अनुवाकः 7 TS 6.5.7

(A7)

(विश्वे॒ - प्र - पि॒तृभ्य॑ ए॒वैतेन॑ करो॒त्ये - का॒न्नविꣳ॑श॒तिश्च॑)

अनुवाकः 7 - Complete Audio

TS 6.5.7 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्-गृ॑ह्णाति प्र॒जाप॑ति॒र्वा ए॒ष
PS1.2 यदा᳚ग्रय॒णः प्र॒जानां᳚ प्र॒जन॑नाय॒ न
PS1.3 सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒
PS1.4 वष॑ट् करोति॒ यद॑नुवषट्कु॒र्याद्-रु॒द्रं प्र॒जा
PS1.5 अ॒न्वव॑सृजेदे॒ष वै गा॑य॒त्रो दे॒वानां॒
PS1.6 ॅयथ् स॑वि॒तैष गा॑यत्रि॒यै लो॒के
PS1.7 गृ॑ह्यते॒ यदा᳚ग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्-गृ॒ह्णाति॒
PS1.8 स्वादे॒वैनं॒ ॅयोने॒र्निर्गृ॑ह्णाति॒ विश्वे॑- [
PS1.9 ]
PS2.1 दे॒वास्तृ॒तीयꣳ॒॒ सव॑नं॒ नोद॑यच्छ॒न् ते
PS2.2 स॑वि॒तारं॑ प्रातस्सव॒नभा॑गꣳ॒॒ सन्तं॑ तृतीयसव॒नम॒भि
PS2.3 पर्य॑णय॒न् ततो॒ वै ते
PS2.4 तृ॒तीयꣳ॒॒ सव॑न॒मुद॑यच्छ॒न्॒. यत् तृ॑तीयसव॒ने
PS2.5 सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै
PS2.6 सवितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा᳚द्-गृह्णाति वैश्वदे॒व्यो॑
PS2.7 वै प्र॒जा वै᳚श्वदे॒वः क॒लशः॑
PS2.8 सवि॒ता प्र॑स॒वाना॑मीशे॒ यथ् स॑वितृपा॒त्रेण॑
PS2.9 वैश्वदे॒वं क॒लशा᳚द्-गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै᳚
PS2.10 प्र॒जाः प्र- [ ]
PS3.1 ज॑नयति॒ सोमे॒ सोम॑म॒भि गृ॑ह्णाति॒
PS3.2 रेत॑ ए॒व तद्-द॑धाति सु॒शर्मा॑ऽसि
PS3.3 सुप्रतिष्ठा॒न इत्या॑ह॒ सोमे॒ हि
PS3.4 सोम॑मभिगृ॒ह्णाति॒ प्रति॑ष्ठित्या ए॒तस्मि॒न् वा
PS3.5 अपि॒ ग्रहे॑ मनु॒ष्ये᳚भ्यो दे॒वेभ्यः॑
PS3.6 पि॒तृभ्यः॑ क्रियते सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒न
PS3.7 इत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति
PS3.8 बृ॒हदित्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोति॒
PS3.9 नम॒ इत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑
PS3.10 करोत्ये॒ ( ) ताव॑ती॒
PS3.11 र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनꣳ॒॒ सर्वा᳚भ्यो
PS3.12 गृह्णात्ये॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒
PS3.13 इत्या॑ह वैश्वदे॒वो ह्ये॑षः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.5.7.1 TS 6.5.7.1
अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्-गृ॑ह्णाति प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णः प्र॒जानां᳚ प्र॒जन॑नाय॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट् करोति॒ यद॑नुवषट्कु॒र्याद्-रु॒द्रं प्र॒जा अ॒न्वव॑सृजेदे॒ष वै गा॑य॒त्रो दे॒वानां॒ ॅयथ् स॑वि॒तैष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदा᳚ग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्-गृ॒ह्णाति॒ स्वादे॒वैनं॒ ॅयोने॒र्निर्गृ॑ह्णाति॒ विश्वे॑- [ ]
पदपाठः (Word-by-word)
अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम - पा॒त्रेण॑ । सा॒वि॒त्रम् । आ॒ग्र॒य॒णात् । गृ॒ह्णा॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । न । सा॒द॒य॒ति॒ । अस॑न्नात् । हि । प्र॒जा इति॑ प्र - जाः । प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । न । अन्विति॑ । वष॑ट् । क॒रो॒ति॒ । यत् । अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् । रु॒द्रम् । प्र॒जा इति॑ प्र - जाः । अ॒न्वव॑सृजे॒दित्य॑नु - अव॑सृजेत् । ए॒षः । वै । गा॒य॒त्रः । दे॒वाना᳚म् । यत् । स॒वि॒ता । ए॒षः । गा॒य॒त्रि॒यै । लो॒के । गृ॒ह्य॒ते॒ । यत् । आ॒ग्र॒य॒णः । यत् । अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम - पा॒त्रेण॑ । सा॒वि॒त्रम् । आ॒ग्र॒य॒णात् । गृ॒ह्णाति॑ । स्वात् । ए॒व । ए॒न॒म् । योनेः᳚ । निरिति॑ । गृ॒ह्णा॒ति॒ । विश्वे᳚ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

सावित्रग्रहं विधत्ते — “अन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति प्रजापतिर्वा एष यदाग्रयणः प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ७) इति।

आग्रयणग्रहस्य कर्मनिष्पत्तिद्वारेण प्रजापालकत्वात्प्रजापतित्वादाग्रयणाद्ग्रहणं प्रजोत्पत्तये भवति।

सादनादिकं पूर्ववन्निषेधति – “न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट् कुर्याद्रुद्रं प्रजा अन्ववसृजेत्” (सं. का. ६ प्र. ५ अ. ७) इति।

विहितं सावित्रग्रहं प्रशंसति –

“एष वै गायत्रो देवानां यत्सवितैष गायत्रियै लोके गृह्यते यदाग्रयणो यद-न्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति स्वादेवैनं योनेर्निर्गृह्णाति” (सं. का. ६ प्र. ५ अ. ७) इति।

तत्सवितुर्वरेण्यमित्याम्नातत्वाद्देवानां मध्ये सविता गायत्रीसंबद्धः। आग्रयणश्च गायत्र्याः स्थाने प्रातःसवने गृह्यते। अनेन संबन्धेनाऽऽग्रयणः सावित्रस्य स्वकीयो योनिः।

सावित्रस्य तृतीयसवनसंबन्धं विधत्ते —

“विश्वे देवास्तृतीय सवनं नोदयच्छन्ते सवितारं प्रातःसवनभाग सन्तं तृतीयसवनमभि पर्यणयन्ततो वै ते तृतीय सवनमुदयच्छन्यत्तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्यै” (सं. का. ६ प्र. ५ अ. ७) इति।

विश्वे देवाः स्वकीयं तृतीयसवनमुद्वोढं नाशक्नुवन्। प्रातःसवने भागः सवितुर्युक्तस्तस्य गायत्रत्वात्। तादृशमपि सहकारित्वेन समानीय तृतीयसवनमुदवहन्। अतोऽत्र सावित्रो युक्तः।

वैश्वदेवग्रहं विधत्ते —

“सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति वैश्वदेवयो वै प्रजा वैश्वदेवः कलशः सविता प्रसवानामीशे यत्सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सवितृप्रसूत एवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ७) इति।

यद्यपि पूर्वमन्तर्यामपात्रं तथाऽपीदानीं सवितृपात्रं संपन्नम्। कलशाद्द्रोण-कलशात्। प्रजानां विश्वैर्देवैः पाल्यत्वेन वैश्वदेवत्वम्। सर्वदेवसाधारणसोमाधारत्वात्कलशस्य वैश्वदेवत्वम्।

“(सावित्रशेषे) सोमे सोममभि गृह्णाति रेत एव तद्दधाति”(सं. का. ६ प्र. ५ अ. ७) इति।

अत एव मन्त्रे सुप्रतिष्ठान इत्येतदुपपन्नमित्याह —

“सुशर्माऽसि सुप्रतिष्ठान इत्याह सोमे हि सोममभिगृह्णाति प्रतिष्ठित्यै” (सं. का. ६ प्र. ५ अ. ७) इति।

मन्त्रपदानां किंचिद्विशेषविषयत्वं दर्शयति —

“एतस्मिन्वा अपि ग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते सुशर्माऽसि सुप्रतिष्ठान इत्याह मनुष्येभ्य एवैतेन करोति बृहदित्याह देवेभ्य एवैतेन करोति मम इत्याह पितृभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनं सर्वाभ्यो गृह्णाति”

(सं. का. ६ प्र. ५ अ. ७) इति। अपि वैतस्मिन्नेव वैश्वदेवग्रहे मन्त्रपदैर्मनुष्यादीनां सूचितत्वात्सर्वार्थमिदं ग्रहणम्। तत्र सुशर्मशब्देन समीचीनसुखार्थिनो मनुष्याः सूचिताः। बृहच्छब्देनाधिकमहिमोपेता देवाः। नमःशब्देन नमस्कारप्रियाः पितरः।

सादनमन्त्रे विश्वेभ्य इत्येतत्सर्वार्थत्वाद्युक्तमित्याह —

“एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येषः” (सं. का. ६ प्र. ५ अ. ७) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अन्तर्यामपात्रेणेत्यादि ।। प्रजापतिरिति । प्रजानां पाता आग्रयणग्रहः। तस्मात्सावित्रस्य ग्रहणं प्रजानां प्रजननाय भवति । न सादयतीत्यादि । व्याख्यातम् ।।
2 एष वा इत्यादि ।। देवानां मध्ये सविता गायत्रः गायत्रीसम्बन्धी; 'तत्सवितुर्वरेण्यं' इत्यादिकाया गायत्र्यास्सावित्रत्वात् आग्रयणश्चायं गायत्र्या लोके स्थाने प्रातस्सवने गृह्यते तस्मात्सोपि गायत्रः तस्मादाग्रयणात् सावित्रस्य ग्रहणं कुर्वता स्वादेव योनेः एतस्य सावित्रस्य निर्ग्रहागं निष्कृष्य ग्रहणं कृतं भवति ।।
3 विश्वे देवा इत्यादि ।। विश्वेदेवाः आत्मीयं तृतीयसवनं उद्वोढुं शक्ता न बभूवुः, तस्मात्तृतीयसवने सावित्रस्य ग्रहणं तृतीयसवननिर्वहणाय भवति ।।
4 सवितृपात्रेणेत्यादि ।। सावित्रमाग्रयागाद्गृह्णाति सावित्रेण गृहीत्वा हुतत्वात्सवितृपात्रमन्तर्यामपात्रम् । गतमन्यत् ।।
5 सोमे सोममित्यादि ।। सावित्रस्य अनुवषट्काराभावादाहुतिशेषे अभिगृह्णाति शेषस्योपरि गृह्णाति रेतसो निषेकस्थानीयं तद्भवति । सोमे हीत्यादि । यस्मात्सोमोभिगृह्यते सोमस्योपरि तस्मात्सुप्रतिष्ठान उच्यते इति मन्त्रपदव्याख्या । तत्प्रतिष्ठित्यै प्रतिष्ठितत्वाय भवति यजमानस्य ।।
6 एतस्मिन्वा इति त्रिभ्यो ।। मनुष्यादिभ्य एतस्मिन् ग्रहे वैश्वदेवे क्रियते । कथमित्याह - मनुष्येम्य एवेत्यादि शोभनं शरणं सेचनं सुखं वा अस्येति कृत्वा । बृहत्त्वं देवा अर्हन्तीति कृत्वा । नमस्कारप्रियाः पितर इति कृत्वा । एतावतीर्वा इत्यादि । गतम् ।।
इति षष्ठे पञ्चमे सप्तमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.5.7.2 TS 6.5.7.2
दे॒वास्तृ॒तीयꣳ॒॒ सव॑नं॒ नोद॑यच्छ॒न् ते स॑वि॒तारं॑ प्रातस्सव॒नभा॑गꣳ॒॒ सन्तं॑ तृतीयसव॒नम॒भि पर्य॑णय॒न् ततो॒ वै ते तृ॒तीयꣳ॒॒ सव॑न॒मुद॑यच्छ॒न्॒. यत् तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै सवितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा᳚द्-गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा वै᳚श्वदे॒वः क॒लशः॑ सवि॒ता प्र॑स॒वाना॑मीशे॒ यथ् स॑वितृपा॒त्रेण॑ वैश्वदे॒वं क॒लशा᳚द्-गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै᳚ प्र॒जाः प्र- [ ]
पदपाठः (Word-by-word)
दे॒वाः । तृ॒तीय᳚म् । सव॑नम् । न । उदिति॑ । अ॒य॒च्छ॒न् । ते । स॒वि॒तार᳚म् । प्रा॒त॒स्स॒व॒नभा॑ग॒मिति॑ प्रातस्सव॒न - भा॒ग॒म् । सन्त᳚म् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय-स॒व॒नम् । अ॒भि । परीति॑ । अ॒न॒य॒न्न् । ततः॑ । वै । ते । तृ॒तीय᳚म् । सव॑नम् । उदिति॑ । अ॒य॒च्छ॒न्न् । यत् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । सा॒वि॒त्रः । गृ॒ह्यते᳚ । तृ॒तीय॑स्य । सव॑नस्य । उद्य॑त्या॒ इत्युत् - य॒त्यै॒ । स॒वि॒तृ॒पा॒त्रेणेति॑ सवितृ-पा॒त्रेण॑ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । क॒लशा᳚त् । गृ॒ह्णा॒ति॒ । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । वै । प्र॒जा इति॑ प्र-जाः । वै॒श्व॒दे॒व इति॑ वैश्व-दे॒वः । क॒लशः॑ । स॒वि॒ता । प्र॒स॒वाना॒मिति॑ प्र - स॒वाना᳚म् । ई॒शे॒ । यत् । स॒वि॒तृ॒पा॒त्रेणेति॑ सवितृ - पा॒त्रेण॑ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । क॒लशा᳚त् । गृ॒ह्णाति॑ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र - जाः । प्रेति॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.5.7.3 TS 6.5.7.3
ज॑नयति॒ सोमे॒ सोम॑म॒भि गृ॑ह्णाति॒ रेत॑ ए॒व तद्-द॑धाति सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒न इत्या॑ह॒ सोमे॒ हि सोम॑मभिगृ॒ह्णाति॒ प्रति॑ष्ठित्या ए॒तस्मि॒न् वा अपि॒ ग्रहे॑ मनु॒ष्ये᳚भ्यो दे॒वेभ्यः॑ पि॒तृभ्यः॑ क्रियते सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒न इत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति बृ॒हदित्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोति॒ नम॒ इत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोत्ये॒ ( ) ताव॑ती॒ र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनꣳ॒॒ सर्वा᳚भ्यो गृह्णात्ये॒ष ते॒ योनि॒र्विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑षः ॥
पदपाठः (Word-by-word)
ज॒न॒य॒ति॒ । सोमे᳚ । सोम᳚म् । अ॒भीति॑ । गृ॒ह्णा॒ति॒ । रेतः॑ । ए॒व । तत् । द॒धा॒ति॒ । सु॒शर्मेति॑ सु - शर्मा᳚ । अ॒सि॒ । सु॒प्र॒ति॒ष्ठा॒न इति॑ सु - प्र॒ति॒ष्ठा॒नः । इति॑ । आ॒ह॒ । सोमे᳚ । हि । सोम᳚म् । अ॒भि॒गृ॒ह्णातीत्य॑भि - गृ॒ह्णाति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ए॒तस्मिन्न्॑ । वै । अपीति॑ । ग्रहे᳚ । म॒नु॒ष्ये᳚भ्यः । दे॒वेभ्यः॑ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । क्रि॒य॒ते॒ । सु॒शर्मेति॑ सु - शर्मा᳚ । अ॒सि॒ । सु॒प्र॒ति॒ष्ठा॒न इति॑ सु - प्र॒ति॒ष्ठा॒नः । इति॑ । आ॒ह॒ । म॒नु॒ष्ये᳚भ्यः । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । बृ॒हत् । इति॑ । आ॒ह॒ । दे॒वेभ्यः॑ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । नमः॑ । इति॑ । आ॒ह॒ । पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ ( ) । ए॒ताव॑तीः । वै । दे॒वताः᳚ । ताभ्यः॑ । ए॒व । ए॒न॒म् । सर्वा᳚भ्यः । गृ॒ह्णा॒ति॒ । ए॒षः । ते॒ । योनिः॑ । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ । इति॑ । आ॒ह॒ । वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः । हि । ए॒षः ॥
पदसंख्या: 69