पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
ध्रुवग्रहं विधत्ते —
“आयुर्वा एतद्यज्ञस्य यद्ध्रुव उत्तमो ग्रहाणां गृह्यते तस्मादायुः प्राणानामुत्तमम्” (सं. का. ६ प्र. ५ अ. २) इति।
ऐन्द्रवायवादयो यथा यज्ञस्य वागादिप्राणरूपास्तथा ध्रुवोऽप्यायुःस्वरूपः। स च ध्रुवोऽन्तर्यामैन्द्रवायवादीनां धाराग्रहाणामुत्तमश्चरमो यथा भवति तथा ग्रहीतव्यः।
मन्त्रे मूर्धानमित्यादिशब्दप्रयोगेण ज्ञातीनां मध्ये यजमानं श्रेष्ठं करोतीत्याह —
“मूर्धानं दिवो अरतिं पृथिव्या इत्याह मूर्धानमेवैन समानानां करोति” (सं. का. ६ प्र. ५ अ. २) इति।
आयुषो वैश्वानराभिमानिदेवत्वादायुःस्थानीयध्रुवस्य ग्रहणे वैश्वानरशब्दो युक्त इत्याह —
“वैश्वानरमृताय जातमग्निमित्याह वैश्वानर हि देवतायाऽऽयुः” (सं. का. ६ प्र. ५ अ. २) इति।
अस्यामृच्युपरितने यजुषि च वैश्वानरशब्दप्रयोगो नाभेरूर्ध्वाधोवर्तिप्राणसाम्यायेत्याह —
“उभयतोवैश्वानरो गृह्यते तस्मादुभयतः प्राणा अधस्ताच्चोपरिष्टाच्च” (सं. का. ६ प्र. ५ अ. २) इति।
यथा वाक्चक्षुरादय उपरिवर्तिनो मूकत्वान्धत्वबधिरत्वादिकृतानल्पान्व्यवहारनिरोधान्वारयन्तो देहस्यार्धं कृत्यं निर्वहन्ति अधोभागवर्ती तु प्राणो मलमूत्रनिरोधं महान्तं निवारयन्नर्धकृत्यं निर्वहति तथैवान्ये ग्रहा यज्ञस्यार्धं निर्वहन्ति ध्रुवस्त्वर्धमिति
प्रशंसति —
“अर्धिनोऽन्ये ग्रहा गृह्यन्तेऽर्धी ध्रुवस्तस्मादर्ध्यवाङ्प्राणोऽन्येषां प्राणानाम्” (सं. का. ६ प्र. ५ अ. २) इति।
अर्धित्वमिति शेषः।
ध्रुवस्येतरविलक्षणं सादनस्थानं विधत्ते–
“उपोप्तेऽन्ये ग्रहाः साद्यन्तेऽनुपोप्ते ध्रुवस्तस्मादस्थ्नाऽन्याः प्रजाः प्रतितिष्ठन्ति मासेनान्याः” (सं. का. ६ प्र. ५ अ. २) इति।
मृदमुपोप्य खरीकृते प्रदेशे ग्रहान्तरसादनं, केवलभूम्यां ध्रुवस्य सादनम्। यस्मादेवं वैलक्षण्यं तस्माल्लोकेऽपि अन्या गवादिरूपाः प्रजा अस्थिवत्कठिनखुरेण भूमौ तिष्ठन्ति, अन्यास्तु मनुष्यरूपाः प्रजाः पादतलगतेन मांसेनावतिष्ठन्ते।
भूमौ साद्यमानस्य ध्रुवस्योत्तरहविर्धानसमीपदेशं विधत्ते —
“असुरा वा उत्तरतः पृथिवीं पर्याचिकीर्षन्तां देवा ध्रुवेणादृहन्तद्ध्रुवस्य ध्रुवत्वं यद्ध्रुव उत्तरतः साद्यते धृत्यै” (सं. का. ६ प्र. ५ अ. २) इति।
पर्याचिकीर्षन्पर्याकर्तुमुत्तरत आक्रष्टुमैच्छन्। ध्रुवस्योत्तरदेशे सादनेन पृथिवी धृता भवति। अत्र सूत्रम् – “उत्तरस्य हविर्धानस्याग्रेणोपस्तम्भनमनुपोप्ते ध्रुवस्थालीम्” इति।
ध्रुवोऽवस्थितस्य सोमस्य होतृचमसेऽवनयनं विधत्ते —
“आयुर्वा एतद्यज्ञस्य यद्ध्रुव आत्मा होता यद्धोतृचमसे ध्रुमवनयत्यात्मन्नेव यज्ञस्याऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।
अवनयनस्य कालं विधित्सुर्मतान्तराण्युपन्यस्यति —
“पुरस्तादुक्थस्यावनीय इत्याहुः पुरस्ताद्ध्यायुषो भुङ्क्ते मध्यतोऽवनीय इत्याहुर्मध्यमेन ह्यायुषो भुङ्क्त उत्तरार्धेऽवनीय इत्याहुरुत्तमेन ह्यायुषो भुङ्क्ते” (सं. का. ६ प्र. ५ अ. २) इति।
उक्थं शस्त्रम्। तच्च त्रेधा विभज्य पूर्वभागे शस्यमानेऽवनयेत्। एवमितरयोरपि। आयुषः पूर्वभागे बाल्ये बहुकृत्वो भुज्यते। मध्यमे भागे बह्वन्नं भुज्यते। उत्तमे भागे शक्त्यभावेऽपि बहु भोक्तुमिच्छति।
इदानीं विधत्ते —
“वैश्वदेव्यामृचि शस्यमानायामव नयति वैश्वदेव्यो वै प्रजाः प्रजास्वेवाऽऽयुर्दधाति” (सं. का. ६ प्र. ५ अ. २) इति।
उत नोऽहिर्बुध्नियः शृणोत्वित्येषा वैश्वदेवा।
मूर्धानं दिव इत्येषा त्रिष्टुप्॥