पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
प्रकारान्तरेण प्रशंसति —
“प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोऽरण्यमप यन्ति यानि पुनः प्रयुज्यन्ते तान्यनु ग्राम्याः पशवो ग्राममुपावयन्ति” (सं. का. ६ प्र. ५ अ. ११) इति।
आरण्या व्याघ्रादयोऽरण्यमेवो(वा)पयन्ति न कदाचिदपि ग्रामम्। ग्राम्यास्तु गवादयस्तृणमत्तुमरण्यं गत्वा पुनर्ग्रामं प्रत्यागच्छन्ति।
शस्त्रं प्रशंसति —
“यो वै ग्रहाणां निदानं वेद निदानवान्भवत्याज्यमित्युक्थं तद्वै ग्रहाणां निदानं यदुपाशु शसति तदुपाश्वन्तयार्मयोर्यदुच्चैस्तदितरेषां ग्रहाणामेतद्वै ग्रहाणां निदानं य एवं वेद निदानवान्भवति” (सं. का. ६ प्र. ५ अ. ११) इति।
आज्यमित्युक्थमाज्यप्रउगादिनामकं शस्त्रं, प्रशंसाद्वारा ग्रहानुष्ठानप्रयोजक-त्वाद्ग्रहाणां निदानं मूलकारणम्। तदेतद्यो वेद स निदानवांश्चिरजीविभिर्मा-तापितृस्वामिभिः संयुक्तो भवति। शस्त्रेष्वषि यदुपांशु शस्यते तद्द्वयोर्ग्रहयो-र्निदानं, यदुच्चैस्तदितरेषां सर्वेषामित्येवं विशेषं जानतोऽपि तदेव फलम्।
स्थालीवायव्यरूपं द्वंद्वं प्रशंसति —
“यो वै ग्रहाणां मिथुनं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते स्थालीभिरन्ये ग्रहा गृह्यन्ते वायव्यैरन्य एतद्वै ग्रहाणां मिथुनं य एवं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते” (सं. का. ६ प्र. ५ अ. ११) इति।
आग्रयणोक्थ्यादिग्रहाः स्त्रीरूपाभिर्मृन्मयस्थालीभिर्गृह्यन्ते। उपांश्वन्तर्यामा-दिग्रहास्तु पुरुषरूपैर्वायव्यैः। वेदने तु मनुष्यमिथुनैः पशुमिथुनैश्च प्रजायते युक्तो भवति। य एवं वेदेति पुनरभिधानमुपसंहारार्थम्।
“इन्द्रस्त्वष्टुः सोममभीषहाऽपिबत्स विष्वङ्व्यार्च्छत्स आत्मन्नारमणं नाविन्दत्स एताननुसवनं पुरोडाशानपश्यत्तान्निरवपत्तैर्वै स आत्मन्नारमणमकुरुत तस्मादनुसवनं पुरोडाशा निरुप्यन्ते तस्मादनुसवनं पुरोडाशानां प्राश्नीयादात्मन्नेवाऽऽरमणं कुरुते नैन सोमोऽति पवते” (सं. का. ६ प्र. ५ अ. ११) इति।
इन्द्रेण विश्वरूपाभिधे त्वष्टुः पुत्रे हते सति कुपितस्त्वष्टा विनेन्द्रं सोमयागं कर्तुं प्रवृत्तस्तदानीमिन्द्रोऽभीषहा बलादेवापिबत्। स इन्द्रः सहसा पीतस्य सोमस्योदरमध्य इतस्ततो विधावनाद्व्यर्च्छद्विविर्धार्तिमाप्नोत्। तेनाऽऽर्तः स इन्द्रः स्वात्मनि सुखं नालभत। ततस्त्रिष्वपि सवनेषु सवनीयपुरोडाशैः सुखं प्राप्तवान्। तस्मात्पुरोडाशान्निरुप्य तच्छेषभक्षणेन सुखं भवति। सोमश्चैनं नातिपवते नेतस्ततः संचारेण बाधते।
तेषु सवनीयपुरोडाशेषु पञ्चद्रव्यविधिमर्थवादेनोन्नयति —
“ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम्” (सं. का. ६ प्र. ५ अ. ११) इति।
पञ्चाक्षरा पङ्क्तिरित्याम्नानात्पञ्चसंख्यायोगेन पाङ्क्तत्वं वक्तव्यम्। ऋचो यजुषो वा नास्ति काचिन्नियता पञ्चसंख्या। न च मा भूत्पाङ्क्तत्वमिति वाच्यम्। पाङ्क्तो यज्ञ इति सर्वत्रोद्घोषणात्। अतः किं पाङ्क्तत्वमिति प्रश्नः। धानादिद्रव्येषु नियतया पञ्चसंख्यया पाङ्क्तत्वामित्युक्तरम्। (भृ) ष्टा यवा धानाः। आज्यसंयुक्ताः सक्तवः करम्भः। व्रीहिजन्या लाजाः परिवापः। पिष्टविकारःपुरोडाशः। क्षीरविकारः पयस्या।
—--------------------------------
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
प्रश्नश्च संपूर्णः ॥
……………………………………………………………………………………………………………
प्रश्नः-6