अनुवाकः 5 TS 6.3.5

(A5)

(यज॑मान-माह॒ वृष॑णौ-जा॒तायानु॑ ब्रू॒ह्या-प्य॒ -ष्टाद॑श च)

अनुवाकः 5 - Complete Audio

TS 6.3.5 - स्वरानुगामी

0:00 0:00
PS1.1 सा॒द्ध्या वै दे॒वा अ॒स्मिॅल्लो॒क
PS1.2 आ॑स॒न् नान्यत् किं॑ च॒न
PS1.3 मि॒षत् ते᳚ऽग्निमे॒वाग्नये॒ मेधा॒या ऽल॑भन्त॒
PS1.4 न ह्य॑न्यदा॑ल॒भ्यं॑-मवि॑न्द॒न् ततो॒ वा
PS1.5 इ॒माः प्र॒जाः प्राजा॑यन्त॒ यद॒ग्नाव॒ग्निं
PS1.6 म॑थि॒त्वा प्र॒हर॑ति प्र॒जानां᳚ प्र॒जन॑नाय
PS1.7 रु॒द्रो वा ए॒ष यद॒ग्निर्यज॑मानः
PS1.8 प॒शुर्यत् प॒शुमा॒लभ्या॒ग्निं मन्थे᳚द् रु॒द्राय॒
PS1.9 यज॑मान॒- [ ]
PS2.1 -मपि॑ दद्ध्यात् प्र॒मायु॑कः स्या॒दथो॒
PS2.2 खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॑ ह॒विरे॒तद्यत्
PS2.3 प॒शुरिति॒ यत् प॒शुमा॒लभ्या॒ग्निं मन्थ॑ति
PS2.4 ह॒व्यायै॒वाऽऽ*स॑न्नाय॒ सर्वा॑ दे॒वता॑ जनय-त्युपा॒कृत्यै॒व
PS2.5 मन्थ्य॒-स्तन्नेवाऽऽ*ल॑ब्धं॒ नेवाना॑लब्ध-म॒ग्ने-र्ज॒नित्र॑-म॒सीत्या॑हा॒ग्नेर्ह्ये॑त-ज्ज॒नित्रं॒ ॅवृष॑णौ स्थ॒
PS2.6 इत्या॑ह॒ वृष॑णौ॒- [ ]
PS3.1 ह्ये॑ता-वु॒र्वश्य॑स्या॒यु-र॒सीत्या॑ह मिथुन॒त्वाय॑ घृ॒तेना॒क्ते वृष॑णं
PS3.2 दधाथा॒मित्या॑ह॒ वृष॑णꣳ॒॒ ह्ये॑ते दधा॑ते॒
PS3.3 ये अ॒ग्निं गा॑य॒त्रं छन्दोऽनु॒
PS3.4 प्र जा॑य॒स्वेत्या॑ह॒ छन्दो॑भिरे॒वैनं॒ प्र
PS3.5 ज॑नयत्य॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह सावि॒त्रीमृच॒मन्वा॑ह
PS3.6 सवि॒तृप्र॑सूत ए॒वैनं॑ मन्थति जा॒तायानु॑
PS3.7 ब्रूहि- [ ]
PS4.1 प्रह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड ए॒वैनं॑
PS4.2 क्रि॒यमा॑णे॒ सम॑र्द्धयति गाय॒त्रीः सर्वा॒
PS4.3 अन्वा॑ह गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः
PS4.4 स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्द्धयत्य॒ग्निः पु॒रा
PS4.5 भव॑त्य॒ग्निं म॑थि॒त्वा प्र ह॑रति॒
PS4.6 तौ स॒भंव॑न्तौ॒ यज॑मानम॒भि सं
PS4.7 भ॑वतो॒ भव॑तं नः॒ सम॑नसा॒वित्या॑ह॒
PS4.8 शान्त्यै᳚ प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒
PS4.9 अन्न॒मपि॑ ( ) दधा॒त्याज्ये॑न
PS4.10 जुहोत्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒
PS4.11 यदाज्यं॑ प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्द्धय॒त्यथो॒
PS4.12 तेज॑सा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.3.5.1 TS 6.3.5.1
सा॒द्ध्या वै दे॒वा अ॒स्मिॅल्लो॒क आ॑स॒न् नान्यत् किं॑ च॒न मि॒षत् ते᳚ऽग्निमे॒वाग्नये॒ मेधा॒या ऽल॑भन्त॒ न ह्य॑न्यदा॑ल॒भ्यं॑-मवि॑न्द॒न् ततो॒ वा इ॒माः प्र॒जाः प्राजा॑यन्त॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति प्र॒जानां᳚ प्र॒जन॑नाय रु॒द्रो वा ए॒ष यद॒ग्निर्यज॑मानः प॒शुर्यत् प॒शुमा॒लभ्या॒ग्निं मन्थे᳚द् रु॒द्राय॒ यज॑मान॒- [ ]
पदपाठः (Word-by-word)
सा॒द्ध्याः । वै । दे॒वाः । अ॒स्मिन्न् । लो॒के । आ॒स॒न्न् । न । अ॒न्यत् । किम् । च॒न । मि॒षत् । ते । अ॒ग्निम् । ए॒व । अ॒ग्नये᳚ । मेधा॑य । एति॑ । अ॒ल॒भ॒न्त॒ । न । हि । अ॒न्यत् । आ॒ल॒भ्यं॑मित्या᳚-ल॒भ्यं᳚म् । अवि॑न्दन्न् । ततः॑ । वै । इ॒माः । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । अ॒जा॒य॒न्त॒ । यत् । अ॒ग्नौ । अ॒ग्निम् । म॒थि॒त्वा । प्र॒हर॒तीति॑ प्र - हर॑ति । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒जन॑ना॒येति॑ प्र-जन॑नाय । रु॒द्रः । वै । ए॒षः । यत् । अ॒ग्निः । यज॑मानः । प॒शुः । यत् । प॒शुम् । आ॒लभ्येत्या᳚ - लभ्य॑ । अ॒ग्निम् । मन्थे᳚त् । रु॒द्राय॑ । यज॑मानम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

तद्विस्पष्टयितुमादावग्निमन्थनमन्त्रान्व्याचिख्यासुर्मन्थनविशिष्टमग्निप्रहरणं विधत्ते —

“ साध्या वै देवा अस्मिल्लोँक आसन्नान्यत्किंचन मिषत्तेऽग्निमेवाग्नये मेधायाऽऽलभन्त न ह्यन्यदालम्भ्यमविन्दन्ततो वा इमाः प्रजाः प्राजायन्त यदग्नावग्रिं मथित्वा प्रहरति प्रजानां प्रजननाय ” [सं॰ का॰ ६ प्र॰ ३ अ॰ ५] इति।

मनुष्यपश्वादिसृष्टेः पुरा लोके साध्यनामका देवा एवाऽऽसन्। अन्यत्किमपि मिषत्प्राणिजातं नाऽऽसीत्। ते च साध्याः प्रजाकामास्तद्धेतवे यज्ञायाऽऽलभन्त(म्भन) योग्यमन्यत्पशुजातमलब्ध्वाऽग्निमेव पशुत्वेनाग्नये देवताया आलभन्त पुरुषारण्यपशुन्यायेन पर्यग्निकरणान्तासंस्कारानकुर्वत।

तत्र प्रथमपक्षे दोषमाह —

“ रुद्रो वा एष यदग्निर्यजमानः पशुर्यत्पशुमालभ्याग्निं मन्येद्रुद्राय यजमानमपि दध्यात्प्रमायुकः स्यात् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति। रुद्रः क्रूरः। पशोर्यजमाननिष्क्रयणरूपत्वात्पशुरेव यजमानः। ततः आलम्भादूर्ध्वमग्निमन्थने हविर्भूतं यजमानमपि रुद्राय दद्यात्। ततो यजमानो मरणशीलः स्यात्।

तस्मिन्नेव पक्षे गुणमपि दर्शयति —

“ अथो खल्वाहुरग्निः सर्वा देवता हविरेतद्यत्पशुरिति यत्पशुमालभ्याग्निं मन्थति हव्यायैवाऽऽसन्नाय सर्वा देवता जनयति ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।

द्वितीयपक्षं सिद्धान्तत्वेनोपादत्ते —

“उपाकृत्यैव मन्थ्यस्तन्नेवाऽऽलब्धं नेवानालब्धम्” [सं॰ का॰ ६ प्र॰ ३ अ॰ ३] इति।

उपाकरणेनाऽऽलम्भ उपक्रान्तोऽतो यथोक्तगुणः सिध्यति। अमारणेनासमाप्तत्वाद्यथोक्तदोषो न भविष्यति।

द्वयोर्मन्त्रयोरर्थे प्रसिद्धिं दर्शयति —

“ अग्नेर्जनित्रमसीत्याहाग्नेर्ह्येतज्जनित्रं वृषणौ स्थ इत्याह वृषणौ ह्येतौ ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।

स्त्रीमन्त्रपुरुषमन्त्रतत्समवधानमन्त्रैर्मिथुनत्वसिद्धिं दर्शयति —

“ उर्वश्यस्यायुरसीत्याह मिथुनत्वाय ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ३) इति।

वृषणशब्देन निषिक्तवीर्यस्थानीय उत्पाद्यो वह्निर्विवक्षित इत्याह —

“ घृतेनाक्ते वृषणं दधाथामित्याह वृषण ह्येते दधाते ये अग्निम् ” (सं॰ का॰ ६ प्र॰ ३ अ॰ ५) इति।

ये अधरोत्तरारणी वह्निं धारयत एते वृषणं सिक्तवीर्यं दधाते इति मन्त्रेणोच्यते।

छन्दसां साधनत्वमनेन मन्त्रेण दर्शितमित्याह —

‘गायत्रं छन्दोऽनु प्र जायस्वेत्याह छन्दोभिरेवैनं प्र जनयति’ (सं० का० ६ प्र० ३ अ० ५) इति।

होतारं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति —

‘अग्नये मथ्यमानायानु ब्रूहीत्याह ’ (सं० का० प्र० ३ अ० ५) इति।

होतुरभि त्वा देव सवितरित्येतामृचं विधत्ते —

‘ सावित्रीमृचमन्वाह सवितृप्रसूत एवैनं मन्थति ’ (सं० का० ६ प्र० ३ अ० ५) इति।

पुनः प्रैषद्वयमुत्पादयति —

‘ जातायानु ब्रूहि प्रह्रियमाणायानु ब्रूहीत्याह काण्डेकाण्ड एवैनं क्रियमाणे समर्धयति ’ (सं० का० ६ प्र० ३ अ० ५) इति।

मन्थनकाण्ड एकः। मथितस्य जन्मकाण्डोऽपरः। जातस्य पूर्वाग्नौ प्रहरणकाण्डोऽन्यः। तत्र सर्वत्र प्रैषे सति मन्त्रैरग्निः समृद्धो भवति।

होतृमन्त्रान्विधत्ते —

‘ गायत्रीः सर्वा अन्वाह गायत्रछन्दा वा अग्निः स्वेनैवैनं छन्दसा समर्धयति ’ (सं० का० ६ प्र० ३ अ० ५) इति।

मन्थनकालेऽनुवचनीया अभि त्वा देव सवितरित्याद्याः। जाते सति उत ब्रुवन्तु जन्तव इत्यादिकमनुब्रूयात्। प्रहरणकाले प्र देवं देववीतय इत्यादिकमनुब्रूयात्। ताः सर्वा ऋचो गायत्र्यः। अग्निश्च गायत्र्या सहोत्पन्नत्वाद्गायत्रछन्दाः।

शिवौ भवतमिति प्रार्थनायाः प्रसक्तिं दर्शयति —

‘अग्निः पुरा भवत्याग्निं मथित्वा प्र हरति तौ संभवन्तौ यजमानमभि संभवतो भवतं नः समनसावित्याह शान्त्यै ’ [सं० का० ६ प्र० ३ अ० ५] इति।

यजमानं भक्षयितुमभिलक्ष्य परस्परसंयुक्तत्वात्तच्छान्त्यै प्रार्थनीयौ। अग्नाव-ग्निरिति मन्त्र उपेक्षितः।

विधत्ते—

‘ प्रहृत्य जुहोति जातायैवास्मा अन्नमपि दधात्याज्येन जुहोत्येतद्वा अग्नेः प्रियं धाम यदाज्यं प्रियेणैवैनं धाम्ना समर्धयत्यथो तेजसा ’ [सं० का० ६ प्र० ३ अ० ६] इति। समर्धयतीत्यन्वयः।

उत्तरभाविनोऽपि मन्थनमन्त्रा औत्सुक्येनाऽऽदौ व्याख्याताः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 साध्या वा इत्यादि ।। यदुक्तं 'यदग्नावग्निं मथित्वा प्रहरति' इति तदधिकृत्यायमनुवाकः । अस्मिन्मनुष्यलोके साध्या देवाः पूर्वमासन्, न त्वन्यत्किंचिदपि मिषत् प्राणिवस्त्वासीत् तेजोभावात् । अग्निमेवाग्नये आलभन्त मेधार्थं यज्ञसिद्ध्यर्थम्, न ह्यन्यदालम्भ्यं आलम्भनार्हं अजादिकमविन्दन् अलभन्तल । अर्हे कृत्यः । 'आङो यि' इति नुमागमः, 'हि च' इति निघातप्रतिषेधः ।।
2 ततो वा इत्यादि ।। रुद्रो वा इत्यादि । गतम् । अपिदध्यादिति । अग्नये रुद्रात्मने हविर्भूतं यजमानमुपस्थाप्य अविहितं कुर्यात्, ततोसौ प्रमायुको मरणशीलस्स्यात् । मीञ् हिंसायां, छान्दस उकञ् । पशुमालभ्य मथनपक्षो दूषितः ।।
3 इदानीं पक्षमिमं स्थापयति - अथो इति ।। अग्निर्नाम हदिरिति वेदार्थविद आहुः । इदानीमालभ्यैव पशुं अग्निं मन्थेत् । एवं ह्यासन्नहविरर्थं सर्वा देवता जनयति सन्निधापयति हविरासाद्यैव तद्भागिनीर्देवतास्सन्निधापयति हविष्यासन्ने सुखसन्निधापनात् सर्वा देवता भवन्तीति तस्मादालभ्य मन्थ्य इति स्थिते पुनरप्युक्तदोषभयात् पक्षान्तरमप्याह - उपाकृत्यैव उपाकरणानन्तरमेव मन्थ्यः, न त्वालभ्यः । कः पुनरेवं गुणो लभ्यते इत्याह - तदित्यादि । भावे निष्ठा, व्यत्ययेन गतेः प्रकृतिस्वरत्वम् । यद्वा - कर्मण्येव, तत्पश्वाख्यं हविर्नालब्धमिव लब्धमिति व्यपदेशं तावन्नार्हति; अमरणात् । अनालब्धमिव च न भवति अनालब्धमित्यपि वक्तुं न शक्यते; उपाकृतत्वात्, आलम्भारम्भत्वादुपाकरणस्य । तस्मादनालब्धत्वात् रुद्रायापिधानदोषाभावः । आलब्धत्वाच्च हविरासाद्य देवतासन्निधापनाय गुणलाभः ।।
4 अग्नेर्जनित्रमसि' इत्यादि मन्थनशकलनिधानम् ।। अग्नेर्ह्येतज्जनित्रं शकलं जन्महेतुः प्रजननस्थानीयत्वात् । 'अग्नित्रादिभ्यः' इत्यतोपि जनेरित्रः ।।
5 वृषणौ स्थः' इति वृषणौ दधाति ।। वृषणौ ह्येतौ शकलविशेषौ, दर्भौ वा तत्स्थानीयत्वात् । वृषेः कनिन्प्रत्यये' वा 'षपूर्वस्य नियमे' इति दीर्घाभावः ।।
6 अधरोत्तरयोररण्योरादानं क्रमेण - 'उर्वश्यसि, आयुरसि, पुरूरवाः'32 इति ।। मिथुनत्वाय भवति, स्त्रीपुंसलिङ्गत्वादुभयोः ।।
7 आज्यस्थाल्यामरणी समनक्ति - घृतेनेति ।। वृषणं वर्षितारं कामानामेते दधाते, ये अग्निं दधाते इत्येव । तस्माद्वृषणं दधाथामित्युच्यते इति भावः । 'हि च' इति निघाताभावः, 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ।।
8 'गायत्रं छन्दोनु प्र जायस्व' इत्याद्याः प्रजायोनीः यजमानं वाचयति प्रजनयितुर्वचनं, 'प्र जायस्व'33 इति मन्त्रलिङ्गात् । यद्वा - वचनेन हेतुना छन्दोभिरग्निं प्रजनयति ।।
9 'अग्नये मथ्यमानायानु ब्रूहि'33 इति संप्रैषमेतमाहाध्वर्युः । अथ होता सावित्रीमृचमन्वाह - 'अभि त्वा देव सवितः' इति । सवित्राऽनुज्ञात एवाग्निं मन्थति । 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । 'जातायानु ब्रूहि' इति जातेऽग्नौ संप्रेष्यति । प्रह्रियमाणायेति । प्रहरन् काण्डेकाण्डे पर्वणिपर्वणि कर्मपर्वणि क्रियमाणे एनमग्निं समृद्धं करोत्येभिस्संप्रैषैरिति । गायत्रीरिति । सर्वेषु संप्रैषेषु होता गायत्रीरेव सर्वा अनुवाक्या अन्वाह, गायत्रछन्दस्त्वादग्नेः । तस्मादात्मीयच्छन्दोलाभेन अग्निस्समृद्धो भवति ।।
10 अग्निः पुरेत्यादि ।। अग्निः पूर्वमेवास्मिन्नायतने आहवनीयाख्ये । मथित्वा चान्यमग्निमस्मिन् प्रहरति । तावग्नी संभवन्तौ यजमानमभिसंभवतः विप्रतिपन्नमनस्कौ यजमानं ध्यायन्तावेव संभवन्तौ स्याताम् । मन्त्रलिङ्गं च 'भवतं नस्ममनसौ' इति । पूर्ववत्प्रथमा तिङ्विभक्तिर्न निहन्यते । भवतं न इति प्रहरणविशिष्टेनानेन मन्त्रेण शान्त्यै भवत्यग्नेः ।।
11 प्रहृत्येति ।। 'अग्नावग्निश्चरति' इति प्रहरणानन्तरं जुहोति, जातायाग्नये अन्नमदनीयमपिदधाति उपनिदधाति आज्येनेत्यादि । गतम् । धाम स्थानम् । तेजो दीप्तिः ।।
इति षष्ठे तृतीये पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.3.5.2 TS 6.3.5.2
-मपि॑ दद्ध्यात् प्र॒मायु॑कः स्या॒दथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॑ ह॒विरे॒तद्यत् प॒शुरिति॒ यत् प॒शुमा॒लभ्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वाऽऽ*स॑न्नाय॒ सर्वा॑ दे॒वता॑ जनय-त्युपा॒कृत्यै॒व मन्थ्य॒-स्तन्नेवाऽऽ*ल॑ब्धं॒ नेवाना॑लब्ध-म॒ग्ने-र्ज॒नित्र॑-म॒सीत्या॑हा॒ग्नेर्ह्ये॑त-ज्ज॒नित्रं॒ ॅवृष॑णौ स्थ॒ इत्या॑ह॒ वृष॑णौ॒- [ ]
पदपाठः (Word-by-word)
अपीति॑ । द॒द्ध्या॒त् । प्र॒मायु॑क॒ इति॑ प्र-मायु॑कः । स्या॒त् । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अ॒ग्निः । सर्वाः᳚ । दे॒वताः᳚ । ह॒विः । ए॒तत् । यत् । प॒शुः । इति॑ । यत् । प॒शुम् । आ॒लभ्येत्या᳚-लभ्य॑ । अ॒ग्निम् । मन्थ॑ति । ह॒व्याय॑ । ए॒व । आस॑न्ना॒येत्या-स॒न्ना॒य॒ । सर्वाः᳚ । दे॒वताः᳚ । ज॒न॒य॒ति॒ । उ॒पा॒कृत्येत्यु॑प - आ॒कृत्य॑ । ए॒व । मन्थ्यः॑ । तत् । न । इ॒व॒ । आल॑ब्ध॒मित्या - ल॒ब्ध॒म् । न । इ॒व॒ । आल॑ब्ध॒मित्यना᳚ - ल॒ब्ध॒म् । अ॒ग्नेः । ज॒नित्र᳚म् । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒ग्नेः । हि । ए॒तत् । ज॒नित्र᳚म् । वृष॑णौ । स्थः॒ । इति॑ । आ॒ह॒ । वृष॑णौ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.3.5.3 TS 6.3.5.3
ह्ये॑ता-वु॒र्वश्य॑स्या॒यु-र॒सीत्या॑ह मिथुन॒त्वाय॑ घृ॒तेना॒क्ते वृष॑णं दधाथा॒मित्या॑ह॒ वृष॑णꣳ॒॒ ह्ये॑ते दधा॑ते॒ ये अ॒ग्निं गा॑य॒त्रं छन्दोऽनु॒ प्र जा॑य॒स्वेत्या॑ह॒ छन्दो॑भिरे॒वैनं॒ प्र ज॑नयत्य॒ग्नये॑ म॒थ्यमा॑ना॒यानु॑ ब्रू॒हीत्या॑ह सावि॒त्रीमृच॒मन्वा॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ मन्थति जा॒तायानु॑ ब्रूहि- [ ]
पदपाठः (Word-by-word)
हि । ए॒तौ । उ॒र्वशी᳚ । अ॒सि॒ । आ॒युः । अ॒सि॒ । इति॑ । आ॒ह॒ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । घृ॒तेन॑ । अ॒क्ते इति॑ । वृष॑णम् । द॒धा॒था॒म् । इति॑ । आ॒ह॒ । वृष॑णम् । हि । ए॒ते इति॑ । दधा॑ते॒ इति॑ । ये इति॑ । अ॒ग्निम् । गा॒य॒त्रम् । छन्दः॑ । अनु॑ । प्रेति॑ । जा॒य॒स्व॒ । इति॑ । आ॒ह॒ । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । ए॒न॒म् । प्रेति॑ । ज॒न॒य॒ति॒ । अ॒ग्नये᳚ । म॒थ्यमा॑नाय । अन्विति॑ । ब्रू॒हि॒ । इति॑ । आ॒ह॒ । सा॒वि॒त्रीम् । ऋच᳚म् । अन्विति॑ । आ॒ह॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒न॒म् । म॒न्थ॒ति॒ । जा॒ताय॑ । अन्विति॑ । ब्रू॒हि॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.3.5.4 TS 6.3.5.4
प्रह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड ए॒वैनं॑ क्रि॒यमा॑णे॒ सम॑र्द्धयति गाय॒त्रीः सर्वा॒ अन्वा॑ह गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्द्धयत्य॒ग्निः पु॒रा भव॑त्य॒ग्निं म॑थि॒त्वा प्र ह॑रति॒ तौ स॒भंव॑न्तौ॒ यज॑मानम॒भि सं भ॑वतो॒ भव॑तं नः॒ सम॑नसा॒वित्या॑ह॒ शान्त्यै᳚ प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ ( ) दधा॒त्याज्ये॑न जुहोत्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्यं॑ प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्द्धय॒त्यथो॒ तेज॑सा ॥
पदपाठः (Word-by-word)
प्र॒ह्रि॒यमा॑णा॒येति॑ प्र - ह्रि॒यमा॑णाय । अन्विति॑ । ब्रू॒हि॒ । इति॑ । आ॒ह॒ । काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । ए॒व । ए॒न॒म् । क्रि॒यमा॑णे । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । गा॒य॒त्रीः । सर्वाः᳚ । अन्विति॑ । आ॒ह॒ । गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र-छ॒न्दाः॒ । वै । अ॒ग्निः । स्वेन॑ । ए॒व । ए॒न॒म् । छन्द॑सा । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । अ॒ग्निः । पु॒रा । भव॑ति । अ॒ग्निम् । म॒थि॒त्वा । प्रेति॑ । ह॒र॒ति॒ । तौ । स॒भंव॑न्ता॒विति॑ सं - भव॑न्तौ । यज॑मानम् । अ॒भि । समिति॑ । भ॒व॒तः॒ । भव॑तम् । नः॒ । सम॑नसा॒विति॒ स - म॒न॒सौ॒ । इति॑ । आ॒ह॒ । शान्त्यै᳚ । प्र॒हृत्येति॑ प्र-हृत्य॑ । जु॒हो॒ति॒ । जा॒ताय॑ । ए॒व । अ॒स्मै॒ । अन्न᳚म् । अपीति॑ ( ) । द॒धा॒ति॒ । आज्ये॑न । जु॒हो॒ति॒ । ए॒तत् । वै । अ॒ग्नेः । प्रि॒यम् । धाम॑ । यत् । आज्य᳚म् । प्रि॒येण॑ । ए॒व । ए॒न॒म् । धाम्ना᳚ । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । अथो॒ इति॑ । तेज॑सा ॥
पदसंख्या: 68