अनुवाकः 10 TS 6.3.10

(A10)

(ए॒तौ प॑शू॒नाꣳ - समे॑धस्यै॒व - तस्याऽवो᳚ - त्त॒मस्याव॑ द्य॒ती - ति॒ - पञ्च॑चत्वारिꣳशच्च)

अनुवाकः 10 - Complete Audio

TS 6.3.10 - स्वरानुगामी

0:00 0:00
PS1.1 प॒शुमा॒लभ्य॑ पुरो॒डाशं॒ निर्व॑पति॒ समे॑धमे॒वैन॒मा
PS1.2 ल॑भते व॒पया᳚ प्र॒चर्य॑ पुरो॒डाशे॑न॒
PS1.3 प्र च॑र॒त्यूर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व
PS1.4 प॑शू॒नां म॑द्ध्य॒तो द॑धा॒त्यथो॑ प॒शोरे॒व
PS1.5 छि॒द्रमपि॑ दधाति पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिः
PS1.6 पृ॑च्छति शृ॒तꣳ ह॒वी(3)ः श॑मित॒रिति॒
PS1.7 त्रिष॑त्या॒ हि दे॒वा योऽशृ॑तꣳ
PS1.8 शृ॒तमाह॒ स एन॑सा प्राणापा॒नौ
PS1.9 वा ए॒तौ प॑शू॒नां- [
PS1.10 ]
PS2.1 ॅयत् पृ॑षदा॒ज्यं प॒शोः खलु॒
PS2.2 वा आल॑ब्धस्य॒ हृद॑यमा॒त्माऽभि समे॑ति॒
PS2.3 यत् पृ॑षदा॒ज्येन॒ हृद॑य-मभिघा॒रय॑त्या॒त्मन्ने॒व प॑शू॒नां
PS2.4 प्रा॑णापा॒नौ द॑धाति प॒शुना॒ वै
PS2.5 दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न् ते॑ऽमन्यन्त
PS2.6 मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिरः॑
PS2.7 छि॒त्त्वा मेधं॒ प्राक्षा॑रय॒न्थ्स प्र॒क्षो॑ऽभव॒त्
PS2.8 तत् प्र॒क्षस्य॑ प्रक्ष॒त्वं ॅयत्
PS2.9 प्ल॑क्षशा॒खो-त्त॑रब॒र्॒.हि-र्भव॑ति॒ समे॑धस्यै॒व- [ ]
PS3.1 प॒शोरव॑ द्यति प॒शुं ॅवै
PS3.2 ह्रि॒यमा॑णꣳ॒॒ रक्षाꣳ॒॒स्यनु॑ सचन्तेऽन्त॒रा यूपं॑
PS3.3 चाऽऽ*हव॒नीयं॑ च हरति॒ रक्ष॑सा॒मप॑हत्यै
PS3.4 प॒शोर्वा आल॑ब्धस्य॒ मनोऽप॑ क्रामति
PS3.5 म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑
PS3.6 ए॒वास्याव॑ रुन्ध॒ एका॑दशाव॒दाना॒न्यव॑ द्यति॒
PS3.7 दश॒ वै प॒शोः प्रा॒णा
PS3.8 आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तस्याव॑- [
PS3.9 ]
PS4.1 द्यति॒ हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒
PS4.2 अथ॒ वक्ष॑सो॒ यद्वै हृद॑येनाभि॒गच्छ॑ति॒
PS4.3 तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒ वद॑ति॒
PS4.4 तदुर॒सोऽधि॒ निर्व॑दत्ये॒तद्वै प॒शोर्य॑थापू॒र्वं ॅयस्यै॒वम॑व॒दाय॑
PS4.5 यथा॒काम॒-मुत्त॑रेषामव॒द्यति॑ यथा पू॒र्वमे॒वास्य॑ प॒शोरव॑त्तं
PS4.6 भवति मद्ध्य॒तो गु॒दस्याव॑ द्यति
PS4.7 मद्ध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑
PS4.8 द्यत्यु- [ ]
PS5.1 -त्त॒मो हि प्रा॒णो यदीत॑रं॒
PS5.2 ॅयदीत॑र-मु॒भय॑मे॒वाजा॑मि॒ जाय॑मानो॒ वै ब्रा᳚ह्म॒णस्त्रि॒भिर्.ऋ॑ण॒वा
PS5.3 जा॑यते ब्रह्म॒चर्ये॒णर्षि॑भ्यो य॒ज्ञेन॑ दे॒वेभ्यः॑
PS5.4 प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा
PS5.5 अ॑नृ॒णो यः पु॒त्री यज्वा᳚
PS5.6 ब्रह्मचारिवा॒सी तद॑व॒दानै॑रे॒वाव॑ दयत॒ तद॑व॒दाना॑ना-मवदान॒त्वं
PS5.7 दे॑वासु॒राः संॅय॑त्ता आस॒न् ते
PS5.8 दे॒वा अ॒ग्निम॑ब्रुव॒न् त्वया॑ वी॒रेणासु॑रान॒भि
PS5.9 भ॑वा॒मेति॒- [ ]
PS6.1 सो᳚ऽब्रवी॒द् वरं॑ ॅवृणै प॒शोरु॑द्धा॒रमुद्ध॑रा॒
PS6.2 इति॒ स ए॒तमु॑द्धा॒रमुद॑हरत॒ दोः
PS6.3 पू᳚र्वा॒र्द्धस्य॑ गु॒दं म॑द्ध्य॒तः श्रोणिं॑
PS6.4 जघना॒र्द्धस्य॒ ततो॑ दे॒वा अभ॑व॒न्
PS6.5 पराऽसु॑रा॒ यत् त्र्य॒ङ्गाणाꣳ॑ समव॒द्यति॒
PS6.6 भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो
PS6.7 भवत्यक्ष्ण॒याऽव॑ द्यति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒
PS6.8 प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.3.10.1 TS 6.3.10.1
प॒शुमा॒लभ्य॑ पुरो॒डाशं॒ निर्व॑पति॒ समे॑धमे॒वैन॒मा ल॑भते व॒पया᳚ प्र॒चर्य॑ पुरो॒डाशे॑न॒ प्र च॑र॒त्यूर्ग्वै पु॑रो॒डाश॒ ऊर्ज॑मे॒व प॑शू॒नां म॑द्ध्य॒तो द॑धा॒त्यथो॑ प॒शोरे॒व छि॒द्रमपि॑ दधाति पृषदा॒ज्यस्यो॑प॒हत्य॒ त्रिः पृ॑च्छति शृ॒तꣳ ह॒वी(3)ः श॑मित॒रिति॒ त्रिष॑त्या॒ हि दे॒वा योऽशृ॑तꣳ शृ॒तमाह॒ स एन॑सा प्राणापा॒नौ वा ए॒तौ प॑शू॒नां- [ ]
पदपाठः (Word-by-word)
प॒शुम् । आ॒लभ्येत्या᳚ - लभ्य॑ । पु॒रो॒डाश᳚म् । निरिति॑ । व॒प॒ति॒ । समे॑ध॒मिति॒ स - मे॒ध॒म् । ए॒व । ए॒न॒म् । एति॑ । ल॒भ॒ते॒ । व॒पया᳚ । प्र॒चर्येति॑ प्र-चर्य॑ । पु॒रो॒डाशे॑न । प्रेति॑ । च॒र॒ति॒ । ऊर्क् । वै । पु॒रो॒डाशः॑ । ऊर्ज᳚म् । ए॒व । प॒शू॒नाम् । म॒द्ध्य॒तः । द॒धा॒ति॒ । अथो॒ इति॑ । प॒शोः । ए॒व । छि॒द्रम् । अपीति॑ । द॒धा॒ति॒ । पृ॒ष॒दा॒ज्यस्येति॑ पृषत् - आ॒ज्यस्य॑ । उ॒प॒हत्येत्यु॑प - हत्य॑ । त्रिः । पृ॒च्छ॒ति॒ । शृ॒तम् । ह॒वी(3)ः । श॒मि॒तः॒ । इति॑ । त्रिष॑त्या॒ इति॒ त्रि - स॒त्याः॒ । हि । दे॒वाः । यः । अशृ॑तम् । शृ॒तम् । आह॑ । सः । एन॑सा । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । वै । ए॒तौ । प॒शू॒नां ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

अभिघारणं विधित्सुरादौ वपोत्खेदप्रयुक्तच्छिद्रापिधानरूपं पश्वङ्गं पुरोडाशं विधत्ते —

‘पशुमालभ्य पुरोडाशं निर्वपति समेधमेवैनमा लभते’ (सं. का. ५ प्र. ३ अ. १०) इति।

मेधः सारः। पुरोडाशस्य व्रीहिसारत्वात्सारोपेतं पशुमालब्धवान्भवति।

निरुप्तस्य होमकालं विधत्ते —

‘वपया प्रचर्य पुरोडाशेन प्र चरत्यूर्ग्वै पुरोडाश ऊर्जमेव पशूनां मध्यतो दधात्यथो पशोरेव छिद्रमपि दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।

जातवेदो वपया गच्छ देवानिति मन्त्रेण वपां हुत्वा पश्चात्पुरोडाशहोमः। वपाहृदयादिहोमयोर्मध्यं पशूनामुदरस्थानमतस्तत्रैवोर्जं पुरोडाशरूपमन्नं स्थापितवान्भवति। किंच वपाछेदेन यत्पशोश्छिद्रं तत्पिहितं भवति।

उत्तरदेशे हृयादिहविः पचन्तं शमितारं प्रति प्रश्नमन्त्रमुत्पादयति —

‘पृषदाज्यस्यस्योपहत्य त्रिः पृच्छति शृत हवीः३ शमितरिति त्रिषत्या हि देवाः’ (सं. का. ६ प्र. ३ अ. १०) इति।

पृषदाज्यस्य पात्रगतस्यांशं स्रुवेणोपहत्य पृथक्स्वीकृत्य मन्त्रेण त्रिः पृच्छेत्। शृतं पक्वम्। प्लुतिः प्रश्नार्था। त्रिरुक्तं सत्यमिति बुद्धिर्येषां ते त्रिषत्याः।

व्यतिरेकमुखेणोत्तरविधिमुन्नयति —

‘योऽशृत शृतमाह स एनसा’ (सं. का. ६ प्र. ३ अ. १०) इति।

युज्यत इति शेषः। तस्माच्छृते सत्युत्तरं ब्रूयादिति विधिः।

अत्र सं ते मनसा मन इत्यस्य मन्त्रस्यार्थमुपेक्ष्याभिघारणं विधत्ते —

‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माऽभि समेति यत्पृषदाज्येन हृदयमभिघारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।

अभिसमेत्याभिमुख्येनाऽऽत्मा हृदयदेशमागच्छति।

अथ प्लक्षनामकस्य शाखामवदानाधारत्वेन विधत्ते —

‘पशुना वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति तस्य शिरश्छित्त्वा मेधं प्राक्षारयन्त्स प्रक्षोऽभवत्तत्प्रक्षस्य प्रक्षत्वं यत्प्लक्षशाखोत्तरबर्हिर्भवति समेधस्यैव पशोरव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति। पशुना सह स्वर्गं गच्छन्तो देवा मनुष्याणां स्वैः सहाऽऽगमनं मा भूदित्यभिप्रेत्य तद्वारयितुं पशोः शिरश्छित्त्वा मेधं रसं प्राक्षारयन्नस्रावयन्। स रसो भूमौ पतित्वा प्लक्षवृक्षोऽभवत्। तस्मात्क्षरणादुत्पन्नस्य प्लक्षनाम संपन्नम्। तच्छाखा बर्हिष ऊर्ध्वं स्थापनादुत्तरबर्हिरित्युच्यते। तदावस्थापनेन सरसस्यैव पशोर्हविरवत्तं भवति।

पक्वस्य हृदयादिहविष आहवनीयं प्रत्यानयने मार्गविशेषं विधत्ते —

‘पशुं वै ह्रियमाण रक्षास्यनु सचन्तेऽन्तरा यूपं चाऽऽहवनीयं च हरति रक्षासामपहत्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।

अनुसचन्तेऽनुगच्छन्ति। यूपस्याऽऽहवनीयस्य च रक्षोघातित्वात्तयोरन्तराले भयं नास्ति।

होतारं प्रति प्रैषमन्त्रमुत्पादयति –

‘पशोर्वा आलब्धस्य मनोऽप क्रामति मनोतायै हविषोऽवदीयमानस्यानु ब्रूहीत्याह मन एवास्याव रुन्धे’ (सं. का. ६ प्र. ३ अ. १०) इति।

संख्याविशिष्टान्यवदानानि विधत्ते —

‘एकादशावदानान्यव द्यति दश वै पशोः प्राणा आत्मैकादशा यावानेव पशुस्तस्याव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति।

नाभिसहितानि दश च्छिद्राणि प्राणा देह आत्माऽत एकादशसंख्यया कृत्स्नोऽपि पशुरवत्तो भवति।

क्रमं विधत्ते —

‘हृदयस्याग्रेऽव द्यत्यथ जिह्वाया अथ वक्षसो यद्वै हृदयेनाभिगच्छति तज्जिह्वया वदति यज्जिह्वया वदति तदुरसोऽधि निर्वदत्येतद्वै पशोर्यथापूर्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।

लोके प्रथमं हृदयेन यन्निश्चिनोति तत्पश्चाज्जिह्वया वदति। पुनरपि तदेव निःशेषेणोच्चध्वनिना यदा वदति तदानीमुरस ऊर्ध्वदेशगतबलेन वदति। तस्माद्धृदयादीनां त्रयाणामंशक्रमेणावद्येत्। एतदेव क्रमावदानं पशोरङ्गेषु यथापूर्वं भवति। यथा लोकेऽभिवदनव्यवहारः पूर्वं प्रवृत्तस्तथैव भवति।

उत्तरेष्वङ्गेषु हृदयादिवत्प्रसक्तं क्रमं वारयति — ‘यस्यैवमवदाय यथाकाममुत्तरेषामवद्यति यथापूर्वमेवास्य पशोरवत्तं भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।

उक्तप्रकारेण यस्य पशोर्हृदयादीनि त्रीण्यङ्गान्यवदायोत्तरेषामैच्छिकक्रमेऽपि पूर्वं हृदयाद्यङ्गं यथा न दोषकारि तथैवोत्तरमपि भवति।

एकादशस्वङ्गेषु गुदकाण्डरूपमङ्गमुत्तममध्यमाधमभागैस्त्रेधा विभज्य त्रिषु तेषु भागेषु मध्यमोत्तमभागयोर्विकल्पेनावदानं विधत्ते —

‘मध्यतो गुदस्याव द्यति मध्यतो हि प्राण उत्तमस्याव द्यत्युत्तमो हि प्राणो यदीतरं यदीतरमुभयमेवाजामि’ (सं. का. ६ प्र. ३ अ. १०) इति।

प्राणवायुर्मुखमध्ये वर्तते, स्वयं जीवनहेतुत्वाच्चक्षुरादिषु सर्वेषूत्तमश्च। अतो यदीतरं मध्यमभागं स्वी कुर्यात्, यदीतरमुत्तमभागं तदुभयमपि जामिकृन्न भवति, किंत्वनालस्यं दोषरहितमित्यर्थः।

हृदयाद्यवदानानि प्रशंसति —

‘जायमानो वै ब्रह्मणस्त्रिभिणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तदवदानैरेवाव दयते तदवदानानामवदानत्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।

ब्रह्मचर्येण वेदाभ्यासेन ब्रह्मचारित्वेन गुरुगृहे वसतीति ब्रह्मचारिवासी वेदाभ्यासादिभिरपाकर्तव्यं यदृणं तद्धृदयाद्यवदानैरेवापाकरोति। ऋणमवदयत एभिरित्यवदानत्वम्।

स्विष्टकृदर्थं त्र्यङ्गावदानं विधत्ते —

‘देवासुराः संयत्ता आसन्ते देवा अग्निमब्रुवन्त्वया वीरेणासुरानभिभवामेति सोऽब्रवीद्वरं वृणै पशोरुद्धारमुद्धरा इति स एतमुद्धारमुदहरत दोः पूर्वार्धस्य गुदं मध्यतः श्रोणिं जघनार्धस्य ततो देवा अभवन्पराऽसुरा यत्त्र्यङ्गाणा समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।

उद्धारमुत्कृष्टं ध्रियमाणमुत्तमं भागमुद्धरै स्वी करवाणि। पशोः पूर्वार्धस्य संबन्धि दोर्हस्तम्। मध्यतः पशुमध्यभागसंबन्धि गुदम्। अपरार्धस्य संबन्धिनीं श्रोणिम्।

वक्रगतिं विधत्ते —

‘अक्ष्णयाऽव द्यति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।

गवादयः शयनकालेऽङ्गानि पादानक्ष्णया वक्रत्वेनावस्थापयन्ति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पशुमालभ्येत्यादि ।। पशोस्संज्ञपनानन्तरं पुरोडाशं निर्वपति, यजनानन्तरमेव वा । एवं हि समेधसमेवैनमालभते मेधानुरूपोयमालब्धो भवति । आनुरूप्ये अव्ययीभावः । यद्वा - समेधसं सरसमेवालभते, ओषधिनिमित्तत्वात्सारस्यम् ।।
2 वपयेति ।। वपाप्रचरणानन्तरं पुरोडाशेन प्रचरितव्यम् । ऊर्ग्वा इत्यादि । गतम् । मध्यत इति । वपाहविर्यागयोर्मध्ये पुरोडाशयागात् पशूनां मध्ये अन्नमेव दधाति । अपि च यच्छिद्रं वपासुषिरं पशोस्तदप्यपिदधाति तिरोदधाति घट्टयति । पृषदाज्यस्येत्यादि । जुह्वा स्रुवेण पृषदाज्यस्य एकदेशमुपहत्य पार्श्वत आदाय । यद्वा - कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । पृषदाज्यं गृहीत्वा शमितारं त्रिः पृच्छति । हे शमितः कि शृतं पक्वं हव्यम् । अनन्त्यस्यापि 'प्रश्नाख्ययोः' इति प्लुतः । 'शृतं पाके' इति निपात्यते । त्रिषत्या हीति । त्रिरुक्तं सत्यं श्रद्धेयं येषां ते त्रिषत्याः । सुषामादित्वात्षत्वम् । य इत्यादि । यश्शमिता अशृतमेव हविः शृतमाह शृतमिति ब्रूते स एनसा उपलक्षितो भवति । सहयोगे वा तृतीया, एनस्वी भवति । तस्मात् शृते सत्यमेव शृतं ब्रूयात् । प्राणापानावित्यादि । गतम् । अभिसमेतीति । आभिमुख्येन हृदयप्रदेशमागच्छति । गतमन्यत् ।।
3 पशुना वा इत्यादि ।। पशुना स्वर्गं गता देवाः मनुष्याणामपि पशुना अन्वागमनमाशङ्कमानास्तन्मा भूदिति तस्य पशोश्शिरश्छित्त्वा मेधं रसं प्राक्षारयन् । प्रक्षरणात्प्रक्षः, । कपिलकादित्वाल्लत्वविकल्पः, क्षरेश्छान्दसो डः । यदिति । प्लक्षो वृक्षविशेषः । उत्तरबर्हिरिति संज्ञा, यत्रावदानान्यवद्यति । समेधस्येति । सरसस्यैव पशोरवदानं कृतं भवति, प्लक्षशाखायामवदानात् । पशुं वा इत्यादि । पशुमवदानार्थं ह्रियमाणं रक्षांस्यनुसचन्ते पृष्ठतो भजन्ते । तस्माद्यूपाहवनीययोर्मध्येन हरति । 'अन्तराऽन्तरोण' इति द्वितीया । तद्रक्षसामपहत्यै भवति तद्रक्षसां प्रवेशाभावाय ।।
4 पशोर्वा इत्यादि ।। अपक्रमणं नाशः । मनोताया इति संप्रैषः । मनोता अग्निः, यथा - 'त्वं ह्यग्रे प्रथमो मनोता' इति । मनसा उता मनोता । पृषोदरादिः ।।
5 एकादशेति ।। प्रयाजेषु व्याख्यातम् । हृदयस्येत्यादिक्रमविधिः । यद्वा इति क्रमसमर्थनम् । हृदयस्थितं जिह्रयाऽवद्यति । तदुरसोधि निर्वदति उरसा ऊर्ध्वं निष्क्रम्य उरोबलेन वाग्रूपेणावतिष्ठते । एतद्वा इति । एतावदेव पशोः यथापूर्वं आनुपूर्व्येणावदेयं अर्थक्रमानुरोधादेव हृदयादीनि त्रीण्यङ्गानि लोकेऽपि प्रसिद्धक्रमाणि । एवमनेन क्रमेणावदायोत्तरेषामष्टानामङ्गानां यथाकाममवद्यति; अर्थक्रमाभावात् स्वाभिमतेन क्रमेणावद्यति अस्यैव पशोः यथापूर्वमेवावदानं कृतं भवति । क्रमाभावान्नातिक्रमेणावत्तं भवति । मध्यत इति । केचिदाहुः - पञ्चानामवदाय ततो गुदस्यावद्यतीति । तेन सामर्थ्याद्विकल्प इति । अन्य आहुः - गुदं त्रेधा कृत्वा मध्यमस्यावद्यति उत्तमस्य वेति । मध्यतो हि देहे प्राणोवतिष्ठते । उत्तमः उद्गततमो हि प्राणः मुखनासिकेन निर्गतत्वात् । यदीतरमिति । 'नेतराच्छन्दसि' इत्यडादेशाभावः । अन्यतरपक्षसमाश्रयणेऽपि न दोष इति प्रतिपादयितुं वीप्सादिमध्यतोपादानम् । यदि वा उत्तमस्योभयमप्येतत् । अजामि आलस्यरहितं निर्दोषमिति यावत् ।।
6 जायमान इत्यादि ।। जायमानावस्थ एव त्रिभिः ऋणैः ऋणवान् जायते ब्राह्मणः । 'छन्दसीवनिपौ' इति वनिप्प्रत्ययः, प्रत्ययान्तोदात्तत्वम् । यद्वा - 'ह्रस्वनुड्भ्यां मतुप्' इति विधीयमानस्यापि भवति । तदवदानैरिति । यद्देवेभ्यः ऋणं तदवदानैः हृदयादिभिः [वि]युज्यमानैरवदयते विनाशयति । एवमेषामवदानत्वमिति स्तुतिः । करणे ल्युट् ।।
7 देवासुरा इत्यादि ।। गतम् । उद्धारमिति । उत्कृष्टं हरणमुद्धारः ज्येष्ठभाग इति प्रसिद्धः यस्सामान्यभागस्योपरिभागः, तमहमुद्धारैरुद्धरेयेति । स एतमिति । एतं वक्ष्यमाण दोःप्रभृतिमुद्धारत्वेनोदहरताग्निः । अत्र 'अक्ष्णयाऽव द्यति' इति वक्ष्यमाणत्वात् दक्षिणा दोस्सव्या श्रोणिरिति गम्यते । ततोग्रिना वीरेण देवा अभवन् भूतिमन्तस्सपन्नाः । असुराश्च पराभूताः । 'चादिलोपे विभाषा' इति निघाताभावः ।।
8 यत्त्र्यङ्गाणामिति ।। त्रीण्यङ्गानि त्र्यङ्गानि । 'दिक्संख्ये संज्ञायाम्' इति समासः सप्तर्षिवत् । तेषां दोःप्रभृतीनां समवदानमेकत्रावदानम् । भ्रातृव्याभिभूत्यै भवतीत्यादि । गतम् ।।
10 अक्ष्णयेति ।। दक्षिणस्या दोष्णः सव्यायाश्च श्रोणेरवदानात् । तस्मादित्यादि । व्याख्यातम् । तस्मादक्ष्णयाऽवदानं प्रतिष्ठित्यै भवति ।।
इति षष्ठे तृतीये दशमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.3.10.2 TS 6.3.10.2
ॅयत् पृ॑षदा॒ज्यं प॒शोः खलु॒ वा आल॑ब्धस्य॒ हृद॑यमा॒त्माऽभि समे॑ति॒ यत् पृ॑षदा॒ज्येन॒ हृद॑य-मभिघा॒रय॑त्या॒त्मन्ने॒व प॑शू॒नां प्रा॑णापा॒नौ द॑धाति प॒शुना॒ वै दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न् ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ तस्य॒ शिरः॑ छि॒त्त्वा मेधं॒ प्राक्षा॑रय॒न्थ्स प्र॒क्षो॑ऽभव॒त् तत् प्र॒क्षस्य॑ प्रक्ष॒त्वं ॅयत् प्ल॑क्षशा॒खो-त्त॑रब॒र्॒.हि-र्भव॑ति॒ समे॑धस्यै॒व- [ ]
पदपाठः (Word-by-word)
यत् । पृ॒ष॒दा॒ज्यमिति॑ पृषत् - आ॒ज्यम् । प॒शोः । खलु॑ । वै । आल॑ब्ध॒स्येत्या - ल॒ब्ध॒स्य॒ । हृद॑यम् । आ॒त्मा । अ॒भि । समिति॑ । ए॒ति॒ । यत् । पृ॒ष॒दा॒ज्येनेति॑ पृषत् - आ॒ज्येन॑ । हृद॑यम् । अ॒भि॒घा॒रय॒तीत्य॑भि - घा॒रय॑ति । आ॒त्मन्न् । ए॒व । प॒शू॒नाम् । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । द॒धा॒ति॒ । प॒शुना᳚ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । ते । अ॒म॒न्य॒न्त॒ । म॒नु॒ष्याः᳚ । नः॒ । अ॒न्वाभ॑विष्य॒न्तीत्य॑नु-आभ॑विष्यन्ति । इति॑ । तस्य॑ । शिरः॑ । छि॒त्त्वा । मेध᳚म् । प्रेति॑ । अ॒क्षा॒र॒य॒न्न् । सः । प्र॒क्षः । अ॒भ॒व॒त् । तत् । प्र॒क्षस्य॑ । प्र॒क्ष॒त्वमिति॑ प्रक्ष - त्वम् । यत् । प्ल॒क्ष॒शा॒खेति॑ प्लक्ष - शा॒खा । उ॒त्त॒र॒ब॒र्॒.हिरित्युत्त॑र - ब॒र॒.हिः । भव॑ति । समे॑ध॒स्येति॒ स - मे॒ध॒स्य॒ । ए॒व ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.3.10.3 TS 6.3.10.3
प॒शोरव॑ द्यति प॒शुं ॅवै ह्रि॒यमा॑णꣳ॒॒ रक्षाꣳ॒॒स्यनु॑ सचन्तेऽन्त॒रा यूपं॑ चाऽऽ*हव॒नीयं॑ च हरति॒ रक्ष॑सा॒मप॑हत्यै प॒शोर्वा आल॑ब्धस्य॒ मनोऽप॑ क्रामति म॒नोता॑यै ह॒विषो॑ऽवदी॒यमा॑न॒स्यानु॑ ब्रू॒हीत्या॑ह॒ मन॑ ए॒वास्याव॑ रुन्ध॒ एका॑दशाव॒दाना॒न्यव॑ द्यति॒ दश॒ वै प॒शोः प्रा॒णा आ॒त्मैका॑द॒शो यावा॑ने॒व प॒शुस्तस्याव॑- [ ]
पदपाठः (Word-by-word)
प॒शोः । अवेति॑ । द्य॒ति॒ । प॒शुम् । वै । ह्रि॒यमा॑णम् । रक्षाꣳ॑सि । अन्विति॑ । स॒च॒न्ते॒ । अ॒न्त॒रा । यूप᳚म् । च॒ । आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । च॒ । ह॒र॒ति॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । प॒शोः । वै । आल॑ब्ध॒स्येत्या - ल॒ब्ध॒स्य॒ । मनः॑ । अपेति॑ । क्रा॒म॒ति॒ । म॒नोता॑यै । ह॒विषः॑ । अ॒व॒दी॒यमा॑न॒स्येत्य॑व - दी॒यमा॑नस्य । अन्विति॑ । ब्रू॒हि॒ । इति॑ । आ॒ह॒ । मनः॑ । ए॒व । अ॒स्य॒ । अवेति॑ । रु॒न्धे॒ । एका॑दश । अ॒व॒दाना॒नीत्य॑व - दाना॑नि । अवेति॑ । द्य॒ति॒ । दश॑ । वै । प॒शोः । प्रा॒णा इति॑ प्र - अ॒नाः । आ॒त्मा । ए॒का॒द॒शः । यावान्॑ । ए॒व । प॒शुः । तस्य॑ । अवेति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.3.10.4 TS 6.3.10.4
द्यति॒ हृद॑य॒स्याग्रेऽव॑ द्य॒त्यथ॑ जि॒ह्वाया॒ अथ॒ वक्ष॑सो॒ यद्वै हृद॑येनाभि॒गच्छ॑ति॒ तज्जि॒ह्वया॑ वदति॒ यज्जि॒ह्वया॒ वद॑ति॒ तदुर॒सोऽधि॒ निर्व॑दत्ये॒तद्वै प॒शोर्य॑थापू॒र्वं ॅयस्यै॒वम॑व॒दाय॑ यथा॒काम॒-मुत्त॑रेषामव॒द्यति॑ यथा पू॒र्वमे॒वास्य॑ प॒शोरव॑त्तं भवति मद्ध्य॒तो गु॒दस्याव॑ द्यति मद्ध्य॒तो हि प्रा॒ण उ॑त्त॒मस्याव॑ द्यत्यु- [ ]
पदपाठः (Word-by-word)
द्य॒ति॒ । हृद॑यस्य । अग्रे᳚ । अवेति॑ । द्य॒ति॒ । अथ॑ । जि॒ह्वायाः᳚ । अथ॑ । वक्ष॑सः । यत् । वै । हृद॑येन । अ॒भि॒गच्छ॒तीत्य॑भि - गच्छ॑ति । तत् । जि॒ह्वया᳚ । व॒द॒ति॒ । यत् । जि॒ह्वया᳚ । वद॑ति । तत् । उर॑सः । अधि॑ । निरिति॑ । व॒द॒ति॒ । ए॒तत् । वै । प॒शोः । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । यस्य॑ । ए॒वम् । अ॒व॒दायेत्य॑व - दाय॑ । य॒था॒काम॒मिति॑ यथा - काम᳚म् । उत्त॑रेषा॒मित्युत् - त॒रे॒षा॒म् । अ॒व॒द्यतीत्य॑व - द्यति॑ । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । ए॒व । अ॒स्य॒ । प॒शोः । अव॑त्तम् । भ॒व॒ति॒ । म॒द्ध्य॒तः । गु॒दस्य॑ । अवेति॑ । द्य॒ति॒ । म॒द्ध्य॒तः । हि । प्रा॒ण इति॑ प्र - अ॒नः । उ॒त्त॒मस्येत्यु॑त् - त॒मस्य॑ । अवेति॑ । द्य॒ति॒ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.3.10.5 TS 6.3.10.5
-त्त॒मो हि प्रा॒णो यदीत॑रं॒ ॅयदीत॑र-मु॒भय॑मे॒वाजा॑मि॒ जाय॑मानो॒ वै ब्रा᳚ह्म॒णस्त्रि॒भिर्.ऋ॑ण॒वा जा॑यते ब्रह्म॒चर्ये॒णर्षि॑भ्यो य॒ज्ञेन॑ दे॒वेभ्यः॑ प्र॒जया॑ पि॒तृभ्य॑ ए॒ष वा अ॑नृ॒णो यः पु॒त्री यज्वा᳚ ब्रह्मचारिवा॒सी तद॑व॒दानै॑रे॒वाव॑ दयत॒ तद॑व॒दाना॑ना-मवदान॒त्वं दे॑वासु॒राः संॅय॑त्ता आस॒न् ते दे॒वा अ॒ग्निम॑ब्रुव॒न् त्वया॑ वी॒रेणासु॑रान॒भि भ॑वा॒मेति॒- [ ]
पदपाठः (Word-by-word)
उ॒त्त॒म इत्यु॑त् - त॒मः । हि । प्रा॒ण इति॑ प्र - अ॒नः । यदि॑ । इत॑रम् । यदि॑ । इत॑रम् । उ॒भय᳚म् । ए॒व । अजा॑मि । जाय॑मानः । वै । ब्रा॒ह्म॒णः । त्रि॒भिरिति॑ त्रि - भिः । ऋ॒ण॒वेत्यृ॑ण - वा । जा॒य॒ते॒ । ब्र॒ह्म॒चर्ये॒णेति॑ ब्रह्म - चर्ये॑ण । ऋषि॑भ्य॒ इत्यृषि॑ - भ्यः॒ । य॒ज्ञेन॑ । दे॒वेभ्यः॑ । प्र॒जयेति॑ प्र - जया᳚ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । ए॒षः । वै । अ॒नृ॒णः । यः । पु॒त्री । यज्वा᳚ । ब्र॒ह्म॒चा॒रि॒वा॒सीति॑ ब्रह्मचारि - वा॒सी । तत् । अ॒व॒दानै॒रित्य॑व - दानैः᳚ । ए॒व । अवेति॑ । द॒य॒ते॒ । तत् । अ॒व॒दाना॑ना॒मित्य॑व - दाना॑नाम् । अ॒व॒दा॒न॒त्वमित्य॑वदान - त्वम् । दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । ते । दे॒वाः । अ॒ग्निम् । अ॒ब्रु॒व॒न्न् । त्वया᳚ । वी॒रेण॑ । असु॑रान् । अ॒भीति॑ । भ॒वा॒म॒ । इति॑ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.3.10.6 TS 6.3.10.6
सो᳚ऽब्रवी॒द् वरं॑ ॅवृणै प॒शोरु॑द्धा॒रमुद्ध॑रा॒ इति॒ स ए॒तमु॑द्धा॒रमुद॑हरत॒ दोः पू᳚र्वा॒र्द्धस्य॑ गु॒दं म॑द्ध्य॒तः श्रोणिं॑ जघना॒र्द्धस्य॒ ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यत् त्र्य॒ङ्गाणाꣳ॑ समव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्यक्ष्ण॒याऽव॑ द्यति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै ॥
पदपाठः (Word-by-word)
सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । प॒शोः । उ॒द्धा॒रमित्यु॑त् - हा॒रम् । उदिति॑ । ह॒रै॒ । इति॑ । सः । ए॒तम् । उ॒द्धा॒रमित्यु॑त् - हा॒रम् । उदिति॑ । अ॒ह॒र॒त॒ । दोः । पू॒र्वा॒द्‌र्धस्येति॑ पूर्व - अ॒द्‌र्धस्य॑ । गु॒दम् । म॒द्ध्य॒तः । श्रोणि᳚म् । ज॒घ॒ना॒द्‌र्धस्येति॑ जघन-अ॒द्‌र्धस्य॑ । ततः॑ । दे॒वाः । अभ॑वन्न् । परेति॑ । असु॑राः । यत् । त्र्य॒ङ्गाणा॒मिति॑ त्रि - अ॒ङ्गाना᳚म् । स॒म॒व॒द्यतीति॑ सं - अ॒व॒द्यति॑ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । अ॒क्ष्ण॒या । अवेति॑ । द्य॒ति॒ । तस्मा᳚त् । अ॒क्ष्ण॒या । प॒शवः॑ । अङ्गा॑नि । प्रेति॑ । ह॒र॒न्ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ ॥
पदसंख्या: 45