अनुवाकः 11 TS 6.3.11

(A11)

(घ्नन्ति॒ - यन्तं॒ - खलु॑ - च॒तुरुप॑ ह्वयत॒ - आज्यं॒ - ॅयत् पृ॑षदा॒ज्येन॒ - षट् च॑)

अनुवाकः 11 - Complete Audio

TS 6.3.11 - स्वरानुगामी

0:00 0:00
PS1.1 मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒
PS1.2 वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑
PS1.3 दधाति यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒
PS1.4 वा ए॒ष प॑शू॒नां ॅयद्यू
PS1.5 रस॑मे॒व प॒शुषु॑ दधाति पा॒र्श्वेन॑
PS1.6 वसाहो॒मं प्रयौ॑ति॒ मद्ध्यं॒ ॅवा
PS1.7 ए॒तत् प॑शू॒नां ॅयत् पा॒र्श्वꣳ
PS1.8 रस॑ ए॒ष प॑शू॒नां ॅयद्वसा॒
PS1.9 यत् पा॒र्श्वेन॑ वसाहो॒मं प्र॒यौति॑
PS1.10 मद्ध्य॒त ए॒व प॑शू॒नाꣳ रसं॑
PS1.11 दधाति॒ घ्नन्ति॒- [ ]
PS2.1 वा ए॒तत् प॒शुं ॅयथ्
PS2.2 स᳚ज्ञ्ं॒पय॑न्त्यै॒न्द्रः खलु॒ वै दे॒वत॑या
PS2.3 प्रा॒ण ऐ॒न्द्रो॑ऽपा॒न ऐ॒न्द्रः प्रा॒णो
PS2.4 अङ्गे॑अङ्गे॒ नि दे᳚द्ध्य॒दित्या॑ह प्राणापा॒नावे॒व
PS2.5 प॒शुषु॑ दधाति॒ देव॑ त्वष्ट॒र्भूरि॑
PS2.6 ते॒ सꣳ स॑मे॒त्वित्या॑ह त्वा॒ष्ट्रा
PS2.7 हि दे॒वत॑या प॒शवो॒ विषु॑रूपा॒
PS2.8 यथ् सल॑क्ष्माणो॒ भव॒थेत्या॑ह॒ विषु॑रूपा॒
PS2.9 ह्ये॑ते सन्तः॒ सल॑क्ष्माण ए॒तर्.हि॒
PS2.10 भव॑न्ति देव॒त्रा यन्त॒- [
PS2.11 ]
PS3.1 -मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता
PS3.2 पि॒तरो॑ मद॒न्त्वित्या॒हा-नु॑मतमे॒वैनं॑ मा॒त्रा पि॒त्रा
PS3.3 सु॑व॒र्गं ॅलो॒कं ग॑मयत्यर्द्ध॒र्चे व॑साहो॒मं
PS3.4 जु॑होत्य॒सौ वा अ॑र्द्ध॒र्च इ॒यम॑र्द्ध॒च
PS3.5 इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑
PS3.6 जुहोति॒ दिश॑ ए॒व रसे॑नान॒क्त्यथो॑
PS3.7 दि॒ग्भ्य ए॒वोर्जꣳ॒॒ रस॒मव॑ रुन्धे
PS3.8 प्राणापा॒नौ वा ए॒तौ प॑शू॒नां
PS3.9 ॅयत् पृ॑षदा॒ज्यं ॅवा॑नस्प॒त्याः खलु॒-
PS3.10 [ ]
PS4.1 वै दे॒वत॑या प॒शवो॒ यत्
PS4.2 पृ॑षदा॒ज्यस्यो॑-प॒हत्याऽऽ*ह॒ वन॒स्पत॒येऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒
PS4.3 प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधात्य॒न्यस्या᳚न्यस्य
PS4.4 समव॒त्तꣳ स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाः प॒शवो॑
PS4.5 यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा
PS4.6 ए॒ष प॑शू॒नां ॅयद्यू रस॑मे॒व
PS4.7 प॒शुषु॑ दधा॒तीडा॒मुप॑ ह्वयते प॒शवो॒
PS4.8 वा इडा॑ प॒शूने॒वोप॑ ह्वयते
PS4.9 च॒तुरुप॑ ह्वयते॒- [ ]
PS5.1 चतु॑ष्पादो॒ हि प॒शवो॒ यं
PS5.2 का॒मये॑ता प॒शुः स्या॒दित्य॑मे॒दस्कं॒ तस्मा॒
PS5.3 आ द॑द्ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑
PS5.4 रू॒पेणै॒वैनं॑ प॒शुभ्यो॒ निर्भ॑जत्यप॒शुरे॒व भ॑वति॒
PS5.5 यं का॒मये॑त पशु॒मान्थ् स्या॒दिति॒
PS5.6 मेद॑स्व॒त् तस्मा॒ आ द॑द्ध्या॒न्मेदो॑रूपा॒
PS5.7 वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑
PS5.8 रुन्धे पशु॒माने॒व भ॑वति प्र॒जाप॑तिर्य॒ज्ञ्म॑सृजत॒
PS5.9 स आज्यं॑- [ ]
PS6.1 पु॒रस्ता॑दसृजत प॒शुं म॑द्ध्य॒तः पृ॑षदा॒ज्यं
PS6.2 प॒श्चात् तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते
PS6.3 प॒शुना॑ मद्ध्य॒तः पृ॑षदा॒ज्येना॑-नूया॒जा-स्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चाथ्
PS6.4 सृ॒ष्टꣳ ह्येका॑दशानूया॒जान्. य॑जति॒ दश॒
PS6.5 वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो
PS6.6 यावा॑ने॒व प॒शुस्तमनु॑ यजति॒ घ्नन्ति॒
PS6.7 वा ए॒तत् प॒शुं ॅयथ्
PS6.8 स᳚ज्ञ्ं॒पय॑न्ति प्रा॒णापा॒नौ खलु॒ वा
PS6.9 ए॒तौ प॑शू॒नां ॅयत् पृ॑षदा॒ज्यं
PS6.10 ॅयत् पृ॑षदा॒ज्येना॑ ( )
PS6.11 नूया॒जान्. यज॑ति प्राणापा॒नावे॒व प॒शुषु॑
PS6.12 दधाति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.3.11.1 TS 6.3.11.1
मेद॑सा॒ स्रुचौ॒ प्रोर्णो॑ति॒ मेदो॑रूपा॒ वै प॒शवो॑ रू॒पमे॒व प॒शुषु॑ दधाति यू॒षन्न॑व॒धाय॒ प्रोर्णो॑ति॒ रसो॒ वा ए॒ष प॑शू॒नां ॅयद्यू रस॑मे॒व प॒शुषु॑ दधाति पा॒र्श्वेन॑ वसाहो॒मं प्रयौ॑ति॒ मद्ध्यं॒ ॅवा ए॒तत् प॑शू॒नां ॅयत् पा॒र्श्वꣳ रस॑ ए॒ष प॑शू॒नां ॅयद्वसा॒ यत् पा॒र्श्वेन॑ वसाहो॒मं प्र॒यौति॑ मद्ध्य॒त ए॒व प॑शू॒नाꣳ रसं॑ दधाति॒ घ्नन्ति॒- [ ]
पदपाठः (Word-by-word)
मेद॑सा । स्रुचौ᳚ । प्रेति॑ । ऊ॒र्णो॒ति॒ । मेदो॑रूपा॒ इति॒ मेदः॑ - रू॒पाः॒ । वै । प॒शवः॑ । रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । यू॒षन्न् । अ॒व॒धायेत्य॑व-धाय॑ । प्रेति॑ । ऊ॒र्णो॒ति॒ । रसः॑ । वै । ए॒षः । प॒शू॒नाम् । यत् । यूः । रस᳚म् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । पा॒र्श्वेन॑ । व॒सा॒हो॒ममिति॑ वसा - हो॒मम् । प्रेति॑ । यौ॒ति॒ । मद्ध्य᳚म् । वै । ए॒तत् । प॒शू॒नाम् । यत् । पा॒र्श्वम् । रसः॑ । ए॒षः । प॒शू॒नाम् । यत् । वसा᳚ । यत् । पा॒र्श्वेन॑ । व॒सा॒हो॒ममिति॑ वसा - हो॒मम् । प्र॒यौतीति॑ प्र - यौति॑ । म॒द्ध्य॒तः । ए॒व । प॒शू॒नाम् । रस᳚म् । द॒धा॒ति॒ । घ्नन्ति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

विधत्ते —

‘मेदसा स्रुचौ प्रोर्णोति मेदोरूपा वै पशवा रूपमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

जीर्णपटसदृशं हृदयवेष्टनं मेदः। स्रुचौ जुहूपभृतौ। उभयं मेदसाऽऽच्छादयेत्। सति मेदोबाहुल्ये पशवो रूपवन्तो भवन्ति।

तत्र कंचिद्विशेषं विधत्ते —

‘यूषन्नवधाय प्रोर्णोति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

यूषशब्देन मांसेन सह पक्वं जलमुच्यते। तस्मिञ्जले मेदः प्रक्षिप्य तेनाऽऽच्छादयेत्।

आलोडनं विधत्ते —

‘पार्श्वेन वसाहोमं प्र यौति मध्यं वा एतत्पशूनां यत्पार्श्व रसं दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

आलोडनं विधत्ते —

‘पार्श्वेन वसाहोमं प्र यौति मध्यं वा एतत्पशूनां यत्पार्श्व रसं दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

द्वितीयभागे त्वष्टृश्ब्दाभिप्रायमाह —

‘देव त्वष्टर्भूरि ते स समेत्वित्याह त्वाष्ट्रा हि देवतया पशवः’ (सं. का. ६ प्र. ३ अ. ११) इति।

चतुर्थभागेऽनुमदन्तुशब्दस्याभिप्रायमाह —

‘देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्त्वित्याहानुमतमेवैनं मात्रा पित्रा सुवर्गं लोकं गमयति’ (सं. का. ६ प्र. ३ अ. ११) इति।

श्रीरसि वातस्य त्वेत्येतौ मन्त्रावुपेक्षितौ।

विधत्ते —

‘अर्धर्चे वसाहोमं जुहोत्यसौ वा अर्धर्च इयमर्धर्च इमे एव रसेनानक्ति दिशो जुहोति दिश एव रसेनानक्त्यथो दिग्भ्य एवोर्ज रसमव रुन्धे’ (सं. का. ६ प्र. ३ अ. ११ इति।

याज्यायाः पूर्वोत्तरयोरर्धर्चयोरभिमानिनौ देवौ द्यावापृथिव्याविति मध्ये होमेनोभे अपि रसेनाक्ते भवतः। उद्रेकहोमेन दिग्देवतास्तृप्यन्ति। यजमानस्यापि दिशां सकाशादन्नरसप्राप्तिर्भवति।

अवदानपूर्वकं द्वौ प्रैषमन्त्रौ मैत्रावरुणं प्रत्युत्पादयति —

‘प्राणापानौ वा एतौ पशूनां यत्पृषदार्ज्यं वानस्पत्याः खलु वै देवतया पशवो यत्पृषदाज्यस्पोपहत्याऽऽह वनस्पतयेऽनु ब्रूहि वनस्पतये प्रेष्येति प्राणापानावेवं पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११) इति।

पृषदाज्यस्योपहत्य पात्रगतं पृषदाज्यं स्रुवेण जुह्वामवदायेत्यर्थः।

अथेडार्थं तस्य तस्य हृदयाद्यङ्गस्यांशमेकत्र समवद्यतीति विधत्ते —

‘अन्यस्यान्यस्य समवत्त समवद्यति तस्मान्नानारूपाः पशवः’ (सं. का. ६ प्र. ३ अ. ११ इति।

समवत्तमवत्तशेषम्। अवदेयानामङ्गानां बहुविधत्वाद्धोमलभ्याः पशवोऽपि बहुविधाः।

सर्वेष्ववदानेषु मांसनिःस्रुतजलेनोपसेचनं विधत्ते —

‘यूष्णोप सिञ्चति रसो वा एष पशूनां यद्यू रसमेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११ इति।

हविःशेषस्येडाभागस्य भक्षणायेडोपाह्वानं होतुर्विधत्ते —

‘इडामुप ह्वयते पशवो वा इडा पशूनेवोप ह्वयते चतुरुप ह्वयते चतुष्पादो हि पशवः’ (सं. का. ६ प्र. ३ अ. ११) इति।

इडादेवताया गोरूपत्वात्पशव इडेत्युक्तम्। यद्यप्येतच्चोदकादेव प्रप्तं तथाऽऽप्याघारवदिष्टिविकृतित्वद्योतनाय पुनर्विधानम्।

अत्रेडावदाने मेदसोपस्तरणाभिघारणे विधातुं तद्व्यतिरेकं निन्दति —

‘यं कामयेतापशुः स्यादित्यमेदस्कं तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवैनं पशुभ्यो निर्भजत्यपशुरेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।

स्निग्धद्रवरहितं मांसममेदस्कम्। एनं यजमानं पशूनां (शुभ्यो) निर्भजति निरस्यति। अतो यजमानः पशुरहितो भवति।

विधत्ते —

‘यं कामयेत पशुमान्त्स्यादिति मदस्वत्तस्मा आ दध्यान्मेदोरूपा वै पशवो रूपेणैवास्मै पशूनव रुन्धे पशुमानेव भवति’ (सं. का. ६ प्र. ३ अ. ११ इति।

पृषदाज्येनानूयाजहोमं विधत्ते —

‘प्रजापतिर्यज्ञमसृजत स आज्यं पुरस्तादसृजत पशुं मध्यतः पृषदाज्यं पश्चात्तस्मादाज्येन प्रयाजा इज्यन्ते पशुना मध्यतः पृषदाज्येनानूयाजास्तस्मादेतन्मिश्रमिव पश्चात्सृष्ट हि’ (सं. का. ६ प्र. ३ अ. ११ इति।

यथा प्रथमसृष्टेनाऽऽज्येन प्रथमभाविनः प्रयाजा इज्यन्ते, यथा वा मध्यतः सृष्टेन पशुना मध्यतो यजते, तथा पश्चात्सृष्टेन पृषदाज्येन पश्चाद्भाविनोऽनूयाजा यष्टव्याः। यस्मादेकं द्रव्यं न पर्याप्तमिति बुद्ध्या पश्चाद्द्रव्यान्तेरेण सहैतद्विहितं तस्मादेतत्पृषदाज्यं दधिमिश्रमेव चोदकप्राप्तम्।

त्रित्वसंख्यामपोद्य संख्यान्तरं विधत्ते —

‘एकादशानूयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तमनु यजति’ (सं. का. ६ प्र. ३ अ. ११) इति।

पृषदाज्यं प्रशंसति —

‘घ्नन्ति वा एतत्पशुं यत्संज्ञपयन्ति प्राणापानौ खलु वा एतौ पशूनां यत्पृषदाज्यं यत्पृषदाज्येनानूयाजान्यजति प्राणापानावेव पशुषु दधाति’ (सं. का. ६ प्र. ३ अ. ११ इति।

—--------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 मेदसेत्यादिवर्गः ।। ऊधसो मांसं मेदः । स्रुचौ जुहूपभृतौ । मेदोरूपाः मेदस्स्वभावाः पशवः । यूषन्निति । रसात्स्रुतं जलम् । पद्दन्नादिना यूषन्भावः, 'सुपां सुलुक्' इति सप्तम्या लुक् । अवधाय प्रक्षिप्य । रसो वा इत्यादि । गतम् ॥
2 पार्श्वेनेति ।। पार्श्वाख्येन पश्वङ्गेन वसाहोमं वसां हेतव्यां प्रयौति आलोळयति । रसात्मको द्रव्य विशेषो वसा । पशुषु अवदानेषु ।।
3 यूष्णेत्यादि ।। गतम् ।।
4 इडामित्यादि ।। गतमेव । 'निसमुपविभ्यो ह्वः' इत्यात्मनेपदम् ।।
5 यमित्यादि ।। अमेदस्कं अल्पमेदस्कं शुष्कं निर्भजति निरस्यति । मेदस्वत् प्रभूतमेदस्कम् ।।
6 प्रजापतिरित्यादि ।। गतम् । पश्चात्सृष्टत्वात् पृषदाज्यमिश्रं भवति । हेतुमाह - पश्चात्सृष्टं हीति । अस्मिन् काले इष्टशिष्टमिवाभवत् भवति । एकेन पर्याप्तसृष्ट्यभावात् सर्वत आहृत्य सृष्टमिव भवतीति नूनमिदं मिश्रमभूदिति मन्यामह इत्यर्थः । पश्चादिति निपात्यते ।।
7 एकादशेति ।। व्याख्यातं प्रयाजेषु । घ्नन्ति वा इत्यादि । व्याख्यातप्रायं समदर्शनेन ।।
इति श्रीभट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये यजुर्वेदभाष्ये षष्ठकाण्डे तृतीयप्रश्ने एकादशोनुवाकः ॥

समाप्तश्च प्रपाठकः ॥

……………………………………………………………………………………………………………

प्रश्नः-4

पञ्चशत् 2 #
TS 6.3.11.2 TS 6.3.11.2
वा ए॒तत् प॒शुं ॅयथ् स᳚ज्ञ्ं॒पय॑न्त्यै॒न्द्रः खलु॒ वै दे॒वत॑या प्रा॒ण ऐ॒न्द्रो॑ऽपा॒न ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ नि दे᳚द्ध्य॒दित्या॑ह प्राणापा॒नावे॒व प॒शुषु॑ दधाति॒ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सꣳ स॑मे॒त्वित्या॑ह त्वा॒ष्ट्रा हि दे॒वत॑या प॒शवो॒ विषु॑रूपा॒ यथ् सल॑क्ष्माणो॒ भव॒थेत्या॑ह॒ विषु॑रूपा॒ ह्ये॑ते सन्तः॒ सल॑क्ष्माण ए॒तर्.हि॒ भव॑न्ति देव॒त्रा यन्त॒- [ ]
पदपाठः (Word-by-word)
वै । ए॒तत् । प॒शुम् । यत् । स॒ज्ञ्ं॒पय॒न्तीति॑ सं - ज्ञ्॒पय॑न्ति । ऐ॒न्द्रः । खलु॑ । वै । दे॒वत॑या । प्रा॒ण इति॑ प्र - अ॒नः । ऐ॒न्द्रः । अ॒पा॒न इत्य॑प -अ॒नः । ऐ॒न्द्रः । प्रा॒ण इति॑ प्र - अ॒नः । अङ्गे॑अङ्ग॒ इत्यङ्गे᳚ - अ॒ङ्गे॒ । नीति॑ । दे॒द्ध्य॒त् । इति॑ । आ॒ह॒ । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । देव॑ । त्व॒ष्टः॒ । भूरि॑ । ते॒ । सꣳस॒मिति॒ सं-स॒म् । ए॒तु॒ । इति॑ । आ॒ह॒ । त्वा॒ष्ट्राः । हि । दे॒वत॑या । प॒शवः॑ । विषु॑रूपा॒ इति॒ विषु॑ - रू॒पाः॒ । यत् । सल॑क्ष्माण॒ इति॒ स-ल॒क्ष्मा॒णः॒ । भव॑थ । इति॑ । आ॒ह॒ । विषु॑रूपा॒ इति॒ विषु॑-रू॒पाः॒ । हि । ए॒ते । सन्तः॑ । सल॑क्ष्माण॒ इति॒ स - ल॒क्ष्मा॒णः॒ । ए॒तर्.हि॑ । भव॑न्ति । दे॒व॒त्रेति॑ देव - त्रा । यन्त᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.3.11.3 TS 6.3.11.3
-मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मद॒न्त्वित्या॒हा-नु॑मतमे॒वैनं॑ मा॒त्रा पि॒त्रा सु॑व॒र्गं ॅलो॒कं ग॑मयत्यर्द्ध॒र्चे व॑साहो॒मं जु॑होत्य॒सौ वा अ॑र्द्ध॒र्च इ॒यम॑र्द्ध॒च इ॒मे ए॒व रसे॑नानक्ति॒ दिशो॑ जुहोति॒ दिश॑ ए॒व रसे॑नान॒क्त्यथो॑ दि॒ग्भ्य ए॒वोर्जꣳ॒॒ रस॒मव॑ रुन्धे प्राणापा॒नौ वा ए॒तौ प॑शू॒नां ॅयत् पृ॑षदा॒ज्यं ॅवा॑नस्प॒त्याः खलु॒- [ ]
पदपाठः (Word-by-word)
अव॑से । सखा॑यः । अन्विति॑ । त्वा॒ । मा॒ता । पि॒तरः॑ । म॒द॒न्तु॒ । इति॑ । आ॒ह॒ । अनु॑मत॒मित्यनु॑ - म॒त॒म् । ए॒व । ए॒न॒म् । मा॒त्रा । पि॒त्रा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ । अ॒द्‌र्ध॒र्च इत्य॑द्‌र्ध-ऋ॒चे । व॒सा॒हो॒ममिति॑ वसा - हो॒मम् । जु॒हो॒ति॒ । अ॒सौ । वै । अ॒द्‌र्ध॒र्च इत्य॑द्‌र्ध-ऋ॒चः । इ॒यम् । अ॒द्‌र्ध॒र्च इत्य॑द्‌र्ध - ऋ॒चः । इ॒मे इति॑ । ए॒व । रसे॑न । अ॒न॒क्ति॒ । दिशः॑ । जु॒हो॒ति॒ । दिशः॑ । ए॒व । रसे॑न । अ॒न॒क्ति॒ । अथो॒ इति॑ । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । ऊर्ज᳚म् । रस᳚म् । अवेति॑ । रु॒न्धे॒ । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । वै । ए॒तौ । प॒शू॒नाम् । यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । वा॒न॒स्प॒त्याः । खलु॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.3.11.4 TS 6.3.11.4
वै दे॒वत॑या प॒शवो॒ यत् पृ॑षदा॒ज्यस्यो॑-प॒हत्याऽऽ*ह॒ वन॒स्पत॒येऽनु॑ ब्रूहि॒ वन॒स्पत॑ये॒ प्रेष्येति॑ प्राणापा॒नावे॒व प॒शुषु॑ दधात्य॒न्यस्या᳚न्यस्य समव॒त्तꣳ स॒मव॑द्यति॒ तस्मा॒न्नाना॑रूपाः प॒शवो॑ यू॒ष्णोप॑ सिञ्चति॒ रसो॒ वा ए॒ष प॑शू॒नां ॅयद्यू रस॑मे॒व प॒शुषु॑ दधा॒तीडा॒मुप॑ ह्वयते प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते च॒तुरुप॑ ह्वयते॒- [ ]
पदपाठः (Word-by-word)
वै । दे॒वत॑या । प॒शवः॑ । यत् । पृ॒ष॒दा॒ज्यस्येति॑ पृषत् - आ॒ज्यस्य॑ । उ॒प॒हत्येत्यु॑प - हत्य॑ । आह॑ । वन॒स्पत॑ये । अन्विति॑ । ब्रू॒हि॒ । वन॒स्पत॑ये । प्रेति॑ । इ॒ष्य॒ । इति॑ । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । अ॒न्यस्या᳚न्य॒स्येत्य॒न्यस्य॑ - अ॒न्य॒स्य॒ । स॒म॒व॒त्तमिति॑ सं - अ॒व॒त्तम् । स॒मव॑द्य॒तीति॑ सं-अव॑द्यति । तस्मा᳚त् । नाना॑रूपा॒ इति॒ नाना᳚-रू॒पाः । प॒शवः॑ । यू॒ष्णा । उपेति॑ । सि॒ञ्च॒ति॒ । रसः॑ । वै । ए॒षः । प॒शू॒नाम् । यत् । यूः । रस᳚म् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । इडा᳚म् । उपेति॑ । ह्व॒य॒ते॒ । प॒शवः॑ । वै । इडा᳚ । प॒शून् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । च॒तुः । उपेति॑ । ह्व॒य॒ते॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.3.11.5 TS 6.3.11.5
चतु॑ष्पादो॒ हि प॒शवो॒ यं का॒मये॑ता प॒शुः स्या॒दित्य॑मे॒दस्कं॒ तस्मा॒ आ द॑द्ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वैनं॑ प॒शुभ्यो॒ निर्भ॑जत्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ् स्या॒दिति॒ मेद॑स्व॒त् तस्मा॒ आ द॑द्ध्या॒न्मेदो॑रूपा॒ वै प॒शवो॑ रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे पशु॒माने॒व भ॑वति प्र॒जाप॑तिर्य॒ज्ञ्म॑सृजत॒ स आज्यं॑- [ ]
पदपाठः (Word-by-word)
चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ । हि । प॒शवः॑ । यम् । का॒मये॑त । अ॒प॒शुः । स्या॒त् । इति॑ । अ॒मे॒दस्क॒मित्य॑मे॒दः-क॒म् । तस्मै᳚ । एति॑ । द॒द्ध्या॒त् । मेदो॑रूपा॒ इति॒ मेदः॑-रू॒पाः॒ । वै । प॒शवः॑ । रू॒पेण॑ । ए॒व । ए॒न॒म् । प॒शुभ्य॒ इति॑ प॒शु-भ्यः॒ । निरिति॑ । भ॒ज॒ति॒ । अ॒प॒शुः । ए॒व । भ॒व॒ति॒ । यम् । का॒मये॑त । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । इति॑ । मेद॑स्वत् । तस्मै᳚ । एति॑ । द॒द्ध्या॒त् । मेदो॑रूपा॒ इति॒ मेदः॑ - रू॒पाः॒ । वै । प॒शवः॑ । रू॒पेण॑ । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । प॒शु॒मानिति॑ पशु - मान् । ए॒व । भ॒व॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । य॒ज्ञ्म् । अ॒सृ॒ज॒त॒ । सः । आज्यं᳚ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.3.11.6 TS 6.3.11.6
पु॒रस्ता॑दसृजत प॒शुं म॑द्ध्य॒तः पृ॑षदा॒ज्यं प॒श्चात् तस्मा॒दाज्ये॑न प्रया॒जा इ॑ज्यन्ते प॒शुना॑ मद्ध्य॒तः पृ॑षदा॒ज्येना॑-नूया॒जा-स्तस्मा॑दे॒तन्मि॒श्रमि॑व पश्चाथ् सृ॒ष्टꣳ ह्येका॑दशानूया॒जान्. य॑जति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तमनु॑ यजति॒ घ्नन्ति॒ वा ए॒तत् प॒शुं ॅयथ् स᳚ज्ञ्ं॒पय॑न्ति प्रा॒णापा॒नौ खलु॒ वा ए॒तौ प॑शू॒नां ॅयत् पृ॑षदा॒ज्यं ॅयत् पृ॑षदा॒ज्येना॑ ( ) नूया॒जान्. यज॑ति प्राणापा॒नावे॒व प॒शुषु॑ दधाति ॥
पदपाठः (Word-by-word)
पु॒रस्ता᳚त् । अ॒सृ॒ज॒त॒ । प॒शुम् । म॒द्ध्य॒तः । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । प॒श्चात् । तस्मा᳚त् । आज्ये॑न । प्र॒या॒जा इति॑ प्र - या॒जाः । इ॒ज्य॒न्ते॒ । प॒शुना᳚ । म॒द्ध्य॒तः । पृ॒ष॒दा॒ज्येनेति॑ पृषत् - आ॒ज्येन॑ । अ॒नू॒या॒जा इत्य॑नु - या॒जाः । तस्मा᳚त् । ए॒तत् । मि॒श्रम् । इ॒व॒ । प॒श्चा॒थ्सृ॒ष्टमिति॑ पश्चात् - सृ॒ष्टम् । हि । एका॑दश । अ॒नू॒या॒जानित्य॑नु - या॒जान् । य॒ज॒ति॒ । दश॑ । वै । प॒शोः । प्रा॒णा इति॑ प्र - अ॒नाः । आ॒त्मा । ए॒का॒द॒शः । यावान्॑ । ए॒व । प॒शुः । तम् । अन्विति॑ । य॒ज॒ति॒ । घ्नन्ति॑ । वै । ए॒तत् । प॒शुम् । यत् । स॒ज्ञ्ं॒पय॒न्तीति॑ सं - ज्ञ्॒पय॑न्ति । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । खलु॑ । वै । ए॒तौ । प॒शू॒नाम् । यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । यत् । पृ॒ष॒दा॒ज्येनेति॑ पृषत् - आ॒ज्येन॑ ( ) । अ॒नू॒या॒जानित्य॑नु - या॒जान् । यज॑ति । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ ॥
पदसंख्या: 56