पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
‘ इषे त्वेति बर्हिरा दत्त इच्छत इव ह्येष यो यजते ’ [सं० का० प्र० ३ अ० ६] इति।
एष यजमानो देवेभ्यो दातुं पशुरूपं हविरिच्छत्येव। तस्मादिष इत्युच्यते।
पशुसमीपे देवानाह्वयतीति प्लक्षशाखोपवीरित्युच्यते, तदेतद्दर्शयति—
‘ उपवीरसीत्याहोप ह्येनानाकरोति ’ [सं० का० ६ प्र० ३ अ० ६] इति।
हृदयाद्यवयवा देवान्देवप्रजाश्च प्राप्ता इति यद्व्याख्यातं तत्प्रसिद्धमित्याह —
‘ उपो देवान्दैवीर्विशः प्रागुरित्याह दैवीर्ह्येता विशः सतीर्देवानुपयन्ति ’ (सं० का० ६ प्र० ३ अ० ६) इति।
यद्वा हृदयादय एव पदार्थत्वेन देवप्रजा भूत्वा देवान्प्राप्नुवन्ति।
वह्निशब्दो वाहकवाचीत्यभिप्रेत्य दर्शयति —
‘ वह्निरुशिज इत्याहर्त्विजो वै वह्नय उशिजस्तस्मादेवमाह ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अत्र पशुप्रदत्वेन बृहस्पतिप्रार्थनमित्याह —
‘ बृहस्पते धारया वसूनीत्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
हृदयादीनि स्वादूकर्तुमियमाशीरित्याह –
‘ हव्या ते स्वदन्तामित्याह स्वदयत्येवैनान् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
मिथुनरूपपशुप्रदत्वेन त्वष्टुः प्रार्थनमित्याह —
‘ देव त्वष्टर्वसु रण्वेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
रेवतीशब्दः पशुपर इत्याह —
‘ रेवती रमध्वमित्याह पशवो वै रेवतीः पशूनेवास्मै रमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
विधत्ते —
‘ देवस्य त्वा सवितुः प्रसव इति रशानामा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो हस्ताम्यामित्याह यत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
ऋतशब्दार्थमाह —
‘ऋतस्य त्वा देवहविः पाशेनाऽऽरभ इत्याह सत्यं वा ऋत सत्येनैवैनमृतेनाऽऽरभते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अवश्यंभाविफलोपेतत्वाद्यज्ञस्वरूपं सत्यं, तेन निमित्तेनैनं पशुं बध्नाति।
बन्धनप्रकारं विधत्ते —
‘ अक्ष्णया परि हरति वध्य हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
अक्ष्णया पूर्वोक्तया दक्षिणपादादिशिरोभागपर्यन्तया वक्रया परिहरति वेष्टयति। लोके तु मांसभक्षिणो वध्यं पशुं प्रत्यञ्चं स्वाभिमुखमवस्थाप्य गले पाशं प्रतिमुञ्चन्ति। अतस्तद्व्यावृत्तये वक्रबन्धनम्।
विधत्ते —
‘धर्षा मानुषानिति नि युनिक्ति धृत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
नियुनक्ति निरन्तरं बध्नीयात्। तञ्च बन्धनं धृत्यर्थं पलायननिवारणार्थम्।
पातृस्वीकृताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वेनोभयेन प्रोक्षणं युक्तमित्याह —
‘अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति यत्पशुः ’ [का॰ ६ प्र॰ ३ अ॰ ६] इति।
पेरुशब्दः पातृवाचीत्याह —
‘ अपां पेरुरसीत्याहैष ह्यपां पाता यो मेधायाऽऽरभ्यते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
यज्ञार्थमालभ्यमानस्य पशोरित ऊर्ध्वमुदकपानाभावादिदानीमेव पातृत्वम्। हे आपो देव्यः स्वात्तं चित्स्वादुभूतमपि सदेवं देवतार्थं हव्यं होतुं योग्यमेनं पशुं स्वदत स्वादुं कुरुत।
अनेन मन्त्रेण स्वादुता भवतीत्याह —
‘ स्वात्तं चित्सदेव हव्यमापो देवीः स्वदतैनमित्याह स्वदयत्येवैनम् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।
त्रिभिर्मन्त्रैरनुष्ठेयानि विधत्ते —
‘ उपरिष्टात्प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वत एवैनं मेध्यं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ६] इति।