अनुवाकः 9 TS 6.3.9

(A9)

(स्वधि॑ति - श्चै॒वा - च्छि॑न्नो - ह॒व्येने॒ - ष्येत्या॑ह॒ - षट्च॑त्वारिꣳशच्च)

अनुवाकः 9 - Complete Audio

TS 6.3.9 - स्वरानुगामी

0:00 0:00
PS1.1 प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ्छुगृ॑च्छति॒ वाक्त॒
PS1.2 आ प्या॑यतां प्रा॒णस्त॒ आ
PS1.3 प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुचꣳ॑
PS1.4 शमयति॒ सा प्रा॒णेभ्योऽधि॑ पृथि॒वीꣳ
PS1.5 शुक् प्र वि॑शति॒ शमहो᳚भ्या॒मिति॒
PS1.6 नि न॑यत्यहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुचꣳ॑
PS1.7 शमय॒त्योष॑धे॒ त्रा॑यस्वैनꣳ॒॒ स्वधि॑ते॒ मैनꣳ॑
PS1.8 हिꣳसी॒रित्या॑ह॒ वज्रो॒॒ वै स्वधि॑तिः॒-
PS1.9 [ ]
PS2.1 शान्त्यै॑ पार्श्व॒त आ च्छ्य॑ति
PS2.2 मद्ध्य॒तो हि म॑नु॒ष्या॑ आ॒
PS2.3 च्छ्यन्ति॑ तिर॒श्चीन॒मा च्छ्य॑त्यनू॒चीनꣳ॒॒ हि
PS2.4 म॑नु॒ष्या॑ आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒ रक्ष॑सां
PS2.5 भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒र्॒.हिर॒क्त्वाऽपा᳚स्यत्य॒स्नैव रक्षाꣳ॑सि
PS2.6 नि॒रव॑दयत इ॒दम॒हꣳ रक्षो॑ऽध॒मं तमो॑
PS2.7 नयामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं
PS2.8 च॑ व॒यं द्वि॒ष्म इत्या॑ह॒
PS2.9 द्वौ वाव पुरु॑षौ॒ यं
PS2.10 चै॒व- [ ]
PS3.1 द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तावु॒भाव॑ध॒मं
PS3.2 तमो॑ नयती॒षे त्वेति॑ व॒पामुत्खि॑दती॒च्छत॑
PS3.3 इव॒ ह्ये॑ष यो यज॑ते॒
PS3.4 यदु॑पतृ॒न्द्याद्-रु॒द्रो᳚ऽस्य प॒शून् घातु॑कः स्या॒द्
PS3.5 यन्नोप॑तृ॒न्द्या-दय॑ता स्या-द॒न्ययो॑पतृ॒णत्त्य॒न्यया॒ न धृत्यै॑
PS3.6 घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मित्या॑ह॒ द्यावा॑पृथि॒वी
PS3.7 ए॒व रसे॑नान॒क्त्यच्छि॑न्नो॒- [ ]
PS4.1 रायः॑ सु॒वीर॒ इत्या॑ह यथाय॒जुरे॒वैतत्
PS4.2 क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒
PS4.3 यद् व॒पा-मु॑त्खि॒द-त्यु॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र
PS4.4 वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शुं
PS4.5 मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ऽस्मिन्ने॒व
PS4.6 लो॒के प्रति॑ तिष्ठत्य॒ग्निना॑ पु॒रस्ता॑देति॒
PS4.7 रक्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व
PS4.8 ह॒व्येना- [ ]
PS5.1 -न्वे॑ति॒ नान्त॒ममङ्गा॑र॒मति॑ हरे॒द् यद॑न्त॒ममङ्गा॑रमति॒
PS5.2 हरे᳚द्-दे॒वता॒ अति॑ मन्येत॒ वायो॒
PS5.3 वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द् विभ॑क्ताः
PS5.4 स्तो॒का अव॑ पद्य॒न्तेऽग्रं॒ ॅवा
PS5.5 ए॒तत् प॑शू॒नां ॅयद् व॒पाऽग्र॒मोष॑धीनां
PS5.6 ब॒र्॒.हिरग्रे॑णै॒वाग्रꣳ॒॒ सम॑र्द्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शून्
PS5.7 प्रति॑ष्ठापयति॒ स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह- [
PS5.8 ]
PS6.1 य॒ज्ञ्स्य॒ समि॑ष्ट्यै प्राणापा॒नौ वा
PS6.2 ए॒तौ प॑शू॒नां ॅयत् पृ॑षदा॒ज्यमा॒त्मा
PS6.3 व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व
PS6.4 प॑शू॒नां प्रा॑णापा॒नौ द॑धाति॒ स्वाहो॒र्द्ध्वन॑भसं
PS6.5 मारु॒तं ग॑च्छत॒मित्या॑हो॒र्द्ध्वन॑भा ह स्म॒
PS6.6 वै मा॑रु॒तो दे॒वानां᳚ ॅवपा॒श्रप॑णी॒
PS6.7 प्र ह॑रति॒ तेनै॒वैने॒ प्र
PS6.8 ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒
PS6.9 तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.3.9.1 TS 6.3.9.1
प॒शोर्वा आल॑ब्धस्य प्रा॒णाञ्छुगृ॑च्छति॒ वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यता॒मित्या॑ह प्रा॒णेभ्य॑ ए॒वास्य॒ शुचꣳ॑ शमयति॒ सा प्रा॒णेभ्योऽधि॑ पृथि॒वीꣳ शुक् प्र वि॑शति॒ शमहो᳚भ्या॒मिति॒ नि न॑यत्यहोरा॒त्राभ्या॑मे॒व पृ॑थि॒व्यै शुचꣳ॑ शमय॒त्योष॑धे॒ त्रा॑यस्वैनꣳ॒॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसी॒रित्या॑ह॒ वज्रो॒॒ वै स्वधि॑तिः॒- [ ]
पदपाठः (Word-by-word)
प॒शोः । वै । आल॑ब्ध॒स्येत्या - ल॒ब्ध॒स्य॒ । प्रा॒णानिति॑ प्र - अ॒नान् । शुक् । ऋ॒च्छ॒ति॒ । वाक् । ते॒ । एति॑ । प्या॒य॒ता॒म् । प्रा॒ण इति॑ प्र - अ॒नः । ते॒ । एति॑ । प्या॒य॒ता॒म् । इति॑ । आ॒ह॒ । प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ । ए॒व । अ॒स्य॒ । शुच᳚म् । श॒म॒य॒ति॒ । सा । प्रा॒णेभ्य॒ इति॑ प्र - अ॒नेभ्यः॑ । अधीति॑ । पृ॒थि॒वीम् । शुक् । प्रेति॑ । वि॒श॒ति॒ । शम् । अहो᳚भ्या॒मित्यहः॑ - भ्या॒म् । इति॑ । नीति॑ । न॒य॒ति॒ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः-रा॒त्राभ्या᳚म् । ए॒व । पृ॒थि॒व्यै । शुच᳚म् । श॒म॒य॒ति॒ । ओष॑धे । त्राय॑स्व । ए॒न॒म् । स्वधि॑त॒ इति॒ स्व - धि॒ते॒ । मा । ए॒न॒म् । हिꣳ॒॒सीः॒ । इति॑ । आ॒ह॒ । वज्रः॑ । वै । स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

शोकप्रसक्तिं दर्शयन्व्याचष्टे –

‘पशोर्वा आलब्धस्य प्राणाञ्छुगृच्छति वाक्त आ प्यायतां प्रणस्त आ प्यायतामित्याह प्राणेभ्य एवास्य शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

शुगव्यथां विधत्ते –

‘सा प्राणेभ्योऽधि पृथिवी शुक् प्र विशति शमहोभ्यामिति नि नयत्यहोरात्राभ्यामेव पृथिव्यै शुच शमयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

प्राणेभ्योऽपनीता शुक्पृथिवीमधिष्ठाय तदीयदेवताशरीरे प्रविशति। एवं कालादौ प्रवेशः। प्रविष्टायाः शुचः शान्तिर्निनयनेन भवति।

मा हिसीरित्येतस्याभिप्रायमाह —

‘ओषधे त्रायस्वैन स्वधिते मैन हिसीरित्याह वज्रौ वै स्वधितिः शान्त्यै’ (सं. का. ६ प्र. ६ अ. ९) इति।

विधत्ते –

‘पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति तिरश्चीनमा च्छ्यत्यनूचीन हि मनुष्या आच्छ्यन्ति व्यावृत्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।

वपोत्खेदनार्थं दक्षिणपार्श्वे छिन्द्यात्। मांसाहारास्तु मनुष्या नाभिदेशे छिन्दन्ति। तत्राप्यनूचीनं पशोर्दैर्घ्यमनुसृत्य तदुभयवैलक्षण्यमिह कार्यम्।

विधत्ते –

‘रक्षसा भागोऽसीति स्थविमतो बर्हिरक्त्वाऽपास्यत्यस्नैव रक्षासि निरवदयते’ (सं. का. ६ प्र. ३ अ. ९) इति।

स्थूलस्य भावः स्थविमा तस्मात्सप्तम्यर्थे तसिल्। स्थविमतः। स्थविमशब्देन बर्हिषो मूलभागः स्थूलत्वादुपलक्ष्यते। तस्मिन्भागे रक्तेन बर्हिरङ्क्त्वा निरस्येत्। तथा सत्यसृजैव रक्षांसि निःशेषेण भागवन्ति कृत्वाऽपनयति।

द्वितीयमन्त्रं व्याचष्टे —

‘इदमह रक्षोऽधमं तमो नयामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश्चैनं द्वेष्टि तावुभावधमं तमो नयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अधमं तमो महद्दुःखम्।

विधत्ते —

‘इषे त्वेति वपामुत्खिदतीच्छत इव ह्येष यो यजते’ (सं. का. ६ प्र. ३ अ. ९) इति।

अत्र शूलाग्रेण वपां भिन्द्यान्न वेति विचारं हृदि निधाय पक्षद्वयेऽपि दूषणमुपन्यस्यति–

‘यदुपतृन्द्याद्रुद्रोऽस्य पशून्घातुकः स्याद्यन्नोपतृन्द्यादयता स्यात्’ (सं. का. ६ प्र. ३ अ. ९) इति।

भेदनमन्तरेण धृताऽपि नियन्तुमशक्यत्वादितस्ततः पतेत्।

दोषद्वयास्पृष्टं पक्षान्तरं विधत्ते–

‘अन्ययोपतृणत्यन्यया न धृत्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।

एकया शाखया भिन्द्यादितरया न भिन्द्यात्तथा सति धृताऽपि भवति रुद्रश्च न हिनस्ति।

वपाशब्दशूलशब्दौ परित्यज्य घृतशब्दप्रयोगस्य द्यावापृथिवीशब्दप्रयोगस्य च तात्पर्यमाह —

‘घृतेन द्यावापृथिवी प्रोर्ण्वाथामित्याह द्यावापृथिवी एव रसेनानक्ति’ (सं. का. ६ प्र. ३ अ. ९) इति।

स्पष्टार्थतामाह —

‘अच्छिन्नो रायः सुवीर इत्याह यथायजुरेवैतत्’ (सं. का. ६ प्र. ३ अ. ९) इति।

इममेवार्थं दर्शयति –

‘क्रूरमिव वा एतत्करोति यद्वपामुत्खिदत्युर्वन्तरिक्षमन्विहीत्याह शान्त्यै’ (सं. का. ६ प्र. ३ अ. ९) इति।

वपाश्रपण्योः स्पर्शं विधत्ते —

‘प्र वा एषोऽस्माल्लोकाच्च्यवते यः पशुं मृत्यवे नीयमानमन्वारभते वपाश्रपणी पुनरन्वारभतेऽस्मिन्नेव लोके प्रति तिष्ठति’ (सं. का. ६ प्र. ३ अ. ९) इति।

वपायाः पुरतः पशोरिव वह्निं विधत्ते —

‘अग्निना पुरस्तादेति रक्षसामपहत्या अथो देवता एव हव्येनान्वेति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अग्नेः सर्वदेवतात्मकत्वात्तस्य पृष्ठतो वपानयने सर्वा अपि देवता हव्येनानुगता भवन्ति।

व्यतिरेकमुखेणाऽऽहवनीयस्योत्तरपार्श्ववर्तिष्वङ्गारेषु वपायाः श्रपणं विधत्ते– ‘नान्तममङ्गारमतिहरेद्यदन्तममङ्गारमतिहरेद्देवता अति मन्येत’ (सं. का. ६ प्र. ३ अ. ९) इति।

अङ्गारस्य सर्वदेवतात्मकत्वेन तदवज्ञया देवता एवावज्ञाता भवन्ति। तस्मादस्मिन्नेवाङ्गारे वपां श्रपयेत्।

वीहीत्यत्र विशब्दस्यार्थं दर्शयति —

‘वायो वीहि स्तोकानामित्याह तस्माद्विभक्ताः स्तोका अव पद्यन्ते’ (सं. ६ का. ६ प्र. ३ अ. ९) इति।

पतन्तीत्यर्थः

वपाया अधस्ताद्बर्हिरग्रस्थापनविधिमर्थवादेनोन्नयति —

‘अग्रं वा एतत्पशूनां यद्वपाऽग्रमोषधीनां बर्हिरग्रेणैवाग्र समर्धयत्यथो ओषधीष्वेव पशून्प्रति ष्ठापयति’ (सं. का. ६ प्र. ३ अ. ९) इति।

अग्रं श्रेष्ठम्। ओषध्यग्रेण बर्हिषा पश्वग्ररूपाया वपायाः समृद्ध्यर्थमोषधीषु पशुप्रतिष्ठापनार्थं बर्हिरग्रं वपाया अधः स्थापयेदित्यर्थः।

अथान्तिमप्रयाजार्थं मैत्रावरुणं प्रत्यध्वर्योः प्रैषमन्त्रमुत्पादयति–

‘स्वाहाकृतीभ्यः प्रेष्येत्याह यज्ञस्य समिष्ट्यै’ (सं. का. ६ प्र. अ. ९) इति।

स्वाहाशब्दबहुला कृतिर्मन्त्रप्रयोगो यासामन्तिमप्रयाजदेवतानां ताः स्वाहाकृतयस्तदर्थं हे मैत्रावरुण होतारं प्रेरय। मैत्रावरुणस्तु होता यक्षदग्निं स्वाहाऽऽज्यस्येत्यादिमन्त्रेण होतारं प्रेष्यति। स च होता सद्यो जातो व्यमिमीत यज्ञमित्यादिकां याज्यां पठति। ततोऽध्वर्युरन्तिमप्रयाजं यजति। एवमयं प्रैषो यज्ञस्य सम्यगिष्ट्यै संपद्यते।

प्रयाजशेषेण हविरभिघारणं विधत्ते —

‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यमात्मा वपा पृषदाज्यमभिघार्य वपामभि घारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. ९) इति।

दधिमिश्रमाज्यं पृषदाज्यम्। पृषदाज्यस्य वपायाश्चाभिघारणेन वपारूपे पश्वात्मनि पृषदाज्यरूपौ पशूनां प्राणापानौ स्थापयति।

तत्प्राप्तावुपयोगं दर्शयति —

‘स्वाहोर्ध्वनभसं मारुतं गच्छतमित्याहोर्ध्वनभा ह स्म वै मारुतो देवनां वपाश्रपणी प्र हरति तेनैवैने प्र हरति’ (सं. का. ६ प्र. ३ अ. ९) इति।

व्यत्यस्ताग्रतां विधत्ते —

‘विषूची प्र हरति तस्माद्विष्वञ्चौ प्राणापानौ’ (सं. का. ६ प्र. ३ अ. ९) इति।

प्राण ऊर्ध्ववृत्तिरपानोऽधोवृत्तिरित्युभयोर्व्यत्यासः।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पशोर्वा इत्यादि ।। शुक् शोकः । 'वाक्त आ प्यायताम्' इत्यादिभिः पत्नी अनुपूर्वं पशोः प्राणानाप्यायति । प्राणेभ्य इति ल्यब्लोपे पञ्चमी । अस्य पशोः प्राणेभ्य आदाय शोकं शमयति । सेत्यादि । सा शुक् प्राणेभ्योपनीता पृथिवीं प्रविशति । अधिरनर्थकः । पृथिवीं वा अधिष्ठाय प्रविशति । अधिष्ठाय प्रवेशोऽधिप्रवेशः । तच्छान्त्यर्थं शमहोभ्यामिति अतिशिष्टा अपः दक्षिणतो न पृष्ठतः निनयति । अहोरात्राभ्यामिति । मन्त्रपदस्येदं विवरणम् । अहस्सहिता रात्रिरप्यहरित्युच्यते मन्त्रे । यद्वा - व्यत्ययेन विरूपयोरप्येकशेषः प्रवर्तते । हेतौ तृतीया । अहोरात्राभ्यां हेतुभ्यामिति ।।
2 वपाग्रहणदेशे प्राचीनाग्रं बर्हिर्निदधाति - ओषधे इति ।। तत्र स्वधितिं निदधाति - स्वधिते इति । गतम् । पार्श्वत इति । पार्श्वे आच्छ्यति आच्छिनत्ति । मध्ये हेतुमाह - मध्यतो हि मनुष्याः सौनिकादयः आच्छ्यन्ति आच्छिन्दन्ति । उभयत्र आद्यादित्वात्तसिः । छो छेदने, दैवादिकः, 'ओतश्श्यनि' इति लोपः, 'हि च' इति निघाताभावः, 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वम्, समासश्च । तिरश्चीनमिति । तिर्यङ्मानं, नानूचीनमाछ्यति । हेतुं चाह - अनूचीनं पशुशरीरानुगुणं मनुष्या आ छ्यन्ति न तिरश्चीनम् । तस्मात् व्यावृत्त्यर्थमेवं क्रियमाणं भवत्यस्य लौकिकात्पशोः ।।
3 रक्षसां भागोसीति ।। उपाकरणबर्हिषोर्मूलं लोहितेनाक्त्वा इमां दिशं निरस्यति । तदिदमाह - स्थविमत इति । स्थविमा स्थूलत्वम् । स्थलूदूरादिना यागादिलोपः गुणश्च । तेन तद्वान् प्रदेशो लक्ष्यते, मत्वर्थीयलोपो वा । तत आद्यादित्वात्तसिः । बर्हिः उपाकरणबर्हिः । 'रक्षांसि निरवदयते' इति वक्ष्यमाणत्वाद्विवेकलाभः । अस्नेति । असृजा । पद्वन्नादिना असन्भावः । निरवदानं विनाशनम् । इदमहमित्यादि । गतम् । अधमं तमः मृत्युः, नरकं वा ।।
4 इषे त्वेति ।। वपामुत्खिदति उद्धरति । खिद दैन्यै । इच्छत इवेति । यजमानस्येष्टत्वं दर्शयति ।यदुपतृन्द्यादिति । वपाश्रपणीभ्यां वपां यद्युपतृन्द्यात् हिंस्यात् रुद्रः पशूनां हननपरस्स्यात् । 'लषपदपत' इत्युकञ्, 'न लोकाव्यय' इति षष्ठीप्रतिषेधः । अथ यदि नोपतृन्द्यात् ताभ्यां तदा अयता अनियता स्यात् वपा । तस्मादन्यया एकया । अन्यया न । तद्धृत्यै धारणाय भवति । उ तृदिर् हिंसायाम्, 'एकान्याभ्यां समर्थाभ्याम्' इति निघाताभावः ।।
5 धृतेनेति ।। वपाश्रपण्येका । वपया प्रोर्णोति । द्यावापृथिवी इति । 'दिवो द्यावा' इति द्यावादेशः, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम्, 'देवताद्वन्द्वे च' इत्युदात्तत्वम् । अच्छिन्न इति । वपामधस्तात्परिवासयति । क्रूरमिवेत्यादि । महदन्तरिक्षमनुच्छेत्युक्त्वा वपामादायेति तच्छान्त्यै भवति । प्र वा एष इति । गतम् ।।
6 अग्निनेति ।। उल्मुकेन सहाग्रतो गच्छति रक्षसामपघातार्थम् । अपि च देवता एव ह्येनाननुगच्छति, सर्वदेवतात्मकत्वादग्रेः । नान्तममिति । अन्तं सर्वान्त्यमङ्गारमाहवनीयस्थं नातिहरेत् अतिक्रम्य न गच्छेत् । अन्तममितीकारलोपश्छान्दसः । यद्वा - अन्तमं अन्तिकतमं सन्निहिततमं 'अन्तात्यन्ते' इति (?)[तमेतादेश्च]' इति तादिलोपः । प्रथमं सन्निहिते त्वङ्गारे बर्हिषोग्रमुपास्यति ।।
17 वायो वीहीति ।। उपासनमन्त्रः बर्हिषः । तमेतादेश्च इति चादिलोपः, छान्दसमन्तोदात्तत्वम्, उदात्तनिवृत्तिस्वरो वा । यद्यस्तमतीत्य गच्छेत् देवता अतिमन्येत । तस्मादिति । विविधं गच्छ, ष्टथक्पृथग्गच्छेति मन्त्रवचनात् विभक्ताः स्तोका वपाबिन्दवः ष्टथिव्यामवपद्यन्ते । अग्रं वा इति । वपानाम पशूनामग्रं प्रधानं, बर्हिर्नाम ओषधीनामग्रम् । अग्रेणैवेत्यादि । गतम् ।।
8 स्वाहाकृतीभ्य इति मैत्रावरुणं संप्रेष्यति 'होता यक्षदग्निम्' इति । योयमन्त्यः प्रयाजः स स्वाहाकृतिशब्देनोच्यते । देवताबहुत्वाद्बहुवचनम् । स हि 'वपामेकः परि शये' इति पूर्वं न कृतः, स इदानीं क्रियमाणो यज्ञस्य समष्ट्यै सम्यग्यागनिवृत्त्यर्थं भवति । स्वाहाशब्देन ऊर्यादित्वेन गतित्वात् 'तादौ च' इति गतेः प्रकृतिस्वरत्वम्, छान्दसं क्तिनो दीर्घत्वं सांहितिकम् ।।
9 प्राणापानाविति ।। पृषदाज्यं नाम दधिमिश्रमाज्यं तत्प्राणापानस्थानीयम् । पशूनामात्मस्थानीया वपा । पृषदाज्यमित्यादि । गतम् । उपरि घृतासेचनमभिघारः ।।
10 स्वाहोर्ध्वनभसमिति वपाश्रपण्योः प्रहरणम् । ऊर्ध्वनभा नाम देवानां वपाश्रपण्योः प्रहर्ता । तेनैवैते प्रहृते भवतः, अनेनैव मन्त्रेण प्रहरणात् । विषूची इति । विष्वङ् नाना अञ्चत इति विषूच्यौ व्यत्यस्ताग्रे । पूर्ववत्पूर्वसवर्णदीर्घत्वम्, 'चौ' इति पूर्वपदस्य दीर्घत्वम् । धातोरनच्कत्वाद्दीर्घश्च । परत्वान्निपातस्वर आद्युदात्तः प्रवर्तते । यद्वा - अव्ययपूर्वपदप्रकृतिस्वरत्वं, गत्याद्यभावात् कृदुत्तरपदप्रकृतिस्वराप्रसङ्गः । 'चौ' इत्यन्तोदात्तत्वं व्यत्ययेन न प्रवर्तते । तस्मादिति । ऊर्ध्वगतिः प्राणः, अधोगतिरपान इति विष्वक्त्वमनयोः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।
इति षष्ठे तृतीये नवमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.3.9.2 TS 6.3.9.2
शान्त्यै॑ पार्श्व॒त आ च्छ्य॑ति मद्ध्य॒तो हि म॑नु॒ष्या॑ आ॒ च्छ्यन्ति॑ तिर॒श्चीन॒मा च्छ्य॑त्यनू॒चीनꣳ॒॒ हि म॑नु॒ष्या॑ आ॒च्छ्यन्ति॒ व्यावृ॑त्त्यै॒ रक्ष॑सां भा॒गो॑ऽसीति॑ स्थविम॒तो ब॒र्॒.हिर॒क्त्वाऽपा᳚स्यत्य॒स्नैव रक्षाꣳ॑सि नि॒रव॑दयत इ॒दम॒हꣳ रक्षो॑ऽध॒मं तमो॑ नयामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व- [ ]
पदपाठः (Word-by-word)
शान्त्यै᳚ । पा॒र्श्व॒तः । एति॑ । छ्‌य॒ति॒ । म॒द्ध्य॒तः । हि । म॒नु॒ष्याः᳚ । आ॒च्छ्यन्तीत्या᳚-छ्यन्ति॑ । ति॒र॒श्चीन᳚म् । एति॑ । छ्य॒ति॒ । अ॒नू॒चीन᳚म् । हि । म॒नु॒ष्याः᳚ । आ॒च्छ्यन्तीत्या᳚ - छ्यन्ति॑ । व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । रक्ष॑साम् । भा॒गः । अ॒सि॒ । इति॑ । स्थ॒वि॒म॒तः । ब॒र्॒.हिः । अ॒क्त्वा । अपेति॑ । अ॒स्य॒ति॒ । अ॒स्ना । ए॒व । रक्षाꣳ॑सि । नि॒रव॑दयत॒ इति॑ निः - अव॑दयते । इ॒दम् । अ॒हम् । रक्षः॑ । अ॒ध॒मम् । तमः॑ । न॒या॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इति॑ । आ॒ह॒ । द्वौ । वाव । पुरु॑षौ । यम् । च॒ । ए॒व ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.3.9.3 TS 6.3.9.3
द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तावु॒भाव॑ध॒मं तमो॑ नयती॒षे त्वेति॑ व॒पामुत्खि॑दती॒च्छत॑ इव॒ ह्ये॑ष यो यज॑ते॒ यदु॑पतृ॒न्द्याद्-रु॒द्रो᳚ऽस्य प॒शून् घातु॑कः स्या॒द् यन्नोप॑तृ॒न्द्या-दय॑ता स्या-द॒न्ययो॑पतृ॒णत्त्य॒न्यया॒ न धृत्यै॑ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑था॒मित्या॑ह॒ द्यावा॑पृथि॒वी ए॒व रसे॑नान॒क्त्यच्छि॑न्नो॒- [ ]
पदपाठः (Word-by-word)
द्वेष्टि॑ । यः । च॒ । ए॒न॒म् । द्वेष्टि॑ । तौ । उ॒भौ । अ॒ध॒मम् । तमः॑ । न॒य॒ति॒ । इ॒षे । त्वा॒ । इति॑ । व॒पाम् । उदिति॑ । खि॒द॒ति॒ । इ॒च्छते᳚ । इ॒व॒ । हि । ए॒षः । यः । यज॑ते । यत् । उ॒प॒तृ॒न्द्यादित्यु॑प - तृ॒न्द्यात् । रु॒द्रः । अ॒स्य॒ । प॒शून् । घातु॑कः । स्या॒त् । यत् । न । उ॒प॒तृ॒न्द्यादित्यु॑प - तृ॒न्द्यात् । अय॑ता । स्या॒त् । अ॒न्यया᳚ । उ॒प॒तृ॒णत्तीत्यु॑प - तृ॒णत्ति॑ । अ॒न्यया᳚ । न । धृत्यै᳚ । घृ॒तेन॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । प्रेति॑ । ऊ॒र्ण्वा॒था॒म् । इति॑ । आ॒ह॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ए॒व । रसे॑न । अ॒न॒क्ति॒ । अच्छि॑न्नः ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.3.9.4 TS 6.3.9.4
रायः॑ सु॒वीर॒ इत्या॑ह यथाय॒जुरे॒वैतत् क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यद् व॒पा-मु॑त्खि॒द-त्यु॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑ह॒ शान्त्यै॒ प्र वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते॒ यः प॒शुं मृ॒त्यवे॑ नी॒यमा॑नमन्वा॒रभ॑ते वपा॒श्रप॑णी॒ पुन॑र॒न्वार॑भते॒ऽस्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्य॒ग्निना॑ पु॒रस्ता॑देति॒ रक्ष॑सा॒मप॑हत्या॒ अथो॑ दे॒वता॑ ए॒व ह॒व्येना- [ ]
पदपाठः (Word-by-word)
रायः॑ । सु॒वीर॒ इति॑ सु - वीरः॑ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । व॒पाम् । उ॒त्खि॒दतीत्यु॑त् - खि॒दति॑ । उ॒रु । अ॒न्तरि॑क्षम् । अन्विति॑ । इ॒हि॒ । इति॑ । आ॒ह॒ । शान्त्यै᳚ । प्रेति॑ । वै । ए॒षः । अ॒स्मात् । लो॒कात् । च्य॒व॒ते॒ । यः । प॒शुम् । मृ॒त्यवे᳚ । नी॒यमा॑नम् । अ॒न्वा॒रभ॑त॒ इत्य॑नु - आ॒रभ॑ते । व॒पा॒श्रप॑णी॒ इति॑ वपा - श्रप॑णी । पुनः॑ । अ॒न्वार॑भत॒ इत्य॑नु - आर॑भते । अ॒स्मिन्न् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒ति॒ । अ॒ग्निना᳚ । पु॒रस्ता᳚त् । ए॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑-ह॒त्यै॒ । अथो॒ इति॑ । दे॒वताः᳚ । ए॒व । ह॒व्येन॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.3.9.5 TS 6.3.9.5
-न्वे॑ति॒ नान्त॒ममङ्गा॑र॒मति॑ हरे॒द् यद॑न्त॒ममङ्गा॑रमति॒ हरे᳚द्-दे॒वता॒ अति॑ मन्येत॒ वायो॒ वीहि॑ स्तो॒काना॒मित्या॑ह॒ तस्मा॒द् विभ॑क्ताः स्तो॒का अव॑ पद्य॒न्तेऽग्रं॒ ॅवा ए॒तत् प॑शू॒नां ॅयद् व॒पाऽग्र॒मोष॑धीनां ब॒र्॒.हिरग्रे॑णै॒वाग्रꣳ॒॒ सम॑र्द्धय॒त्यथो॒ ओष॑धीष्वे॒व प॒शून् प्रति॑ष्ठापयति॒ स्वाहा॑कृतीभ्यः॒ प्रेष्येत्या॑ह- [ ]
पदपाठः (Word-by-word)
अन्विति॑ । ए॒ति॒ । न । अ॒न्त॒मम् । अङ्गा॑रम् । अतीति॑ । ह॒रे॒त् । यत् । अ॒न्त॒मम् । अङ्गा॑रम् । अ॒ति॒हरे॒दित्य॑ति - हरे᳚त् । दे॒वताः᳚ । अतीति॑ । म॒न्ये॒त॒ । वायो॒ इति॑ । वीति॑ । इ॒हि॒ । स्तो॒काना᳚म् । इति॑ । आ॒ह॒ । तस्मा᳚त् । विभ॑क्ता॒ इति॒ वि - भ॒क्ताः॒ । स्तो॒काः । अवेति॑ । प॒द्य॒न्ते॒ । अग्र᳚म् । वै । ए॒तत् । प॒शू॒नाम् । यत् । व॒पा । अग्र᳚म् । ओष॑धीनाम् । ब॒र्॒.हिः । अग्रे॑ण । ए॒व । अग्र᳚म् । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । अथो॒ इति॑ । ओष॑धीषु । ए॒व । प॒शून् । प्रतीति॑ । स्था॒प॒य॒ति॒ । स्वाहा॑कृतीभ्य॒ इति॒ स्वाहा॑कृति - भ्यः॒ । प्रेति॑ । इ॒ष्य॒ । इति॑ । आ॒ह॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.3.9.6 TS 6.3.9.6
य॒ज्ञ्स्य॒ समि॑ष्ट्यै प्राणापा॒नौ वा ए॒तौ प॑शू॒नां ॅयत् पृ॑षदा॒ज्यमा॒त्मा व॒पा पृ॑षदा॒ज्यम॑भि॒घार्य॑ व॒पाम॒भि घा॑रयत्या॒त्मन्ने॒व प॑शू॒नां प्रा॑णापा॒नौ द॑धाति॒ स्वाहो॒र्द्ध्वन॑भसं मारु॒तं ग॑च्छत॒मित्या॑हो॒र्द्ध्वन॑भा ह स्म॒ वै मा॑रु॒तो दे॒वानां᳚ ॅवपा॒श्रप॑णी॒ प्र ह॑रति॒ तेनै॒वैने॒ प्र ह॑रति॒ विषू॑ची॒ प्र ह॑रति॒ तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ ॥
पदपाठः (Word-by-word)
य॒ज्ञ्स्य॑ । समि॑ष्ट्या॒ इति॒ सं-इ॒ष्ट्यै॒ । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । वै । ए॒तौ । प॒शू॒नाम् । यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । आ॒त्मा । व॒पा । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । अ॒भि॒घार्येत्य॑भि - घार्य॑ । व॒पाम् । अ॒भीति॑ । घा॒र॒य॒ति॒ । आ॒त्मन् । ए॒व । प॒शू॒नाम् । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । द॒धा॒ति॒ । स्वाहा᳚ । ऊ॒द्‌र्ध्वन॑भस॒मित्यू॒द्‌र्ध्व - न॒भ॒स॒म् । मा॒रु॒तम् । ग॒च्छ॒त॒म् । इति॑ । आ॒ह॒ । ऊ॒द्‌र्ध्वन॑भा॒ इत्यू॒द्‌र्ध्व - न॒भाः॒ । ह॒ । स्म॒ । वै । मा॒रु॒तः । दे॒वाना᳚म् । व॒पा॒श्रप॑णी॒ इति॑ वपा - श्रप॑णी । प्रेति॑ । ह॒र॒ति॒ । तेन॑ । ए॒व । ए॒ने॒ इति॑ । प्रेति॑ । ह॒र॒ति॒ । विषू॑ची॒ इति॑ । प्रेति॑ । ह॒र॒ति॒ । तस्मा᳚त् । विष्व॑ञ्चौ । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ ॥
पदसंख्या: 46