पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
तद्विस्पष्टयितुमादावग्निमन्थनमन्त्रान्व्याचिख्यासुर्मन्थनविशिष्टमग्निप्रहरणं विधत्ते —
“ साध्या वै देवा अस्मिल्लोँक आसन्नान्यत्किंचन मिषत्तेऽग्निमेवाग्नये मेधायाऽऽलभन्त न ह्यन्यदालम्भ्यमविन्दन्ततो वा इमाः प्रजाः प्राजायन्त यदग्नावग्रिं मथित्वा प्रहरति प्रजानां प्रजननाय ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ५] इति।
मनुष्यपश्वादिसृष्टेः पुरा लोके साध्यनामका देवा एवाऽऽसन्। अन्यत्किमपि मिषत्प्राणिजातं नाऽऽसीत्। ते च साध्याः प्रजाकामास्तद्धेतवे यज्ञायाऽऽलभन्त(म्भन) योग्यमन्यत्पशुजातमलब्ध्वाऽग्निमेव पशुत्वेनाग्नये देवताया आलभन्त पुरुषारण्यपशुन्यायेन पर्यग्निकरणान्तासंस्कारानकुर्वत।
तत्र प्रथमपक्षे दोषमाह —
“ रुद्रो वा एष यदग्निर्यजमानः पशुर्यत्पशुमालभ्याग्निं मन्येद्रुद्राय यजमानमपि दध्यात्प्रमायुकः स्यात् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति। रुद्रः क्रूरः। पशोर्यजमाननिष्क्रयणरूपत्वात्पशुरेव यजमानः। ततः आलम्भादूर्ध्वमग्निमन्थने हविर्भूतं यजमानमपि रुद्राय दद्यात्। ततो यजमानो मरणशीलः स्यात्।
तस्मिन्नेव पक्षे गुणमपि दर्शयति —
“ अथो खल्वाहुरग्निः सर्वा देवता हविरेतद्यत्पशुरिति यत्पशुमालभ्याग्निं मन्थति हव्यायैवाऽऽसन्नाय सर्वा देवता जनयति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।
द्वितीयपक्षं सिद्धान्तत्वेनोपादत्ते —
“उपाकृत्यैव मन्थ्यस्तन्नेवाऽऽलब्धं नेवानालब्धम्” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति।
उपाकरणेनाऽऽलम्भ उपक्रान्तोऽतो यथोक्तगुणः सिध्यति। अमारणेनासमाप्तत्वाद्यथोक्तदोषो न भविष्यति।
द्वयोर्मन्त्रयोरर्थे प्रसिद्धिं दर्शयति —
“ अग्नेर्जनित्रमसीत्याहाग्नेर्ह्येतज्जनित्रं वृषणौ स्थ इत्याह वृषणौ ह्येतौ ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।
स्त्रीमन्त्रपुरुषमन्त्रतत्समवधानमन्त्रैर्मिथुनत्वसिद्धिं दर्शयति —
“ उर्वश्यस्यायुरसीत्याह मिथुनत्वाय ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।
वृषणशब्देन निषिक्तवीर्यस्थानीय उत्पाद्यो वह्निर्विवक्षित इत्याह —
“ घृतेनाक्ते वृषणं दधाथामित्याह वृषण ह्येते दधाते ये अग्निम् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।
ये अधरोत्तरारणी वह्निं धारयत एते वृषणं सिक्तवीर्यं दधाते इति मन्त्रेणोच्यते।
छन्दसां साधनत्वमनेन मन्त्रेण दर्शितमित्याह —
‘गायत्रं छन्दोऽनु प्र जायस्वेत्याह छन्दोभिरेवैनं प्र जनयति’ (सं० का० ६ प्र० ३ अ० ५) इति।
होतारं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति —
‘अग्नये मथ्यमानायानु ब्रूहीत्याह ’ (सं० का० प्र० ३ अ० ५) इति।
होतुरभि त्वा देव सवितरित्येतामृचं विधत्ते —
‘ सावित्रीमृचमन्वाह सवितृप्रसूत एवैनं मन्थति ’ (सं० का० ६ प्र० ३ अ० ५) इति।
पुनः प्रैषद्वयमुत्पादयति —
‘ जातायानु ब्रूहि प्रह्रियमाणायानु ब्रूहीत्याह काण्डेकाण्ड एवैनं क्रियमाणे समर्धयति ’ (सं० का० ६ प्र० ३ अ० ५) इति।
मन्थनकाण्ड एकः। मथितस्य जन्मकाण्डोऽपरः। जातस्य पूर्वाग्नौ प्रहरणकाण्डोऽन्यः। तत्र सर्वत्र प्रैषे सति मन्त्रैरग्निः समृद्धो भवति।
होतृमन्त्रान्विधत्ते —
‘ गायत्रीः सर्वा अन्वाह गायत्रछन्दा वा अग्निः स्वेनैवैनं छन्दसा समर्धयति ’ (सं० का० ६ प्र० ३ अ० ५) इति।
मन्थनकालेऽनुवचनीया अभि त्वा देव सवितरित्याद्याः। जाते सति उत ब्रुवन्तु जन्तव इत्यादिकमनुब्रूयात्। प्रहरणकाले प्र देवं देववीतय इत्यादिकमनुब्रूयात्। ताः सर्वा ऋचो गायत्र्यः। अग्निश्च गायत्र्या सहोत्पन्नत्वाद्गायत्रछन्दाः।
शिवौ भवतमिति प्रार्थनायाः प्रसक्तिं दर्शयति —
‘अग्निः पुरा भवत्याग्निं मथित्वा प्र हरति तौ संभवन्तौ यजमानमभि संभवतो भवतं नः समनसावित्याह शान्त्यै ’ [सं० का० ६ प्र० ३ अ० ५] इति।
यजमानं भक्षयितुमभिलक्ष्य परस्परसंयुक्तत्वात्तच्छान्त्यै प्रार्थनीयौ। अग्नाव-ग्निरिति मन्त्र उपेक्षितः।
विधत्ते—
‘ प्रहृत्य जुहोति जातायैवास्मा अन्नमपि दधात्याज्येन जुहोत्येतद्वा अग्नेः प्रियं धाम यदाज्यं प्रियेणैवैनं धाम्ना समर्धयत्यथो तेजसा ’ [सं० का० ६ प्र० ३ अ० ६] इति। समर्धयतीत्यन्वयः।
उत्तरभाविनोऽपि मन्थनमन्त्रा औत्सुक्येनाऽऽदौ व्याख्याताः।