᳚र्व्र॒तमा॑सीत् पाकय॒ज्ञ्स्य॑ रू॒पं पुष्ट्यै᳚
PS4.3 प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒द्ध्यं
PS4.4 क्षु॒धो रू॒पं तत॒स्ते परा॑ऽभवन्
PS4.5 म॒द्ध्यंदि॑ने मद्ध्यरा॒त्रे दे॒वानां॒ तत॒स्ते॑ऽभवन्थ्
PS4.6 सुव॒र्गं ॅलो॒कमा॑य॒न्॒. यद॑स्य म॒द्ध्यंदि॑ने
PS4.7 मद्ध्यरा॒त्रे व्र॒तं भव॑ति मद्ध्य॒तो
PS4.8 वा अन्ने॑न भुञ्जते मद्ध्य॒त
PS4.9 ए॒व तदूर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒
PS4.10 भव॑त्या॒त्मना॒- [ ]
PS5.1 परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ गर्भो॒
PS5.2 वा ए॒ष यद् दी᳚क्षि॒तो
PS5.3 योनि॑ र्दीक्षितविमि॒तं ॅयद् दी᳚क्षि॒तो
PS5.4 दी᳚क्षितविमि॒तात् प्र॒वसे॒द् यथा॒ योने॒र्गर्भः॒
PS5.5 स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑
PS5.6 गोपी॒थायै॒ष वै व्या॒घ्रः कु॑लगो॒पो
PS5.7 यद॒ग्निस्तस्मा॒द् यद् दी᳚क्षि॒तः प्र॒वसे॒थ्
PS5.8 स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒
PS5.9 गुप्त्यै॑ दक्षिण॒तः श॑य ए॒तद्वै
PS5.10 यज॑मानस्या॒ ( ) ऽऽ*यत॑नꣳ॒॒स्व
PS5.11 ए॒वाऽऽ*यत॑ने शये॒ ऽग्निम॑भ्या॒वृत्य॑ शये
PS5.12 दे॒वता॑ ए॒व य॒ज्ञ्म॑भ्या॒वृत्य॑ शये

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.2.5.1 TS 6.2.5.1
यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद् द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस्ति॒स्त्रो॑ऽहीन॑स्य य॒ज्ञ्स्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञ्स्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते व॒थ्सस्यैकः॒ स्तनो॑ भा॒गी हि सोऽथैकꣳ॒॒ स्तनं॑ ॅव्र॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ एतद्वै- [ ]
पदपाठः (Word-by-word)
यत् । वै । अनी॑शानः । भा॒रम् । आ॒द॒त्त इत्या᳚ - द॒त्ते । वीति॑ । वै । सः । लि॒श॒ते॒ । यत् । द्वाद॑श । सा॒ह्नस्येति॑ स - अ॒ह्नस्य॑ । उ॒प॒सद॒ इत्यु॑प - सदः॑ । स्युः । ति॒स्त्रः । अ॒हीन॑स्य । य॒ज्ञ्स्य॑ । विलो॒मेति॒ वि - लो॒म॒ । क्रि॒ये॒त॒ । ति॒स्रः । ए॒व । सा॒ह्नस्येति॑ स - अ॒ह्नस्य॑ । उ॒प॒सद॒ इत्यु॑प - सदः॑ । द्वाद॑श । अ॒हीन॑स्य । य॒ज्ञ्स्य॑ । स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । अथो॒ इति॑ । सलो॒मेति॒ स-लो॒म॒ । क्रि॒य॒ते॒ । व॒थ्सस्य॑ । एकः॑ । स्तनः॑ । भा॒गी । हि । सः । अथ॑ । एक᳚म् । स्तन᳚म् । व्र॒तम् । उपेति॑ । ए॒ति॒ । अथ॑ । द्वौ । अथ॑ । त्रीन् । अथ॑ । च॒तुरः॑ । ए॒तत् । वै ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

यत्पूर्वं विहितं तिस्र उपसद उपैति द्वादशाहीने सोम उपैतीति तत्र विपक्षस्वपक्षयोर्बाधाबाधावुपन्यस्यति —

“यद्वा अनीशानो भारमादत्ते वि वै स लिशते यद्द्वादश साह्नस्योपसदः स्युस्तिस्रोऽहीनस्य यज्ञस्य विलोम क्रियेत तिस्त्र एव साह्नस्योपसदो द्वादशाही

नस्य यज्ञस्य सवीयंत्वायाथो सलोम क्रियते” (सं. का. ६ प्रं. २ अ. ५ ) इति।

लोके यद्यशक्तः कश्चित्प्रौढं भारं वोढुमाददीत तदा स विलिशते विशेषेणाल्पी भवति उत्थातुमप्यशक्तो भूमौ पतेत्। तद्वदत्रापि योज्यते। अह्ना सह वर्तत इति साह्न एकाहो ज्योतिष्टोमः। अहःसंघसाध्योऽहीनो द्विरात्रादिः। तत्र यद्यल्पस्य साह्नस्य द्वादश स्युर्यदि वाऽधिकस्याहीनस्य तिस्रः स्युस्तदा विलोम विपरीतं क्रियेत। तथा सति साह्नस्य वीर्यं हीयेत। स्वपक्षे तु नास्ति तदुभयम्।

यच्चान्यत्पूर्वं विहितमाराग्रामवान्तरदीक्षामुपेयादिति तत्प्रशंसति —

“वत्सस्यैकः स्तनो भागी हि सोऽथैक स्तनं व्रतमुपैत्यथ द्वावथ त्रीनथ चतुर एतद्वै क्षुरपवि नाम व्रतं येन प्र जातान्भ्रातृव्यान्नुदते प्रति जनिष्यमाणानथो कनीयसैव भूय उपैति” (सं. का. ६ प्रं. २ अ. ५) इति।

वत्सस्य भागो यः स्तनस्तस्मिन्नप्यल्पं पयो यजमानश्चतुर्थे पर्याये स्वी करोति। ततोऽस्य चतुस्तननियमः सिध्यति। तदेतदेकस्तनादिकं व्रतं क्षुरपवीत्युच्यते। पविर्वज्रं तेन तीक्ष्णत्वमुपलक्ष्यते। क्षुरवत्पविस्तैक्ष्णयं यस्याऽऽराग्राव्रतस्य तेन व्रतेन पूर्वमुत्पन्नान्वैरिणो विनाशयति जनिष्यमाणांश्च प्रतिबध्नाति। किंचात्यल्पेन कर्मणा भूयः फलं प्राप्नोति। यथोप्तेनाल्पेन बीजेन प्रौढं वृक्षं फलं प्राप्नोति तद्वत्।

यदन्यत्पूर्वं विहितं परोवरीयसीमवान्तरदीक्षामुपेयादिति तत्प्रशंसति —

“चतुरोऽग्रे स्तनान्व्रतमुपैत्यथ त्रीनथ द्वावथैकमेतद्वै सुजघनं नाम व्रतं तपस्य सुवर्ग्यमथो प्रैव जायते प्रजया पशुभिः” (सं. का. ६ प्रं. २ अ. ५) इति।

यथा रूपवत्या युवत्या योषितो जघनप्रदेशः स्थूलस्तस्योपरि देहमध्यप्रदेशः कृशस्तद्वदस्य व्रतस्याधोभागश्चतुस्तन उपरिभाग एकस्तन इति सुजघनमिति नाम। तपस्यमुत्तरोत्तरमाहारक्षयात्तपसो योग्यम्। अत एव स्वर्गसाधानम्। किंच सुजघनत्वादेव प्रजाः पशूंश्च प्रजनयति।

त्रैवर्णिकानां मध्ये क्षत्त्रियस्य द्रव्यं विधत्ते —

“यवागू राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव राजन्यो वज्रस्य रूप समृद्ध्यै” (सं. का. ६ प्रं. २ अ. ५) इति।

यवाग्वा ओदनवत्तृप्तिहेतुत्वाभावात्क्रूरत्वम्। राज्यन्यो दुष्टशिक्षकत्वात्क्रूरः। उभयं मिलित्वा यद्वज्रसदृशं तच्चानिष्टनिवर्तकत्वेन समृद्ध्यै भवति।

विधत्ते —

‘आमिक्षा वैश्यस्य पाकयज्ञस्य रूपं पुष्ट्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।

तप्ते पयसि दधिप्रक्षेपेण घनीभूतो भागोऽसावामिक्षा। पक्वेन पुरोडाशादिना कृतो यज्ञः पाकयज्ञः। आमिक्षायाः पक्वपयोनिष्पन्नत्वात्पाकयज्ञस्य रूपमतः पुष्ट्यै भवति।

विधत्ते —

‘पयो ब्राह्मणस्य तेजो वै ब्राह्मणस्तेजः पयस्तेजसैव तेजः पय आत्मन्धत्तेऽथो पयसा वै गर्भा वर्धन्ते गर्भ इव खलु वा एष यद्दीक्षितो यदस्य पयो व्रतं भवत्यात्मानमेव तद्वर्धयति’ [सं. का. ६ प्रं. २ अ. ५] इति।

ब्राह्मणोऽध्यापनादिरूपेण तेजसा युक्तः। पयसस्तेजोवत्स्वच्छरूपत्वात्स्वयमेव तेजस्वि। पयसि पीते सति स्वकीयेन तेजसा सह पयोरूपं तेज आत्मनि धृतं भवति। किंच दीक्षितस्य गर्भरूपत्वात्पयसा वृद्धिर्युज्यते।

मध्याह्नमध्यरात्रयोर्व्रतकालत्वं विधातुं प्रस्तौति —

“त्रिव्रतो वै मनुरासीद्द्विव्रता असुरा एकव्रता देवाः प्रातर्मध्यंदिने सायं तन्मनोर्व्रतमासीत्पाकयज्ञस्य रूपं पुष्ट्यै प्रातश्च सायं चासुराणां निर्मध्यं क्षुधोरूपं ततस्ते पराऽभवन्मध्यंदिने मध्यरात्रे देवानां ततस्तेऽभवन्त्सुवर्गं लोकमायन्” (सं. का. ६ प्रं. २ अ. ५) इति।

अहनि त्रिषु कालेषु व्रतं भोजनं कुर्वतो मनोरेकस्मिन्नेव काले व्रतं कुर्वतां देवानां च मध्याह्नकाले व्रतमस्ति। स च कालः क्षुधः स्वरूपम्। तस्मिन्व्रतरहिता असुराः पराभूताः। व्रतयुक्तास्तु मनुर्देवाश्च पुष्टिं स्वर्गं च प्राप्ताः। ततो मध्याह्नकालः प्रशस्तः।

विधत्ते —

“यदस्य मध्यंदिने मध्यरात्रे व्रतं भवति मध्यतो वा अन्नेन भुञ्जते मध्यत एव तदूर्जं धत्ते भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति” (सं. का. ६ प्रं. २ अ. ५) इति।

मुखमध्येऽन्नस्य भोजनमुदरमध्येऽन्नस्य च धारणं यथा लोके तथैवात्रापि मध्याह्ने मध्यरात्रे च व्रतं कर्तव्यम्।

दीक्षितस्य स्वनिवासस्थानात्प्रवासं निषेधति —

“गर्भो वा एष यद्दीक्षितो योनिर्दीक्षितविमितं यद्दीक्षितो दीक्षितविमितात्प्रवसेद्यथा योनेर्गर्भः स्यन्दति तादृगेव तन्न प्रवस्तव्यमात्मनो गोपीथाय” (सं. का. ६ प्रं. २ अ. ५) इति।

दीक्षितो विशेषेण मीयते प्रक्षिप्यते यस्मिञ्शालास्थाने तद्दीक्षितविमितं तस्य योनिरूपत्वात्। ततोऽस्य निर्गमनं गर्भस्रावसमम्। तत आत्मरक्षणार्थं न निर्गन्तव्यम्।

एतमेव निषेधं प्रकारान्तरेण प्रशंसति –

‘एष वै व्याघ्रः कुलगोपो यदग्निस्तस्माद्यद्दीक्षितः प्रवसेत्स एनमीश्वरोऽनूत्याय हन्तोर्न प्रवस्तव्यमात्मनो गुप्त्यै’ (सं. का. ६ प्रं. २ अ. ५) इति।

एष एवाऽऽहवंनीयोऽग्निः प्रवसतो व्याघ्रवद्धिंसको निवसतः कुलरक्षकः तस्मात्सोऽग्निः प्रवसन्तमेनमनु स्वयमुत्थाय हन्तुं समर्थः। प्रवासाभावस्त्वात्मनो रक्षणाय भवति।

आहवनीयस्य दक्षिणदेशं शयनार्थं विधत्ते —

‘दक्षिणतः शय एतद्वै यजमानस्याऽऽयतन स्व एवाऽऽयतने शये’ (सं. का. ६ प्रं. २ अ. ५) इति।

शेत इत्यर्थः।

शयनस्याऽऽहवनीयाभिमुख्यं विधत्ते —

‘अग्निमभ्यावृत्य शये देवता एव यज्ञमभ्यावृत्य शये’ (सं. का. ६ प्रं. २ अ. ५) इति।

अथ काम्यानि देवयजनानि विधीयन्ते। तत्र पुरोहविरादयः संज्ञाविशेषा उक्थ्यषोडश्यतिरात्राद्युत्तरयज्ञाः।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यद्वा अनीशान इत्यादि ।। यद्यनीशानस्तादृशं भारं वोढुमक्षमस्सन् भारं योग्यमादत्ते गृह्णाति स खलु विलिशते अल्पीभवति क्षीयते इति यावत् । लिश अल्पीभावे । तस्माद्यदि साह्नस्य एकाहस्य द्वादशोपसदः स्युः, तदा सोतिभाराद्विलिशते ततो यजमानो म्रियेत, तस्मात्तिस्र उपसद उपैतीति पर्वूमेवावोचामेति तस्यैवेदं समर्थनम् । अह्ना सह वर्तते इति साह्नः क्रतुः, 'अह्नोह्न एतेभ्यः' इत्यच्समासान्तः, अह्नादेशश्च । अथ यदि तिस्रोहीनस्याह्नां समूहस्य क्रतोरुपसदस्स्युः, तदा यज्ञस्थ विलोम विपरीतं क्रियेत । शक्तस्याशक्तत्वरव्यापनं वैपरीत्यम् । ततश्चाशक्त एव क्रतुस्स्यादह्नां समूहः । 'अह्नः खः क्रतौ' इति खः ।।
2 तिस्र एवेत्यादि ।। तस्मात्तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति पूर्वमेवावोचामेति भावः । यज्ञस्येत्यादि । एवं क्रियमाणे यज्ञस्य साह्नस्य शक्यभारभरणात् सवीर्यत्वाय भवति । अथो अपि च अहीनस्य यज्ञस्य सलोम अनुरूपमेव क्रियते । उक्तं व्रतविशेषनिबन्धनं अवान्तरदीक्षायास्संज्ञाद्वयं आराग्रा परोवरीयसीति ।।
3 इदानीं तु तयोर्व्रतयोः स्वरूपं संज्ञां च प्रदर्शयितुमाह- वत्सस्येत्यादि ।। वत्सस्य एकस्तनस्स्वभूतः कुतः भागी हि सः सोपि भागी, न केवलं गोस्वामी यजमान एव । तस्मादेकं स्तनं तस्मै दत्वा अथान्यतरेष्वितरेष्वेव एकस्तनं व्रतमुपैति । अथ द्वावित्यादि । पूर्ववत् 'चतुरश्शसि' इत्यन्तोदात्तत्वम् । एतद्वा इत्यादि । क्षुरवत्पुनातीति क्षुरपविः, 'अच हः' इतीप्रत्ययः, उपमानपर्वूपदप्रकृतिस्वरत्वम् । संज्ञा चेयं, क्षुरग्रहणेन चैहिकफलहेतुत्वमस्य प्रतिपाद्यते । यथोक्तं - 'यः कामयेतास्मिन्मे लोहऽर्धुकं स्यात्' इति । तदेवाह - येन प्रजातानित्यादि । अन्य अहुः - पविशब्देन मुखमुच्यते । क्षुरस्य पविरिव पविर्यस्येति 'सप्तम्युपमानपर्वूपदस्य' इति बहुव्रीहिः । क्षुरधारा नामैतद्व्रतं अकार्त्स्न्येन सद्यश्शातकमिति । तदेवाह - येनेति । येन जातान् भ्रातृव्यान् प्रणुदते प्रतिनिवर्तयति तदिदं क्षुरपविनाम व्रतमिति । यद्वा - येन कारणेन जातान् प्रणुदते जनिष्यमाणांश्च प्रणुदते तेनेदं क्षुरपवीत्याचक्षते इति । अथो अपिच कनीयसा भूय उपैति अल्पतरेण बहुतरं प्राप्नोति, लोके ह्यल्पीयसा महीयः प्राप्नोति बीजेनेव पादपम् । 'युवाल्पयोः कनन्यतरस्यां' इति कनादेशः । एवमिदमपीति । सुजघनं नामैतत् व्रतं तपस्यं सुवर्ग्यं च तपस्स्वर्गयोर्निमित्तम् । 'गोद्व्यचः' इति यत् । यद्वा - तपसे स्वर्गाय च हितम् । गवादित्वाद्यत् । सुजघनमिति संज्ञानिर्वचनं तु - शोभनोस्य जघनश्चरमो भागः महाफलत्वादिति । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । अथो अपिच प्रजया पशुभिश्च प्रजायते अनेन यजमानः, सुजघनत्वेन प्रजननहेतुत्वात् ।।
4 यवागूरिति ।। राजन्यस्य । 'राजश्वशुराद्यत्' राज्ञोपत्ये जातिग्रहणमिति । क्रूरेवेति । भोक्तुः पीडाकरत्वात् । राजन्योपि क्रूरः पीडारुचित्वात् । वज्रस्येदं रूपं यत्क्रूरत्वं नाम, तस्मात्समृद्ध्यै भवति स्वयं क्रूरस्य क्रूरेण योगः । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ।।
5 आमिक्षेति ।। यत्संवर्तते साऽऽमिक्षेति । विशोपत्यं वैश्यः, गर्गादित्याद्यञ् । पाकयज्ञस्येदं रूपं, तस्य तथाविधद्रव्यसाध्यत्वात् । पक्वेन अन्नादिना यज्ञः पाकयज्ञः, कृदुत्तरपदप्रकृतिस्वरत्वम् । तस्मात्पुष्ट्यै भवति ।।
6 पयो ब्राह्मणस्येति ।। तेजस्वी ब्राह्मणः, तेजः पयः, तस्मादात्मीयेन तेजसा सह तेजनं पय आत्मन् धत्ते । पूर्ववत् ङेर्लुक्, नलोपाभावश्च । अथो अपि च । पयसा वा इत्यादि । गतम् ।।
7 त्रिव्रत इति ।। त्रिषु लोकेषु व्रतं भोजनमस्येति त्रिव्रतः, द्वयोः द्विव्रतः, एकस्मिन् एकव्रतः । व्रतसमानाधिकरणा वा बहुव्रीहयः । तत्र मनोः कालत्रयमाह - प्रातरित्यादि । तन्मनोः प्रातर्मध्यन्दिने सायं च यस्मादासीत् तस्मात्त्रिव्रतो मनुरासीदिति । द्वितीयपक्षे व्रतस्य त्रैविध्याय कालभेदप्रदर्शनम् । मध्ये भवः कालो मध्यन्दिनं, प्रातरादिना साहचर्यादह्न इति गम्यते । 'मध्यो मध्यन्दिनं चास्मात्' । पाकयज्ञस्येदं रूपं, तस्य तेषु त्रिषु लोकेषु कालेषु विधानात् । तस्मात्ते पुष्ट्यै भवन्ति । प्रातश्च सायं चेति । प्रातस्सायं चासुराणां भोजनमासीत्, तस्माद्द्विव्रता इति । निर्मध्यं मध्यशून्यम् । निरुदकादिरुत्तरपदान्तोदात्तः । क्षुध एतद्रूपं, यत्र क्षुत्तीव्रा भवति तत्र भोजनस्य लुप्तत्वात् । ततस्ते असुराः पराभवम् नष्टाः । मध्यन्दिने इति । मध्यन्दिने व्रतं भोजनमेकं मध्यरात्रे चैषामेकमिति एकव्रताः । ततस्ते अभवन् भूतिमन्तस्स्वर्गं च गताः । यदस्येत्यादि । यद्यस्मादस्य मध्यन्दिने मध्यरात्रे व्रतं भवति तस्मान्मध्यतो मध्यमे वयसि अन्नेन सह मांसादि प्रभूतं भुञ्जते मध्यमे एव स्थाने ऊर्जमन्नं धत्ते स्थापयति । 'आद्यादिभ्यस्तसिः' । तस्माद्भ्रातृव्याभिभूत्यै भवति । दासीभारादिः । भवत्यात्मनेत्यादि । गतम् ।।
8 गर्भ इत्यादि ।। गर्भस्थानीयो दीक्षितः योनिस्थानीयं दीक्षितविमितम् । दीक्षितस्य विमितं यत्र यत्र दीक्षितो विमीयते विशेषेण प्रक्षिप्यते योनाविव गर्भः । डु मिञ् प्रक्षेपणे । शालायां च दीक्षितो विमीयते तस्मात्तत्स्थानाद्यदि प्रवसेत् योनेर्गर्भस्रावसमं तत्स्यात् तस्मान्न प्रवस्तव्यमात्मनो गोपीथाय अविनाशाय स्थापनार्थम् । एष वा इति । अग्निः व्याघ्रस्थानीयः कुलस्य च गोप्ता भवति । तस्मादप्रमत्तेनोपचरितव्यं, दुराराधत्वादुपकारित्वाच्च । तस्मादीदृशमेनमुत्सृज्य यदि प्रवसेत् एन मनूत्थाय स्वयमपि स्वस्थानादुच्चलितो भूत्वा हन्तोः हन्तुमीश्वरः प्रभुः । तस्मान्न प्रवस्तव्यमात्मनो गुप्त्यै स यथात्मानं गोपायेत् । 'ईश्वरे तोसुन्कसुनौ' इति तोसुन्प्रत्ययः ।।
9 दक्षिणतश्शय इति विधिः ।। आहवनीयस्य दक्षिणतश्शयीत यजमानः । 'लोपस्त आत्मनेपदेषु' इति तलोपः । एतत् यजमानस्यायतनं, तस्मात्स्व एवायतने शये शयनं कृतं भवति ।।
10 अग्निमित्यादिविधिः ।। अग्निमभ्यावृत्याभिमुख्येनावृत्य शयीत अग्न्यभिमुख इत्यर्थः । देवताश्च यज्ञं चाभ्यावृत्य शयनं कृतं भवति । न ते ष्टष्ठतः कृता भवन्ति ।।
इति षष्ठे द्वितीये पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.2.5.2 TS 6.2.5.2
क्षु॒रप॑वि॒ नाम॑ व्र॒तं ॅयेन॒ प्र जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति च॒तुरोऽग्रे॒ स्तना᳚न् व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒तद्वै सु॑जघ॒नं नाम॑ व्र॒तं त॑प॒स्यꣳ॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू रा॑ज॒न्य॑स्य व्र॒तं क्रू॒रेव॒ वै य॑वा॒गूः क्रू॒र इ॑व- [ ]
पदपाठः (Word-by-word)
क्षु॒रप॒वीति॑ क्षु॒र - प॒वि॒ । नाम॑ । व्र॒तम् । येन॑ । प्रेति॑ । जा॒तान् । भ्रातृ॑व्यान् । नु॒दते᳚ । प्रतीति॑ । ज॒नि॒ष्यमा॑णान् । अथो॒ इति॑ । कनी॑यसा । ए॒व । भूयः॑ । उपेति॑ । ए॒ति॒ । च॒तुरः॑ । अग्रे᳚ । स्तनान्॑ । व्र॒तम् । उपेति॑ । ए॒ति॒ । अथ॑ । त्रीन् । अथ॑ । द्वौ । अथ॑ । एक᳚म् । ए॒तत् । वै । सु॒ज॒घ॒नमिति॑ सु - ज॒घ॒नम् । नाम॑ । व्र॒तम् । त॒प॒स्य᳚म् । सु॒व॒र्ग्य॑मिति॑ सुवः - ग्य᳚म् । अथो॒ इति॑ । प्रेति॑ । ए॒व । जा॒य॒ते॒ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । य॒वा॒गूः । रा॒ज॒न्य॑स्य । व्र॒तम् । क्रू॒रा । इ॒व॒ । वै । य॒वा॒गूः । क्रू॒रः । इ॒व॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.2.5.3 TS 6.2.5.3
राज॒न्यो॑ वज्र॑स्य रू॒पꣳ समृ॑द्ध्या आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञ्स्य॑ रू॒पं पुष्ट्यै॒ पयो᳚ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा᳚ह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन् ध॒त्ते ऽथो॒ पय॑सा॒ वै गर्भा॑ वर्द्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद् दी᳚क्षि॒तो यद॑स्य॒ पयो᳚ व्र॒तं भव॑त्या॒त्मान॑मे॒व तद् व॑र्द्धयति॒ त्रिव्र॑तो॒ वै मनु॑रासी॒द् द्विव्र॑ता॒ असु॑रा॒ एक॑व्रता- [ ]
पदपाठः (Word-by-word)
रा॒ज॒न्यः॑ । वज्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । आ॒मिक्षा᳚ । वैश्य॑स्य । पा॒क॒य॒ज्ञ्स्येति॑ पाक - य॒ज्ञ्स्य॑ । रू॒पम् । पुष्ट्यै᳚ । पयः॑ । ब्रा॒ह्म॒णस्य॑ । तेजः॑ । वै । ब्रा॒ह्म॒णः । तेजः॑ । पयः॑ । तेज॑सा । ए॒व । तेजः॑ । पयः॑ । आ॒त्मन्न् । ध॒त्ते॒ । अथो॒ इति॑ । पय॑सा । वै । गर्भाः᳚ । व॒द्‌र्ध॒न्ते॒ । गर्भः॑ । इ॒व॒ । खलु॑ । वै । ए॒षः । यत् । दी॒क्षि॒तः । यत् । अ॒स्य॒ । पयः॑ । व्र॒तम् । भव॑ति । आ॒त्मान᳚म् । ए॒व । तत् । व॒द्‌र्ध॒य॒ति॒ । त्रिव्र॑त॒ इति॒ त्रि - व्र॒तः॒ । वै । मनुः॑ । आ॒सी॒त् । द्विव्र॑ता॒ इति॒ द्वि - व्र॒ताः॒ । असु॑राः । एक॑व्रता॒ इत्येक॑ - व्र॒ताः॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.2.5.4 TS 6.2.5.4
दे॒वाः प्रा॒तर्म॒द्ध्यंदि॑ने सा॒यं तन् मनो᳚र्व्र॒तमा॑सीत् पाकय॒ज्ञ्स्य॑ रू॒पं पुष्ट्यै᳚ प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒द्ध्यं क्षु॒धो रू॒पं तत॒स्ते परा॑ऽभवन् म॒द्ध्यंदि॑ने मद्ध्यरा॒त्रे दे॒वानां॒ तत॒स्ते॑ऽभवन्थ् सुव॒र्गं ॅलो॒कमा॑य॒न्॒. यद॑स्य म॒द्ध्यंदि॑ने मद्ध्यरा॒त्रे व्र॒तं भव॑ति मद्ध्य॒तो वा अन्ने॑न भुञ्जते मद्ध्य॒त ए॒व तदूर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒- [ ]
पदपाठः (Word-by-word)
दे॒वाः । प्रा॒तः । म॒द्ध्यन्दि॑ने । सा॒यम् । तत् । मनोः᳚ । व्र॒तम् । आ॒सी॒त् । पा॒क॒य॒ज्ञ्स्येति॑ पाक - य॒ज्ञ्स्य॑ । रू॒पम् । पुष्ट्यै᳚ । प्रा॒तः । च॒ । सा॒यम् । च॒ । असु॑राणाम् । नि॒र्म॒द्ध्यमिति॑ निः-म॒द्ध्यम् । क्षु॒धः । रू॒पम् । ततः॑ । ते । परेति॑ । अ॒भ॒व॒न्न् । म॒द्ध्यन्दि॑ने । म॒द्ध्य॒रा॒त्र इति॑ मद्ध्य - रा॒त्रे । दे॒वाना᳚म् । ततः॑ । ते । अ॒भ॒व॒न्न् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । यत् । अ॒स्य॒ । म॒द्ध्यन्दि॑ने । म॒द्ध्य॒रा॒त्र इति॑ मद्ध्य-रा॒त्रे । व्र॒तम् । भव॑ति । म॒द्ध्य॒तः । वै । अन्ने॑न । भु॒ञ्ज॒ते॒ । म॒द्ध्य॒तः । ए॒व । तत् । ऊर्ज᳚म् । ध॒त्ते॒ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । भव॑ति । आ॒त्मना᳚ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.2.5.5 TS 6.2.5.5
परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ गर्भो॒ वा ए॒ष यद् दी᳚क्षि॒तो योनि॑ र्दीक्षितविमि॒तं ॅयद् दी᳚क्षि॒तो दी᳚क्षितविमि॒तात् प्र॒वसे॒द् यथा॒ योने॒र्गर्भः॒ स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्रः कु॑लगो॒पो यद॒ग्निस्तस्मा॒द् यद् दी᳚क्षि॒तः प्र॒वसे॒थ् स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै॑ दक्षिण॒तः श॑य ए॒तद्वै यज॑मानस्या॒ ( ) ऽऽ*यत॑नꣳ॒॒स्व ए॒वाऽऽ*यत॑ने शये॒ ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञ्म॑भ्या॒वृत्य॑ शये ॥
पदपाठः (Word-by-word)
परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । गर्भः॑ । वै । ए॒षः । यत् । दी॒क्षि॒तः । योनिः॑ । दी॒क्षि॒त॒वि॒मि॒तमिति॑ दीक्षित - वि॒मि॒तम् । यत् । दी॒क्षि॒तः । दी॒क्षि॒त॒वि॒मि॒तादिति॑ दीक्षित - वि॒मि॒तात् । प्र॒वसे॒दिति॑ प्र - वसे᳚त् । यथा᳚ । योनेः᳚ । गर्भः॑ । स्कन्द॑ति । ता॒दृक् । ए॒व । तत् । न । प्र॒व॒स्त॒व्य॑मिति॑ प्र - व॒स्त॒व्य᳚म् । आ॒त्मनः॑ । गो॒पी॒थाय॑ । ए॒षः । वै । व्या॒घ्रः । कु॒ल॒गो॒प इति॑ कुल - गो॒पः । यत् । अ॒ग्निः । तस्मा᳚त् । यत् । दी॒क्षि॒तः । प्र॒वसे॒दिति॑ प्र - वसे᳚त् । सः । ए॒न॒म् । ई॒श्व॒रः । अ॒नू॒त्थायेत्य॑नु - उ॒त्थाय॑ । हन्तोः᳚ । न । प्र॒व॒स्त॒व्य॑मिति॑ प्र - व॒स्त॒व्य᳚म् । आ॒त्मनः॑ । गुप्त्यै᳚ । द॒क्षि॒ण॒तः । श॒ये॒ । ए॒तत् । वै । यज॑मानस्य ( ) । आ॒यत॑न॒मित्या᳚ - यत॑नम् । स्वे । ए॒व । आ॒यत॑न॒ इत्या᳚-यत॑ने । श॒ये॒ । अ॒ग्निम् । अ॒भ्या॒वृत्येत्य॑भि-आ॒वृत्य॑ । श॒ये॒ । दे॒वताः᳚ । ए॒व । य॒ज्ञ्म् । अ॒भ्या॒वृत्येत्य॑भि -आ॒वृत्य॑ । श॒ये॒ ॥
पदसंख्या: 63