पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
“यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते संवत्सरेण योपयित्वा सुवर्गं लोकमायन्तमृषय ऋतुग्रहैरेवानु प्राजानन्यदृतुग्रहा गृह्यन्ते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।
संवत्सरेण योपयित्वा कालविलम्बेन मोहयित्वा। यत ऋषयो मनुष्येष्वभिज्ञाः।
संख्यां विधत्ते —
“द्वादश गृह्यन्ते द्वादश मासाः संवत्सरः संवत्सरस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ३ इति।
त्रयोदशचतुर्दशयोरप्येतदुपलक्षणम्।
आदावन्ते च द्वयोर्ग्रहणं विधत्ते —
“सह प्रथमौ गृह्येते सहोत्तमौ तस्माद्द्वौद्वावृतू” (सं. का. ६ प्र. ५ अ. ३) इति।
मधुश्च माधवश्चेत्येतौ प्रथमौ। तपश्च तपस्यश्चेत्येतावुत्तरौ। यस्माद्द्वयोः साहित्यमत्र विहितं तस्माद्द्वौद्वौ मासावृत्ववयवौ।
पात्रस्थसोमं वह्नौ स्रावयितुं बिलस्य पार्श्वयोर्द्वे मुखे विधत्ते —
“उभयतोमुखमृतुपात्रं भवति को हि तद्वेद यत ऋतूनां मुखम्” (सं. का. ६ प्र. ५ अ. ३) इति।
ऋतूनां मुखमृतुधर्मप्रवृत्त्यारम्भो यतो यस्मात्कालादारभ्य भवति तत्को नाम वेद। तस्मादृतुपात्रस्य मुखद्वयं कुर्यात्।
अध्वर्युप्रतिप्रस्थात्रोः प्रैषमन्त्रावुत्पादयति —
“ऋतुना प्रेष्येति षट्कृत्व आह षड्वा ऋतव ऋतूनेव प्रीणात्यृतुभिरिति चतुश्चतुष्पद एव पशून्प्रीणाति द्विः पुनतुनाऽऽह द्विपद एव प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति।
हे मैत्रावरुण ऋतुना निमित्तेन होतारं प्रेष्य तमिमं मन्त्रं प्रथमतृतीयपञ्चमेष्वध्वर्ब्रूयात्। द्वितीयचतुर्थषष्ठेषु प्रतिप्रस्थाता ब्रूयात्। एवं षट्कृत्वस्तद्वचनम्। तेन भवत्यृतूनां प्रीतिः। ऋतुभिः प्रेष्येति सप्तमनवमयोरध्वर्युर्ब्रूयात्। अष्ठमदशमयोः प्रतिप्रस्थाता। तेन चतुरावर्तनेन पशूनां प्रीतिः। ऋतुना प्रेष्येत्यध्वर्युरेकादशे ब्रूयात्। प्रतिप्रस्थाता द्वादशे। तेन द्विरावर्तनेन मनुष्याणां पक्षिणां च प्रीतिः।
पूर्वोक्तामेव षट्चतुर्द्विसंख्यामुपजीव्योपजीवकभावेन प्रशंसति —
“ऋतुना प्रष्येति षट्कृत्व आहर्तुभिरिति चतुस्तस्माच्चतुष्पादः पशव ऋतूनुपविन्ति द्विः पुनतुनाऽऽह तस्माद्द्विपादश्चतुष्पदः पशूनुप जीवन्ति” (सं. का. ६ प्र. ५ अ. ३) इति।
गवादयश्चतुष्पादः शीतोष्णादीनृतुधर्मानुपजीवन्ति। मनुष्याश्च द्विपादः पशुगतक्षीरादीनुपजीवन्ति।
“ऋतुना प्रेष्येति षट्कृत्व आहर्तुभिरिति चतुर्द्विः पुनतुनाऽऽहाऽऽऋमणमेव
तत्सेतुं यजमानः कुरुते सुवर्गस्य लोकस्य समष्ट्यै” (सं. का. ६ प्र. ५ अ. ३) इति।
आक्रम्यते प्राप्यते स्वर्गोऽनेनेत्याक्रमणः सेतुः यथा सेतोरधोभागो विशाल ऊर्ध्वभागः संकुचितस्तथैवात्र षट्चतुर्द्विसंख्या द्रष्टव्या। सोपानेष्वप्येतत्समानम्।
अध्वर्युप्रतिप्रस्थात्रोर्युगपद्गमनं निषेधति —
“नान्योऽन्यमनु प्र पद्येत यदन्योऽन्यमनुप्रपद्येतर्तुतुमनु प्र पद्येतर्तवो मोहुकाः स्युः” (सं. का. ६ प्र. ५ अ. ३) इति।
अध्वर्युप्रतिप्रस्थातृभ्यां प्रथमद्वितीयौ ग्रहौ सह गृहीतौ। ततो हविर्धाना-न्निष्क्रम्य गत्वाऽऽहवनीये हुत्वा पुनः प्रत्यागत्य हविर्धाने ग्रहान्तरं ग्रहीतव्यम्। तत्रैकः पुरतोऽन्यः पृष्ठत इत्येवं युगपन्न गन्तव्यं किंतु पर्यायेण। यद्यृतुग्रहे तयोः सहगमनं स्यात्तदानीमेकमृतुमन्योऽनुप्रविशेत्। तदा सांकर्यादृतवो मोहहेतवो भवेयुः।
कालभेदवदुभयोर्मार्गभेदं विधत्ते —
“प्रसिद्धमेवाध्वर्युर्दक्षिणेन प्र पद्यते प्रसिद्धं प्रतिप्रस्थातोत्तरेण तस्मादादित्यः षण्मासो दक्षिणेनैति षडुत्तरेण” (सं. का. ६ प्र. ५ अ. ३) इति।
प्रथमतः सिद्धं प्रसिद्धमादित आरभ्येत्यर्थः। यस्मादृत्विजोर्दक्षिणोत्तरौ द्वौ मार्गौ तस्मादादित्यस्यापि दक्षिणायनोत्तरायणे भवतः।
मधुश्चेत्यादिमन्त्रैरेव द्वादशमासानां प्रीतत्वात्संसर्पमन्त्रस्य निर्विषयत्वमाशङ्क्य व्याचष्टे —
“उपयामगृहीतोऽसि ससर्पोऽस्यहस्पत्याय त्वेत्याहास्ति त्रयोदशो मास इत्याहुस्तमेव तत्प्रीणाति” (सं. का. ६ प्र. ५ अ. ३) इति। अधिकमासस्त्रयोदशः॥