पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
सावित्रग्रहं विधत्ते — “अन्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति प्रजापतिर्वा एष यदाग्रयणः प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ७) इति।
आग्रयणग्रहस्य कर्मनिष्पत्तिद्वारेण प्रजापालकत्वात्प्रजापतित्वादाग्रयणाद्ग्रहणं प्रजोत्पत्तये भवति।
सादनादिकं पूर्ववन्निषेधति – “न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते नानु वषट्करोति यदनुवषट् कुर्याद्रुद्रं प्रजा अन्ववसृजेत्” (सं. का. ६ प्र. ५ अ. ७) इति।
विहितं सावित्रग्रहं प्रशंसति –
“एष वै गायत्रो देवानां यत्सवितैष गायत्रियै लोके गृह्यते यदाग्रयणो यद-न्तर्यामपात्रेण सावित्रमाग्रयणाद्गृह्णाति स्वादेवैनं योनेर्निर्गृह्णाति” (सं. का. ६ प्र. ५ अ. ७) इति।
तत्सवितुर्वरेण्यमित्याम्नातत्वाद्देवानां मध्ये सविता गायत्रीसंबद्धः। आग्रयणश्च गायत्र्याः स्थाने प्रातःसवने गृह्यते। अनेन संबन्धेनाऽऽग्रयणः सावित्रस्य स्वकीयो योनिः।
सावित्रस्य तृतीयसवनसंबन्धं विधत्ते —
“विश्वे देवास्तृतीय सवनं नोदयच्छन्ते सवितारं प्रातःसवनभाग सन्तं तृतीयसवनमभि पर्यणयन्ततो वै ते तृतीय सवनमुदयच्छन्यत्तृतीयसवने सावित्रो गृह्यते तृतीयस्य सवनस्योद्यत्यै” (सं. का. ६ प्र. ५ अ. ७) इति।
विश्वे देवाः स्वकीयं तृतीयसवनमुद्वोढं नाशक्नुवन्। प्रातःसवने भागः सवितुर्युक्तस्तस्य गायत्रत्वात्। तादृशमपि सहकारित्वेन समानीय तृतीयसवनमुदवहन्। अतोऽत्र सावित्रो युक्तः।
वैश्वदेवग्रहं विधत्ते —
“सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति वैश्वदेवयो वै प्रजा वैश्वदेवः कलशः सविता प्रसवानामीशे यत्सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति सवितृप्रसूत एवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ७) इति।
यद्यपि पूर्वमन्तर्यामपात्रं तथाऽपीदानीं सवितृपात्रं संपन्नम्। कलशाद्द्रोण-कलशात्। प्रजानां विश्वैर्देवैः पाल्यत्वेन वैश्वदेवत्वम्। सर्वदेवसाधारणसोमाधारत्वात्कलशस्य वैश्वदेवत्वम्।
“(सावित्रशेषे) सोमे सोममभि गृह्णाति रेत एव तद्दधाति”(सं. का. ६ प्र. ५ अ. ७) इति।
अत एव मन्त्रे सुप्रतिष्ठान इत्येतदुपपन्नमित्याह —
“सुशर्माऽसि सुप्रतिष्ठान इत्याह सोमे हि सोममभिगृह्णाति प्रतिष्ठित्यै” (सं. का. ६ प्र. ५ अ. ७) इति।
मन्त्रपदानां किंचिद्विशेषविषयत्वं दर्शयति —
“एतस्मिन्वा अपि ग्रहे मनुष्येभ्यो देवेभ्यः पितृभ्यः क्रियते सुशर्माऽसि सुप्रतिष्ठान इत्याह मनुष्येभ्य एवैतेन करोति बृहदित्याह देवेभ्य एवैतेन करोति मम इत्याह पितृभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनं सर्वाभ्यो गृह्णाति”
(सं. का. ६ प्र. ५ अ. ७) इति। अपि वैतस्मिन्नेव वैश्वदेवग्रहे मन्त्रपदैर्मनुष्यादीनां सूचितत्वात्सर्वार्थमिदं ग्रहणम्। तत्र सुशर्मशब्देन समीचीनसुखार्थिनो मनुष्याः सूचिताः। बृहच्छब्देनाधिकमहिमोपेता देवाः। नमःशब्देन नमस्कारप्रियाः पितरः।
सादनमन्त्रे विश्वेभ्य इत्येतत्सर्वार्थत्वाद्युक्तमित्याह —
“एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इत्याह वैश्वदेवो ह्येषः” (सं. का. ६ प्र. ५ अ. ७) इति।