अनुवाकः 9 TS 6.2.9

(A9)

(पत्नी॑ -हन्यु-र्वा पृथि॒व्या-विष्यू॑तं॒ ॅविष्णोः॒-षड्विꣳ॑शतिश्च)

अनुवाकः 9 - Complete Audio

TS 6.2.9 - स्वरानुगामी

0:00 0:00
PS1.1 ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒
PS1.2 प्रणे॑नेक्ति॒ मेद्ध्ये॑ ए॒वैने॑ करोति
PS1.3 सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्द्धाने॒ प्र
PS1.4 व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र
PS1.5 व॑र्तयति॒ वरु॑णो॒ वा ए॒ष
PS1.6 दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदक्षः॒ स
PS1.7 यदु॒थ् सर्जे॒द्-यज॑मानस्य गृ॒हा-न॒भ्युथ्स॑र्जेथ् सु॒वाग्दे॑व॒
PS1.8 दुर्याꣳ॒॒ आ व॒देत्या॑ह गृ॒हा
PS1.9 वै दुर्याः॒ शान्त्यै॒ पत्न्यु-
PS1.10 [ ]
PS2.1 पा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य
PS2.2 मि॒त्रं मि॑त्र॒त्वाय॒ यद्वै पत्नी॑
PS2.3 य॒ज्ञ्स्य॑ क॒रोति॑ मिथु॒नं तदथो॒
PS2.4 पत्नि॑या ए॒वैष य॒ज्ञ्स्या᳚-न्वार॒भ्ॐऽन॑वच्छित्त्यै॒ वर्त्म॑ना॒
PS2.5 वा अ॒न्वित्य॑ य॒ज्ञ्ꣳ रक्षाꣳ॑सि
PS2.6 जिघाꣳसन्ति वैष्ण॒वीभ्या॑मृ॒ग्भ्यां ॅवर्त्म॑नो र्जुहोति
PS2.7 य॒ज्ञो वै विष्णु॑र्य॒ज्ञादे॒व रक्षाꣳ॒॒स्यप॑
PS2.8 हन्ति॒ यद॑द्ध्व॒र्यु-र॑न॒ग्ना-वाहु॑तिं जुहु॒या-द॒न्धो᳚ऽद्ध्व॒र्युः स्या॒द्-रक्षाꣳ॑सि
PS2.9 य॒ज्ञ्ꣳ ह॑न्यु॒र्- [ ]
PS3.1 -हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽद्ध्व॒र्युर्भव॑ति॒
PS3.2 न य॒ज्ञ्ꣳ रक्षाꣳ॑सि घ्नन्ति॒
PS3.3 प्राची॒ प्रेत॑मद्ध्व॒रं क॒ल्प॑यन्ती॒ इत्या॑ह
PS3.4 सुव॒र्गमे॒वैने॑ लो॒कं ग॑मय॒त्यत्र॑ रमेथां॒
PS3.5 ॅवर्ष्म॑न् पृथि॒व्या इत्या॑ह॒ वर्ष्म॒
PS3.6 ह्ये॑तत् पृ॑थि॒व्या यद् दे॑व॒यज॑नꣳ॒॒
PS3.7 शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॑
PS3.8 दि॒वो वा॑ विष्णवु॒त वा॑
PS3.9 पृथि॒व्या- [ ]
PS4.1 इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्द्धान॑स्य मे॒थीं
PS4.2 नि ह॑न्ति शीर्.ष॒त ए॒व
PS4.3 य॒ज्ञ्स्य॒ यज॑मान आ॒शिषोऽव॑ रुन्धे
PS4.4 द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्द्धान॑स्य
PS4.5 वषट्का॒रे-णाक्ष॑-मच्छिन॒द्-यत्-तृ॒तीयं॑ छ॒दिर्. ह॑वि॒र्द्धान॑यो-रुदाह्रि॒यते॑ तृ॒तीय॑स्य
PS4.6 हवि॒र्द्धान॒स्याव॑रुद्ध्यै॒ शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒
PS4.7 यद्ध॑वि॒र्द्धानं॒ ॅविष्णो॑ र॒राट॑मसि॒ विष्णोः᳚
PS4.8 पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तं॒
PS4.9 ॅविष्णोः॒ ( ) स्यूर॑सि॒
PS4.10 विष्णो᳚र्द्ध्रु॒वम॒सीत्या॑ह वैष्ण॒वꣳ हि दे॒वत॑या
PS4.11 हवि॒र्द्धानं॒ ॅयं प्र॑थ॒मं ग्र॒न्थिं
PS4.12 ग्र॑थ्नी॒याद्यत् तं न वि॑स्रꣳ॒॒
PS4.13 सये॒दमे॑हेनाद्ध्व॒र्युः प्रमी॑येत॒ तस्मा॒थ् स
PS4.14 वि॒स्रस्यः॑

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.2.9.1 TS 6.2.9.1
ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्रणे॑नेक्ति॒ मेद्ध्ये॑ ए॒वैने॑ करोति सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्द्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒ वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदक्षः॒ स यदु॒थ् सर्जे॒द्-यज॑मानस्य गृ॒हा-न॒भ्युथ्स॑र्जेथ् सु॒वाग्दे॑व॒ दुर्याꣳ॒॒ आ व॒देत्या॑ह गृ॒हा वै दुर्याः॒ शान्त्यै॒ पत्न्यु- [ ]
पदपाठः (Word-by-word)
ब॒द्धम् । अवेति॑ । स्य॒ति॒ । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । ए॒व । ए॒ने॒ इति॑ । मु॒ञ्च॒ति॒ । प्रेति॑ । ने॒ने॒क्ति॒ । मेद्ध्ये॒ इति॑ । ए॒व । ए॒ने॒ इति॑ । क॒रो॒ति॒ । सा॒वि॒त्रि॒या । ऋ॒चा । हु॒त्वा । ह॒वि॒द्‌र्धाने॒ इति॑ हविः-धाने᳚ । प्रेति॑ । व॒र्त॒य॒ति॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । ए॒व । ए॒ने॒ इति॑ । प्रेति॑ । व॒र्त॒य॒ति॒ । वरु॑णः । वै । ए॒षः । दु॒र्वागिति॑ दुः - वाक् । उ॒भ॒यतः॑ । ब॒द्धः । यत् । अक्षः॑ । सः । यत् । उ॒थ्सर्जे॒दित्यु॑त् - सर्जे᳚त् । यज॑मानस्य । गृ॒हान् । अ॒भ्युथ्स॑र्जे॒दित्य॑भि - उथ्स॑र्जेत् । सु॒वागिति॑ सु - वाक् । दे॒व॒ । दुर्यान्॑ । एति॑ । व॒द॒ । इति॑ । आ॒ह॒ । गृ॒हाः । वै । दुर्याः᳚ । शान्त्यै᳚ । पत्नी᳚ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

एतं मन्त्रं विनियोक्तुमुपोद्घातत्वेनानुष्ठेयं विधत्ते —

“बद्धमव स्यति वरुणापाशादेवैने मुञ्चति प्र णेनेक्ति मेध्ये एवैने करोति” (सं. का. ६ प्र. २ अ. ९) इति।

हविर्धाननामकयोः शकटयोर्यत्पूर्वं बद्धमासत्तदवस्यति मुञ्चेत्। प्रणेनेक्ति प्राक्षालयेत्।

मन्त्रविनियोगपूर्वकं शकटप्रेरणं विधत्ते —

“सावित्रियर्चा हुत्वा हविर्धाने प्र वर्तयति सवितृप्रसूत एवैने प्र वर्तयति” (सं. का. ६ प्र. २ अ. ९) इति।

सुवाक्शब्दापेयोगं दर्शयति —

‘वरुणो वा एष दुर्वागुभयतो बद्धो यदक्षः स यदुत्सर्जेद्यजमानस्य गृहानभ्युत्सर्जेत्सुवाग्देव दुर्या आ वदेत्याह गृहा वै दुर्याः शान्त्यै’ (सं. का. ६ प्र. २ अ. ९) इति।

अक्षस्य बन्धनहेतुपाशोपेतत्वाद्वरुणत्वम्। वरुणश्च क्रूरत्वाद्दुर्वाक्। उत्सर्जेत्, शब्दं कुर्यात्।

अक्षोपाञ्जनं विधत्ते —

“पत्न्युपानक्ति पत्नी हि सर्वस्य मित्रं मित्रत्वाय यद्वै पत्नी यज्ञस्य करोति मिथुनं तदथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै” (सं. का. ६ प्र. २ अ. ९) इति।

विधत्ते —

‘वर्त्मना वा अन्वित्य यज्ञ रक्षांसि जिघांसन्ति वैष्णवीभ्यामृग्म्यां वर्त्म-

नोर्जुहोति यज्ञो वै विष्णुर्यज्ञादेव रक्षांस्यपहन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।

वर्त्मना शकटमार्गेण। अन्वित्यानुप्रविश्य। यज्ञो देवेभ्यो निलायत विष्णूरूपं कृत्वेत्युक्तत्वाद्यज्ञस्य विष्णुत्वम्। अत एव वैष्णवमन्त्रोऽत्र न व्यधिकरणः। यज्ञादेव विष्णुरूपयज्ञद्वारेणैव।

होमाधारत्वेन हिरण्यप्रक्षेपं विधत्ते —

‘यदध्वर्युरनग्नावाहुतिं जुहुयादन्धोऽध्वर्युः स्याद्रक्षासि यज्ञ हन्युर्हिरण्यमुपास्य जुहोत्यग्निवत्येव जुहोति नान्धोऽध्वर्युर्भवति न यज्ञ रक्षासि घ्नन्ति’ (सं. का. ६ प्र. २ अ. ९) इति।

प्राक्शब्दतात्पर्यमाह —

‘प्राची प्रेतमध्वरं कल्पयन्ती इत्याह सुवर्गमेवैने लोकं गमयति’ (सं. का. ६ प्र. २ अ. ९) इति।

देवयजनरूपाया वेदेः पृथिवीशरीरत्वं यदिमामविन्दन्त तद्वेद्यै वेदित्वमित्येतस्मिन्ब्राह्मणे प्रसिद्धमाह —

‘अत्र रमेथां वर्ष्मन्पृथिव्या इत्याह वर्ष्म ह्येतत्पृथिव्या यद्देवयजनम्’ (सं. का. ६ प्र. २ अ. ९) इति।

मेथ्या निखननं विधत्ते —

‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं दिवो वा विष्णवुतं पृथिव्या इत्याशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुन्धे’ [सं. का. ६ प्र. २ अ. ९] इति।

यथा शिरसि चक्षुरादीनि गोलकानि निधीयन्ते तथा हविर्द्रव्याणि शकटे निधीयन्त इति हविर्धानस्य यज्ञशिरस्त्वम्। हस्तौ पृणस्वाऽऽप्रयच्छेत्याशीर्यस्या ऋचः पदेषु प्रतीयते सेयमृगाशीर्पदा। यद्यप्येषा मेथीं न प्रकाशयति तथाऽपि

वाचनिकोऽत्र विनियोगः। अनेन मन्त्रेण यज्ञशिरसो हविर्धानाद्यजमान आशिषः प्राप्नोति।

आच्छादकं विधत्ते —

‘दण्डो वा औपरस्तृतीयस्य हविर्धानस्य वषट्कारेणाक्षमच्छिनद्यत्तृतीयं छदिर्हविर्धानयोरुदाह्रियते तृतीयस्य हविर्धानस्यावरुद्ध्यै’ (सं. का. ६ प्र. २ अ. ९) इति।

दण्डो नाम कश्चिदसुर उपरनामकस्यासुरस्य पुत्रो वषट्कारदेवेन सह मैत्रीं कृत्वा तद्द्वारा प्रविश्य तृतीयस्य शकटस्याक्षमच्छिनत्। अतस्तृतीयस्य शकटस्य प्रतिनिधित्वेनैकैकस्य शकटस्योर्ध्वं तृणादिनिर्मितं छदिः स्थापयेत्। तत्र दक्षिणोत्तरपार्श्वयोः परिश्रयणार्थे द्वे छदिषी अपेक्ष्य तृतीयम्। अथ शकटे अन्तर्भाव्य हविर्धानाख्यं मण्डपं निर्मातव्यम्। तत्र दक्षिणशकटात्पुरतो ग्रहासादनायावकाशं शिष्ट्वा दक्षिणोत्तररूपेण षट्संख्याकाः स्थूणा निखातव्याः। एवं पश्चाद्भागे षट् स्थूणा निखातव्याः। तयोः स्थूणापङ्क्त्योरुदञ्चौ वंशावादधाति।

यज्ञपुरुषस्य हविर्धानाख्यं मण्डपं शिरस्तत्साम्यं मन्त्रैरुच्यत इत्याह —

‘शिरो वा एतद्यज्ञस्य यद्धविर्धानं विष्णो रराटमसि विष्णोः पृष्ठमसीत्याह तस्मादेतावद्धा शिरो विष्यूतम्’ (सं. का. ६ प्र. २ अ. ९) इति।

एका रराटी, एकं छदिः, द्वौ रराट्यन्ताविति यावन्तो मण्डपस्य प्रकारा एतावद्धैतावत्प्रकारं शिरो विश्वकर्मणा विशेषेण स्यूतं, शिरस्याच्छादिका त्वमेव च्छदिः स्थापनीया।

अत्र विष्णोरिति पष्ठ्या देवतात्वलक्षणः संबन्धो विवक्षित इत्याह —

‘विष्णोः सयूरसि विष्णोर्ध्रुवमसीत्याह वैष्णव देवतया हविर्धानम्’ (सं. का. ६ प्र. २ अ. ९) इति।

प्रज्ञातग्रन्थेर्विस्रंसनं विधत्ते —

‘यं प्रथमं ग्रन्थिं ग्रथ्नीयाद्यत्तं न विस्रसयेदमेहेनाध्वर्युः प्र मीयेत तस्मात्स विस्रस्यः’ (सं. का. ६ प्र. २ अ. ९) इति।

अमेहेन मूत्रनिरोधेन।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 बद्धमिति ।। बद्धं हविर्धानयोरक्षमवस्यति मुञ्चतीति विधिः । वरुणपाशादेव एने हविर्धाने वरुणदेवते मुञ्चति । प्रणेनेक्ति क्षाळयति । मेध्ये मेधार्हे एने करोति । सावित्र्यर्चा 'युञ्जते मन उत' इत्येतया सवितृप्रसूतः सवित्रा प्रसूतः सवित्राऽनुज्ञातः । वरुणो वा इति । वरुणः खल्वेष दुर्वाक् । दुष्टं वक्तीति दुर्वाक् । यदि वक्ति दुष्टमेव तदिति । 'क्विब्वचि' इत्यादिना क्विब्दीर्घौ, कृदुत्तरपदप्रकृतिस्वरत्वम् । क इत्याह - उभयतः उभाभ्यां बद्धो यदक्षो नाम' स यदुत्सर्जेत् शब्दं करोति यजमानस्य गृहानभ्युत्सर्जेत् । तान् लक्षीकृत्य शब्दं करोति तेष्वरिष्टं करोति तदोत्सर्जनेन, तस्मात् 'सुवाक्' इत्यादि जपेत् इति । गृहा वै दुर्याः यजमानसंबन्धिनोभिप्रेताः । तदुत्सर्जनशान्यै भवतीति ।।
2 पत्नी अक्षधुरे उपानक्तीति विधिः ।। पत्नी हि सर्वस्य मित्रं मित्रमिव; स्त्रीत्वात् । तस्मात्तया कृतमुपाञ्जनं मित्रत्वाय भवति वरुणस्य वा अक्षस्य वा । यद्वा इत्यादि । व्याख्यातम् ।।
3 वर्त्मनेत्यादि ।। वर्त्मना शकटमार्गेण अन्वित्यानुप्रविश्य यज्ञं रक्षांसि जिघांसन्ति हन्तुमिच्छन्ति तस्माद्वैष्णवीभ्यामृग्भ्यां वर्त्मनोर्जुहोति 'इद विष्णुः' , 'इरावती धेनुमती'39 इति द्वाभ्यां वर्त्मनोर्जुहोति । प्राधान्याद्दक्षिणस्योभयोः । उभयोर्वैकैकस्मिन् । यज्ञो वा इत्यादि । अयमेव वर्त्महोमलक्षणो यज्ञो विष्णुमन्त्रयोरुच्यते । तस्मादस्मादेव यज्ञान्निमित्ताद्रक्षांस्यपहन्ति ।।
4 यदध्वर्युरित्यादि ।। गतम् ।।
5 'प्राची' इत्यादिहविर्धानप्रवर्तनमन्त्रः । तं व्याचष्टे - सुवर्गमिति ।। तस्मात्प्राचीप्रेतमित्याह यस्माच्चाध्वरं कल्पयन्ति प्रेतमित्याह तेन हेतुना एने हविर्धाने सुवर्गं सुष्ठु गन्तव्यं लोक स्थानं हविर्धानगृहं गमयति । तत्र गमने हि तदुभयमुपपद्यते इति ।।
6 'अत्र'41 इति स्थापनमन्त्रः । तयोरेतद्धविर्धानं पृथिव्याः वर्ष्म उच्छ्रितं स्थानमेतत् । किम्? यत्र देवा इज्यन्ते तच्च हविर्धानमिति, तदधीनत्वाद्यज्ञस्य । शिरो वा इति । यज्ञस्यैतच्छिर इव प्राधान्यात् यद्धविर्धानं नाम ।।
7 दिव इत्यादि विधिः ।। आशीर्पदया आशीः आशासनीया अभिलषितविशेषाः पादेपादे यस्यां सा आशीर्पदा । 'पादस्य' इति लोपे, 'टाबृचि' इति टाप्, 'पादः पत्' इति पद्भावः, विसर्जनीयाभावश्छान्दसः । यज्ञस्य शिरस्तः .आशिषोवरुन्धे ।।
8 दण्ड इत्यादि ।। उपरस्य पुत्रः औपरः दण्डो नाम तृतीयहविर्धानस्याक्षं वषट्कारेणाच्छिनत् । यदि हविर्धानयोरुदाह्रियते उपर्याह्रियते तृतीयं छदिः तृतीयस्य हविर्धानस्यावरुद्ध्यै भवति अक्षस्य छिन्नत्वाच्छदिर्मात्रमेव हविर्धानत्वेन रूप्यते ।।
9 शिर इत्यादि ।। गतम् । हविर्धानशालानिमित्तमिदमुपलक्षणमिदमेव प्रतिपादयितुं मन्त्रद्वयोपादानम् । एतावद्धविर्धानमेव शिरस्थानीयं, यावत्प्रकारं विष्यूतं तावत्प्रकारं प्रजानां शिरो विष्यूतं विविधं स्यूतम् । अस्य च त्रिशब्दादित्वात्त्रिधा विष्यूतमिति गम्यते । यथोक्तं - 'तस्मान्नवधा शिरः' इति 'ते त्रयस्त्रिकपालाः'43 इति च । 'बहुगणवतु' इति संख्यात्वात् संख्याया विधार्थे धा, सिवेर्निष्ठायां 'छ्वोश्शूडनुनासिके च' इत्यूठ्, 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ।।
10 विष्णोरित्यादि ।। अवशेषमन्त्राणामुपलक्षणम् । वैष्णवमिति । देवतासंबन्धेन हविर्धानं वैष्णवम् । यमित्यादि । गतम् । अमेहो मेहनिरोधः । तस्माद्ग्रन्थिं मोचयति ।।
इति षष्ठे द्वितीये नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.2.9.2 TS 6.2.9.2
पा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रं मि॑त्र॒त्वाय॒ यद्वै पत्नी॑ य॒ज्ञ्स्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वैष य॒ज्ञ्स्या᳚-न्वार॒भ्ॐऽन॑वच्छित्त्यै॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्ति वैष्ण॒वीभ्या॑मृ॒ग्भ्यां ॅवर्त्म॑नो र्जुहोति य॒ज्ञो वै विष्णु॑र्य॒ज्ञादे॒व रक्षाꣳ॒॒स्यप॑ हन्ति॒ यद॑द्ध्व॒र्यु-र॑न॒ग्ना-वाहु॑तिं जुहु॒या-द॒न्धो᳚ऽद्ध्व॒र्युः स्या॒द्-रक्षाꣳ॑सि य॒ज्ञ्ꣳ ह॑न्यु॒र्- [ ]
पदपाठः (Word-by-word)
उपेति॑ । अ॒न॒क्ति॒ । पत्नी᳚ । हि । सर्व॑स्य । मि॒त्रम् । मि॒त्र॒त्वायेति॑ मित्र - त्वाय॑ । यत् । वै । पत्नी᳚ । य॒ज्ञ्स्य॑ । क॒रोति॑ । मि॒थु॒नम् । तत् । अथो॒ इति॑ । पत्नि॑याः । ए॒व । ए॒षः । य॒ज्ञ्स्य॑ । अ॒न्वा॒र॒भं इत्य॑नु - आ॒र॒भंः । अन॑वच्छित्त्या॒ इत्यन॑व - छि॒त्त्यै॒ । वर्त्म॑ना । वै । अ॒न्वित्येत्य॑नु - इत्य॑ । य॒ज्ञ्म् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । वै॒ष्ण॒वीभ्या᳚म् । ऋ॒ग्भ्यामित्यृ॑क्-भ्याम् । वर्त्म॑नोः । जु॒हो॒ति॒ । य॒ज्ञ्ः । वै । विष्णुः॑ । य॒ज्ञात् । ए॒व । रक्षाꣳ॑सि । अपेति॑ । ह॒न्ति॒ । यत् । अ॒द्ध्व॒र्युः । अ॒न॒ग्नौ । आहु॑ति॒मित्या - हु॒ति॒म् । जु॒हु॒यात् । अ॒न्धः । अ॒द्ध्व॒र्युः । स्या॒त् । रक्षाꣳ॑सि । य॒ज्ञ्म् । ह॒न्युः॒ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.2.9.3 TS 6.2.9.3
-हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽद्ध्व॒र्युर्भव॑ति॒ न य॒ज्ञ्ꣳ रक्षाꣳ॑सि घ्नन्ति॒ प्राची॒ प्रेत॑मद्ध्व॒रं क॒ल्प॑यन्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कं ग॑मय॒त्यत्र॑ रमेथां॒ ॅवर्ष्म॑न् पृथि॒व्या इत्या॑ह॒ वर्ष्म॒ ह्ये॑तत् पृ॑थि॒व्या यद् दे॑व॒यज॑नꣳ॒॒ शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॑ दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या- [ ]
पदपाठः (Word-by-word)
हिर॑ण्यम् । उ॒पास्येत्यु॑प - अस्य॑ । जु॒हो॒ति॒ । अ॒ग्नि॒वतीत्य॑ग्नि-वति॑ । ए॒व । जु॒हो॒ति॒ । न । अ॒न्धः । अ॒द्ध्व॒र्युः । भव॑ति । न । य॒ज्ञ्म् । रक्षाꣳ॑सि । घ्न॒न्ति॒ । प्राची॒ इति॑ । प्रेति॑ । इ॒त॒म् । अ॒द्ध्व॒रम् । क॒ल्प॑यन्ती॒ इति॑ । इति॑ । आ॒ह॒ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । ए॒ने॒ इति॑ । लो॒कम् । ग॒म॒य॒ति॒ । अत्र॑ । र॒मे॒था॒म् । वर्ष्मन्न्॑ । पृ॒थि॒व्याः । इति॑ । आ॒ह॒ । वर्ष्म॑ । हि । ए॒तत् । पृ॒थि॒व्याः । यत् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्‌र्धान॒मिति॑ हविः-धान᳚म् । दि॒वः । वा॒ । वि॒ष्णो॒ । उ॒त । वा॒ । पृ॒थि॒व्याः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.2.9.4 TS 6.2.9.4
इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्द्धान॑स्य मे॒थीं नि ह॑न्ति शीर्.ष॒त ए॒व य॒ज्ञ्स्य॒ यज॑मान आ॒शिषोऽव॑ रुन्धे द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्द्धान॑स्य वषट्का॒रे-णाक्ष॑-मच्छिन॒द्-यत्-तृ॒तीयं॑ छ॒दिर्. ह॑वि॒र्द्धान॑यो-रुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्द्धान॒स्याव॑रुद्ध्यै॒ शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॒ ॅविष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तं॒ ॅविष्णोः॒ ( ) स्यूर॑सि॒ विष्णो᳚र्द्ध्रु॒वम॒सीत्या॑ह वैष्ण॒वꣳ हि दे॒वत॑या हवि॒र्द्धानं॒ ॅयं प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत् तं न वि॑स्रꣳ॒॒ सये॒दमे॑हेनाद्ध्व॒र्युः प्रमी॑येत॒ तस्मा॒थ् स वि॒स्रस्यः॑ ॥
पदपाठः (Word-by-word)
इति॑ । आ॒शीर्प॑द॒येत्या॒शीः - प॒द॒या॒ । ऋ॒चा । दक्षि॑णस्य । ह॒वि॒द्‌र्धान॒स्येति॑ हविः - धान॑स्य । मे॒थीम् । नीति॑ । ह॒न्ति॒ । शी॒र्॒.ष॒तः । ए॒व । य॒ज्ञ्स्य॑ । यज॑मानः । आ॒शिष॒ इत्या᳚ - शिषः॑ । अवेति॑ । रु॒न्धे॒ । द॒ण्डः । वै । औ॒प॒रः । तृ॒तीय॑स्य । ह॒वि॒द्‌र्धान॒स्येति॑ हविः - धान॑स्य । व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । अक्ष᳚म् । अ॒च्छि॒न॒त् । यत् । तृ॒तीय᳚म् । छ॒दिः । ह॒वि॒द्‌र्धान॒योरिति॑ हविः-धान॑योः । उ॒दा॒ह्रि॒यत॒ इत्यु॑त् - आ॒ह्रि॒यते᳚ । तृ॒तीय॑स्य । ह॒वि॒द्‌र्धान॒स्येति॑ हविः - धान॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्‌र्धान॒मिति॑ हविः-धान᳚म् । विष्णोः᳚ । र॒राट᳚म् । अ॒सि॒ । विष्णोः᳚ । पृ॒ष्ठम् । अ॒सि॒ । इति॑ । आ॒ह॒ । तस्मा᳚त् । ए॒ता॒व॒द्धेत्ये॑तावत् - धा । शिरः॑ । विष्यू॑त॒मिति॒ वि - स्यू॒त॒म् । विष्णोः᳚ ( ) । स्यूः । अ॒सि॒ । विष्णोः᳚ । ध्रु॒वम् । अ॒सि॒ । इति॑ । आ॒ह॒ । वै॒ष्ण॒वम् । हि । दे॒वत॑या । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् । यम् । प्र॒थ॒मम् । ग्र॒न्थिम् । ग्र॒थ्नी॒यात् । यत् । तम् । न । वि॒स्रꣳ॒॒सये॒दिति॑ वि - स्रꣳ॒॒सये᳚त् । अमे॑हेन । अ॒द्ध्व॒र्युः । प्रेति॑ । मी॒ये॒त॒ । तस्मा᳚त् । सः । वि॒स्रस्य॒ इति॑ वि-स्रस्यः॑ ॥
पदसंख्या: 76