अनुवाकः 11 TS 6.5.11

(A11)

(भ॒व॒न्ति॒ यानि॒ पुनः॒ - शꣳस॑ति॒ त - द्विष्व॒ङ् - किं - चतु॑र्दश च)

अनुवाकः 11 - Complete Audio

TS 6.5.11 - स्वरानुगामी

0:00 0:00
PS1.1 प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒
PS1.2 यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ऽमुमे॒व तैर्लो॒कम॒भि
PS1.3 ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को
PS1.4 यानि॒ पु॑नःप्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि
PS1.5 ज॑यति॒ पुनः॑ पुनरिव॒ ह्य॑यं
PS1.6 ॅलो॒कः प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒
PS1.7 नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒
PS1.8 तान्यन्वोष॑धयः॒ परा॑ भवन्ति॒ यानि॒
PS1.9 पुनः॑- [ ]
PS2.1 प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति॒
PS2.2 प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒
PS2.3 यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः
PS2.4 प॒शवोऽर॑ण्य॒मप॑ यन्ति॒ यानि॒ पुनः॑
PS2.5 प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याः प॒शवो॒
PS2.6 ग्राम॑मु॒पाव॑यन्ति॒ यो वै ग्रहा॑णां
PS2.7 नि॒दानं॒ ॅवेद॑ नि॒दान॑वान् भव॒त्याज्य॒मित्यु॒क्थं
PS2.8 तद्वै ग्रहा॑णां नि॒दानं॒ ॅयदु॑पाꣳ॒॒शु
PS2.9 शꣳस॑ति॒ त- [ ]
PS3.1 -दु॑पाꣳश्वन्तर्या॒मयो॒-र्यदु॒च्चै-स्तदित॑रेषां॒ ग्रहा॑णामे॒तद्वै ग्रहा॑णां नि॒दानं॒
PS3.2 ॅय ए॒वं ॅवेद॑ नि॒दान॑वान्
PS3.3 भवति॒ यो वै ग्रहा॑णां
PS3.4 मिथु॒नं ॅवेद॒ प्र प्र॒जया॑
PS3.5 प॒शुभि॑र्मिथु॒नैर्जा॑यते स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑
PS3.6 वाय॒व्यै॑र॒न्य ए॒तद्वै ग्रहा॑णां मिथु॒नं
PS3.7 ॅय ए॒वं ॅवेद॒ प्र
PS3.8 प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यत॒ इन्द्र॒स्त्वष्टुः॒ सोम॑मभी॒षहा॑ऽपिब॒थ्
PS3.9 स विष्व॒ङ्- [ ]
PS4.1 व्या᳚र्च्छ॒थ् स आ॒त्मन्ना॒रम॑णं॒ नावि॑न्द॒थ्
PS4.2 स ए॒तान॑नुसव॒नं पु॑रो॒डाशा॑नपश्य॒त् तान्
PS4.3 निर॑वप॒त् तैर्वै स आ॒त्मन्ना॒रम॑ण-मकुरुत॒
PS4.4 तस्मा॑दनुसव॒नं पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑दनुसव॒नं
PS4.5 पु॑रो॒डाशा॑नां॒ प्राश्नी॑यादा॒त्म-न्ने॒वाऽऽ*रम॑णं कुरुते॒ नैनꣳ॒॒
PS4.6 सोमोऽति॑ पवते ब्रह्मवा॒दिनो॑ वदन्ति॒
PS4.7 नर्चा न यजु॑षा प॒ङ्क्तिरा᳚प्य॒तेऽथ॒
PS4.8 किं ( ) ॅय॒ज्ञ्स्य॑
PS4.9 पाङ्क्त॒त्वमिति॑ धा॒नाः क॑र॒भंः प॑रिवा॒पः
PS4.10 पु॑रो॒डाशः॑ पय॒स्या॑ तेन॑ प॒ङ्क्तिरा॑प्यते॒
PS4.11 तद्-य॒ज्ञ्स्य॑ पाङ्क्त॒त्वं

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.5.11.1 TS 6.5.11.1
प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ऽमुमे॒व तैर्लो॒कम॒भि ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को यानि॒ पु॑नःप्रयु॒ज्यन्त॑ इ॒ममे॒व तैर्लो॒कम॒भि ज॑यति॒ पुनः॑ पुनरिव॒ ह्य॑यं ॅलो॒कः प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ परा॑ भवन्ति॒ यानि॒ पुनः॑- [ ]
पदपाठः (Word-by-word)
प्रेति॑ । अ॒न्यानि॑ । पात्रा॑णि । यु॒ज्यन्ते᳚ । न । अ॒न्यानि॑ । यानि॑ । प॒रा॒चीना॑नि । प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । अ॒मुम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । पराङ्॑ । इ॒व॒ । हि । अ॒सौ । लो॒कः । यानि॑ । पुनः॑ । प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । इ॒मम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । पुनः॑पुन॒रिति॒ पुनः॑ - पु॒नः॒ । इ॒व॒ । हि । अ॒यम् । लो॒कः । प्रेति॑ । अ॒न्यानि॑ । पात्रा॑णि । यु॒ज्यन्ते᳚ । न । अ॒न्यानि॑ । यानि॑ । प॒रा॒चीना॑नि । प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । तानि॑ । अन्विति॑ । ओष॑धयः । परेति॑ । भ॒व॒न्ति॒ । यानि॑ । पुनः॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

प्रकारान्तरेण प्रशंसति —

“प्रान्यानि पात्राणि युज्यन्ते नान्यानि यानि पराचीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोऽरण्यमप यन्ति यानि पुनः प्रयुज्यन्ते तान्यनु ग्राम्याः पशवो ग्राममुपावयन्ति” (सं. का. ६ प्र. ५ अ. ११) इति।

आरण्या व्याघ्रादयोऽरण्यमेवो(वा)पयन्ति न कदाचिदपि ग्रामम्। ग्राम्यास्तु गवादयस्तृणमत्तुमरण्यं गत्वा पुनर्ग्रामं प्रत्यागच्छन्ति।

शस्त्रं प्रशंसति —

“यो वै ग्रहाणां निदानं वेद निदानवान्भवत्याज्यमित्युक्थं तद्वै ग्रहाणां निदानं यदुपाशु शसति तदुपाश्वन्तयार्मयोर्यदुच्चैस्तदितरेषां ग्रहाणामेतद्वै ग्रहाणां निदानं य एवं वेद निदानवान्भवति” (सं. का. ६ प्र. ५ अ. ११) इति।

आज्यमित्युक्थमाज्यप्रउगादिनामकं शस्त्रं, प्रशंसाद्वारा ग्रहानुष्ठानप्रयोजक-त्वाद्ग्रहाणां निदानं मूलकारणम्। तदेतद्यो वेद स निदानवांश्चिरजीविभिर्मा-तापितृस्वामिभिः संयुक्तो भवति। शस्त्रेष्वषि यदुपांशु शस्यते तद्द्वयोर्ग्रहयो-र्निदानं, यदुच्चैस्तदितरेषां सर्वेषामित्येवं विशेषं जानतोऽपि तदेव फलम्।

स्थालीवायव्यरूपं द्वंद्वं प्रशंसति —

“यो वै ग्रहाणां मिथुनं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते स्थालीभिरन्ये ग्रहा गृह्यन्ते वायव्यैरन्य एतद्वै ग्रहाणां मिथुनं य एवं वेद प्र प्रजया पशुभिर्मिथुनैर्जायते” (सं. का. ६ प्र. ५ अ. ११) इति।

आग्रयणोक्थ्यादिग्रहाः स्त्रीरूपाभिर्मृन्मयस्थालीभिर्गृह्यन्ते। उपांश्वन्तर्यामा-दिग्रहास्तु पुरुषरूपैर्वायव्यैः। वेदने तु मनुष्यमिथुनैः पशुमिथुनैश्च प्रजायते युक्तो भवति। य एवं वेदेति पुनरभिधानमुपसंहारार्थम्।

“इन्द्रस्त्वष्टुः सोममभीषहाऽपिबत्स विष्वङ्व्यार्च्छत्स आत्मन्नारमणं नाविन्दत्स एताननुसवनं पुरोडाशानपश्यत्तान्निरवपत्तैर्वै स आत्मन्नारमणमकुरुत तस्मादनुसवनं पुरोडाशा निरुप्यन्ते तस्मादनुसवनं पुरोडाशानां प्राश्नीयादात्मन्नेवाऽऽरमणं कुरुते नैन सोमोऽति पवते” (सं. का. ६ प्र. ५ अ. ११) इति।

इन्द्रेण विश्वरूपाभिधे त्वष्टुः पुत्रे हते सति कुपितस्त्वष्टा विनेन्द्रं सोमयागं कर्तुं प्रवृत्तस्तदानीमिन्द्रोऽभीषहा बलादेवापिबत्। स इन्द्रः सहसा पीतस्य सोमस्योदरमध्य इतस्ततो विधावनाद्व्यर्च्छद्विविर्धार्तिमाप्नोत्। तेनाऽऽर्तः स इन्द्रः स्वात्मनि सुखं नालभत। ततस्त्रिष्वपि सवनेषु सवनीयपुरोडाशैः सुखं प्राप्तवान्। तस्मात्पुरोडाशान्निरुप्य तच्छेषभक्षणेन सुखं भवति। सोमश्चैनं नातिपवते नेतस्ततः संचारेण बाधते।

तेषु सवनीयपुरोडाशेषु पञ्चद्रव्यविधिमर्थवादेनोन्नयति —

“ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पङ्क्तिराप्यतेऽथ किं यज्ञस्य पाङ्क्तत्वमिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पङ्क्तिराप्यते तद्यज्ञस्य पाङ्क्तत्वम्” (सं. का. ६ प्र. ५ अ. ११) इति।

पञ्चाक्षरा पङ्क्तिरित्याम्नानात्पञ्चसंख्यायोगेन पाङ्क्तत्वं वक्तव्यम्। ऋचो यजुषो वा नास्ति काचिन्नियता पञ्चसंख्या। न च मा भूत्पाङ्क्तत्वमिति वाच्यम्। पाङ्क्तो यज्ञ इति सर्वत्रोद्घोषणात्। अतः किं पाङ्क्तत्वमिति प्रश्नः। धानादिद्रव्येषु नियतया पञ्चसंख्यया पाङ्क्तत्वामित्युक्तरम्। (भृ) ष्टा यवा धानाः। आज्यसंयुक्ताः सक्तवः करम्भः। व्रीहिजन्या लाजाः परिवापः। पिष्टविकारःपुरोडाशः। क्षीरविकारः पयस्या।

—--------------------------------

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रान्यानीत्यादि ।। अन्यानि कानिचित्पात्राणि उपांशुपात्रादीनि प्रयुज्यन्ते नान्यानीति वचनात् प्रयोगविशेषोभिप्रेत इति गम्यते । पुनः प्रयुज्यन्त इति यावत् । पात्राणि द्विदेवत्यपात्रादीनि पुनः प्रयुज्यन्ते सकृदेव प्रयुक्तानि आतृतीयसवनात्परिशेरते । तत्र यानिपराचीनानि पुनरावृत्तमयोगाणि सकृदेव प्रयुक्तानि कार्यं कुर्वन्ति अमुमेव परलोकमेव तैरभिजयति । हेतुमाह - पराङिव अपुनरावृत्त इव ह्यसौ लोकः पुनःपुनः प्राप्यः मृतस्य पुनरागमात् । यानि पुनःपुनः प्रयुज्यन्ते पात्राणि इमं लोकं तैरभिजयति पुपुनरावृत्त इव ह्ययं लोको भवति, कर्मार्जनस्थानत्वात् ।।
2 किंचेत्याह - प्रान्यानीत्यादि ।। पूर्ववत् । तत्र पराचीनैः पात्रैर्हेतुभिः ओषधयः पराभवन्ति विनश्यन्ति ग्रीष्मपक्वा न पुनरावर्तन्ते । यानि पुनःपुनः प्रयुज्यन्ते तैर्हेतुभिराभवन्ति वर्षादौ पुनःपुनरुत्पद्यन्ते ओषधयः । हेतावनोः कर्मप्रवचनीयत्वम् ।।
3 पुनश्च किंचेत्याह - प्रान्यानीत्यादि ।। समानम् । पराचीनैः पात्रैः हेतुभिः आरण्याः पशवः अरण्यमपयन्ति अरण्यं प्राप्य अपुनरावृत्त्या अपगता एव च भवन्ति न पुनर्ग्राममागच्छन्ति । अधान्यैः पात्रैः हेतुभिः ग्राम्याः पशवोरण्ये चरित्वा पुनःपुनर्ग्राममुपावयन्ति उपागच्छन्ति । 'गतौ' इति उपशब्दो निहन्यते, सगतिना च 'उदात्तवता तिङा' इति समासः ।।
4 यो वै ग्रहाणामित्यादि ।। निन्दास्तुतिरिति केचित् । शक्तिमत्त्वनिबन्धनमित्यन्ये । आज्यमित्युक्थमिति । इतिशब्दः प्रकारवचने । आज्यं नाम स्तोत्रविशेषः । आज्यप्रकारमुक्थं स्तोत्रं सर्वेषां ग्रहाणां निदानम् । केचिदाहुः - इतिशब्दोवच्छेदे । आज्याख्यमेव स्तोत्रं निदानमिवेति । एवं सामान्यनिदानमुक्त्वा ग्रहविशेषे विशेषमाह - यदित्यादि । गतम् ।।
5 यो वै ग्रहाणां मिथुनमित्यादि ।। 'एकान्याभ्याम्' इत्याख्यातं न निहन्यते ।।
6 इन्द्रस्त्वष्टुरित्यादि ।। अभीषहा अभिभवेन प्रसह्यापिबत् । सहतेः क्विपि 'नहिवृति' इत्यादिना दीर्घत्वम् । विष्वङ् विषूचीनगतिः ऊर्ध्वाधोगतिभ्यां सह सोमो व्यार्च्छत् विविधमगच्छत् आर्तमकरोदिन्द्रम् । अथ स इन्द्रः आत्मन्यारमणं अनुकूलरमणं सुखं नाविन्दत् नालभत । स एतानित्यादि । अनुसवनं सवनेसवने । वीप्सायामनोः कर्मप्रवचनीयत्वम् । गतमन्यत् । नैनमिति । अतिपवनं ऊर्ध्वमधश्चातिप्रवृत्तिः ।।
7 ब्रह्मवादिन इत्यादि ।। ऋग्यजुषविषयं संख्याविशेषं पङ्क्तिरूपं न पश्यामः । तयोरपङ्क्तित्वात् यज्ञस्य पाङ्क्तत्वे अतिप्रसंगः । तस्मात्किंविषयेण पञ्चत्वेन यज्ञस्य पाङ्क्तत्वमिति प्रश्नः । धानादिविषयेणेत्युत्तरम् । तस्मात्तत्रतत्र पाङ्क्तोयज्ञ इत्युच्यते इति । सक्तुप्रभवा लाजा धानाः । आज्यसंयुक्तास्सक्तवः करम्भः । परिवापो व्रीहिप्रभवा लाजाः । पुरोडाशः पिष्टविकारः । पयस्या क्षीरविकारः ।।
इति श्रीभट्टभास्करमिश्रविरयिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये षष्ठे काण्डे पञ्चमे प्रश्ने एकादशोनुवाकः ॥

प्रश्नश्च संपूर्णः ॥

……………………………………………………………………………………………………………

प्रश्नः-6

पञ्चशत् 2 #
TS 6.5.11.2 TS 6.5.11.2
प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति॒ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः प॒शवोऽर॑ण्य॒मप॑ यन्ति॒ यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याः प॒शवो॒ ग्राम॑मु॒पाव॑यन्ति॒ यो वै ग्रहा॑णां नि॒दानं॒ ॅवेद॑ नि॒दान॑वान् भव॒त्याज्य॒मित्यु॒क्थं तद्वै ग्रहा॑णां नि॒दानं॒ ॅयदु॑पाꣳ॒॒शु शꣳस॑ति॒ त- [ ]
पदपाठः (Word-by-word)
प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । तानि॑ । अन्विति॑ । ओष॑धयः । पुनः॑ । एति॑ । भ॒व॒न्ति॒ । प्रेति॑ । अ॒न्यानि॑ । पात्रा॑णि । यु॒ज्यन्ते᳚ । न । अ॒न्यानि॑ । यानि॑ । प॒रा॒चीना॑नि । प्र॒यु॒ज्यन्त॒ इति॑ प्र-यु॒ज्यन्ते᳚ । तानि॑ । अन्विति॑ । आ॒र॒ण्याः । प॒शवः॑ । अर॑ण्यम् । अपेति॑ । य॒न्ति॒ । यानि॑ । पुनः॑ । प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । तानि॑ । अन्विति॑ । ग्रा॒म्याः । प॒शवः॑ । ग्राम᳚म् । उ॒पाव॑य॒न्तीत्यु॑प-अव॑यन्ति । यः । वै । ग्रहा॑णाम् । नि॒दान॒मिति॑ नि - दान᳚म् । वेद॑ । नि॒दान॑वा॒निति॑ नि॒दान॑ - वा॒न् । भ॒व॒ति॒ । आज्य᳚म् । इति॑ । उ॒क्थम् । तत् । वै । ग्रहा॑णाम् । नि॒दान॒मिति॑ नि - दान᳚म् । यत् । उ॒पाꣳ॒॒श्वित्यु॑प - अꣳ॒॒शु । शꣳस॑ति । तत् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.5.11.3 TS 6.5.11.3
-दु॑पाꣳश्वन्तर्या॒मयो॒-र्यदु॒च्चै-स्तदित॑रेषां॒ ग्रहा॑णामे॒तद्वै ग्रहा॑णां नि॒दानं॒ ॅय ए॒वं ॅवेद॑ नि॒दान॑वान् भवति॒ यो वै ग्रहा॑णां मिथु॒नं ॅवेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्य ए॒तद्वै ग्रहा॑णां मिथु॒नं ॅय ए॒वं ॅवेद॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यत॒ इन्द्र॒स्त्वष्टुः॒ सोम॑मभी॒षहा॑ऽपिब॒थ् स विष्व॒ङ्- [ ]
पदपाठः (Word-by-word)
उ॒पाꣳ॒॒श्व॒न्त॒र्या॒मयो॒रित्यु॑पाꣳशु - अ॒न्त॒र्या॒मयोः᳚ । यत् । उ॒च्चैः । तत् । इत॑रेषाम् । ग्रहा॑णाम् । ए॒तत् । वै । ग्रहा॑णाम् । नि॒दान॒मिति॑ नि - दान᳚म् । यः । ए॒वम् । वेद॑ । नि॒दान॑वा॒निति॑ नि॒दान॑ - वा॒न् । भ॒व॒ति॒ । यः । वै । ग्रहा॑णाम् । मि॒थु॒नम् । वेद॑ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । स्था॒लीभिः॑ । अ॒न्ये । ग्रहाः᳚ । गृ॒ह्यन्ते᳚ । वा॒य॒व्यैः᳚ । अ॒न्ये । ए॒तत् । वै । ग्रहा॑णाम् । मि॒थु॒नम् । यः । ए॒वम् । वेद॑ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । इन्द्रः॑ । त्वष्टुः॑ । सोम᳚म् । अ॒भी॒षहेत्य॑भि - सहा᳚ । अ॒पि॒ब॒त् । सः । विष्वङ्॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.5.11.4 TS 6.5.11.4
व्या᳚र्च्छ॒थ् स आ॒त्मन्ना॒रम॑णं॒ नावि॑न्द॒थ् स ए॒तान॑नुसव॒नं पु॑रो॒डाशा॑नपश्य॒त् तान् निर॑वप॒त् तैर्वै स आ॒त्मन्ना॒रम॑ण-मकुरुत॒ तस्मा॑दनुसव॒नं पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑दनुसव॒नं पु॑रो॒डाशा॑नां॒ प्राश्नी॑यादा॒त्म-न्ने॒वाऽऽ*रम॑णं कुरुते॒ नैनꣳ॒॒ सोमोऽति॑ पवते ब्रह्मवा॒दिनो॑ वदन्ति॒ नर्चा न यजु॑षा प॒ङ्क्तिरा᳚प्य॒तेऽथ॒ किं ( ) ॅय॒ज्ञ्स्य॑ पाङ्क्त॒त्वमिति॑ धा॒नाः क॑र॒भंः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या॑ तेन॑ प॒ङ्क्तिरा॑प्यते॒ तद्-य॒ज्ञ्स्य॑ पाङ्क्त॒त्वं ॥
पदपाठः (Word-by-word)
वीति॑ । आ॒र्च्छ॒त् । सः । आ॒त्मन्न् । आ॒रम॑ण॒मित्या᳚ - रम॑णम् । न । अ॒वि॒न्द॒त् । सः । ए॒तान् । अ॒नु॒स॒व॒नमित्य॑नु-स॒व॒नम् । पु॒रो॒डाशान्॑ । अ॒प॒श्य॒त् । तान् । निरिति॑ । अ॒व॒प॒त् । तैः । वै । सः । आ॒त्मन्न् । आ॒रम॑ण॒मित्या᳚ - रम॑णम् । अ॒कु॒रु॒त॒ । तस्मा᳚त् । अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् । पु॒रो॒डाशाः᳚ । निरिति॑ । उ॒प्य॒न्ते॒ । तस्मा᳚त् । अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् । पु॒रो॒डाशा॑नाम् । प्रेति॑ । अ॒श्नी॒या॒त् । आ॒त्मन्न् । ए॒व । आ॒रम॑ण॒मित्या᳚ - रम॑णम् । कु॒रु॒ते॒ । न । ए॒न॒म् । सोमः॑ । अतीति॑ । प॒व॒ते॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । न । ऋ॒चा । न । यजु॑षा । प॒ङ्क्तिः । आ॒प्य॒ते॒ । अथ॑ । किम् ( ) । य॒ज्ञ्स्य॑ । पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त - त्वम् । इति॑ । धा॒नाः । क॒र॒म्भः । प॒रि॒वा॒प इति॑ परि - वा॒पः । पु॒रो॒डाशः॑ । प॒य॒स्या᳚ । तेन॑ । प॒ङ्क्तिः । आ॒प्य॒ते॒ । तत् । य॒ज्ञ्स्य॑ । पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त - त्वम् ॥
पदसंख्या: 64