प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 6.3.6.1 TS 6.3.6.1
इ॒षे त्वेति॑ ब॒र्॒.हिरा द॑त्त इ॒च्छत॑ इव॒ ह्ये॑ष यो यज॑त उप॒वीर॒सीत्या॒होप॒ ह्ये॑नानाक॒रोत्युपो॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॒रित्या॑ह॒ दैवी॒र्ह्ये॑ता विशः॑ स॒तीर्दे॒वानु॑प॒यन्ति॒ वह्नी॑रु॒शिज॒ इत्या॑ह॒र्त्विजो॒ वै वह्न॑य उ॒शिज॒-स्तस्मा॑दे॒वमा॑ह॒ बृह॑स्पते धा॒रया॒ वसू॒नीत्या॑- [ ]
पदपाठः (Word-by-word)
इ॒षे । त्वा॒ । इति॑ । ब॒र्॒.हिः । एति॑ । द॒त्ते॒ । इ॒च्छते᳚ । इ॒व॒ । हि । ए॒षः । यः । यज॑ते । उ॒प॒वीरित्यु॑प - वीः । अ॒सि॒ । इति॑ । आ॒ह॒ । उपेति॑ । हि । ए॒ना॒न् । आ॒क॒रोतीत्या᳚ - क॒रोति॑ । उपो॒ इति॑ । दे॒वान् । दैवीः᳚ । विशः॑ । प्रेति॑ । अ॒गुः॒ । इति॑ । आ॒ह॒ । दैवीः᳚ । हि । ए॒ताः । विशः॑ । स॒तीः । दे॒वान् । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । वह्नीः᳚ । उ॒शिजः॑ । इति॑ । आ॒ह॒ । ऋ॒त्विजः॑ । वै । वह्न॑यः । उ॒शिजः॑ । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । बृह॑स्पते । धा॒रय॑ । वसू॑नि । इति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)
अथ पूर्वभाविन उपाकरणमन्त्रान्व्याचिख्यासुर्विधत्ते—

‘ इषे त्वेति बर्हिरा दत्त इच्छत इव ह्येष यो यजते ’ [सं० का० प्र० ३ अ० ६] इति।

एष यजमानो देवेभ्यो दातुं पशुरूपं हविरिच्छत्येव। तस्मादिष इत्युच्यते।

पशुसमीपे देवानाह्वयतीति प्लक्षशाखोपवीरित्युच्यते, तदेतद्दर्शयति—

‘ उपवीरसीत्याहोप ह्येनानाकरोति ’ [सं० का० ६ प्र० ३ अ० ६] इति।

हृदयाद्यवयवा देवान्देवप्रजाश्च प्राप्ता इति यद्व्याख्यातं तत्प्रसिद्धमित्याह —

‘ उपो देवान्दैवीर्विशः प्रागुरित्याह दैवीर्ह्येता विशः सतीर्देवानुपयन्ति ’ (सं० का० ६ प्र० ३ अ० ६) इति।

यद्वा हृदयादय एव पदार्थत्वेन देवप्रजा भूत्वा देवान्प्राप्नुवन्ति।

वह्निशब्दो वाहकवाचीत्यभिप्रेत्य दर्शयति —

‘ वह्निरुशिज इत्याहर्त्विजो वै वह्नय उशिजस्तस्मादेवमाह ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

अत्र पशुप्रदत्वेन बृहस्पतिप्रार्थनमित्याह —

‘ बृहस्पते धारया वसूनीत्याह ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवास्मै पशूनव रुन्धे ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

हृदयादीनि स्वादूकर्तुमियमाशीरित्याह –

‘ हव्या ते स्वदन्तामित्याह स्वदयत्येवैनान् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

मिथुनरूपपशुप्रदत्वेन त्वष्टुः प्रार्थनमित्याह —

‘ देव त्वष्टर्वसु रण्वेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

रेवतीशब्दः पशुपर इत्याह —

‘ रेवती रमध्वमित्याह पशवो वै रेवतीः पशूनेवास्मै रमयति ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

विधत्ते —

‘ देवस्य त्वा सवितुः प्रसव इति रशानामा दत्ते प्रसूत्या अश्विनोर्बाहुभ्यामित्याहाश्विनौ हि देवानामध्वर्यू आस्तां पूष्णो हस्ताम्यामित्याह यत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

ऋतशब्दार्थमाह —

‘ऋतस्य त्वा देवहविः पाशेनाऽऽरभ इत्याह सत्यं वा ऋत सत्येनैवैनमृतेनाऽऽरभते’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

अवश्यंभाविफलोपेतत्वाद्यज्ञस्वरूपं सत्यं, तेन निमित्तेनैनं पशुं बध्नाति।

बन्धनप्रकारं विधत्ते —

‘ अक्ष्णया परि हरति वध्य हि प्रत्यञ्चं प्रतिमुञ्चन्ति व्यावृत्त्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

अक्ष्णया पूर्वोक्तया दक्षिणपादादिशिरोभागपर्यन्तया वक्रया परिहरति वेष्टयति। लोके तु मांसभक्षिणो वध्यं पशुं प्रत्यञ्चं स्वाभिमुखमवस्थाप्य गले पाशं प्रतिमुञ्चन्ति। अतस्तद्व्यावृत्तये वक्रबन्धनम्।

विधत्ते —

‘धर्षा मानुषानिति नि युनिक्ति धृत्यै ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

नियुनक्ति निरन्तरं बध्नीयात्। तञ्च बन्धनं धृत्यर्थं पलायननिवारणार्थम्।

पातृस्वीकृताभ्यां तृणोदकाभ्यां पशोरुत्पन्नत्वेनोभयेन प्रोक्षणं युक्तमित्याह —

‘अद्भ्यस्त्वौषधीभ्यः प्रोक्षामीत्याहाद्भ्यो ह्येष ओषधीभ्यः संभवति यत्पशुः ’ [का॰ ६ प्र॰ ३ अ॰ ६] इति।

पेरुशब्दः पातृवाचीत्याह —

‘ अपां पेरुरसीत्याहैष ह्यपां पाता यो मेधायाऽऽरभ्यते ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

यज्ञार्थमालभ्यमानस्य पशोरित ऊर्ध्वमुदकपानाभावादिदानीमेव पातृत्वम्। हे आपो देव्यः स्वात्तं चित्स्वादुभूतमपि सदेवं देवतार्थं हव्यं होतुं योग्यमेनं पशुं स्वदत स्वादुं कुरुत।

अनेन मन्त्रेण स्वादुता भवतीत्याह —

‘ स्वात्तं चित्सदेव हव्यमापो देवीः स्वदतैनमित्याह स्वदयत्येवैनम् ’ (सं॰ का॰ ६ प्र॰ ३ अ॰ ६) इति।

त्रिभिर्मन्त्रैरनुष्ठेयानि विधत्ते —

‘ उपरिष्टात्प्रोक्षत्युपरिष्टादेवैनं मेध्यं करोति पाययत्यन्तरत एवैनं मेध्यं करोत्यधस्तादुपोक्षति सर्वत एवैनं मेध्यं करोति ’ [सं॰ का॰ ६ प्र॰ ३ अ॰ ६] इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इषे त्वेति बर्हिरादत्ते इति ।। गतम् । मन्त्राम्नातक्रममुल्लङ्घ्य पशुमन्त्रैस्सहोपाकरणमन्त्रब्राह्मणमाम्नायते । उपाकृत्यैव मन्थ्य इत्येतदनुसारेण उपाकरणनियोजनयोर्मध्ये 'अग्नेर्जनित्रमसि'38 इत्यादीनां मन्त्राणां ब्राह्मणमाम्नातम् । इच्छत इव हीति । इष्यत इतीट्, अन्नं स्वर्गादि वा इत्यर्थः । तदर्थं त्वामाददे इति मन्त्रार्थः । अत्र केनेष्यते इत्याकांक्षायां यजमानमेष्टारं दर्शयति । अन्नमिच्छतोस्य तत्सिद्ध्यर्थं त्वामाददे इति मन्त्रार्थो दर्शितो भवति । व्यत्ययेनात्मनेपदमिषे त्वेति ।।
2 'उपवीरसि'38 इत्यादिपशूनामुपाकरणमन्त्रः ।। उप ह्येनानिति । यस्मादेनानुपाकरोति देवतासमीपे उपाकरोति तादर्थ्येनापि करोति पशून् तस्मात् उपवीरसीत्याहेत्यर्थः । वेतेरुपपूर्वाद्गतिकर्मणः कर्मणि क्विप् । अन्तर्भावितण्यर्थत्वादुपगमयितव्योसीति मन्त्रलिङ्गात् । तत्र मन्त्रे ब्राह्मणे वा वचनव्यत्ययः । जातौ वा बहुलवचनम् । आग्नेयानुबन्ध्यापेक्षमित्येके, एकादशाग्नीषोमीयाः, एकादश सवनीया एकादश अनूबन्बन्ध्या इत्ययमपि पक्षोस्तीति स्थापनार्थमेतदित्यन्ये । अपरे पुनराहुः - ससाधनां क्रियामुपसर्ग आह, एतानि च 'उपो देवान्'38 इत्यनन्तरं वक्ष्यमाणा देवा निर्दिश्यन्ते । अयमर्थः - एवं देवानुप संगमय्य एनं पशुमुपाकरोति ।।
3 दैवीर्हीति ।। देवानामिमाः विशः प्रजास्सत्यो देवानग्नीषोमादीन् उपगच्छन्ति पश्ववयवाः अवदानभावमापन्नास्सर्वेऽपि । मनुष्या इत्येके । एता इति । विडपेक्ष्यं स्त्रीत्वम् । 'देवाद्यञञौ' इति यञ्, 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् 'हि च' इति निघाताभावे 'तिङि चोदात्तवति' इति गतेरनुदात्तत्वम्, समासश्च ।।
4 ऋत्विजो वा इति ।। वोढारः कर्मणो वह्नयः । 'वर्मणि[वहिश्नि]' इत्यादिना निप्रत्ययः, निदिति तत्रानुवर्तते । यागसमकालं शेषभक्षणं वा कामयमाना उशिजः । 'वशः किच्च' इतीप्रत्ययः । स्वदयति । वृद्ध्यभावश्छान्दसः । अदन्त इत्येके । त्वष्टा वा इत्यादि । गतम् । पशवो वा इत्यादि । दुग्धादिना धनेन तद्वत्वात् । संज्ञा चेयं पशूनाम् । 'रयेर्मतौ बहुलम्' इति संप्रसारणम्, 'संज्ञायाम्' इति मतुपो वत्वम्, पूर्ववत् 'रेशब्दाच्च' इति मतुप उदात्तत्वम्, पूर्ववत्पूर्वसवर्णदीर्यत्वम् ।।
5 देवस्य त्वेत्यादिरशनादानविधिर्गतः , व्याख्यातश्चात्र 'आ ददे' इत्यस्य शेषतया सावित्रवत्त्वे व्याचष्टे ब्राह्मणम् । ऋतस्य त्वेति रशनया पश्वभिधानम् । सत्यं वा इति । साधुः सत्यः । तदात्मना ऋतेनैनं आरभते बध्नाति । अक्ष्णयेति कण्ठगत्या परिहरति वेष्टयति पशुम् । 'पशुरशनायाः दक्षिणमध्यर्थशीर्षं' इत्याचार्याः । हेतुमाह - वध्यं हीति । वध्यं वधार्हमनुपकारकं पशुम् । मरणारम्भे प्रत्यञ्चं प्रतीपं प्रतिकूलं प्राणवृत्तेश्शिरोतीत्य ग्रीवायामेव प्रतिमुञ्चति । तस्मादेवं बन्धनं वध्यादस्य व्यावृत्त्यै भवति ।।
6 नि युनक्तीति ।। यक्षे पशुं बध्नातीति विधिः । तद्धृत्यै धृष्टत्वाय भवति । अद्भ्यस्त्वेति पशुप्रोक्षणम् । अद्भ्य ओषधीभ्यश्च संभूतं त्वामद्भिः प्रोक्षामीति मन्त्रार्थं दर्शयति । कारणेन हि कार्याणां शुद्धि । पवित्रेणोत्पूतत्वादोषधिशुद्धिरप्यस्तीति । यद्वा - आप ओषधयश्च भूयासुरित्येवमर्थं त्वामद्भिः प्रोक्षामीति मन्त्रार्थः । अद्भ्यस्संभूतत्वादद्भ्यो हीत्युक्तम् । तथाहि - पशोरपामोषधीनां कार्यत्वात् कार्यकारणयोश्चाभिन्नत्वात् कार्यकारणपशुप्रोक्षणेनैव तत्कारणानां सिद्धिरिति ब्राह्माणाभिप्रायः । पूर्वन्निघाताभावगत्यनुदात्तत्वसमासाः ।।
7 अपां पेरुरसीति पाययति ।। एष हीति । एष यज्ञार्थमारभ्यमाणः पशुः यागद्वारेणापां पाता रक्षिता । तस्मात्ताः पार्यते इति पेरुरिति । पातेरुप्रत्ययं मन्यते । यदा तु पिबतेः तदा अपां पेरुः पाता भवेति मन्त्रार्थोपि पठितव्यः । एष ह्यपां रक्षिता मेधार्थः पशुः, तस्मात्ताः पिबेति प्रार्थ्यते इति ।।
8 स्वात्तमिति अधस्तादवोक्षणम् । अन्तरत एवम् । एतैः त्रिभिरुक्षणैः सर्वत एवैनं मेध्यं करोतीति । 'तसेश्च' इति तसिलादेशः ।।
इति षष्ठे तृतीये षष्ठोनुवाकः ॥