पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
शोकप्रसक्तिं दर्शयन्व्याचष्टे –
‘पशोर्वा आलब्धस्य प्राणाञ्छुगृच्छति वाक्त आ प्यायतां प्रणस्त आ प्यायतामित्याह प्राणेभ्य एवास्य शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
शुगव्यथां विधत्ते –
‘सा प्राणेभ्योऽधि पृथिवी शुक् प्र विशति शमहोभ्यामिति नि नयत्यहोरात्राभ्यामेव पृथिव्यै शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
प्राणेभ्योऽपनीता शुक्पृथिवीमधिष्ठाय तदीयदेवताशरीरे प्रविशति। एवं कालादौ प्रवेशः। प्रविष्टायाः शुचः शान्तिर्निनयनेन भवति।
मा हिसीरित्येतस्याभिप्रायमाह —
‘ओषधे त्रायस्वैन स्वधिते मैन हिसीरित्याह वज्रौ वै स्वधितिः शान्त्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।
विधत्ते –
‘पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति तिरश्चीनमा च्छ्यत्यनूचीन हि मनुष्या आच्छ्यन्ति व्यावृत्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।
वपोत्खेदनार्थं दक्षिणपार्श्वे छिन्द्यात्। मांसाहारास्तु मनुष्या नाभिदेशे छिन्दन्ति। तत्राप्यनूचीनं पशोर्दैर्घ्यमनुसृत्य तदुभयवैलक्षण्यमिह कार्यम्।
विधत्ते –
‘रक्षसा भागोऽसीति स्थविमतो बर्हिरक्त्वाऽपास्यत्यस्नैव रक्षासि निरवदयते’ (सं. का. ६ प्र. ३ अ. ९) इति।
स्थूलस्य भावः स्थविमा तस्मात्सप्तम्यर्थे तसिल्। स्थविमतः। स्थविमशब्देन बर्हिषो मूलभागः स्थूलत्वादुपलक्ष्यते। तस्मिन्भागे रक्तेन बर्हिरङ्क्त्वा निरस्येत्। तथा सत्यसृजैव रक्षांसि निःशेषेण भागवन्ति कृत्वाऽपनयति।
द्वितीयमन्त्रं व्याचष्टे —
‘इदमह रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तावुभावधमं तमो नयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अधमं तमो महद्दुःखम्।
विधत्ते —
‘इषे त्वेति वपामुत्खिदतीच्छत इव ह्येष यो यजते’ (सं. का. ६ प्र. ३ अ. ९) इति।
अत्र शूलाग्रेण वपां भिन्द्यान्न वेति विचारं हृदि निधाय पक्षद्वयेऽपि दूषणमुपन्यस्यति–
‘यदुपतृन्द्याद्रुद्रोऽस्य पशून्घातुकः स्याद्यन्नोपतृन्द्यादयता स्यात्’ (सं. का. ६ प्र. ३ अ. ९) इति।
भेदनमन्तरेण धृताऽपि नियन्तुमशक्यत्वादितस्ततः पतेत्।
दोषद्वयास्पृष्टं पक्षान्तरं विधत्ते–
‘अन्ययोपतृणत्यन्यया न धृत्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।
एकया शाखया भिन्द्यादितरया न भिन्द्यात्तथा सति धृताऽपि भवति रुद्रश्च न हिनस्ति।
वपाशब्दशूलशब्दौ परित्यज्य घृतशब्दप्रयोगस्य द्यावापृथिवीशब्दप्रयोगस्य च तात्पर्यमाह —
‘घृतेन द्यावापृथिवी प्रोर्ण्वाथामित्याह द्यावापृथिवी एव रसेनानक्ति’ (सं. का. ६ प्र. ३ अ. ९) इति।
स्पष्टार्थतामाह —
‘अच्छिन्नो रायः सुवीर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ३ अ. ९) इति।
इममेवार्थं दर्शयति –
‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदत्युर्वन्तरिक्षमन्विहीत्याह शान्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।
वपाश्रपण्योः स्पर्शं विधत्ते —
‘प्र वा एषोऽस्माल्लोकाच्च्यवते यः पशुं मृत्यवे नीयमानमन्वारभते वपाश्रपणी पुनरन्वारभतेऽस्मिन्नेव लोके प्रति तिष्ठति’ (सं. का. ६ प्र. ३ अ. ९) इति।
वपायाः पुरतः पशोरिव वह्निं विधत्ते —
‘अग्निना पुरस्तादेति रक्षसामपहत्या अथो देवता एव हव्येनान्वेति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अग्नेः सर्वदेवतात्मकत्वात्तस्य पृष्ठतो वपानयने सर्वा अपि देवता हव्येनानुगता भवन्ति।
व्यतिरेकमुखेणाऽऽहवनीयस्योत्तरपार्श्ववर्तिष्वङ्गारेषु वपायाः श्रपणं विधत्ते– ‘नान्तममङ्गारमतिहरेद्यदन्तममङ्गारमतिहरेद्देवता अति मन्येत’ (सं. का. ६ प्र. ३ अ. ९) इति।
अङ्गारस्य सर्वदेवतात्मकत्वेन तदवज्ञया देवता एवावज्ञाता भवन्ति। तस्मादस्मिन्नेवाङ्गारे वपां श्रपयेत्।
वीहीत्यत्र विशब्दस्यार्थं दर्शयति —
‘वायो वीहि स्तोकानामित्याह तस्माद्विभक्ताः स्तोका अव पद्यन्ते’ (सं. ६ का. ६ प्र. ३ अ. ९) इति।
पतन्तीत्यर्थः
वपाया अधस्ताद्बर्हिरग्रस्थापनविधिमर्थवादेनोन्नयति —
‘अग्रं वा एतत्पशूनां यद्वपाऽग्रमोषधीनां बर्हिरग्रेणैवाग्र समर्धयत्यथो ओषधीष्वेव पशून्प्रति ष्ठापयति’ (सं. का. ६ प्र. ३ अ. ९) इति।
अग्रं श्रेष्ठम्। ओषध्यग्रेण बर्हिषा पश्वग्ररूपाया वपायाः समृद्ध्यर्थमोषधीषु पशुप्रतिष्ठापनार्थं बर्हिरग्रं वपाया अधः स्थापयेदित्यर्थः।
अथान्तिमप्रयाजार्थं मैत्रावरुणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति–
‘स्वाहाकृतीभ्यः प्रेष्येत्याह यज्ञस्य समिष्ट्यै’ (सं. का. ६ प्र. अ. ९) इति।
स्वाहाशब्दबहुला कृतिर्मन्त्रप्रयोगो यासामन्तिमप्रयाजदेवतानां ताः स्वाहाकृतयस्तदर्थं हे मैत्रावरुण होतारं प्रेरय। मैत्रावरुणस्तु होता यक्षदग्निं स्वाहाऽऽज्यस्येत्यादिमन्त्रेण होतारं प्रेष्यति। स च होता सद्यो जातो व्यमिमीत यज्ञमित्यादिकां याज्यां पठति। ततोऽध्वर्युरन्तिमप्रयाजं यजति। एवमयं प्रैषो यज्ञस्य सम्यगिष्ट्यै संपद्यते।
प्रयाजशेषेण हविरभिघारणं विधत्ते —
‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यमात्मा वपा पृषदाज्यमभिघार्य वपामभि घारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. ९) इति।
दधिमिश्रमाज्यं पृषदाज्यम्। पृषदाज्यस्य वपायाश्चाभिघारणेन वपारूपे पश्वात्मनि पृषदाज्यरूपौ पशूनां प्राणापानौ स्थापयति।
तत्प्राप्तावुपयोगं दर्शयति —
‘स्वाहोर्ध्वनभसं मारुतं गच्छतमित्याहोर्ध्वनभा ह स्म वै मारुतो देवनां वपाश्रपणी प्र हरति तेनैवैने प्र हरति’ (सं. का. ६ प्र. ३ अ. ९) इति।
व्यत्यस्ताग्रतां विधत्ते —
‘विषूची प्र हरति तस्माद्विष्वञ्चौ प्राणापानौ’ (सं. का. ६ प्र. ३ अ. ९) इति।
प्राण ऊर्ध्ववृत्तिरपानोऽधोवृत्तिरित्युभयोर्व्यत्यासः।