अनुवाकः 4 TS 6.5.4

(A4)

(तस्मा॑द॒सावा॑दि॒त्य - स्त्रिꣳ॒॒शच्च॑)

अनुवाकः 4 - Complete Audio

TS 6.5.4 - स्वरानुगामी

0:00 0:00
PS1.1 सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑
PS1.2 गृह्यन्ते॒ यदृ॑तुग्र॒हा ज्योति॑रिन्द्रा॒ग्नी यदै᳚न्द्रा॒ग्नमृ॑तुपा॒त्रेण॑
PS1.3 गृ॒ह्णाति॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्-दधाति सुव॒र्गस्य॑
PS1.4 लो॒कस्यानु॑ख्यात्या ओजो॒भृतौ॒ वा ए॒तौ
PS1.5 दे॒वानां॒ ॅयदि॑न्द्रा॒ग्नी यदै᳚न्द्रा॒ग्नो गृ॒ह्यत॒
PS1.6 ओज॑ ए॒वाव॑ रुन्धे वैश्वदे॒वꣳ
PS1.7 शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै
PS1.8 प्र॒जा अ॒सावा॑दि॒त्यः शु॒क्रो यद्-वै᳚श्वदे॒वꣳशु॑क्रपा॒त्रेण॑
PS1.9 गृ॒ह्णाति॒ तस्मा॑द॒सावा॑दि॒त्यः- [ ]
PS2.1 सर्वाः᳚ प्र॒जाः प्र॒त्यङ्ङुदे॑ति॒ तस्मा॒थ्
PS2.2 सर्व॑ ए॒व म॑न्यते॒ मां
PS2.3 प्रत्युद॑गा॒दिति॑ वैश्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृह्णाति
PS2.4 वैश्वदे॒व्यो॑ वै प्र॒जास्तेजः॑ शु॒क्रो
PS2.5 यद्-वै᳚श्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व
PS2.6 तेजो॑ दधाति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.5.4.1 TS 6.5.4.1
सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हा ज्योति॑रिन्द्रा॒ग्नी यदै᳚न्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्-दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ओजो॒भृतौ॒ वा ए॒तौ दे॒वानां॒ ॅयदि॑न्द्रा॒ग्नी यदै᳚न्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुन्धे वैश्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा अ॒सावा॑दि॒त्यः शु॒क्रो यद्-वै᳚श्वदे॒वꣳशु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑द॒सावा॑दि॒त्यः- [ ]
पदपाठः (Word-by-word)
सु॒व॒र्गायेति॑ सुवः - गाय॑ । वै । ए॒ते । लो॒काय॑ । गृ॒ह्य॒न्ते॒ । यत् । ऋ॒तु॒ग्र॒हा इत्यृ॑तु - ग्र॒हाः । ज्योतिः॑ । इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । यत् । ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । ऋ॒तु॒पा॒त्रेणेत्यृ॑तु - पा॒त्रेण॑ । गृ॒ह्णाति॑ । ज्योतिः॑ । ए॒व । अ॒स्मै॒ । उ॒परि॑ष्टात् । द॒धा॒ति॒ । सु॒व॒र्गसेति॑ सुवः-गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । ओ॒जो॒भृता॒वित्यो॑जः - भृतौ᳚ । वै । ए॒तौ । दे॒वाना᳚म् । यत् । इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । यत् । ऐ॒न्द्रा॒ग्न इत्यै᳚न्द्र-अ॒ग्नः । गृ॒ह्यते᳚ । ओजः॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ । गृ॒ह्णा॒ति॒ । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । वै । प्र॒जा इति॑ प्र - जाः । अ॒सौ । आ॒दि॒त्यः । शु॒क्रः । यत् । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ । गृ॒ह्णाति॑ । तस्मा᳚त् । अ॒सौ । आ॒दि॒त्यः ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रानुपेक्ष्यैन्द्राग्नग्रहं विधत्ते —

“सुवर्गाय वा एते लोकाय गृह्यन्ते यदृतुग्रहा ज्योतिरिन्द्राग्नी यदैन्द्राग्नमृतुपात्रेण गृह्णाति ज्योतिरेवास्मा उपरिष्टाद्दधाति सुवर्गस्य लोकस्यानुख्यात्यै” (सं. का. ६ प्र. ५ अ. ४) इति।

यदेतदृतुपात्रमध्वर्युहस्ते भक्षणीयेन सोमेनोपेतं तेनैन्द्राग्नं गृह्णीयात्। तथा सत्यृतुग्रहैः प्राप्तः स्वर्ग इन्द्राग्निज्योतिषा प्रकाशितो भवति।

बलप्रदत्वेनैन्द्राग्नं प्रशंसति —

‘ओजोभृतौ वा एतौ देवनां यदिन्द्राग्नी यदैन्द्राग्नो गृह्यत ओज एवाव रुन्धे’ (सं. का. ६ प्र. ५ अ. ४) इति।

ग्रहान्तरं विधत्ते —

‘वैश्वदेवं शुक्रपात्रेण गृह्णाति वैश्वदेव्यो वै प्रजा असावादित्यः शुक्रो यद्वैश्वदेव शुक्रपात्रेण गृह्णाति तस्मादसावादित्यः सर्वाः प्रजाः प्रत्यङ्ङुदेति तस्मात्सर्व एव मन्यते मां प्रत्युदगादिति’ (सं. का. ६ प्र. ५ अ. ४) इति। शुक्रग्रहस्य यत्पात्रं तेन वैश्वदेवं गृह्णीयात्। वैश्वदेवीः सर्वाः प्रजाः प्रति शुक्रग्रहाभिमान्यादित्यः प्रत्यङ् प्रत्येकमभिमुख उदेति। तदेतत्सर्वस्याप्यनुभवसिद्धम्।

तेजःप्रदत्वेन वैश्वदेवं प्रशंसति —

वैश्वदेव शुक्रपात्रेण गृह्णाणि वैश्वदेव्यो वै प्रजास्तेजः शुक्रो यद्वैश्वदेव शुक्रपात्रेण गृह्णाति प्रजास्वेव तेजो दधाति’ (सं. का. ६ प्र. ५ अ. ४) इति। इन्द्राग्नी ओमास इत्येते गायत्र्यौ ॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सुवर्गायेत्यादि ।। गतम् । स्वर्गं गच्छतो हि प्रकाशेन ज्योतिषा भाव्यं, तस्मादृतुपात्रेणैन्द्राग्नस्य ग्रहणात् यनमानार्थं ज्योतिर्दधाति उत्पादयति, उपरिष्टात्स्वर्गप्राप्तिकाले स्वर्गस्यानुक्रमेण प्रकाशनार्थम् ।।
2 ओजोभृतावित्यादि ।। देवानां मध्येऽतिशयेन ओजोभृतावेतौ । गतमन्यत् ।।
3 वैश्वदेवमित्यादि ।। आदित्यात्मनः शुक्रस्य पात्रेण विश्वग्रहसंबन्धिवैश्वदेवग्रहणात् सर्वाः प्रजाः प्रत्यङ् प्रतिमुखमादित्य उदेति । तस्मात्सर्वोपि जनो मन्यते मां प्रप्युदगादिति मां प्रत्युदगादयमिति मदर्थसाधनायैवायमुदित इति सर्वो मन्यते सर्वाभिमतोदय उदेतीति यावत् । वैश्वदेवविधानं गुणान्तरार्थम् । तेन आत्मनः शुक्रस्य पात्रेण वैश्वदेवग्रहणात् प्रजासु तेजः स्थापयति ।।
इति षष्ठे पञ्चमे चतुर्थोनुवाकः ॥
पञ्चशत् 2 #
TS 6.5.4.2 TS 6.5.4.2
सर्वाः᳚ प्र॒जाः प्र॒त्यङ्ङुदे॑ति॒ तस्मा॒थ् सर्व॑ ए॒व म॑न्यते॒ मां प्रत्युद॑गा॒दिति॑ वैश्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जास्तेजः॑ शु॒क्रो यद्-वै᳚श्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व तेजो॑ दधाति ॥
पदपाठः (Word-by-word)
सर्वाः᳚ । प्र॒जा इति॑ प्र - जाः । प्र॒त्यङ् । उदिति॑ । ए॒ति॒ । तस्मा᳚त् । सर्वः॑ । ए॒व । म॒न्य॒ते॒ । माम् । प्रति॑ । उदिति॑ । अ॒गा॒त् । इति॑ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । शु॒क्र॒पा॒त्रेणेति॑ शुक्र-पा॒त्रेण॑ । गृ॒ह्णा॒ति॒ । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । वै । प्र॒जा इति॑ प्र - जाः । तेजः॑ । शु॒क्रः । यत् । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ । गृ॒ह्णाति॑ । प्र॒जास्विति॑ प्र - जासु॑ । ए॒व । तेजः॑ । द॒धा॒ति॒ ॥
पदसंख्या: 30