पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
तनेतान्सर्वानु(न)पेक्ष्यानुष्ठानं विधत्ते —
“चात्वालद्धिष्णियानुप वपति योनिर्वै यज्ञस्य चात्वालं यज्ञस्य सयोनित्वाय” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ततः पुरिषमादायोत्तरवेद्याः करणाच्चात्वालं यज्ञस्य योनिः। तादृशाच्चात्वालाद्धिष्णियनामकानां स्थलविशेषाणां निवपने यज्ञः सर्वोऽपि स्वयोनियुक्तो भवति।
कालान्तरेऽनुष्ठेयान्यपि कानिचिद्धिष्णियप्रसङ्गादिह विधीयन्ते।
तत्राऽऽग्नीध्रीयधिष्णियस्थिताद्वह्नेर्होत्रीयादिधिष्णियेष्वग्निस्थापनं विधत्ते —
“देवा वै यज्ञं पराऽजयन्त तमाग्नीध्रात्पुनरपाजयन्नेतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदाग्नीध्राद्धिष्णियान्विहरति यदेव यज्ञस्यापराजितं तत एवैनं पुनस्तनुते” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
पराजयन्त पराजयमकुर्वत। यज्ञमसुरा अगृह्णन्। पुनस्तं यज्ञमाग्नीध्रदेवता-
सामर्थ्येनासुरेभ्योऽपच्छिद्य देवा अजयन्। आग्नीध्रस्यापराजितस्थानत्वात्ततो विहरणं युक्तम्।
प्रैषमन्त्रमुत्पादयति —
“पराजित्येव खलु वा एते यन्ति ये बहिष्पवमानं सर्पन्ति बहिष्पवमाने स्तुत आहाग्नीदग्नीन्वि हर बर्हिः स्तृणाहि पुरोडाशा अलं कुर्विति यज्ञमेवापजित्य पुनस्तत्वाना यन्ति” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
बहिष्पवमानं नाम प्रातःसवने सामगैर्गीयमानमुपास्मै गायतेत्यादिकं स्तोत्रम्। तत्तु गायन्त ऋत्विजो धावन्ति यथा लोके पराजित्य पलायन्ते तद्वत्। ततः स्तोत्रे समापिते सत्याग्नीध्रं संबोध्याग्निविहरणादिप्रैष उक्ते यज्ञं पराजयादपावृत्य पुनः प्रसारितवन्तो भवन्ति।
विहरणे विशेषं विधत्ते —
“अङ्गारैर्द्वे सवने वि हरति शलाकाभिस्तृतीय सशुक्रत्वायाथो सं भरत्येवैनत्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
प्रातःसवनमाध्यंदिनसवनयोराग्नीध्रीयगतैर्दग्धकाष्ठैर्विहरेत्। तृतीयसवने तु शलाकभिर्दीप्ततृणमुष्टिभिर्विरहेत्। अत्र सोमस्य गायत्रीमुखेन(ण) पीतत्वान्नास्ति सोमे तेजः। दीप्तासु शलाकासु साररूपं तजोऽस्तीति सशुक्रत्वाय सतेजस्त्वाय तथा कुर्यात्। किंचैनत्तृतीयसवनमितरसदृशं कृत्वा संभरति सम्यक्पोषयति।
पूर्वोक्तं धिष्णियसंघं प्रशंसति —
“धिष्णिया वा अमुष्मिल्लोँके सोममरक्षन्तेभ्योऽधि सोममाहरन्तमन्ववायन्तं पर्यविशन्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।
स्वानभ्राजादय इव धिष्णियदेवता अपि सोमं रक्षन्ति। आह्रियमाणं सोममनु स्वयमप्यागत्य परित उपविष्टाः।
तस्मात्प्रशस्ता धिष्णियाः।
एतद्वेदनं प्रशंसति —
“य एवं वेद विन्दते परिवेष्टारम्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
सेवकयजनमित्यर्थः।
केषुचिद्धिष्णियेषु सोमाहुतिं विदधाति—
“ते सोमपीथेन व्यार्ध्यन्त ते देवेषु सोमपीथमैच्छन्त तान्देवा अब्रुवन्द्वेद्वे नामनी कुरध्वमथ प्र वाऽऽप्स्यथ न वेत्यग्नयो वा अथ धिष्णियास्तस्माद्द्विनामा ब्राह्मणोऽर्धुकस्तेषां ये नेदिष्ठं पर्यविशन्ते सोमपीथं प्राऽऽप्नुवन्नाहवनीय आग्नीध्रीयो होत्रीयो मार्जालीयस्तस्मात्तेषु जुह्वति” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ते धिष्णियाः सोमपानेन वियुक्ताः। ततस्ते देवेषु मध्ये सोमपानमस्माकमस्त्वित्यैच्छन्त। एकैकनाममात्रधारणेन युष्माकं सोमपानयोग्यता सर्वथा नास्ति। नामद्वये तु स्वीकृते पाक्षिकी तद्योग्यतेति देवैरुक्ता अग्निनाम धिष्णियनाम च कृतवन्तः। यस्मान्नामद्वयमुत्कर्षहेतुस्तस्माल्लोकेऽपि देवदत्तादिनाम प्रथमं धृत्वा पश्चात्तपोविद्यादिभिराचार्योपाध्यायादिकं द्वितीयं नाम दधत्सत्कारेण समृद्धो भवति। नामद्वयधारिणां तेषां मध्ये ये चत्वार आवहनीयादयः सोमस्यात्यन्तसमीपे निविष्टस्ते समीपवर्तित्वेन सोमपानयोग्या इति तेषु सोमं जुहुयुः।
द्विनामधारित्वेनेतरेषामपि प्रसक्तं सोमपानं वारयति —
“अतिहाय वषट्करोति वि ह्येते सोमपीथेनाऽऽर्ध्यन्त” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
ये दूरवर्तिनो मैत्रावरुणधिष्णियादयस्तानतिलङ्घ्य समीपस्थेभ्य एव वषट्कारस्तथाऽपि अनुवषट्कारप्रदानाहुतिब्राह्मण ऐतरेयश्रुतौ तदाहुतिदेवतात्वेन चतुर्णामेव श्रवणात्तानतिहाय वषट्करोतीत्युक्तम्।
सोमाहुतीनां व्यवस्थां विधत्ते —
“देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्तास्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्तास्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यङ्ङासीनो धिष्णियान्व्याघारयति पश्चाच्चैव पुरस्ताच्च यजमानो भ्रातृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
प्राङ्मुखेग हूयमानाः प्राचीरुत्तरवेदिगताः। यस्मादाहुतिषु द्वैविध्यं तस्माल्लोकेऽपि प्रजाः पित्रा यन्मुखेन प्रवीयन्ते निषिच्यन्ते तद्विपरीतदिङ्मुखा उत्पद्यन्ते।
अध्वर्योः प्रत्यग्गमननिषेधं निन्दाभ्यामुन्नयति —
“प्राणा वा एते यद्धिष्णिया यदध्वर्युः प्रत्यङ्धिष्णियानतिसर्पेत्प्राणान्त्संकर्षेत्प्रमायुकः स्यान्नाभिर्वा एषा यज्ञस्य यद्धोतोर्ध्वः खलु वै नाभ्यै प्राणोऽवाङपानो यदध्वर्युः प्रत्यङ्होतारमतिसर्पेदपाने प्राणं दध्यात्प्रमायुकः स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
अतिसर्पेदतिक्रम्य गच्छेत्। होता यज्ञस्य नाभिर्मध्यदेशे वर्तते। प्राणवत्प्राग्वर्तिनोरध्वर्योः प्रत्यग्गमनमयुक्तम्।
ऋत्विज उपगायन्तीति विधिप्राप्तगानमध्वर्योर्निषेधति —
“नाध्वर्युरुप गायेद्वाग्वीर्यो वा अध्वर्युर्यदध्वर्युरुपगायेदुद्गात्रे वाच सं प्रयच्छेदुपदासुकाऽस्य वाक्स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
उद्गात्रा सामनि गीयमाने पृष्ठतदङ्गीकरणमुपगानम्। उपदासुकोपक्षयशीला। प्रकारन्तरेणाध्वर्योः प्रत्यग्गमनं विधातुं।
चोद्यमुद्भावयति —
“ब्रह्मवादिनो वदन्ति नासस्थिते सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादथ कथा दाक्षिणानि होतुमेति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
अध्वर्योः सद उल्लङ्घ्य प्रत्यग्गमनं निषिद्धम्। दाक्षिणहोमस्तु प्राचीनवंशे नूतनगार्हपत्ये कर्तव्यः। तत्कथं घटते। असंस्थितेऽसमाप्ते। कथा केन प्रकारेण।
उक्तचोद्यस्य परिहारभासमाशङ्कते —
“यामो हि स तेषाम्” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
याम उपरमः। यस्मात्स दाक्षिणहोमस्तेषां देवानां संबन्धिनः कर्मण उपरमकालीनोऽतो लौकिकगमनत्वाद्देवा अनुज्ञास्यन्ति।
इत्थमुत्तराभासं दूषयति –
“कस्मा अह देवा यामं वाऽयामं वाऽनु ज्ञास्यन्तीति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
अहेत्युक्तनिषेधे। यदुत्तरवादिनोक्तं भवति, देवाः कस्मै प्रयोजनाय कर्मण उपरतियनुपरतिं वाऽनुज्ञास्यन्ति, न हि तदनुज्ञया देवानां किंचित्प्रयोजनं पश्यामः। ततः प्रत्यग्गमनस्य निषिद्धत्वाद्दाक्षिणहोमो न घटत एवेति चोद्यं सुस्थितम्।
तस्य मुख्यं परिहारं दर्शयन्प्रत्यग्गमनं विधत्ते —
‘उत्तरेणाऽऽग्नीध्रं परीत्य जुहोति दाक्षिणानि न प्राणान्त्सं कर्षति’ [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।
आग्नीध्रहविर्धानयोर्मध्ये गत्वा यत्सदोतिक्रमणं तदेव निषिद्धम्। अयं त्वाग्नीध्रं वामतः परित्यज्य तस्मादुत्तरतः प्रत्यङ्मुखो गत्वा प्राचीनवंशे दाक्षिणानि जुहुयात्। ततो नोक्तदोषः।
प्रासङ्गिकं परिसमाप्य प्रकृतमनुसरति। तत्र चात्वालाद्धिष्णियानुपवपतीति सामान्यशास्त्रेणाऽग्नीध्रादीनां प्राजहितान्तानां षोडशानामपि निवपने प्रसक्ते मार्जालीयान्तानामेवेति विशेषं विधत्ते —
‘न्यन्ये धिष्णिया उप्यन्ते नान्ये यान्निवपति तेन तान्प्रीणाति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।
इतरेषामाहवनीयादीनां प्राजहितान्तानामष्टानामुपस्थानं विधत्ते —
‘यान्न निवपति यदनुदिशति तेन तान्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति। प्रीणातीत्यनुवर्तते।
अनुदेशनं मन्त्रेणोपस्थानम्।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
षष्ठं काण्डम्
तृतीयः प्रपाठकः