अनुवाकः 1 TS 6.5.1

(A1)

(इती᳚ - न्द्रि॒यमे॒व - पुनः॑ पुन - र्नये॒त् - त्रय॑स्त्रिꣳशच्च)

अनुवाकः 1 - Complete Audio

TS 6.5.1 - स्वरानुगामी

0:00 0:00
PS1.1 इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छ॒थ् स
PS1.2 वृ॒त्रो वज्रा॒दुद्य॑तादबिभे॒थ् सो᳚ऽब्रवी॒न्मा मे॒
PS1.3 प्र हा॒रस्ति॒ वा इ॒दं
PS1.4 मयि॑ वी॒र्यं॑ तत् ते॒
PS1.5 प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्यं॑
PS1.6 प्राय॑च्छ॒त् तस्मै᳚ द्वि॒तीय॒मुद॑यच्छ॒थ् सो᳚ऽब्रवी॒न्मा
PS1.7 म॒ प्र हा॒रस्ति॒ वा
PS1.8 इ॒दं मयि॑ वी॒र्यं॑ तत्
PS1.9 ते॒ प्र दा᳚स्या॒मीति॒- [
PS1.10 ]
PS2.1 तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् तस्मै॑
PS2.2 तृ॒तीय॒मुद॑यच्छ॒त् तं ॅविष्णु॒रन्व॑तिष्ठत ज॒हीति॒
PS2.3 सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒
PS2.4 वा इ॒दं मयि॑ वी॒र्यं॑
PS2.5 तत् ते॒ प्र दा᳚स्या॒मीति॒
PS2.6 तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् तं
PS2.7 निर्मा॑यं भू॒तम॑हन्. य॒ज्ञो हि
PS2.8 तस्य॑ मा॒याऽऽसी॒द्-यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व-
PS2.9 [ ]
PS3.1 तद् वी॒र्यं॑ ॅयज॑मानो॒ भ्रातृ॑व्यस्य
PS3.2 वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒हद्-व॑ते॒
PS3.3 वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स
PS3.4 तं प्राय॑च्छ॒त् तस्मै᳚ त्वा॒
PS3.5 विष्ण॑वे॒ त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत
PS3.6 ज॒हीति॒ तस्मा॒द्-विष्णु॑म॒न्वाभ॑जति॒ त्रिर्निर्गृ॑ह्णाति॒ त्रिर्.हि
PS3.7 स तं तस्मै॒ प्राय॑च्छदे॒ष
PS3.8 ते॒ योनिः॒ पुन॑र्.हविर॒सीत्या॑ह॒ पुनः॑पुन॒-
PS3.9 [ ]
PS4.1 -र्ह्य॑स्मा-न्निर्गृ॒ह्णाति॒ चक्षु॒र्वा ए॒तद्-य॒ज्ञ्स्य॒ यदु॒क्थ्य॑-स्तस्मा॑दु॒क्थ्यꣳ॑
PS4.2 हु॒तꣳ सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा
PS4.3 चक्षु॒रन्वे॑ति॒ तस्मा॒देकं॒ ॅयन्तं॑ ब॒हवोऽनु॑
PS4.4 यन्ति॒ तस्मा॒देको॑ बहू॒नां भ॒द्रो
PS4.5 भ॑वति॒ तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते॒
PS4.6 यदि॑ का॒मये॑ता-द्ध्व॒र्यु-रा॒त्मानं॑ ॅयज्ञ् यश॒सेना᳚-र्पयेय॒-मित्य॑न्त॒राऽऽह॑व॒नीयं॑
PS4.7 च हवि॒र्द्धानं॑ च॒ तिष्ठ॒न्नव॑
PS4.8 नये- [ ]
PS5.1 दा॒त्मान॑मे॒व य॑ज्ञ्यश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त॒
PS5.2 यज॑मानं ॅयज्ञ् यश॒सेना᳚र्पयेय॒-मित्य॑न्त॒रा स॑दोहविर्द्धा॒ने
PS5.3 तिष्ठ॒न्नव॑ नये॒द्-यज॑मानमे॒व य॑ज्ञ्यश॒सेना᳚-र्पयति॒ यदि॑
PS5.4 का॒मये॑त सद॒स्यान्॑ यज्ञ् यश॒सेना᳚-र्पयेय॒मिति॒
PS5.5 सद॑ आ॒लभ्याव॑ नयेथ् सद॒स्या॑ने॒व
PS5.6 य॑ज्ञ्यश॒सेना᳚र्पयति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.5.1.1 TS 6.5.1.1
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छ॒थ् स वृ॒त्रो वज्रा॒दुद्य॑तादबिभे॒थ् सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्यं॑ प्राय॑च्छ॒त् तस्मै᳚ द्वि॒तीय॒मुद॑यच्छ॒थ् सो᳚ऽब्रवी॒न्मा म॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा᳚स्या॒मीति॒- [ ]
पदपाठः (Word-by-word)
इन्द्रः॑ । वृ॒त्राय॑ । वज्र᳚म् । उदिति॑ । अ॒य॒च्छ॒त् । सः । वृ॒त्रः । वज्रा᳚त् । उद्य॑ता॒दित्युत्-य॒ता॒त् । अ॒बि॒भे॒त् । सः । अ॒ब्र॒वी॒त् । मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् । मयि॑ । वी॒र्य᳚म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ । तस्मै᳚ । उ॒क्थ्य᳚म् । प्रेति॑ । अ॒य॒च्छ॒त् । तस्मै᳚ । द्वि॒तीय᳚म् । उदिति॑ । अ॒य॒च्छ॒त् । सः । अ॒ब्र॒वी॒त् । मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् । मयि॑ । वी॒र्य᳚म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

मन्त्रव्याख्यानायाऽऽदावुक्थ्यग्रहणं विधत्ते —

“इन्द्रो वृत्राय वज्रमुदयच्छत्स वृत्रो वज्रादुद्यतादबिभेत्सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै द्वितीयमुदयच्छत्सोऽब्रवीन्मा मे प्र हारस्ति वा इतं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै तृतीयमुदयच्छत्तं विष्णुरन्वतिष्ठत जहीति सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तं निर्मायं भूतमहन्यज्ञो हि तस्य मायाऽऽसीद्यदुक्थ्यो गृह्यत इन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते” (सं. का. ६ प्र. ५ अ. १) इति।

मा मे प्रहा मां मा प्रहार्षीः। वीर्यमुक्थ्यरूपं श्रेष्ठं वस्तु, उक्थ्यस्थाल्यां मन्त्रेण गृहीतः सोम इत्यर्थेः। तस्य सवनत्रयापेक्षया त्रिः प्रदानम्। अग्निष्टोमे तृतीयसवन उक्थ्याभावेऽपि संस्थान्तरेषु विद्यते। अथवा प्रातःसवन एवोक्थ्यस्थाल्यामुक्थ्यपात्रे त्रिर्ग्रहीतव्यं, तदपेक्षया त्रिः प्रदानम्। तृतीयपर्याये विष्णुर्जहीत्येवं वदन्निन्द्रमन्वतिष्ठत सहकारी सन्नवस्थितः। उक्थ्यरूपो यज्ञो वृत्रस्य माया। यस्मादुक्थ्यलोभेन मोहित इन्द्रो वृत्रं न जघान, त्रिष्वप्युक्थ्येषु दत्तेषु निर्मायं मोहयितुमसमर्थं वृत्रं हतवांस्तस्मादिन्द्रवद्वैरिगतमिन्द्रियसामर्थ्यं विनाशयितुमुक्थ्यं गृह्णीयात्।

वृत्रेणेन्द्राय दत्तत्वान्मन्त्रेऽपीन्द्रायेत्युक्तिर्युक्तेत्याह —

“इन्द्राय त्वा बृहद्वते वयस्वत इत्याहेन्द्राय हि स तं प्रायच्छत्” (सं. का. ६ प्र. ५ अ. १) इति।

विष्णोरपि सहकारित्वेन भागित्वात्तन्मन्त्रोऽपि युक्त इत्याह —

“तस्मै त्वा विष्णवे त्वेत्याह यदेव विष्णुरन्वतिष्ठत जहीति तस्माद्विष्णुमन्वाभजति” इति।

स्थाल्यां गृहीत्वा सादितस्य सोमस्य होमकाले पुनर्दारुपात्रे त्रिवारग्रहणं विधत्ते —

“त्रिर्निर्गृह्णाति त्रिर्हि स तं तस्मै प्रायच्छत्” (सं. का. ६ प्र. ५ अ. ११) इति।

स वृत्रस्तमुक्थ्यं तस्मा इन्द्राय त्रिः प्रायच्छत्। तस्मात्स्थालीगतं सोमं त्रेधा निष्कृष्य पर्यायत्रेण गृह्णीयात्।

दारुपात्रे गृहीतस्याऽऽसादनमन्त्रं स्थाल्यभिमर्शनमन्त्रं चोत्पाद्य व्याचष्टे —

“एष ये योनिः पुनर्हविरसीत्याह पुनः पुनर्ह्यस्मान्निर्गृह्णाति” (सं. का. ६ प्र.५ अ. १) इति।

हे दारुपात्रे गृहीत सोम तवैष खरप्रदेशः स्थानम्। अनेन मन्त्रेण सादयेत्। हे स्थालीगत सोम त्वं गृहीतशेषोऽपि पुनर्गृह्यमाणत्वाद्धविरेवासि। अस्मात्स्थालीगतात्सोमाद्ग्रहीष्यमाणं पर्यायद्वयमपेक्ष्य पुनः पुनरित्युक्तिः।

उक्थ्यहोमचमसहोमान्विधत्ते —

“चक्षुर्वा एतद्यज्ञस्य यदुक्थ्यस्तस्मादुथ्य हुत सोमा अन्वायन्ति तस्मादात्मा चक्षुरन्वेति तस्मादेकं यन्तं बहवोऽनुयन्ति तस्मादेको बहूनां भद्रो भवति तस्मादेको बह्वीर्जाया विन्दते यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्यन्तराऽऽहवनीयं च हविर्धानं च तिष्ठन्नव नयेदात्मानमेव यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमित्यन्तरा सदोहविर्धाने तिष्ठन्नव नयेद्यजमानमेव यज्ञ यशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।

चक्षुःस्थानीय उक्थ्ये हुते सत्यनन्तरमेवेतरस्थानीयाश्चमसा होतव्याः। आत्मा सर्वावयवसंधानरूपः पुरुषः। अवयवेषु मुख्यस्य चक्षुषो दृष्टिः पुरतो मार्गे प्रसरति। ततः संघातरूप आत्माऽनुगच्छति। एकं मुख्यं परिगच्छन्तं बहवो भृत्या अनुगच्छन्ति। एको मुख्यश्चक्षुरिव ज्ञापक आचार्यो बहूनां शिष्याणां मध्ये भद्रः पूज्यो भवति। एको मुख्यः स्वतन्त्रः पुरुषः परतन्त्राः बह्वीर्जाया लभते। एभिर्दृष्टान्तैश्चमसानामुक्थ्यानन्तरं होमो युक्तः।

मुख्यचमसे संपातस्यावनयनं विधत्ते —

“यदि कामयेत सदस्यान्यज्ञयशसेनार्पयेयमिति सद आलभ्यावनयेत्सदस्यानेव यज्ञयशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।

यज्ञयशसं यज्ञफलम्। आलभ्य प्रविश्य।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

षष्ठे काण्डे पञ्चमप्रपाठकः

1 इन्द्रो वृत्रायेत्यादि ।। वृत्रं प्रहर्तुं वज्रमुदयच्छत् उद्यतवान् । स च तस्मादुद्यतात् अबिभेत् भीतवान् । अथ स वृत्रोब्रवीत् इन्द्रम् । मा मे प्रहाः मां मा प्रहार्षीः, अस्ति मयीदं वीर्यं तत्तुभ्यं प्रदास्यामीत्युक्त्वा तस्मै उक्थ्यं ग्रहं प्रायच्छत् । हरतेर्लुङि सिचि वृद्वौ 'बहुलं छन्दसि' इतीडभावे 'यस्य' इति लोपे 'रात्सस्य' इति स लोपः । तस्मै द्वितीयमित्यादि । गतम् । तृतीये पर्याये तमुद्यतवज्रमिन्द्रं अनुलक्ष्य इन्द्रकार्यमुद्दिश्य विष्णुरन्वतिष्ठत आत्मानं प्रकाशितवात् । प्रकाशने आत्मनेपदम् । कथं वदन्? जहीति । जह्येतं सहायस्तवाहमिति । यद्वा - जह्येनं मायावित्वमेवास्यैतत् यदिदं वीर्यप्रदानमिति । वृत्रोपि तत् पुनस्तृतीयमुक्थ्यं प्रायच्छत् । अथेन्द्रः त्रिषूक्थ्येषु वृत्तेषु निर्मायं भूतं मायारहितं संजातं सुखेन हतवान् वृत्रम् । का पुनरस्य मायेत्याह - यज्ञो हीति । यज्ञो हि तस्य मायास्थानीयः व्यामोहहेतुरासीत् । तेन भीतोभवत् । अतो निर्मायत्वात्तं हतवान् । यदुक्थ इत्यादि । गतम् । यदेवेत्यादि । यस्माद्विष्णुस्सहकारितया जहीत्यवदत् तस्मात्तमप्यत्रान्वाभजति इन्द्रेण सह भागवन्तं करोत्यस्मिन् ग्रहे ।।
2 त्रिरिति ।। त्रेधा ग्रहं निर्भज्य गृह्णाति । 'एष ते योनिः पुनः हविरसि' इति शाखान्तरपाठं व्याचष्टे - यत्र पुनरस्मान्निर्गृह्यते तत्रैव सामर्थ्यात् पुनर्हविरसीति भवितव्यमिति गम्यते ।।
3 चक्षुर्वा इत्यादि ।। अस्य चक्षुस्थानीयत्वात् अमुं हुतमनुलक्ष्य सोमाश्चमसा आयन्ति । तस्मादेव कारणात् आत्मा पुरुषश्चक्षुरन्वेति अनुगच्छति चक्षुषा दृष्टमेव प्ततिपद्यते । तस्मादेव कारणादेकं चक्षुष्मन्तं यन्तं बहवोचक्षुषोनुयन्ति अनुगच्छन्ति । यद्वा - एकं प्रधानं चक्षुस्थानीयं यन्तं बहवो राजानो[वो अनुजना अ]नुयन्ति सेवन्ते । तस्मादेव कारणात् एकः पुरुषः चक्षुरिव प्रदर्शको बहूनां भद्रः कल्याणकारी भवति बहूनामुपजीव्यो भवति । तस्मादेव कारणात् चक्षुस्थानीय एकः स्वतन्त्रः पुमान् बह्वीर्जाया अस्वतन्त्रा विन्दते लभते ।।
4 यदि कामयेतेत्यादि ।। यज्ञस्य यशः फलं यज्ञयशसम्, 'अनसन्तान्नपुंसकात्' इत्यच्समासान्तः । आहवनीयहविर्धानयोर्मध्ये तिष्ठन् होतृचमसमवनयेत् । गतमन्यत् । आलभ्यानुप्राप्यावनयेत् ।।
इति षष्ठे पञ्चमे प्रथमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.5.1.2 TS 6.5.1.2
तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् तस्मै॑ तृ॒तीय॒मुद॑यच्छ॒त् तं ॅविष्णु॒रन्व॑तिष्ठत ज॒हीति॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं मयि॑ वी॒र्यं॑ तत् ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् तं निर्मा॑यं भू॒तम॑हन्. य॒ज्ञो हि तस्य॑ मा॒याऽऽसी॒द्-यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व- [ ]
पदपाठः (Word-by-word)
तस्मै᳚ । उ॒क्थ्य᳚म् । ए॒व । प्रेति॑ । अ॒य॒च्छ॒त् । तस्मै᳚ । तृ॒तीय᳚म् । उदिति॑ । अ॒य॒च्छ॒त् । तम् । विष्णुः॑ । अन्विति॑ । अ॒ति॒ष्ठ॒त॒ । ज॒हि । इति॑ । सः । अ॒ब्र॒वी॒त् । मा । मे॒ । प्रेति॑ । हाः॒ । अस्ति॑ । वै । इ॒दम् । मयि॑ । वी॒र्य᳚म् । तत् । ते॒ । प्रेति॑ । दा॒स्या॒मि॒ । इति॑ । तस्मै᳚ । उ॒क्थ्य᳚म् । ए॒व । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । निर्मा॑य॒मिति॒ निः-मा॒य॒म् । भू॒तम् । अ॒ह॒न्न् । य॒ज्ञ्ः । हि । तस्य॑ । मा॒या । आसी᳚त् । यत् । उ॒क्थ्यः॑ । गृ॒ह्यते᳚ । इ॒न्द्रि॒यम् । ए॒व ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.5.1.3 TS 6.5.1.3
तद् वी॒र्यं॑ ॅयज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒हद्-व॑ते॒ वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स तं प्राय॑च्छ॒त् तस्मै᳚ त्वा॒ विष्ण॑वे॒ त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत ज॒हीति॒ तस्मा॒द्-विष्णु॑म॒न्वाभ॑जति॒ त्रिर्निर्गृ॑ह्णाति॒ त्रिर्.हि स तं तस्मै॒ प्राय॑च्छदे॒ष ते॒ योनिः॒ पुन॑र्.हविर॒सीत्या॑ह॒ पुनः॑पुन॒- [ ]
पदपाठः (Word-by-word)
तत् । वी॒र्य᳚म् । यज॑मानः । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ । इन्द्रा॑य । त्वा॒ । बृ॒हद्व॑त॒ इति॑ बृ॒हत् - व॒ते॒ । वय॑स्वते । इति॑ । आ॒ह॒ । इन्द्रा॑य । हि । सः । तम् । प्रेति॑ । अय॑च्छत् । तस्मै᳚ । त्वा॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । यत् । ए॒व । विष्णुः॑ । अ॒न्वति॑ष्ठ॒तेत्य॑नु - अति॑ष्ठत । ज॒हि । इति॑ । तस्मा᳚त् । विष्णु᳚म् । अ॒न्वाभ॑ज॒तीत्य॑नु - आभ॑जति । त्रिः । निरिति॑ । गृ॒ह्णा॒ति॒ । त्रिः । हि । सः । तम् । तस्मै᳚ । प्रेति॑ । अय॑च्छत् । ए॒षः । ते॒ । योनिः॑ । पुन॑र्.हवि॒रिति॒ पुनः॑ - ह॒विः॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । पुनः॑पुन॒रिति॒ पुनः॑ - पु॒नः॒ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.5.1.4 TS 6.5.1.4
-र्ह्य॑स्मा-न्निर्गृ॒ह्णाति॒ चक्षु॒र्वा ए॒तद्-य॒ज्ञ्स्य॒ यदु॒क्थ्य॑-स्तस्मा॑दु॒क्थ्यꣳ॑ हु॒तꣳ सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा चक्षु॒रन्वे॑ति॒ तस्मा॒देकं॒ ॅयन्तं॑ ब॒हवोऽनु॑ यन्ति॒ तस्मा॒देको॑ बहू॒नां भ॒द्रो भ॑वति॒ तस्मा॒देको॑ ब॒ह्वीर्जा॒या वि॑न्दते॒ यदि॑ का॒मये॑ता-द्ध्व॒र्यु-रा॒त्मानं॑ ॅयज्ञ् यश॒सेना᳚-र्पयेय॒-मित्य॑न्त॒राऽऽह॑व॒नीयं॑ च हवि॒र्द्धानं॑ च॒ तिष्ठ॒न्नव॑ नये- [ ]
पदपाठः (Word-by-word)
हि । अ॒स्मा॒त् । नि॒र्गृ॒ह्णातीति॑ निः - गृ॒ह्णाति॑ । चक्षुः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । उ॒क्थ्यः॑ । तस्मा᳚त् । उ॒क्थ्य᳚म् । हु॒तम् । सोमाः᳚ । अ॒न्वाय॒न्तीत्य॑नु - आय॑न्ति । तस्मा᳚त् । आ॒त्मा । चक्षुः॑ । अन्विति॑ । ए॒ति॒ । तस्मा᳚त् । एक᳚म् । यन्त᳚म् । ब॒हवः॑ । अन्विति॑ । य॒न्ति॒ । तस्मा᳚त् । एकः॑ । ब॒हू॒नाम् । भ॒द्रः । भ॒व॒ति॒ । तस्मा᳚त् । एकः॑ । ब॒ह्वीः । जा॒याः । वि॒न्द॒ते॒ । यदि॑ । का॒मये॑त । अ॒द्ध्व॒र्युः । आ॒त्मान᳚म् । य॒ज्ञ्॒य॒श॒सेनेति॑ यज्ञ् - य॒श॒सेन॑ । अ॒र्प॒ये॒य॒म् । इति॑ । अ॒न्त॒रा । आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । च॒ । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् । च॒ । तिष्ठन्न्॑ । अवेति॑ । न॒ये॒त् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.5.1.5 TS 6.5.1.5
दा॒त्मान॑मे॒व य॑ज्ञ्यश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानं ॅयज्ञ् यश॒सेना᳚र्पयेय॒-मित्य॑न्त॒रा स॑दोहविर्द्धा॒ने तिष्ठ॒न्नव॑ नये॒द्-यज॑मानमे॒व य॑ज्ञ्यश॒सेना᳚-र्पयति॒ यदि॑ का॒मये॑त सद॒स्यान्॑ यज्ञ् यश॒सेना᳚-र्पयेय॒मिति॒ सद॑ आ॒लभ्याव॑ नयेथ् सद॒स्या॑ने॒व य॑ज्ञ्यश॒सेना᳚र्पयति ॥
पदपाठः (Word-by-word)
आ॒त्मान᳚म् । ए॒व । य॒ज्ञ्॒य॒श॒सेनेति॑ यज्ञ्-य॒श॒सेन॑ । अ॒र्प॒य॒ति॒ । यदि॑ । का॒मये॑त । यज॑मानम् । य॒ज्ञ्॒य॒श॒सेनेति॑ यज्ञ् - य॒श॒सेन॑ । अ॒र्प॒ये॒य॒म् । इति॑ । अ॒न्त॒रा । स॒दो॒ह॒वि॒द्‌र्धा॒ने इति॑ सदः - ह॒वि॒द्‌र्धा॒ने । तिष्ठन्न्॑ । अवेति॑ । न॒ये॒त् । यज॑मानम् । ए॒व । य॒ज्ञ्॒य॒श॒सेनेति॑ यज्ञ् - य॒श॒सेन॑ । अ॒र्प॒य॒ति॒ । यदि॑ । का॒मये॑त । स॒द॒स्यान्॑ । य॒ज्ञ्॒य॒श॒सेनेति॑ यज्ञ् - य॒श॒सेन॑ । अ॒र्प॒ये॒य॒म् । इति॑ । सदः॑ । आ॒लभ्येत्या᳚ - लभ्य॑ । अवेति॑ । न॒ये॒त् । स॒द॒स्यान्॑ । ए॒व । य॒ज्ञ्॒य॒श॒सेनेति॑ यज्ञ् - य॒श॒सेन॑ । अ॒र्प॒य॒ति॒ ॥
पदसंख्या: 33