प्रह्रि॒यमा॑णा॒यानु॑ ब्रू॒हीत्या॑ह॒ काण्डे॑काण्ड ए॒वैनं॑ क्रि॒यमा॑णे॒ सम॑र्द्धयति गाय॒त्रीः सर्वा॒ अन्वा॑ह गाय॒त्रछ॑न्दा॒ वा अ॒ग्निः स्वेनै॒वैनं॒ छन्द॑सा॒ सम॑र्द्धयत्य॒ग्निः पु॒रा भव॑त्य॒ग्निं म॑थि॒त्वा प्र ह॑रति॒ तौ स॒भंव॑न्तौ॒ यज॑मानम॒भि सं भ॑वतो॒ भव॑तं नः॒ सम॑नसा॒वित्या॑ह॒ शान्त्यै᳚ प्र॒हृत्य॑ जुहोति जा॒तायै॒वास्मा॒ अन्न॒मपि॑ ( ) दधा॒त्याज्ये॑न जुहोत्ये॒तद्वा अ॒ग्नेः प्रि॒यं धाम॒ यदाज्यं॑ प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्द्धय॒त्यथो॒ तेज॑सा ॥
पदपाठः (Word-by-word)
प्र॒ह्रि॒यमा॑णा॒येति॑ प्र - ह्रि॒यमा॑णाय । अन्विति॑ । ब्रू॒हि॒ । इति॑ । आ॒ह॒ । काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । ए॒व । ए॒न॒म् । क्रि॒यमा॑णे । समिति॑ । अ॒द्र्ध॒य॒ति॒ । गा॒य॒त्रीः । सर्वाः᳚ । अन्विति॑ । आ॒ह॒ । गा॒य॒त्रछ॑न्दा॒ इति॑ गाय॒त्र-छ॒न्दाः॒ । वै । अ॒ग्निः । स्वेन॑ । ए॒व । ए॒न॒म् । छन्द॑सा । समिति॑ । अ॒द्र्ध॒य॒ति॒ । अ॒ग्निः । पु॒रा । भव॑ति । अ॒ग्निम् । म॒थि॒त्वा । प्रेति॑ । ह॒र॒ति॒ । तौ । स॒भंव॑न्ता॒विति॑ सं - भव॑न्तौ । यज॑मानम् । अ॒भि । समिति॑ । भ॒व॒तः॒ । भव॑तम् । नः॒ । सम॑नसा॒विति॒ स - म॒न॒सौ॒ । इति॑ । आ॒ह॒ । शान्त्यै᳚ । प्र॒हृत्येति॑ प्र-हृत्य॑ । जु॒हो॒ति॒ । जा॒ताय॑ । ए॒व । अ॒स्मै॒ । अन्न᳚म् । अपीति॑ ( ) । द॒धा॒ति॒ । आज्ये॑न । जु॒हो॒ति॒ । ए॒तत् । वै । अ॒ग्नेः । प्रि॒यम् । धाम॑ । यत् । आज्य᳚म् । प्रि॒येण॑ । ए॒व । ए॒न॒म् । धाम्ना᳚ । समिति॑ । अ॒द्र्ध॒य॒ति॒ । अथो॒ इति॑ । तेज॑सा ॥