पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
‘अग्निना वै होत्रा देवा असुरानभ्यभवन्नग्नये सामिध्यमानायानु ब्रूहीत्याह भ्रातृव्याभिभूत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
अग्निः समिद्धो भ्रातृव्यानभिभवति।
अग्निसमिन्धनाय होत्राऽनूच्यमानानामृचां चोदकप्राप्तां पञ्चदशसंख्यामपोद्य सप्तदशसंख्यां विधत्ते —
‘ सप्तदश सामिधेनीरन्वाह सप्तदशः प्रजापतिः प्रजापतेराप्त्यै ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
आश्रावयेत्यादिभिरक्षरैः प्रजापतेः सप्तदशत्वम्।
तमेव विधिमनूद्य प्रशंसति —
‘ सप्तदशान्वाह द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरं प्रजा अनु प्र जायन्ते प्रजानां प्रजननाय ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
हेमन्तशिशिरयोः समासेनेति बह्वृचब्राह्मणाम्नानादृतूनां पञ्चसंख्या। प्रजाः संवत्सरं गर्भे स्थित्वा पश्चात्प्रजायन्ते।
अमन्त्रकं प्रथममाघारं विधत्ते —
‘ देवा वै सामिधेनीरनूच्य यज्ञं नान्वपश्यन्स प्रजापतिस्तूष्णीमाघारमाघारयत्ततो वै देवा यज्ञमन्वपश्यन्यत्तूष्णीमाघारामाघारयति यज्ञस्यानुख्यात्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
बहुनियमोपेते सामिधेन्यनुवचने व्यापृता बुद्धिः श्रान्ता सती पश्चात्कर्तव्यं यज्ञं नान्वपश्यत्। ततः प्रजापतिस्तूष्णीमाघारेण मन्त्रविषयव्यापारजन्यं बुद्धेः श्रममपनीतवान्।
तमेव विधियनूद्य प्रशंसति —
‘असुरेषु वै यज्ञ आसीत्तं देवास्तूष्णी होमेनावृञ्जत यत्तूष्णीमाघारमाघारयति भ्रातृव्यस्यैव तद्यज्ञं वृङ्क्ते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
असुरा गूढचारिणो भूत्वा देवैरनुष्ठितमवगत्य स्वयमपि तथैवानुतिष्ठन्ति।
तथा च श्रुत्यन्तरम् —
‘ देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ’ इति। तं वृत्तान्तमवगत्य देवा गूढचारिणां समीपे प्रथममाघारममन्त्रकं हुतवन्तः तं दृष्टवन्तोऽसुराः सहसा गत्वा कृत्स्नं यज्ञं तूष्णीं कृत्वा नाशितवन्तः। तमभिप्रेत्य तं देवास्तूष्णीं होमेनावृञ्जतेत्युच्यते।
त्रयाणां परिधीनां मार्जनं प्रत्येकं तदावृत्तिं च विधत्ते —
‘ परिधीन्त्सं मार्ष्टि पुनात्येवैनान्त्रिस्त्रिः सं मार्ष्टि त्र्यावृद्धि यज्ञोऽथो रक्षसामपहत्यै द्वादश सं पद्यन्ते द्वादश मासाः संवत्सरः संवत्सरमेव प्रीणात्यथो संवत्सरमेवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
परिधिषु पतितस्य भस्मादेरपनयनेन ते शुद्धा भवन्ति। तिस्र आवृत्तयो यस्यासौ त्र्यावुत्। त्रिः प्रथमामन्वाहेत्यदिषु तत्प्रसिद्धम्। त्र्यावृत्त्या तदादरं दृष्टवा रक्षसां भयातिशयो भवति। त्रिषु परिधिषु नव संमार्जनान्युक्तानि।
अत्रानुक्तैस्त्रिभिर्वह्निसंमार्जनैः सह द्वादशसंपत्तिः।
अथ स्रुच्याघारं विधत्ते — ‘ शिरो वा एतद्यज्ञस्य यदाघारोऽग्निः सर्वा देवता यदाघारमाघारयति शीर्षत एव यज्ञस्य यजमानः सर्वा देवता अव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
आघारस्य होमेषु प्रथमभावित्वेन शिरोरूपत्वम्। यद्यपि पशोरिष्टिर्विकृतिवदेवाऽऽघारद्वयं प्राप्नोति तथाऽपि तद्विकृतित्वमेव निश्चेतुं तदीयलिङ्गत्वेनात्र त्पुनर्विहितम्।
स्रुचाऽऽघारशेषेण पश्वञ्जनं विधत्ते —
‘ शिरो वा एतद्यज्ञस्य यदाघार आत्मा पशुराघारमाघार्य पशु समनक्त्यात्मन्नेव यज्ञस्य शिरः प्रति दधाति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति। आत्मा ग्रीवाया अधोवर्तिदेहः।
प्राणस्य बाह्ये वायुसंगमो युक्त इत्याह –
‘ सं ते प्राणो वायुना गच्छतामित्याह वायुदेवत्यो वै प्राणो वायावेवास्य प्राणं जुहोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ७] इति।
अस्य यज्ञस्य फलेन वायुना यजमानो युज्यत इत्येतमर्थमन्त्यमन्त्रे दर्शयति –
‘ सं यजत्रैरङ्गानि सं यज्ञपतिराशिषेत्याह यज्ञपतिमेवाऽऽस्याशिषं गमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
मध्यममन्त्रेण हृदयाद्यङ्गानि यागविशेषैर्योजयतीत्येतावदुन्नेयम्।
पूर्वं शिरस्यञ्जनं विहितम्।
इदानीं ककुदि श्रोण्यां चाञ्जनं विधत्ते। अथवा पूर्वविधेः साधारणत्वात्तमेवानूद्य प्रशंसति —
‘ विश्वरूपो वै त्वाष्ट्र उपरिष्टात्पशुमभ्यवमीत्तस्मादुपरिष्टात्पशोर्नावद्यन्ति यदुपरिष्टात्पशु समनक्ति मेध्यमेवैनं करोति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
त्वष्टुः पुत्रो विश्वरूपः पशुमभि प्राप्योपरिष्टात्पृष्ठभागे वमनमकरोत्। तस्माद्याज्ञिका हृदयादिवदुपरिभागान्नावद्यन्ति। तं भागमञ्जनेन शुद्धं करोति।
विधत्ते — ‘ ऋत्विजो वृणीते छन्दांस्येव वृणीते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
वक्ष्यमाणसंख्यासाम्यादृत्विजां छन्दस्त्वम्।
सप्तत्वसंख्यां विधत्ते —
‘ सप्त वृणीते सप्त ग्राम्याः पशवः सप्ताऽऽरण्याः सप्त छन्दास्युभयस्यावरुद्ध्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
होताऽऽग्नीध्रोऽध्वर्युर्मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति [ सप्तर्त्विजः ]। सप्तग्राम्यादिकं व्याख्यातम्।
चोदकप्राप्तेषु संख्यां विधत्ते —
‘ एकादश प्रयाजान्यजति दश वै पशोः प्राणा आत्मैकादशो यावानेव पशुस्तं प्र यजति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
प्राणशब्देन तदाधारभूतानि च्छिद्राण्युच्यन्ते। तानि च शिरसि सप्त, अधस्ताद् द्वे, नाभिर्दशमी। आत्मा देहः। अत एकादशसंख्याया कृत्स्नं पशुं प्रयजति।
अन्तिमप्रयाजस्य कालान्तरं विधत्ते —
‘ वपामेकः परि शय आत्मैवाऽऽत्मानं परि शये ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।
वपां परि वपाहोमसमीपे शये शेते तस्मिन्काले यजेदित्यर्थः। चरमः प्रयाजो देहत्वेन निरूपितात्वात्पशोरात्मा, वपाऽपि मुख्यावयवत्वादात्माऽतस्तयोः सामीप्यं युक्तम्।
स्वरुस्वधितिघृतानामुपयोगं दर्शयति —
‘ वज्रो वै स्वधितिर्वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा सोममघ्नन्घृतेनाक्तौ पशुं त्रायेथामित्याह वज्रेणैवैनं वशे कृत्वाऽऽलभते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ७) इति।