अनुवाकः 1 TS 6.3.1

(A1)

(स्तु॒ते - वि॒न्दते॒ - हि - वी॑यन्ते प्र॒तीची॑ - रुद्ग्रा॒त्र - उ॒प्यन्ते॒ - चतु॑र्दश च)

अनुवाकः 1 - Complete Audio

TS 6.3.1 - स्वरानुगामी

0:00 0:00
PS1.1 चात्वा॑ला॒द्-धिष्णि॑या॒नुप॑ वपति॒ योनि॒र्वै य॒ज्ञ्स्य॒
PS1.2 चात्वा॑लं ॅय॒ज्ञ्स्य॑ सयोनि॒त्वाय॑ दे॒वा
PS1.3 वै य॒ज्ञ्ं परा॑ऽजयन्त॒ तमाग्नी᳚द्ध्रा॒त्
PS1.4 पुन॒रपा॑जयन्ने॒तद्वै य॒ज्ञ्स्या-प॑राजितं॒ ॅयदाग्नी᳚द्ध्रं॒ ॅयदाग्नी᳚द्ध्रा॒द्धिष्णि॑यान्.
PS1.5 वि॒हर॑ति॒ यदे॒व य॒ज्ञ्स्या-प॑राजितं॒ तत॑
PS1.6 ए॒वैनं॒ पुन॑स्तनुते परा॒जित्ये॑व॒ खलु॒
PS1.7 वा ए॒ते य॑न्ति॒ ये
PS1.8 ब॑हिष्पवमा॒नꣳ सर्प॑न्ति बहिष्पवमा॒ने स्तु॒त-
PS1.9 [ ]
PS2.1 आ॒हाग्नी॑द॒ग्नीन्. वि ह॑र ब॒र्॒.हिः
PS2.2 स्तृ॑णाहि पुरो॒डाशाꣳ॒॒ अलं॑ कु॒र्विति॑
PS2.3 य॒ज्ञ्मे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना य॒न्त्यङ्गा॑रै॒र्द्वे सव॑ने॒
PS2.4 वि ह॑रति श॒लाका॑भि-स्तृ॒तीयꣳ॑ सशुक्र॒त्वायाथो॒
PS2.5 सं भ॑रत्ये॒वैन॒द्धिष्णि॑या॒ वा अ॒मुष्मि॑न्
PS2.6 ॅलो॒के सोम॑मरक्ष॒न् तेभ्योऽधि॒ सोम॒माऽह॑र॒न्
PS2.7 त म॑न्व॒वाय॒न्तं पर्य॑विश॒न्॒. य
PS2.8 ए॒वं ॅवेद॑ वि॒न्दते॑- [
PS2.9 ]
PS3.1 परिवे॒ष्टारं॒ ते सो॑मपी॒थेन॒ व्या᳚र्द्ध्यन्त॒
PS3.2 ते दे॒वेषु॑ सोमपी॒थमै᳚च्छन्त॒ तान्
PS3.3 दे॒वा अ॑ब्रुव॒न् द्वेद्वे॒ नाम॑नी
PS3.4 कुरुद्ध्व॒मथ॒ प्र वा॒ऽऽफ्स्यथ॒ न
PS3.5 वेत्य॒ग्नयो॒ वा अथ॒ धिष्णि॑या॒स्तस्मा᳚द्
PS3.6 द्वि॒नामा᳚ ब्राह्म॒णोऽर्द्धु॑क॒स्तेषां॒ ॅये नेदि॑ष्ठं
PS3.7 प॒र्यवि॑श॒न् ते सो॑मपी॒थं प्राऽ*प्नु॑वन्नाहव॒नीय॑
PS3.8 आग्नी॒द्ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीय॒स्तस्मा॒त् तेषु॑
PS3.9 जुह्वत्यति॒हाय॒ वष॑ट् करोति॒ वि
PS3.10 ह्ये॑- [ ]
PS4.1 -ते सो॑मपी॒थेनाऽऽ*र्द्ध्य॑न्त दे॒वा वै
PS4.2 याः प्राची॒-राहु॑ती॒-रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न्
PS4.3 ताꣳ स्ताभिः॒ प्राणु॑दन्त॒ याः
PS4.4 प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न् ताꣳस्ताभि॒-रपा॑नुदन्त॒
PS4.5 प्राची॑र॒न्या आहु॑तयो हू॒यन्ते᳚ प्र॒त्यङ्ङासी॑नो॒
PS4.6 धिष्णि॑या॒न्. व्याघा॑रयति प॒श्चाच्चै॒व पुरस्ता᳚च्च॒
PS4.7 यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒
PS4.8 तस्मा॒त् परा॑चीः प्र॒जाः प्र
PS4.9 वी॑यन्ते प्र॒तीची᳚- [ ]
PS5.1 र्जायन्ते प्रा॒णा वा ए॒ते
PS5.2 यद्धिष्णि॑या॒ यद॑द्ध्व॒र्युः प्र॒त्यङ् धिष्णि॑या-नति॒सर्पे᳚त्
PS5.3 प्रा॒णान्थ् संक॑र्.षेत् प्र॒मायु॑कः स्या॒न्नाभि॒र्वा
PS5.4 ए॒षा य॒ज्ञ्स्य॒ यद्धोतो॒र्द्ध्वः खलु॒
PS5.5 वै नाभ्यै᳚ प्रा॒णोऽवा॑ङपा॒नो यद॑ध्व॒र्युः
PS5.6 प्र॒त्यङ् होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णं द॑ध्यात्
PS5.7 प्र॒मायु॑कः स्या॒न्नाद्ध्व॒र्युरुप॑ गाये॒द् वाग्वी᳚र्यो॒
PS5.8 वा अ॑द्ध्व॒र्यु-र्यद॑द्ध्व॒र्युरु॑प॒-गाये॑दुद्-गा॒त्रे- [ ]
PS6.1 वाचꣳ॒॒ सं प्र य॑च्छे-दुप॒दासु॑काऽस्य॒
PS6.2 वाख् स्या᳚द्ब्रह्मवा॒दिनो॑ वदन्ति॒ नासꣳ॑स्थिते॒
PS6.3 सोमे᳚ऽद्ध्व॒र्युः प्र॒त्यङ्ख् सदोऽती॑या॒दथ॑ क॒था
PS6.4 दा᳚क्षि॒णानि॒ होतु॑मेति॒ यामो॒ हि
PS6.5 स तेषां॒ कस्मा॒ अह॑
PS6.6 दे॒वा यामं॒ ॅवाऽया॑मं॒ ॅवाऽनु॑
PS6.7 ज्ञास्य॒न्तीत्यु-त्त॑रे॒णाऽऽ*ग्नी᳚द्ध्रं प॒रीत्य॑ जुहोति दाक्षि॒णानि॒
PS6.8 न प्रा॒णान्थ्सं क॑र्.षति॒ न्य॑न्ये
PS6.9 धिष्णि॑या उ॒प्यन्ते॒ ( )
PS6.10 नान्ये यान् नि॒वप॑ति॒ तेन॒
PS6.11 तान् प्री॑णाति॒ यान् ननि॒वप॑ति॒
PS6.12 यद॑नुदि॒शति॒ तेन॒ तान्

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.3.1.1 TS 6.3.1.1
चात्वा॑ला॒द्-धिष्णि॑या॒नुप॑ वपति॒ योनि॒र्वै य॒ज्ञ्स्य॒ चात्वा॑लं ॅय॒ज्ञ्स्य॑ सयोनि॒त्वाय॑ दे॒वा वै य॒ज्ञ्ं परा॑ऽजयन्त॒ तमाग्नी᳚द्ध्रा॒त् पुन॒रपा॑जयन्ने॒तद्वै य॒ज्ञ्स्या-प॑राजितं॒ ॅयदाग्नी᳚द्ध्रं॒ ॅयदाग्नी᳚द्ध्रा॒द्धिष्णि॑यान्. वि॒हर॑ति॒ यदे॒व य॒ज्ञ्स्या-प॑राजितं॒ तत॑ ए॒वैनं॒ पुन॑स्तनुते परा॒जित्ये॑व॒ खलु॒ वा ए॒ते य॑न्ति॒ ये ब॑हिष्पवमा॒नꣳ सर्प॑न्ति बहिष्पवमा॒ने स्तु॒त- [ ]
पदपाठः (Word-by-word)
चात्वा॑लात् । धिष्णि॑यान् । उपेति॑ । व॒प॒ति॒ । योनिः॑ । वै । य॒ज्ञ्स्य॑ । चात्वा॑लम् । य॒ज्ञ्स्य॑ । स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । दे॒वाः । वै । य॒ज्ञ्म् । परेति॑ । अ॒ज॒य॒न्त॒ । तम् । आग्नी᳚᳚द्ध्रा॒दित्याग्नि॑ - इ॒द्ध्रा॒त् । पुनः॑ । अपेति॑ । अ॒ज॒य॒न्न् । ए॒तत् । वै । य॒ज्ञ्स्य॑ । अप॑राजित॒मित्यप॑रा - जि॒त॒म् । यत् । आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् । यत् । आग्नी᳚द्ध्रा॒दित्याग्नि॑ - इ॒द्ध्रा॒त् । धिष्णि॑यान् । वि॒हर॒तीति॑ वि-हर॑ति । यत् । ए॒व । य॒ज्ञ्स्य॑ । अप॑राजित॒मित्यप॑रा - जि॒त॒म् । ततः॑ । ए॒व । ए॒न॒म् । पुनः॑ । त॒नु॒ते॒ । प॒रा॒जित्येति॑ परा-जित्य॑ । इ॒व॒ । खलु॑ । वै । ए॒ते । य॒न्ति॒ । ये । ब॒हि॒ष्प॒व॒मा॒नमिति॑ बहिः - प॒व॒मा॒नम् । सर्प॑न्ति । ब॒हि॒ष्प॒व॒मा॒न इति॑ बहिः - प॒व॒मा॒ने । स्तु॒ते ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

तनेतान्सर्वानु(न)पेक्ष्यानुष्ठानं विधत्ते —

“चात्वालद्धिष्णियानुप वपति योनिर्वै यज्ञस्य चात्वालं यज्ञस्य सयोनित्वाय” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।

ततः पुरिषमादायोत्तरवेद्याः करणाच्चात्वालं यज्ञस्य योनिः। तादृशाच्चात्वालाद्धिष्णियनामकानां स्थलविशेषाणां निवपने यज्ञः सर्वोऽपि स्वयोनियुक्तो भवति।

कालान्तरेऽनुष्ठेयान्यपि कानिचिद्धिष्णियप्रसङ्गादिह विधीयन्ते।

तत्राऽऽग्नीध्रीयधिष्णियस्थिताद्वह्नेर्होत्रीयादिधिष्णियेष्वग्निस्थापनं विधत्ते —

“देवा वै यज्ञं पराऽजयन्त तमाग्नीध्रात्पुनरपाजयन्नेतद्वै यज्ञस्यापराजितं यदाग्नीध्रं यदाग्नीध्राद्धिष्णियान्विहरति यदेव यज्ञस्यापराजितं तत एवैनं पुनस्तनुते” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।

पराजयन्त पराजयमकुर्वत। यज्ञमसुरा अगृह्णन्। पुनस्तं यज्ञमाग्नीध्रदेवता-

सामर्थ्येनासुरेभ्योऽपच्छिद्य देवा अजयन्। आग्नीध्रस्यापराजितस्थानत्वात्ततो विहरणं युक्तम्।

प्रैषमन्त्रमुत्पादयति —

“पराजित्येव खलु वा एते यन्ति ये बहिष्पवमानं सर्पन्ति बहिष्पवमाने स्तुत आहाग्नीदग्नीन्वि हर बर्हिः स्तृणाहि पुरोडाशा अलं कुर्विति यज्ञमेवापजित्य पुनस्तत्वाना यन्ति” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।

बहिष्पवमानं नाम प्रातःसवने सामगैर्गीयमानमुपास्मै गायतेत्यादिकं स्तोत्रम्। तत्तु गायन्त ऋत्विजो धावन्ति यथा लोके पराजित्य पलायन्ते तद्वत्। ततः स्तोत्रे समापिते सत्याग्नीध्रं संबोध्याग्निविहरणादिप्रैष उक्ते यज्ञं पराजयादपावृत्य पुनः प्रसारितवन्तो भवन्ति।

विहरणे विशेषं विधत्ते —

“अङ्गारैर्द्वे सवने वि हरति शलाकाभिस्तृतीय सशुक्रत्वायाथो सं भरत्येवैनत्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।

प्रातःसवनमाध्यंदिनसवनयोराग्नीध्रीयगतैर्दग्धकाष्ठैर्विहरेत्। तृतीयसवने तु शलाकभिर्दीप्ततृणमुष्टिभिर्विरहेत्। अत्र सोमस्य गायत्रीमुखेन(ण) पीतत्वान्नास्ति सोमे तेजः। दीप्तासु शलाकासु साररूपं तजोऽस्तीति सशुक्रत्वाय सतेजस्त्वाय तथा कुर्यात्। किंचैनत्तृतीयसवनमितरसदृशं कृत्वा संभरति सम्यक्पोषयति।

पूर्वोक्तं धिष्णियसंघं प्रशंसति —

“धिष्णिया वा अमुष्मिल्लोँके सोममरक्षन्तेभ्योऽधि सोममाहरन्तमन्ववायन्तं पर्यविशन्” (सं॰ का॰ ६ प्र॰ ३॰ अ॰ १) इति।

स्वानभ्राजादय इव धिष्णियदेवता अपि सोमं रक्षन्ति। आह्रियमाणं सोममनु स्वयमप्यागत्य परित उपविष्टाः।

तस्मात्प्रशस्ता धिष्णियाः।

एतद्वेदनं प्रशंसति —

“य एवं वेद विन्दते परिवेष्टारम्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।

सेवकयजनमित्यर्थः।

केषुचिद्धिष्णियेषु सोमाहुतिं विदधाति—

“ते सोमपीथेन व्यार्ध्यन्त ते देवेषु सोमपीथमैच्छन्त तान्देवा अब्रुवन्द्वेद्वे नामनी कुरध्वमथ प्र वाऽऽप्स्यथ न वेत्यग्नयो वा अथ धिष्णियास्तस्माद्द्विनामा ब्राह्मणोऽर्धुकस्तेषां ये नेदिष्ठं पर्यविशन्ते सोमपीथं प्राऽऽप्नुवन्नाहवनीय आग्नीध्रीयो होत्रीयो मार्जालीयस्तस्मात्तेषु जुह्वति” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।

ते धिष्णियाः सोमपानेन वियुक्ताः। ततस्ते देवेषु मध्ये सोमपानमस्माकमस्त्वित्यैच्छन्त। एकैकनाममात्रधारणेन युष्माकं सोमपानयोग्यता सर्वथा नास्ति। नामद्वये तु स्वीकृते पाक्षिकी तद्योग्यतेति देवैरुक्ता अग्निनाम धिष्णियनाम च कृतवन्तः। यस्मान्नामद्वयमुत्कर्षहेतुस्तस्माल्लोकेऽपि देवदत्तादिनाम प्रथमं धृत्वा पश्चात्तपोविद्यादिभिराचार्योपाध्यायादिकं द्वितीयं नाम दधत्सत्कारेण समृद्धो भवति। नामद्वयधारिणां तेषां मध्ये ये चत्वार आवहनीयादयः सोमस्यात्यन्तसमीपे निविष्टस्ते समीपवर्तित्वेन सोमपानयोग्या इति तेषु सोमं जुहुयुः।

द्विनामधारित्वेनेतरेषामपि प्रसक्तं सोमपानं वारयति —

“अतिहाय वषट्करोति वि ह्येते सोमपीथेनाऽऽर्ध्यन्त” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।

ये दूरवर्तिनो मैत्रावरुणधिष्णियादयस्तानतिलङ्घ्य समीपस्थेभ्य एव वषट्कारस्तथाऽपि अनुवषट्कारप्रदानाहुतिब्राह्मण ऐतरेयश्रुतौ तदाहुतिदेवतात्वेन चतुर्णामेव श्रवणात्तानतिहाय वषट्करोतीत्युक्तम्।

सोमाहुतीनां व्यवस्थां विधत्ते —

“देवा वै याः प्राचीराहुतीरजुहवुर्ये पुरस्तादसुरा आसन्तास्ताभिः प्राणुदन्त याः प्रतीचीर्ये पश्चादसुरा आसन्तास्ताभिरपानुदन्त प्राचीरन्या आहुतयो हूयन्ते प्रत्यङ्ङासीनो धिष्णियान्व्याघारयति पश्चाच्चैव पुरस्ताच्च यजमानो भ्रातृव्यान्प्र णुदते तस्मात्पराचीः प्रजाः प्र वीयन्ते प्रतीचीर्जायन्ते” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।

प्राङ्मुखेग हूयमानाः प्राचीरुत्तरवेदिगताः। यस्मादाहुतिषु द्वैविध्यं तस्माल्लोकेऽपि प्रजाः पित्रा यन्मुखेन प्रवीयन्ते निषिच्यन्ते तद्विपरीतदिङ्मुखा उत्पद्यन्ते।

अध्वर्योः प्रत्यग्गमननिषेधं निन्दाभ्यामुन्नयति —

“प्राणा वा एते यद्धिष्णिया यदध्वर्युः प्रत्यङ्धिष्णियानतिसर्पेत्प्राणान्त्संकर्षेत्प्रमायुकः स्यान्नाभिर्वा एषा यज्ञस्य यद्धोतोर्ध्वः खलु वै नाभ्यै प्राणोऽवाङपानो यदध्वर्युः प्रत्यङ्होतारमतिसर्पेदपाने प्राणं दध्यात्प्रमायुकः स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।

अतिसर्पेदतिक्रम्य गच्छेत्। होता यज्ञस्य नाभिर्मध्यदेशे वर्तते। प्राणवत्प्राग्वर्तिनोरध्वर्योः प्रत्यग्गमनमयुक्तम्।

ऋत्विज उपगायन्तीति विधिप्राप्तगानमध्वर्योर्निषेधति —

“नाध्वर्युरुप गायेद्वाग्वीर्यो वा अध्वर्युर्यदध्वर्युरुपगायेदुद्गात्रे वाच सं प्रयच्छेदुपदासुकाऽस्य वाक्स्यात्” (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।

उद्गात्रा सामनि गीयमाने पृष्ठतदङ्गीकरणमुपगानम्। उपदासुकोपक्षयशीला। प्रकारन्तरेणाध्वर्योः प्रत्यग्गमनं विधातुं।

चोद्यमुद्भावयति —

“ब्रह्मवादिनो वदन्ति नासस्थिते सोमेऽध्वर्युः प्रत्यङ्सदोऽतीयादथ कथा दाक्षिणानि होतुमेति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।

अध्वर्योः सद उल्लङ्घ्य प्रत्यग्गमनं निषिद्धम्। दाक्षिणहोमस्तु प्राचीनवंशे नूतनगार्हपत्ये कर्तव्यः। तत्कथं घटते। असंस्थितेऽसमाप्ते। कथा केन प्रकारेण।

उक्तचोद्यस्य परिहारभासमाशङ्कते —

“यामो हि स तेषाम्” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।

याम उपरमः। यस्मात्स दाक्षिणहोमस्तेषां देवानां संबन्धिनः कर्मण उपरमकालीनोऽतो लौकिकगमनत्वाद्देवा अनुज्ञास्यन्ति।

इत्थमुत्तराभासं दूषयति –

“कस्मा अह देवा यामं वाऽयामं वाऽनु ज्ञास्यन्तीति” [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।

अहेत्युक्तनिषेधे। यदुत्तरवादिनोक्तं भवति, देवाः कस्मै प्रयोजनाय कर्मण उपरतियनुपरतिं वाऽनुज्ञास्यन्ति, न हि तदनुज्ञया देवानां किंचित्प्रयोजनं पश्यामः। ततः प्रत्यग्गमनस्य निषिद्धत्वाद्दाक्षिणहोमो न घटत एवेति चोद्यं सुस्थितम्।

तस्य मुख्यं परिहारं दर्शयन्प्रत्यग्गमनं विधत्ते —

‘उत्तरेणाऽऽग्नीध्रं परीत्य जुहोति दाक्षिणानि न प्राणान्त्सं कर्षति’ [सं॰ का॰ ६ प्र॰ ३ अ॰ १] इति।

आग्नीध्रहविर्धानयोर्मध्ये गत्वा यत्सदोतिक्रमणं तदेव निषिद्धम्। अयं त्वाग्नीध्रं वामतः परित्यज्य तस्मादुत्तरतः प्रत्यङ्मुखो गत्वा प्राचीनवंशे दाक्षिणानि जुहुयात्। ततो नोक्तदोषः।

प्रासङ्गिकं परिसमाप्य प्रकृतमनुसरति। तत्र चात्वालाद्धिष्णियानुपवपतीति सामान्यशास्त्रेणाऽग्नीध्रादीनां प्राजहितान्तानां षोडशानामपि निवपने प्रसक्ते मार्जालीयान्तानामेवेति विशेषं विधत्ते —

‘न्यन्ये धिष्णिया उप्यन्ते नान्ये यान्निवपति तेन तान्प्रीणाति’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति।

इतरेषामाहवनीयादीनां प्राजहितान्तानामष्टानामुपस्थानं विधत्ते —

‘यान्न निवपति यदनुदिशति तेन तान्’ (सं॰ का॰ ६ प्र॰ ३ अ॰ १) इति। प्रीणातीत्यनुवर्तते।

अनुदेशनं मन्त्रेणोपस्थानम्।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

तैत्तिरीय संहितायां

षष्ठं काण्डम्

तृतीयः प्रपाठकः

1 चात्वालादित्यादि ।। चात्वालात्पुरीषमादाय होत्रीयादिधिष्णियानुपवपति स्थलीकरोति । हेतुमाह - योनिरिति । ततः पुरीषमादायोत्तरवेद्याः करणाच्चात्वालं यज्ञस्य योनिः कारणम्, 'योनिर्वै यज्ञस्य चात्वालं योनिः कृष्णविषाणा योनावेव योनिं दधाति' इत्यादिदर्शनाच्च । यज्ञस्येति । एवं क्रियमाणे यज्ञस्य सयोनित्वं कारणसम्मितत्वं भवति ।।
2 देवा वा इत्यादि ।। देवा यज्ञं पराजयन्त परागमन् असुरमायया परागतयज्ञा अभवन् । 'विपराभ्यां जेः' इत्यात्मनेपदम् । अथ तं यज्ञं आग्नीध्राद्धिष्णियान्निमित्तात् अपादानाद्वा अपाजयन् अपादायात्मनस्समीपमागमयन् असुरजयेन पुनरावृत्तयज्ञा अभवन् । एतद्वै यज्ञस्यापराजितं यत्र यज्ञो न पराजीयते तादृशमिदं धिष्णियं यदाग्नीघ्रं नाम । तस्माद्यदाग्नीध्राद्धिष्णियान्विहरति विविधमुत्पादयति, यदेव यज्ञस्यापराजितं यद्धि महाभाग्येन तत ऊर्ध्वं यज्ञो न परानेष्यते । ततस्तादृशादेव धिष्णियात् एनं यज्ञं पुनस्तनुते पुनरभ्याहरति नातः परं असुरादिभिः पराजेतुं शक्यते इति आर्ग्नीध्रविहरणं चरति । तस्मादाग्नीध्राद्धिष्णियान्विहरतीति विधीयते ।।
3 पराजित्येत्यादि ।। एते खलु यज्ञं पराजित्येव परागमय्येव पराङ्मुखमिव यज्ञं कृत्वा यज्ञं पराजयन्त इव यन्ति गच्छन्ति ये बहिष्पवमानं सर्पन्ति समुपसर्पन्ति । त्रिवृदात्मा स्तोमो बहिष्पवमानः प्रातस्सवनीयः । तस्माद्बहिष्पवमाने उद्गातृभिस्स्तुते 'अग्नीदग्नीन्' इत्यादिकमाहेति विधिः; । निगदव्याख्यातः प्रैषः । एवं हि यज्ञमपराजितमिव स्थितं अपजित्य पुनरावृत्तं कृत्वा पुनरात्मीयमिव संभावयन्तः पुनर्यज्ञं तन्वानाः विस्तारयन्तो यदि निर्बाधं नयन्ति । अङ्गारैरिति । द्वयोः प्रातस्सवनमाध्यन्दिनसवनयोः धिष्णियानङ्गारैर्विहरति । तृतीयसवने शलाकाभिरिति विधिः । अयमभिप्रायः - तृतयिसवनस्य गायत्र्युद्धृतसारस्य प्रागेव गतसारत्वात् रसवत्त्वापादनाय तत्र शलाका आनीयन्ते, यदाह 'सशुक्रत्वाय' इति । इतरयोस्तु सवनयोः पूर्वमेव सरसत्वात् दग्धकाष्ठानयनेऽपि न दोष इति तत्राङ्गारैरेव विहार इति । एतदेव विजितमिति । अथो अपिच संभरत्येवैनत् एतत्तृतीयसवनमितराभ्यां सम्भरति समानतां नयतीति यावत् ।।
4 धिष्णिया वा इत्यादि ।। एते धिष्णियाः पूर्वममुष्मिन् लोके सोममरक्षन् । तेभ्यो देवास्सोममध्याहरन् । ततस्ते धिष्णिया देवैराह्रियमाणं तं सोममन्ववायन् अन्वगच्छन् । ततस्तं सोमं धिष्णियाः पर्यविशन् परित आवेष्ट्य सेवका इव समुपासत । एवं वेदिता परिवेष्टारं विन्दते लभते । विशतेस्तृचा परिवेष्टा सेवकः ॥
5 ते धिष्णियाः पूर्वं सोमपीथेन सोमपानेन व्यार्ध्यन्त व्ययुज्यन्त देवेषु सोमपीथमैच्छन्त पायास्म सोममिति प्रार्थयन्त । तांस्तथा प्रार्थयमानान् देवा अब्रुवन् द्वेद्वे नामनी युष्माकं कुरुध्वं द्वेद्वे नामनी बिभृत । अथ द्वितीयनामकरणानन्तरं सोमपीयं प्राप्स्यथ न वा प्राप्स्यथेति । तथा देवैरुक्तास्ते धिष्णियाः द्वितीयं नाम चक्रुः । तद्दर्शयितुमाह - अग्नयो वा अथ धिष्णिया इत्यादि । पूर्वमग्निनामानो देववचनानन्तरं धिष्णियनामानो बभूवुरिति यावत् । तस्माद्द्विनामा ब्राह्मणः अर्धुकः ऋद्धिशीलः । छान्दस उकञ् । तेषां धिष्णियानां मध्ये ये नेदिष्ठमन्तिकतमं पर्यविशन् पर्यासीनाः । 'अन्तिकबाढयोः' इति नेदादेशः । ते सोमपीथं प्राप्नुवन् । आहवनीयादयश्चत्वारः । तस्मात्तेषु जुह्वति सोमं, सोमेन तेषु व्याघारणहोमं कुर्वन्ति, इतरेष्वाज्येनैव व्याधारणं, न सर्वेष्वपि । अतिहाय वषट्कऽरोति अन्यान् धिष्णियान् प्रशास्त्रीयादीनतिहाय अतिलङ्घ्य वषट्करोति सोमदानं तेष्वेवेत्यर्थः । एतदेव दर्शयितुमाह - वि हीति । एते खल्वाहवनीयादिव्यतिरिक्ताः सोमपीथेन व्यार्ध्यन्त व्ययुज्यन्त । तस्मान्न तेषु वषट्कारप्रदानमिति, अस्ति व्याघारणमिति भावः । ननु द्वितीयनामधारणादेतेषामपि सोमपोथेन भाव्यम् । नोक्तं द्वितीयनाम बिभ्रतां भवत्येव सोमपीथ इति । किं तर्हि? द्वितीये नाम बिभ्रतस्सोमपीथ इत्युच्यते । यथाऽऽह 'अथ प्रवाप्स्यथ न वेति' ।।
6 देवा वा इत्यादि ।। याः प्राचीरात्मनः प्राग्गताः प्रतीचीरात्मनः प्रत्यग्गताः । शिष्टं 'स्पष्टम् । उभयत्रापि 'चौ' इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्वं च । यस्मादेवं देवाः प्राचीभिः प्रतीचीभिश्चाहुतिभिः सर्वानसुरान्नाशितवन्तः तस्मात् प्राचीरन्या इति । अन्यास्सोमाहुतयः प्राच्यः आत्मनः प्राग्गता हूयन्ते । स तान् प्राङ्मुखेनेति यान् धिष्णियान् प्रत्यङ्मुख आसीनो व्याघारयति । 'एकान्याभ्याम्' इति प्रथमा तिङ्विभक्तिर्न निहन्यते । पश्चादित्यादि । गतम् । तस्मादित्यादि । पराचीः प्रजाः प्रवीयन्ते तत्प्रतिकूलगत्या जायन्ते ।।
7 प्राणा इत्यादि ।। अतिसर्पेत् अतीत्य प्रत्यगञ्चेत् प्राणान् संकर्षेत् स्थानाच्च्यावयेत् । ततश्च प्रामायुको मरणशलिस्स्यादध्वर्युः ।।
8 नाभिर्वा इत्यादि ।। मध्यमत्वसामान्याद्यज्ञस्य नाभिरेव होता । ऊर्ध्वः ऊर्ध्वप्रवृत्तिः खलु नाभ्याः प्राणः शरीरे मुखनासिकाधारत्वात् । अवाङ् अवाङ्मुखप्रवृत्तिः अपानः नाभ्या इत्येव । 'अनिगन्तोञ्चतौ' इति गतेः प्रकृतिस्वरत्वम् । तत्र यदध्वर्युर्होतारं अतीत्य प्रत्यग्गच्छेत् अपाने प्राणं दध्यात्, तथा प्रमायुकस्स्यात् । तस्मात्प्रत्यगध्वर्युः न गच्छेदिति विधिः ।।
9 नाध्वर्युरुपगायेदिति विधिः ।। 'ऋत्विज उप गायन्ति' इति प्राप्तमस्य निषिध्यते । वाग्वीर्य इत्यादि । वागधीनवीर्यः । यदित्यादि । उपगानं नामोद्गातुः कर्म तत्कुर्वन्नध्वर्युः ऊद्गात्रे आत्मनो वाचं संप्रयच्छेत् । ततश्चाध्वर्योरुपदासुका क्षयशीला वाक्य्सात् । सर्वत्र छान्दस उकञ् । सर्वेषु यद्वृत्तेषु निघाते प्रतिषिद्धे 'तिकि चोदात्तवति' इति गतेरनुदात्तत्वम्, 'उदात्तवता तिङा' इति गतेः आख्यातेन समासः ।।
10 ब्रह्मवादिन इत्यादि ।। असमाप्ते सोमे अध्वर्युः प्रत्यङ् सदो नातीयात् नातिक्रम्य गच्छेत् । अथैवं स्थिते दाक्षिणानि 'उदु त्यं' 'चित्रम्' इति होतुं कथं प्रत्यङ्ङेति । तत्र हि द्वाभ्यां गार्हपत्ये जुहोति । एवं ब्रह्मवादिनः पर्यनुयोगं कृत्वा परिहारमुद्भावयन्ति दूषयितुम् - यामो हीति । यद्यत्रोत्तरं ब्रूयाद् यामः उपरमः खल्वसौ कर्मणः, तेषां देवानामुपरतं कर्मेति यावत् । तस्मात्कर्मव्युपरमे लौकिके गमनमात्रे नास्ति दोषः । पानादिकर्मकाले हि नानुजानन्ति प्रत्यग्गमनं देवा इति । अथैतद्दूषयति - कस्मै अर्थाय देवाः यामं वाऽयामं वा कर्मणोनुज्ञास्यन्ति सन्ततिनिषेधशास्त्रे यामायामपर्यालोचनां किमिति करिष्यन्ति सर्वथा न सहन्ते सदोतीत्य प्रत्यग्गमनमिति ब्रह्मवादिनः पर्यनुयोगमाहुः । अत्रोत्तरमाह - उत्तरेणाग्नीध्रं परीत्य दाक्षिणानि जुहोति । एवं कुर्वन् प्राणान् न संकर्षतीति ।।
11 न्यन्य इति ।। अन्ये धिष्णिया आग्नीध्रादयो न्युप्यन्ते । 'एकान्याभ्यां समर्थाभ्याम्' इत्याख्यातं न निहन्यते । नान्य इति । न्युप्यन्त इत्येव । आहवनीयादयो न्युप्यन्ते । तत्र यान् निवपति 'विभूरसि' इत्यादिविहितेन निवपनेन तान् प्रीणाति । यान्न निवपति तान् अपि 'सम्राडसि'3 इत्यादिना अनुदेशेन प्रीणाति । पूर्ववद्यद्वृत्तेषु गतेरनुदात्तत्वम्, समासश्च ।।
इति षष्ठे काण्डे तृतीयप्रश्ने प्रथमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.3.1.2 TS 6.3.1.2
आ॒हाग्नी॑द॒ग्नीन्. वि ह॑र ब॒र्॒.हिः स्तृ॑णाहि पुरो॒डाशाꣳ॒॒ अलं॑ कु॒र्विति॑ य॒ज्ञ्मे॒वाप॒जित्य॒ पुन॑स्तन्वा॒ना य॒न्त्यङ्गा॑रै॒र्द्वे सव॑ने॒ वि ह॑रति श॒लाका॑भि-स्तृ॒तीयꣳ॑ सशुक्र॒त्वायाथो॒ सं भ॑रत्ये॒वैन॒द्धिष्णि॑या॒ वा अ॒मुष्मि॑न् ॅलो॒के सोम॑मरक्ष॒न् तेभ्योऽधि॒ सोम॒माऽह॑र॒न् त म॑न्व॒वाय॒न्तं पर्य॑विश॒न्॒. य ए॒वं ॅवेद॑ वि॒न्दते॑- [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । अग्नी॒दित्यग्नि॑ - इ॒त् । अ॒ग्नीन् । वीति॑ । ह॒र॒ । ब॒र॒.हिः । स्तृ॒णा॒हि॒ । पु॒रो॒डाशान्॑ । अल᳚म् । कु॒रु॒ । इति॑ । य॒ज्ञ्म् । ए॒व । अ॒प॒जित्येत्य॑प-जित्य॑ । पुनः॑ । त॒न्वा॒नाः । य॒न्ति॒ । अङ्गा॑रैः । द्वे इति॑ । सव॑ने॒ इति॑ । वीति॑ । ह॒र॒ति॒ । श॒लाका॑भिः । तृ॒तीय᳚म् । स॒शु॒क्र॒त्वायेति॑ सशुक्र - त्वाय॑ । अथो॒ इति॑ । समिति॑ । भ॒र॒ति॒ । ए॒व । ए॒न॒त् । धिष्णि॑याः । वै । अ॒मुष्मिन्न्॑ । लो॒के । सोम᳚म् । अ॒र॒क्ष॒न्न् । तेभ्यः॑ । अधीति॑ । सोम᳚म् । एति॑ । अ॒ह॒र॒न्न् । तम् । अ॒न्व॒वाय॒न्नित्य॑नु-अ॒वायन्न्॑ । तम् । परीति॑ । अ॒वि॒श॒न्न् । य । ए॒वम् । वेद॑ । वि॒न्दते᳚ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.3.1.3 TS 6.3.1.3
परिवे॒ष्टारं॒ ते सो॑मपी॒थेन॒ व्या᳚र्द्ध्यन्त॒ ते दे॒वेषु॑ सोमपी॒थमै᳚च्छन्त॒ तान् दे॒वा अ॑ब्रुव॒न् द्वेद्वे॒ नाम॑नी कुरुद्ध्व॒मथ॒ प्र वा॒ऽऽफ्स्यथ॒ न वेत्य॒ग्नयो॒ वा अथ॒ धिष्णि॑या॒स्तस्मा᳚द् द्वि॒नामा᳚ ब्राह्म॒णोऽर्द्धु॑क॒स्तेषां॒ ॅये नेदि॑ष्ठं प॒र्यवि॑श॒न् ते सो॑मपी॒थं प्राऽ*प्नु॑वन्नाहव॒नीय॑ आग्नी॒द्ध्रीयो॑ हो॒त्रीयो॑ मार्जा॒लीय॒स्तस्मा॒त् तेषु॑ जुह्वत्यति॒हाय॒ वष॑ट् करोति॒ वि ह्ये॑- [ ]
पदपाठः (Word-by-word)
प॒रि॒वे॒ष्टार॒मिति॑ परि - वे॒ष्टार᳚म् । ते । सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ । वीति॑ । आ॒द्‌र्ध्य॒न्त॒ । ते । दे॒वेषु॑ । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । ऐ॒च्छ॒न्त॒ । तान् । दे॒वाः । अ॒ब्रु॒व॒न्न् । द्वे द्वे॒ इति॒ द्वे-द्वे॒ । नाम॑नी॒ इति॑ । कु॒रु॒द्ध्व॒म् । अथ॑ । प्रेति॑ । वा॒ । आ॒फ्स्यथ॑ । न । वा॒ । इति॑ । अ॒ग्नयः॑ । वै । अथ॑ । धिष्णि॑याः । तस्मा᳚त् । द्वि॒नामेति॑ द्वि - नामा᳚ । ब्रा॒ह्म॒णः । अद्‌र्धु॑कः । तेषा᳚म् । ये । नेदि॑ष्ठम् । प॒र्यवि॑श॒निति॑ परि - अवि॑शन्न् । ते । सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । प्रेति॑ । आ॒प्नु॒व॒न्न् । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । आ॒ग्नी॒द्ध्रीय॒ इत्या᳚ग्नि - इ॒ध्रीयः॑ । हो॒त्रीयः॑ । मा॒र्जा॒लीयः॑ । तस्मा᳚त् । तेषु॑ । जु॒ह्व॒ति॒ । अ॒ति॒हायेत्य॑ति-हाय॑ । वष॑ट् । क॒रो॒ति॒ । वीति॑ । हि ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.3.1.4 TS 6.3.1.4
-ते सो॑मपी॒थेनाऽऽ*र्द्ध्य॑न्त दे॒वा वै याः प्राची॒-राहु॑ती॒-रजु॑हवु॒र्ये पु॒रस्ता॒दसु॑रा॒ आस॒न् ताꣳ स्ताभिः॒ प्राणु॑दन्त॒ याः प्र॒तीची॒र्ये प॒श्चादसु॑रा॒ आस॒न् ताꣳस्ताभि॒-रपा॑नुदन्त॒ प्राची॑र॒न्या आहु॑तयो हू॒यन्ते᳚ प्र॒त्यङ्ङासी॑नो॒ धिष्णि॑या॒न्. व्याघा॑रयति प॒श्चाच्चै॒व पुरस्ता᳚च्च॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒ तस्मा॒त् परा॑चीः प्र॒जाः प्र वी॑यन्ते प्र॒तीची᳚- [ ]
पदपाठः (Word-by-word)
ए॒ते । सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ । आद्‌र्ध्य॑न्त । दे॒वाः । वै । याः । प्राचीः᳚ । आहु॑ती॒रित्या - हु॒तीः॒ । अजु॑हवुः । ये । पु॒रस्ता᳚त् । असु॑राः । आसन्न्॑ । तान् । ताभिः॑ । प्रेति॑ । अ॒नु॒द॒न्त॒ । याः । प्र॒तीचीः᳚ । ये । प॒श्चात् । असु॑राः । आसन्न्॑ । तान् । ताभिः॑ । अपेति॑ । अ॒नु॒द॒न्त॒ । प्राचीः᳚ । अ॒न्याः । आहु॑तय॒ इत्या - हु॒त॒यः॒ । हू॒यन्ते᳚ । प्र॒त्यङ् । आसी॑नः । धिष्णि॑यान् । व्याघा॑रय॒तीति॑ वि - आघा॑रयति । प॒श्चात् । च॒ । ए॒व । पु॒रस्ता᳚त् । च॒ । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ । तस्मा᳚त् । परा॑चीः । प्र॒जा इति॑ प्र-जाः । प्रेति॑ । वी॒य॒न्ते॒ । प्र॒तीचीः᳚ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.3.1.5 TS 6.3.1.5
र्जायन्ते प्रा॒णा वा ए॒ते यद्धिष्णि॑या॒ यद॑द्ध्व॒र्युः प्र॒त्यङ् धिष्णि॑या-नति॒सर्पे᳚त् प्रा॒णान्थ् संक॑र्.षेत् प्र॒मायु॑कः स्या॒न्नाभि॒र्वा ए॒षा य॒ज्ञ्स्य॒ यद्धोतो॒र्द्ध्वः खलु॒ वै नाभ्यै᳚ प्रा॒णोऽवा॑ङपा॒नो यद॑ध्व॒र्युः प्र॒त्यङ् होता॑रमति॒सर्पे॑दपा॒ने प्रा॒णं द॑ध्यात् प्र॒मायु॑कः स्या॒न्नाद्ध्व॒र्युरुप॑ गाये॒द् वाग्वी᳚र्यो॒ वा अ॑द्ध्व॒र्यु-र्यद॑द्ध्व॒र्युरु॑प॒-गाये॑दुद्-गा॒त्रे- [ ]
पदपाठः (Word-by-word)
जा॒य॒न्ते॒ । प्रा॒णा इति॑ प्र-अ॒नाः । वै । ए॒ते । यत् । धिष्णि॑याः । यत् । अ॒द्ध्व॒र्युः । प्र॒त्यङ् । धिष्णि॑यान् । अ॒ति॒सर्पे॒दित्य॑ति - सर्पे᳚त् । प्रा॒णानिति॑ प्र - अ॒नान् । समिति॑ । क॒र्॒.षे॒त् । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । नाभिः॑ । वै । ए॒षा । य॒ज्ञ्स्य॑ । यत् । होता᳚ । ऊ॒द्‌र्ध्वः । खलु॑ । वै । नाभ्यै᳚ । प्रा॒ण इति॑ प्र - अ॒नः । अवाङ्॑ । अ॒पा॒न इत्य॑प - अ॒नः । यत् । अ॒द्ध्व॒र्युः । प्र॒त्यङ् । होता॑रम् । अ॒ति॒सर्पे॒दित्य॑ति - सर्पे᳚त् । अ॒पा॒न इत्य॑प - अ॒ने । प्रा॒णमिति॑ प्र - अ॒नम् । द॒द्ध्या॒त् । प्र॒मायु॑क॒ इति॑ प्र - मायु॑कः । स्या॒त् । न । अ॒द्ध्व॒र्युः । उपेति॑ । गा॒ये॒त् । वाग्वी᳚र्य॒ इति॒ वाक् - वी॒र्यः॒ । वै । अ॒द्ध्व॒र्युः । यत् । अ॒द्ध्व॒र्युः । उ॒प॒गाये॒दित्यु॑प - गाये᳚त् । उ॒द्गा॒त्र इत्यु॑त् - गा॒त्रे ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.3.1.6 TS 6.3.1.6
वाचꣳ॒॒ सं प्र य॑च्छे-दुप॒दासु॑काऽस्य॒ वाख् स्या᳚द्ब्रह्मवा॒दिनो॑ वदन्ति॒ नासꣳ॑स्थिते॒ सोमे᳚ऽद्ध्व॒र्युः प्र॒त्यङ्ख् सदोऽती॑या॒दथ॑ क॒था दा᳚क्षि॒णानि॒ होतु॑मेति॒ यामो॒ हि स तेषां॒ कस्मा॒ अह॑ दे॒वा यामं॒ ॅवाऽया॑मं॒ ॅवाऽनु॑ ज्ञास्य॒न्तीत्यु-त्त॑रे॒णाऽऽ*ग्नी᳚द्ध्रं प॒रीत्य॑ जुहोति दाक्षि॒णानि॒ न प्रा॒णान्थ्सं क॑र्.षति॒ न्य॑न्ये धिष्णि॑या उ॒प्यन्ते॒ ( ) नान्ये यान् नि॒वप॑ति॒ तेन॒ तान् प्री॑णाति॒ यान् ननि॒वप॑ति॒ यद॑नुदि॒शति॒ तेन॒ तान् ॥
पदपाठः (Word-by-word)
वाच᳚म् । सम् । प्रेति॑ । य॒च्छे॒त् । उ॒प॒दासु॒केत्यु॑प-दासु॑का । अ॒स्य॒ । वाक् । स्या॒त् । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । न । असꣳ॑स्थित॒ इत्यसं᳚ - स्थि॒ते॒ । सोमे᳚ । अ॒द्ध्व॒र्युः । प्र॒त्यङ् । सदः॑ । अतीति॑ । इ॒या॒त् । अथ॑ । क॒था । दा॒क्षि॒णानि॑ । होतु᳚म् । ए॒ति॒ । यामः॑ । हि । सः । तेषा᳚म् । कस्मै᳚ । अह॑ । दे॒वाः । याम᳚म् । वा॒ । अया॑मम् । वा॒ । अन्विति॑ । ज्ञा॒स्य॒न्ति॒ । इति॑ । उत्त॑रे॒णेत्युत्- त॒रे॒ण॒ । आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् । प॒रीत्येति॑ परि - इत्य॑ । जु॒हो॒ति॒ । दा॒क्षि॒णानि॑ । न । प्रा॒णानिति॑ प्र - अ॒नान् । समिति॑ । क॒र्॒.ष॒ति॒ । नीति॑ । अ॒न्ये । धिष्णि॑याः । उ॒प्यन्ते᳚ ( ) । न । अ॒न्ये । यान् । नि॒वप॒तीति॑ नि - वप॑ति । तेन॑ । तान् । प्री॒णा॒ति॒ । यान् । न । नि॒वप॒तीति॑ नि - वप॑ति । यत् । अ॒नु॒दि॒शतीत्य॑नु - दि॒शति॑ । तेन॑ । तान् ॥
पदसंख्या: 64