पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
मन्त्रव्याख्यानायाऽऽदावुक्थ्यग्रहणं विधत्ते —
“इन्द्रो वृत्राय वज्रमुदयच्छत्स वृत्रो वज्रादुद्यतादबिभेत्सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै द्वितीयमुदयच्छत्सोऽब्रवीन्मा मे प्र हारस्ति वा इतं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तस्मै तृतीयमुदयच्छत्तं विष्णुरन्वतिष्ठत जहीति सोऽब्रवीन्मा मे प्र हारस्ति वा इदं मयि वीर्यं तत्ते प्र दास्यामीति तस्मा उक्थ्यमेव प्रायच्छत्तं निर्मायं भूतमहन्यज्ञो हि तस्य मायाऽऽसीद्यदुक्थ्यो गृह्यत इन्द्रियमेव तद्वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते” (सं. का. ६ प्र. ५ अ. १) इति।
मा मे प्रहा मां मा प्रहार्षीः। वीर्यमुक्थ्यरूपं श्रेष्ठं वस्तु, उक्थ्यस्थाल्यां मन्त्रेण गृहीतः सोम इत्यर्थेः। तस्य सवनत्रयापेक्षया त्रिः प्रदानम्। अग्निष्टोमे तृतीयसवन उक्थ्याभावेऽपि संस्थान्तरेषु विद्यते। अथवा प्रातःसवन एवोक्थ्यस्थाल्यामुक्थ्यपात्रे त्रिर्ग्रहीतव्यं, तदपेक्षया त्रिः प्रदानम्। तृतीयपर्याये विष्णुर्जहीत्येवं वदन्निन्द्रमन्वतिष्ठत सहकारी सन्नवस्थितः। उक्थ्यरूपो यज्ञो वृत्रस्य माया। यस्मादुक्थ्यलोभेन मोहित इन्द्रो वृत्रं न जघान, त्रिष्वप्युक्थ्येषु दत्तेषु निर्मायं मोहयितुमसमर्थं वृत्रं हतवांस्तस्मादिन्द्रवद्वैरिगतमिन्द्रियसामर्थ्यं विनाशयितुमुक्थ्यं गृह्णीयात्।
वृत्रेणेन्द्राय दत्तत्वान्मन्त्रेऽपीन्द्रायेत्युक्तिर्युक्तेत्याह —
“इन्द्राय त्वा बृहद्वते वयस्वत इत्याहेन्द्राय हि स तं प्रायच्छत्” (सं. का. ६ प्र. ५ अ. १) इति।
विष्णोरपि सहकारित्वेन भागित्वात्तन्मन्त्रोऽपि युक्त इत्याह —
“तस्मै त्वा विष्णवे त्वेत्याह यदेव विष्णुरन्वतिष्ठत जहीति तस्माद्विष्णुमन्वाभजति” इति।
स्थाल्यां गृहीत्वा सादितस्य सोमस्य होमकाले पुनर्दारुपात्रे त्रिवारग्रहणं विधत्ते —
“त्रिर्निर्गृह्णाति त्रिर्हि स तं तस्मै प्रायच्छत्” (सं. का. ६ प्र. ५ अ. ११) इति।
स वृत्रस्तमुक्थ्यं तस्मा इन्द्राय त्रिः प्रायच्छत्। तस्मात्स्थालीगतं सोमं त्रेधा निष्कृष्य पर्यायत्रेण गृह्णीयात्।
दारुपात्रे गृहीतस्याऽऽसादनमन्त्रं स्थाल्यभिमर्शनमन्त्रं चोत्पाद्य व्याचष्टे —
“एष ये योनिः पुनर्हविरसीत्याह पुनः पुनर्ह्यस्मान्निर्गृह्णाति” (सं. का. ६ प्र.५ अ. १) इति।
हे दारुपात्रे गृहीत सोम तवैष खरप्रदेशः स्थानम्। अनेन मन्त्रेण सादयेत्। हे स्थालीगत सोम त्वं गृहीतशेषोऽपि पुनर्गृह्यमाणत्वाद्धविरेवासि। अस्मात्स्थालीगतात्सोमाद्ग्रहीष्यमाणं पर्यायद्वयमपेक्ष्य पुनः पुनरित्युक्तिः।
उक्थ्यहोमचमसहोमान्विधत्ते —
“चक्षुर्वा एतद्यज्ञस्य यदुक्थ्यस्तस्मादुथ्य हुत सोमा अन्वायन्ति तस्मादात्मा चक्षुरन्वेति तस्मादेकं यन्तं बहवोऽनुयन्ति तस्मादेको बहूनां भद्रो भवति तस्मादेको बह्वीर्जाया विन्दते यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्यन्तराऽऽहवनीयं च हविर्धानं च तिष्ठन्नव नयेदात्मानमेव यज्ञयशसेनार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयमित्यन्तरा सदोहविर्धाने तिष्ठन्नव नयेद्यजमानमेव यज्ञ यशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।
चक्षुःस्थानीय उक्थ्ये हुते सत्यनन्तरमेवेतरस्थानीयाश्चमसा होतव्याः। आत्मा सर्वावयवसंधानरूपः पुरुषः। अवयवेषु मुख्यस्य चक्षुषो दृष्टिः पुरतो मार्गे प्रसरति। ततः संघातरूप आत्माऽनुगच्छति। एकं मुख्यं परिगच्छन्तं बहवो भृत्या अनुगच्छन्ति। एको मुख्यश्चक्षुरिव ज्ञापक आचार्यो बहूनां शिष्याणां मध्ये भद्रः पूज्यो भवति। एको मुख्यः स्वतन्त्रः पुरुषः परतन्त्राः बह्वीर्जाया लभते। एभिर्दृष्टान्तैश्चमसानामुक्थ्यानन्तरं होमो युक्तः।
मुख्यचमसे संपातस्यावनयनं विधत्ते —
“यदि कामयेत सदस्यान्यज्ञयशसेनार्पयेयमिति सद आलभ्यावनयेत्सदस्यानेव यज्ञयशसेनार्पयति” (सं. का. ६ प्र. ५ अ. १) इति।
यज्ञयशसं यज्ञफलम्। आलभ्य प्रविश्य।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
षष्ठे काण्डे पञ्चमप्रपाठकः