पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
हारियोजनग्रहविधिमर्थवादेनोन्नयति —
“इन्द्रो वृत्रमहन्तस्य शीर्षकपालमुदौब्जत्स द्रोणकलशोऽभवत्तस्मात्सोमः सम-स्रवत्स हारियोजनोऽभवत्” (सं. का. ६ प्र. ५ अ. ९) इति।
उदौब्जदुत्तानमभवत्। तस्माद्वृत्रशिरसो निष्पन्नाद्द्रोणकलशात्सृतः सोमरसो हारियोजनोऽभवत्। तस्माद्द्रोणकलशेन हारियोजनं गृह्णीयात्।
धानामेलनं विधत्ते —
“तं व्यचिकित्सज्जुहवानी३ मा हौषा३मिति सोऽमन्यत यद्धोष्याम्यामहोष्यामि यन्न होष्यामि यज्ञवेशसं करिष्यामीति तमध्रियत होतु सोऽग्निरब्र-वीन्न मय्याम होष्यसीति तं धानाभिरश्रीणात्त शृतं भूतमजुहोद्यद्धानाभिर्हारि योजन श्रीणाति शृतत्वाय शृतमेवैनं भूतं जुहोति” (सं. का. ६ प्र. ५ अ. ९) इति।
तं हारियोजनं ग्रहं प्रति। आममपक्वम्। यज्ञवेशसं यज्ञविघातम्। स इन्द्रस्तं ग्रहं होतुमध्रियत निश्चयमकरोत्। न होष्यसि मा हौषीः। शृतं भूतं पक्वं जातम्।
धानानां बाहुल्यं विधत्ते —
“बह्वीभिः श्रीणात्येतावतीभिरेवास्यमुष्मिँल्लोके कामदुघा भवन्त्यथो खल्वा-हुरेता वा इन्द्रस्य पृश्नयः कामदुघा यद्धारियोजनीरिति तस्माद्बह्वीभिः श्रीणी-यात्” (सं. का. ६ प्र. ५ अ. ९) इति।
संख्यया यावत्यो धानास्तावत्यो यजमानस्य स्वर्गे कामधेनवो भवन्ति। किंच हारियोजनीर्धाना इन्द्रस्य कामधेनवः। पृश्नयोऽल्पतनवः।
सवनीयस्य पशोः परिधिषु प्रहृतेषु हारियोजनकाल इत्येतद्विधत्ते —
“ऋक्सामे वा इन्द्रस्य हरी सोमपानौ तयोः परिधय आधनं यदप्रहृत्य परि-धीञ्जुहुयादन्तराधानाभ्यां घासं प्र यच्छेत्प्रहृत्य परिधीञ्जुहोति निराधानाभ्यामेव घासं प्र यच्छति” (सं. का. ६ प्र. ५ अ. ९) इति।
ऋक्सामवेदात्मकाविन्द्रस्याश्वौ। तावप्यत्र सोमं पिबतः। अत एव हर्योर्धाना इत्युक्तम्। सवनीयपश्वङ्गभूता ये परिधयोऽग्निं परित आवृत्य तिष्ठन्ति ते तयो-रश्वयोराधानम्। आधीयते मुखे प्रक्षिप्यतेऽश्वं नियन्तुमित्याधानं खलीनम्। मुखस्यान्तः स्थितमाधानं ययोरश्वयोस्ताभ्यामन्तराधानाभ्याम्। परिधिप्रहरणादूर्ध्वं होमे निराधानत्वात्सुखेनैव घासमत्तुं शक्यते।
नात्राध्वर्योर्होमः किंतून्नेतुरित्यमुमर्थं विधत्ते —
“उन्नेता जुहोति यातयामेव ह्येतर्ह्यध्वर्युः स्वगाकृतो यदध्वर्युर्जुहुयाद्यथा विमुक्तं पुनर्युनक्ति तादृगेव तत्” (सं. का. ६ प्र. ५ अ. ९) इति।
एतस्मिन्कालेऽध्वर्युर्यस्मात्स्वगाकृतः स्वाधीनगतिः कृतः प्रधानग्रहाणां समाप्तत्वेन पारतन्त्र्याभावात्तस्मादयं गतसाररूप इव। तथा सत्यध्वर्योर्होमे विमुक्तस्य बलीवर्दस्य श्रान्तस्य पुनः शकटे योग इव भवति।
गृहीतस्य हारियोजनस्य होमात्पूर्वं शिरसि धारणं विधत्ते —
“शीर्षन्नधिनिधाय जुहोति शीर्षतो हि स समभवत्” (सं. का. ६ प्र. ५ अ. ९) इति।
होमकालेष्वाश्रावणदेशादीषत्पुरतो वलनं कृत्वा होतव्यमिति विधत्ते —
“विक्रम्य जुहोति विक्रम्य हीन्द्रो वृत्रमहन्त्समृद्ध्यै” (सं. का. ६ प्र. ५ अ. ९) इति।
भक्षणकाले हारियोजनधानानां मानसं चर्वणं विधत्ते —
“पशवो वै हारियोजनीर्यत्संभिन्द्यादल्पा एनं, पशवो भुञ्जन्त उप तिष्ठेरन्यन्न संभिन्द्याद्बहव एनं पशवोऽभुञ्जन्त उप तिष्ठेरन्मनसा सं बाधत उभयं करोति बहव एवैनं पशवो भुञ्जन्त उप तिष्ठन्ते” (सं. का. ६ प्र. ५ अ. ९) इति।
पशुप्राप्तिहेतुत्वाद्धानाः पशवः। संभिन्द्याद्दन्तैः खण्डयेत्। तथा सति कतिचिदेव पशव एनं यजमानं क्षीरदानादिभिः पालयन्ति। मानसचर्वणे तु संभेदनमसंभेदनं चेत्युभयस्य कृतत्वात्पशूनां नाल्पत्वं नापि क्षीरादिराहित्यम्।
उन्नेतृहस्तगतं हुतशेषं सर्वे भक्षयितुमुन्नेतुरनुज्ञामपेक्षेरन्निति विधत्ते –
“उन्नेतर्युपहवमिच्छन्ते य एव तत्र सोमपीथस्तमेवाव रुन्धते” (सं. का. ६ प्र. ५ अ. ९) इति।
सर्वभक्षितावशेषाणां द्रोणकलशगतसोमानां निनयनं विधत्ते —
“उत्तरवेद्यां नि वपति पशवो वा उत्तरवेदिः पशवो हारियोजनीः पशुष्वेव पशून्प्रति ष्ठापयन्ति” (सं. का. ६ प्र. ५ अ. ९) इति।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
पूर्ववन्निघाताभावः ।।