पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
अभिघारणं विधित्सुरादौ वपोत्खेदप्रयुक्तच्छिद्रापिधानरूपं पश्वङ्गं पुरोडाशं विधत्ते —
‘पशुमालभ्य पुरोडाशं निर्वपति समेधमेवैनमा लभते’ (सं. का. ५ प्र. ३ अ. १०) इति।
मेधः सारः। पुरोडाशस्य व्रीहिसारत्वात्सारोपेतं पशुमालब्धवान्भवति।
निरुप्तस्य होमकालं विधत्ते —
‘वपया प्रचर्य पुरोडाशेन प्र चरत्यूर्ग्वै पुरोडाश ऊर्जमेव पशूनां मध्यतो दधात्यथो पशोरेव छिद्रमपि दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।
जातवेदो वपया गच्छ देवानिति मन्त्रेण वपां हुत्वा पश्चात्पुरोडाशहोमः। वपाहृदयादिहोमयोर्मध्यं पशूनामुदरस्थानमतस्तत्रैवोर्जं पुरोडाशरूपमन्नं स्थापितवान्भवति। किंच वपाछेदेन यत्पशोश्छिद्रं तत्पिहितं भवति।
उत्तरदेशे हृयादिहविः पचन्तं शमितारं प्रति प्रश्नमन्त्रमुत्पादयति —
‘पृषदाज्यस्यस्योपहत्य त्रिः पृच्छति शृत हवीः३ शमितरिति त्रिषत्या हि देवाः’ (सं. का. ६ प्र. ३ अ. १०) इति।
पृषदाज्यस्य पात्रगतस्यांशं स्रुवेणोपहत्य पृथक्स्वीकृत्य मन्त्रेण त्रिः पृच्छेत्। शृतं पक्वम्। प्लुतिः प्रश्नार्था। त्रिरुक्तं सत्यमिति बुद्धिर्येषां ते त्रिषत्याः।
व्यतिरेकमुखेणोत्तरविधिमुन्नयति —
‘योऽशृत शृतमाह स एनसा’ (सं. का. ६ प्र. ३ अ. १०) इति।
युज्यत इति शेषः। तस्माच्छृते सत्युत्तरं ब्रूयादिति विधिः।
अत्र सं ते मनसा मन इत्यस्य मन्त्रस्यार्थमुपेक्ष्याभिघारणं विधत्ते —
‘प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यं पशोः खलु वा आलब्धस्य हृदयमात्माऽभि समेति यत्पृषदाज्येन हृदयमभिघारयत्यात्मन्नेव पशूनां प्राणापानौ दधाति’ (सं. का. ६ प्र. ३ अ. १०) इति।
अभिसमेत्याभिमुख्येनाऽऽत्मा हृदयदेशमागच्छति।
‘पशुना वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति तस्य शिरश्छित्त्वा मेधं प्राक्षारयन्त्स प्रक्षोऽभवत्तत्प्रक्षस्य प्रक्षत्वं यत्प्लक्षशाखोत्तरबर्हिर्भवति समेधस्यैव पशोरव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति। पशुना सह स्वर्गं गच्छन्तो देवा मनुष्याणां स्वैः सहाऽऽगमनं मा भूदित्यभिप्रेत्य तद्वारयितुं पशोः शिरश्छित्त्वा मेधं रसं प्राक्षारयन्नस्रावयन्। स रसो भूमौ पतित्वा प्लक्षवृक्षोऽभवत्। तस्मात्क्षरणादुत्पन्नस्य प्लक्षनाम संपन्नम्। तच्छाखा बर्हिष ऊर्ध्वं स्थापनादुत्तरबर्हिरित्युच्यते। तदावस्थापनेन सरसस्यैव पशोर्हविरवत्तं भवति।
पक्वस्य हृदयादिहविष आहवनीयं प्रत्यानयने मार्गविशेषं विधत्ते —
‘पशुं वै ह्रियमाण रक्षास्यनु सचन्तेऽन्तरा यूपं चाऽऽहवनीयं च हरति रक्षासामपहत्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।
अनुसचन्तेऽनुगच्छन्ति। यूपस्याऽऽहवनीयस्य च रक्षोघातित्वात्तयोरन्तराले भयं नास्ति।
होतारं प्रति प्रैषमन्त्रमुत्पादयति –
‘पशोर्वा आलब्धस्य मनोऽप क्रामति मनोतायै हविषोऽवदीयमानस्यानु ब्रूहीत्याह मन एवास्याव रुन्धे’ (सं. का. ६ प्र. ३ अ. १०) इति।
संख्याविशिष्टान्यवदानानि विधत्ते —
‘एकादशावदानान्यव द्यति दश वै पशोः प्राणा आत्मैकादशा यावानेव पशुस्तस्याव द्यति’ (सं. का. ६ प्र. ३ अ. १०) इति।
नाभिसहितानि दश च्छिद्राणि प्राणा देह आत्माऽत एकादशसंख्यया कृत्स्नोऽपि पशुरवत्तो भवति।
क्रमं विधत्ते —
‘हृदयस्याग्रेऽव द्यत्यथ जिह्वाया अथ वक्षसो यद्वै हृदयेनाभिगच्छति तज्जिह्वया वदति यज्जिह्वया वदति तदुरसोऽधि निर्वदत्येतद्वै पशोर्यथापूर्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।
लोके प्रथमं हृदयेन यन्निश्चिनोति तत्पश्चाज्जिह्वया वदति। पुनरपि तदेव निःशेषेणोच्चध्वनिना यदा वदति तदानीमुरस ऊर्ध्वदेशगतबलेन वदति। तस्माद्धृदयादीनां त्रयाणामंशक्रमेणावद्येत्। एतदेव क्रमावदानं पशोरङ्गेषु यथापूर्वं भवति। यथा लोकेऽभिवदनव्यवहारः पूर्वं प्रवृत्तस्तथैव भवति।
उत्तरेष्वङ्गेषु हृदयादिवत्प्रसक्तं क्रमं वारयति — ‘यस्यैवमवदाय यथाकाममुत्तरेषामवद्यति यथापूर्वमेवास्य पशोरवत्तं भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।
उक्तप्रकारेण यस्य पशोर्हृदयादीनि त्रीण्यङ्गान्यवदायोत्तरेषामैच्छिकक्रमेऽपि पूर्वं हृदयाद्यङ्गं यथा न दोषकारि तथैवोत्तरमपि भवति।
एकादशस्वङ्गेषु गुदकाण्डरूपमङ्गमुत्तममध्यमाधमभागैस्त्रेधा विभज्य त्रिषु तेषु भागेषु मध्यमोत्तमभागयोर्विकल्पेनावदानं विधत्ते —
‘मध्यतो गुदस्याव द्यति मध्यतो हि प्राण उत्तमस्याव द्यत्युत्तमो हि प्राणो यदीतरं यदीतरमुभयमेवाजामि’ (सं. का. ६ प्र. ३ अ. १०) इति।
प्राणवायुर्मुखमध्ये वर्तते, स्वयं जीवनहेतुत्वाच्चक्षुरादिषु सर्वेषूत्तमश्च। अतो यदीतरं मध्यमभागं स्वी कुर्यात्, यदीतरमुत्तमभागं तदुभयमपि जामिकृन्न भवति, किंत्वनालस्यं दोषरहितमित्यर्थः।
हृदयाद्यवदानानि प्रशंसति —
‘जायमानो वै ब्रह्मणस्त्रिभिणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तदवदानैरेवाव दयते तदवदानानामवदानत्वम्’ (सं. का. ६ प्र. ३ अ. १०) इति।
ब्रह्मचर्येण वेदाभ्यासेन ब्रह्मचारित्वेन गुरुगृहे वसतीति ब्रह्मचारिवासी वेदाभ्यासादिभिरपाकर्तव्यं यदृणं तद्धृदयाद्यवदानैरेवापाकरोति। ऋणमवदयत एभिरित्यवदानत्वम्।
स्विष्टकृदर्थं त्र्यङ्गावदानं विधत्ते —
‘देवासुराः संयत्ता आसन्ते देवा अग्निमब्रुवन्त्वया वीरेणासुरानभिभवामेति सोऽब्रवीद्वरं वृणै पशोरुद्धारमुद्धरा इति स एतमुद्धारमुदहरत दोः पूर्वार्धस्य गुदं मध्यतः श्रोणिं जघनार्धस्य ततो देवा अभवन्पराऽसुरा यत्त्र्यङ्गाणा समवद्यति भ्रातृव्याभिभूत्यै भवत्यात्मना पराऽस्य भ्रातृव्यो भवति’ (सं. का. ६ प्र. ३ अ. १०) इति।
उद्धारमुत्कृष्टं ध्रियमाणमुत्तमं भागमुद्धरै स्वी करवाणि। पशोः पूर्वार्धस्य संबन्धि दोर्हस्तम्। मध्यतः पशुमध्यभागसंबन्धि गुदम्। अपरार्धस्य संबन्धिनीं श्रोणिम्।
वक्रगतिं विधत्ते —
‘अक्ष्णयाऽव द्यति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै’ (सं. का. ६ प्र. ३ अ. १०) इति।
गवादयः शयनकालेऽङ्गानि पादानक्ष्णया वक्रत्वेनावस्थापयन्ति।