अनुवाकः 2 TS 6.5.2

(A2)

(ध्रु॒वस्तस्मा॑ - दे॒व य॒ज्ञ्स्यै - का॒न्नच॑त्वारिꣳ॒॒शच्च॑)

अनुवाकः 2 - Complete Audio

TS 6.5.2 - स्वरानुगामी

0:00 0:00
PS1.1 आयु॒र्वा ए॒तद्-य॒ज्ञ्स्य॒ यद् ध्रु॒व
PS1.2 उ॑त्त॒मो ग्रहा॑णां गृह्यते॒ तस्मा॒दायुः॑
PS1.3 प्रा॒णाना॑मुत्त॒मं मू॒र्द्धानं॑ दि॒वो अ॑र॒तिं
PS1.4 पृ॑थि॒व्या इत्या॑ह मू॒र्द्धान॑मे॒वैनꣳ॑ समा॒नानां᳚
PS1.5 करोति वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निमित्या॑ह वैश्वान॒रꣳ
PS1.6 हि दे॒वत॒याऽऽयु॑रुभ॒यतो॑ वैश्वानरो गृह्यते॒
PS1.7 तस्मा॑दुभ॒यतः॑ प्रा॒णा अ॒धस्ता᳚-च्चो॒परि॑ष्टा-च्चा॒र्द्धिनो॒ऽन्ये ग्रहा॑
PS1.8 गृ॒ह्यन्ते॒ऽर्द्धी ध्रु॒वस्तस्मा॑- [ ]
PS2.1 -द॒र्द्ध्यवा᳚ङ् प्रा॒णो᳚ऽन्येषां᳚ प्रा॒णाना॒मुपो᳚प्ते॒ऽन्ये ग्रहाः᳚
PS2.2 सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वस्तस्मा॑-द॒स्थ्नान्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति
PS2.3 माꣳ॒॒सेना॒न्या असु॑रा॒ वा उ॑त्तर॒तः
PS2.4 पृ॑थि॒वीं प॒र्याचि॑कीर्.ष॒न् तां दे॒वा
PS2.5 ध्रु॒वेणा॑दृꣳह॒न् तद् ध्रु॒वस्य॑ ध्रुव॒त्वं
PS2.6 ॅयद् ध्रु॒व उ॑त्तर॒तः सा॒द्यते॒
PS2.7 धृत्या॒ आयु॒र्वा ए॒तद्-य॒ज्ञ्स्य॒ यद्
PS2.8 ध्रु॒व आ॒त्मा होता॒ यद्धो॑तृचम॒से
PS2.9 ध्रु॒व-म॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञ्स्या- [ ]
PS3.1 -यु॑र्दधाति पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुः पु॒रस्ता॒द्ध्यायु॑षो
PS3.2 भु॒ङ्क्ते म॑द्ध्य॒तो॑ऽव॒नीय॒ इत्या॑हुर्मद्ध्य॒मेन॒ ह्यायु॑षो
PS3.3 भु॒ङ्क्त उ॑त्तरा॒र्द्धे॑ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो
PS3.4 भु॒ङ्क्ते वै᳚श्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति
PS3.5 वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जास्वे॒वाऽऽ*यु॑र्दधाति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.5.2.1 TS 6.5.2.1
आयु॒र्वा ए॒तद्-य॒ज्ञ्स्य॒ यद् ध्रु॒व उ॑त्त॒मो ग्रहा॑णां गृह्यते॒ तस्मा॒दायुः॑ प्रा॒णाना॑मुत्त॒मं मू॒र्द्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या इत्या॑ह मू॒र्द्धान॑मे॒वैनꣳ॑ समा॒नानां᳚ करोति वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निमित्या॑ह वैश्वान॒रꣳ हि दे॒वत॒याऽऽयु॑रुभ॒यतो॑ वैश्वानरो गृह्यते॒ तस्मा॑दुभ॒यतः॑ प्रा॒णा अ॒धस्ता᳚-च्चो॒परि॑ष्टा-च्चा॒र्द्धिनो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ऽर्द्धी ध्रु॒वस्तस्मा॑- [ ]
पदपाठः (Word-by-word)
आयुः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ध्रु॒वः । उ॒त्त॒म इत्यु॑त् - त॒मः । ग्रहा॑णाम् । गृ॒ह्य॒ते॒ । तस्मा᳚त् । आयुः॑ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उ॒त्त॒ममित्यु॑त्-त॒मम् । मू॒द्‌र्धान᳚म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । इति॑ । आ॒ह॒ । मू॒द्‌र्धान᳚म् । ए॒व । ए॒न॒म् । स॒मा॒नाना᳚म् । क॒रो॒ति॒ । वै॒श्वा॒न॒रम् । ऋ॒ताय॑ । जा॒तम् । अ॒ग्निम् । इति॑ । आ॒ह॒ । वै॒श्वा॒न॒रम् । हि । दे॒वत॑या । आयुः॑ । उ॒भ॒यतो॑वैश्वानर॒ इत्यु॑भ॒यतः॑ - वै॒श्वा॒न॒रः॒ । गृ॒ह्य॒ते॒ । तस्मा᳚त् । उ॒भ॒यतः॑ । प्रा॒णा इति॑ प्र - अ॒नाः । अ॒धस्ता᳚त् । च॒ । उ॒परि॑ष्टात् । च॒ । अ॒र्द्धिनः॑ । अ॒न्ये । ग्रहाः᳚ । गृ॒ह्यन्ते᳚ । अ॒द्‌र्धी । ध्रु॒वः । तस्मा᳚त् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

ध्रुवग्रहं विधत्ते —

“आयुर्वा एतद्यज्ञस्य यद्ध्रुव उत्तमो ग्रहाणां गृह्यते तस्मादायुः प्राणानामुत्तमम्” (सं. का. ६ प्र. ५ अ. २) इति।

ऐन्द्रवायवादयो यथा यज्ञस्य वागादिप्राणरूपास्तथा ध्रुवोऽप्यायुःस्वरूपः। स च ध्रुवोऽन्तर्यामैन्द्रवायवादीनां धाराग्रहाणामुत्तमश्चरमो यथा भवति तथा ग्रहीतव्यः।

मन्त्रे मूर्धानमित्यादिशब्दप्रयोगेण ज्ञातीनां मध्ये यजमानं श्रेष्ठं करोतीत्याह —

“मूर्धानं दिवो अरतिं पृथिव्या इत्याह मूर्धानमेवैन समानानां करोति” (सं. का. ६ प्र. ५ अ. २) इति।

आयुषो वैश्वानराभिमानिदेवत्वादायुःस्थानीयध्रुवस्य ग्रहणे वैश्वानरशब्दो युक्त इत्याह —

“वैश्वानरमृताय जातमग्निमित्याह वैश्वानर हि देवतायाऽऽयुः” (सं. का. ६ प्र. ५ अ. २) इति।

अस्यामृच्युपरितने यजुषि च वैश्वानरशब्दप्रयोगो नाभेरूर्ध्वाधोवर्तिप्राणसाम्यायेत्याह —

“उभयतोवैश्वानरो गृह्यते तस्मादुभयतः प्राणा अधस्ताच्चोपरिष्टाच्च” (सं. का. ६ प्र. ५ अ. २) इति।

यथा वाक्चक्षुरादय उपरिवर्तिनो मूकत्वान्धत्वबधिरत्वादिकृतानल्पान्व्यवहारनिरोधान्वारयन्तो देहस्यार्धं कृत्यं निर्वहन्ति अधोभागवर्ती तु प्राणो मलमूत्रनिरोधं महान्तं निवारयन्नर्धकृत्यं निर्वहति तथैवान्ये ग्रहा यज्ञस्यार्धं निर्वहन्ति ध्रुवस्त्वर्धमिति

प्रशंसति —

“अर्धिनोऽन्ये ग्रहा गृह्यन्तेऽर्धी ध्रुवस्तस्मादर्ध्यवाङ्प्राणोऽन्येषां प्राणानाम्” (सं. का. ६ प्र. ५ अ. २) इति।

अर्धित्वमिति शेषः।

ध्रुवस्येतरविलक्षणं सादनस्थानं विधत्ते–

“उपोप्तेऽन्ये ग्रहाः साद्यन्तेऽनुपोप्ते ध्रुवस्तस्मादस्थ्नाऽन्याः प्रजाः प्रतितिष्ठन्ति मासेनान्याः” (सं. का. ६ प्र. ५ अ. २) इति।

मृदमुपोप्य खरीकृते प्रदेशे ग्रहान्तरसादनं, केवलभूम्यां ध्रुवस्य सादनम्। यस्मादेवं वैलक्षण्यं तस्माल्लोकेऽपि अन्या गवादिरूपाः प्रजा अस्थिवत्कठिनखुरेण भूमौ तिष्ठन्ति, अन्यास्तु मनुष्यरूपाः प्रजाः पादतलगतेन मांसेनावतिष्ठन्ते।

भूमौ साद्यमानस्य ध्रुवस्योत्तरहविर्धानसमीपदेशं विधत्ते —

“असुरा वा उत्तरतः पृथिवीं पर्याचिकीर्षन्तां देवा ध्रुवेणादृहन्तद्ध्रुवस्य ध्रुवत्वं यद्ध्रुव उत्तरतः साद्यते धृत्यै” (सं. का. ६ प्र. ५ अ. २) इति।

पर्याचिकीर्षन्पर्याकर्तुमुत्तरत आक्रष्टुमैच्छन्। ध्रुवस्योत्तरदेशे सादनेन पृथिवी धृता भवति। अत्र सूत्रम् – “उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम्” इति।

ध्रुवोऽवस्थितस्य सोमस्य होतृचमसेऽवनयनं विधत्ते —

“आयुर्वा एतद्यज्ञस्य यद्ध्रुव आत्मा होता यद्धोतृचमसे ध्रुमवनयत्यात्मन्नेव यज्ञस्याऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।

अवनयनस्य कालं विधित्सुर्मतान्तराण्युपन्यस्यति —

“पुरस्तादुक्थस्यावनीय इत्याहुः पुरस्ताद्ध्यायुषो भुङ्क्ते मध्यतोऽवनीय इत्याहुर्मध्यमेन ह्यायुषो भुङ्क्त उत्तरार्धेऽवनीय इत्याहुरुत्तमेन ह्यायुषो भुङ्क्ते” (सं. का. ६ प्र. ५ अ. २) इति।

उक्थं शस्त्रम्। तच्च त्रेधा विभज्य पूर्वभागे शस्यमानेऽवनयेत्। एवमितरयोरपि। आयुषः पूर्वभागे बाल्ये बहुकृत्वो भुज्यते। मध्यमे भागे बह्वन्नं भुज्यते। उत्तमे भागे शक्त्यभावेऽपि बहु भोक्तुमिच्छति।

इदानीं विधत्ते —

“वैश्वदेव्यामृचि शस्यमानायामव नयति वैश्वदेव्यो वै प्रजाः प्रजास्वेवाऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।

उत नोऽहिर्बुध्नियः शृणोत्वित्येषा वैश्वदेवा।

मूर्धानं दिव इत्येषा त्रिष्टुप्॥

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 आयुर्वा इत्यादि ।। ध्रुवो नाम यज्ञस्ययुस्थानीयः उत्तमोऽन्त्यो धाराग्रहाणां गृह्यते । तस्मात्कारणात्प्राणानां प्राणनकालानामायुरुत्तमं उद्गततमं जीवनकालसमम्बन्धित्वादायुषः । मूर्धानमेवेति । एनं यजमानं समानानां प्रधानं करोति । वैश्वानरं हीति । तत्स्थित्यधीनत्वात् । उभयतोवैश्वानर इति । ऋचि यजुषि च वैश्वानरग्रहणात् । उभयत इति । अधस्तात्पायूपस्थं उपरिष्टाच्चक्षुरादि । अर्धिन इत्यादि । अन्येऽपि सर्वेऽपि ग्रहाः अर्धिनः अर्धवन्तः यज्ञार्धस्य वोढारः । ध्रुवः एक एवार्धी अर्धान्तरस्य वोढा तस्मादवाङ्प्राणः उपस्थ अर्धीदेहकृतस्य अर्धस्य निर्वोढा पुरुषोत्पत्तिस्तत इति कृत्वा । अन्येषां प्राणानामिति । सामर्थ्यादर्थान्तरं निर्वाह्यमिति गम्यते । यद्वा - अन्येषां प्राणानां यादृशोर्धो निर्वोढव्यः तादृशेनार्धेन तस्य निर्वोढृत्वात् ।।
2 उपोप्त इति ।। उपोप्ते मृदमुपोप्य खरीकृते अन्ये ग्रहास्साद्यन्ते, अनुपोप्ते भूम्यामेव ध्रुवस्साद्यते । तस्मादस्थ्ना खरेण खुरादिना अन्याः प्रजाः गवादयः प्रतितिष्ठन्ति भूम्यां स्थितिं कुर्वन्ति अन्यास्तु मनुष्यादयः प्रजाः मांसेन प्रतितिष्ठन्ति ।।
3 असुरा वा इत्यादि ।। पर्याकर्तुमुत्तरत आक्रष्टुमैच्छन् । देवास्तु तां ध्रुवेण ग्रहेणादृंहन् दृढामकुर्वन् । तेनायं ध्रुवोभवत् । ध्रुवं करोतीति ध्रुवः, ण्यन्तात्पचाद्यच् । तस्मादुत्तरतोस्य सादनं पृथिव्याः धृत्यै धारणाय भवति ।।
4 आयुर्वा इत्यादि ।। गतम् । पुरस्तादुक्थस्य शस्त्रस्य च पूर्वस्मिन्नर्धे अवनीय अवनेतव्य इत्याहुः यज्ञविदः । आयुषः पूर्वभागे हि स्वैरं भुङ्क्ते पुरुषः । तस्मादायुस्संबन्धाय पुरस्तादेवावनयनं कुर्यात् । मध्यतः मध्ये शस्त्रस्यावनेतव्य इत्यन्य आहुर्यज्ञविदः । आषो मध्यमे हि भागे प्रभूतं भुङ्क्ते । उत्तरार्धे शस्त्रस्यावनेतव्य इत्यपरे यज्ञविद आहुः । उत्तमे ह्यायुषो भागे श्रद्दधानो भुङ्क्ते । वैश्वदेव्यामित्यादि । गतम् ।।
इति षष्ठे पञ्चमे द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 6.5.2.2 TS 6.5.2.2
-द॒र्द्ध्यवा᳚ङ् प्रा॒णो᳚ऽन्येषां᳚ प्रा॒णाना॒मुपो᳚प्ते॒ऽन्ये ग्रहाः᳚ सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒वस्तस्मा॑-द॒स्थ्नान्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति माꣳ॒॒सेना॒न्या असु॑रा॒ वा उ॑त्तर॒तः पृ॑थि॒वीं प॒र्याचि॑कीर्.ष॒न् तां दे॒वा ध्रु॒वेणा॑दृꣳह॒न् तद् ध्रु॒वस्य॑ ध्रुव॒त्वं ॅयद् ध्रु॒व उ॑त्तर॒तः सा॒द्यते॒ धृत्या॒ आयु॒र्वा ए॒तद्-य॒ज्ञ्स्य॒ यद् ध्रु॒व आ॒त्मा होता॒ यद्धो॑तृचम॒से ध्रु॒व-म॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञ्स्या- [ ]
पदपाठः (Word-by-word)
अ॒र्द्धि । अवाङ्॑ । प्रा॒ण इति॑ प्र - अ॒नः । अ॒न्येषा᳚म् । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उपो᳚प्त॒ इत्युप॑ - उ॒प्ते॒ । अ॒न्ये । ग्रहाः᳚ । सा॒द्यन्ते᳚ । अनु॑पोप्त॒ इत्यनु॑प - उ॒प्ते॒ । ध्रु॒वः । तस्मा᳚त् । अ॒स्थ्ना । अ॒न्याः । प्र॒जा इति॑ प्र - जाः । प्र॒ति॒तिष्ठ॒न्तीति॑ प्रति - तिष्ठ॑न्ति । माꣳ॒॒सेन॑ । अ॒न्याः । असु॑राः । वै । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । पृ॒थि॒वीम् । प॒र्याचि॑कीर्.ष॒न्निति॑ परि - आचि॑कीर्.षन्न् । ताम् । दे॒वाः । ध्रु॒वेण॑ । अ॒दृ॒ह॒न्न् । तत् । ध्रु॒वस्य॑ । ध्रु॒व॒त्वमिति॑ ध्रुव - त्वम् । यत् । ध्रु॒वः । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । सा॒द्यते᳚ । धृत्यै᳚ । आयुः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ध्रु॒वः । आ॒त्मा । होता᳚ । यत् । हो॒तृ॒च॒म॒स इति॑ होतृ - च॒म॒से । ध्रु॒वम् । अ॒व॒नय॒तीत्य॑व - नय॑ति । आ॒त्मन्न् । ए॒व । य॒ज्ञ्स्य॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.5.2.3 TS 6.5.2.3
-यु॑र्दधाति पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुः पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते म॑द्ध्य॒तो॑ऽव॒नीय॒ इत्या॑हुर्मद्ध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्त उ॑त्तरा॒र्द्धे॑ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते वै᳚श्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जास्वे॒वाऽऽ*यु॑र्दधाति ॥
पदपाठः (Word-by-word)
आयुः॑ । द॒धा॒ति॒ । पु॒रस्ता᳚त् । उ॒क्थस्य॑ । अ॒व॒नीय॒ इत्य॑व - नीयः॑ । इति॑ । आ॒हुः॒ । पु॒रस्ता᳚त् । हि । आयु॑षः । भु॒ङ्क्ते । म॒द्ध्य॒तः । अ॒व॒नीय॒ इत्य॑व - नीयः॑ । इति॑ । आ॒हुः॒ । म॒द्ध्य॒मेन॑ । हि । आयु॑षः । भु॒ङ्क्ते । उ॒त्त॒रा॒द्‌र्ध इत्यु॑त्तर - अ॒द्‌र्धे । अ॒व॒नीय॒ इत्य॑व - नीयः॑ । इति॑ । आ॒हुः॒ । उ॒त्त॒मेनेत्यु॑त् - त॒मेन॑ । हि । आयु॑षः । भु॒ङ्क्ते । वै॒श्व॒दे॒व्यामिति॑ वैश्व - दे॒व्याम् । ऋ॒चि । श॒स्यमा॑नायाम् । अवेति॑ । न॒य॒ति॒ । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । वै । प्र॒जा इति॑ प्र - जाः । प्र॒जास्विति॑ प्र - जासु॑ । ए॒व । आयुः॑ । द॒धा॒ति॒ ॥
पदसंख्या: 39