अनुवाकः 8 TS 6.5.8

(A8)

(पत्नीः᳚ सुव॒र्ग - मुप॑स्तितर - मिन्द्रियाव॒ इत्य - पि॑ - सीद - मिथु॒न्य॑ - ष्टौ च॑)

अनुवाकः 8 - Complete Audio

TS 6.5.8 - स्वरानुगामी

0:00 0:00
PS1.1 प्रा॒णो वा ए॒ष यदु॑पाꣳ॒॒शु-र्यदु॑पाꣳशुपा॒त्रेण॑
PS1.2 प्रथ॒मश्चो᳚त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते᳚ प्रा॒णमे॒वानु॑
PS1.3 प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र्वा ए॒ष
PS1.4 यदा᳚ग्रय॒णः प्रा॒ण उ॑पाꣳ॒॒शुः पत्नीः᳚
PS1.5 प्र॒जाः प्र ज॑नयन्ति॒ यदु॑पाꣳशुपा॒त्रेण॑
PS1.6 पात्नीव॒तमा᳚ग्रय॒णाद्-गृ॒ह्णाति॑ प्र॒जानां᳚ प्र॒जन॑नाय॒ तस्मा᳚त्
PS1.7 प्रा॒णं प्र॒जा अनु॒ प्र
PS1.8 जा॑यन्ते दे॒वा वा इ॒त
PS1.9 इ॑तः॒ पत्नीः᳚ सुव॒र्गं- [
PS1.10 ]
PS2.1 ॅलो॒कम॑जिगाꣳस॒न् ते सु॑व॒र्गं ॅलो॒कं
PS2.2 न प्राजा॑न॒न् त ए॒तं
PS2.3 पा᳚त्नीव॒तम॑पश्य॒न् तम॑गृह्णत॒ ततो॒ वै
PS2.4 ते सु॑व॒र्गं ॅलो॒कं प्राजा॑न॒न्॒.
PS2.5 यत् पा᳚त्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑
PS2.6 लो॒कस्य॒ प्रज्ञा᳚त्यै॒ स सोमो॒
PS2.7 नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्तं घृ॒तं
PS2.8 ॅवज्रं॑ कृ॒त्वाऽघ्न॒न् तं निरि॑न्द्रियं
PS2.9 भू॒तम॑गृह्ण॒न् तस्मा॒थ् स्त्रियो॒ निरि॑न्द्रिया॒
PS2.10 अदा॑यादी॒रपि॑ पा॒पात् पुꣳ॒॒स उप॑स्तितरं-
PS2.11 [ ]
PS3.1 ॅवदन्ति॒ यद्-घृ॒तेन॑ पात्नीव॒तꣳ श्री॒णाति॒
PS3.2 वज्रे॑णै॒वैनं॒ ॅवशे॑ कृ॒त्वा गृ॑ह्णा-त्युपया॒मगृ॑हीतो॒ऽसीत्या॑हे॒यं
PS3.3 ॅवा उ॑पया॒मस्तस्मा॑दि॒मां प्र॒जा अनु॒
PS3.4 प्र जा॑यन्ते॒ बृह॒स्पति॑सुतस्य त॒
PS3.5 इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒
PS3.6 बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्र ज॑नयतीन्दो॒
PS3.7 इत्या॑ह॒ रेतो॒ वा इन्दू॒
PS3.8 रेत॑ ए॒व तद्-द॑धातीन्द्रियाव॒ इ-
PS3.9 [ ]
PS4.1 -त्या॑ह प्र॒जा वा इ॑न्द्रि॒यं
PS4.2 प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒त्यग्ना(3)
PS4.3 इत्या॑हा॒ग्निर्वै रे॑तो॒धाः पत्नी॑व॒ इत्या॑ह
PS4.4 मिथुन॒त्वाय॑ स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑
PS4.5 पि॒बेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां
PS4.6 मि॑थु॒नानाꣳ॑ रूप॒कृद्-रू॒पमे॒व प॒शुषु॑ दधाति
PS4.7 दे॒वा वै त्वष्टा॑रमजिघाꣳस॒न्थ् स
PS4.8 पत्नीः॒ प्राप॑द्यत॒ तं न
PS4.9 प्रति॒ प्राय॑च्छ॒न् तस्मा॒दपि॒- [
PS4.10 ]
PS5.1 वद्ध्यं॒ प्रप॑न्नं॒ न प्रति॒
PS5.2 प्रय॑च्छन्ति॒ तस्मा᳚त् पात्नीव॒ते त्वष्ट्रेऽपि॑
PS5.3 गृह्यते॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः
PS5.4 प्र॒जाय॑न्ते॒ नानु॒ वष॑ट् करोति॒
PS5.5 यद॑नुवषट् कु॒र्याद्-रु॒द्रं प्र॒जा अ॒न्वव॑सृजे॒द्-यन्नानु॑वषट्कु॒र्या-दशा᳚न्त-म॒ग्नीथ्
PS5.6 सोमं॑ भक्षयेदुपाꣳ॒॒श्वनु॒ वष॑ट् करोति॒
PS5.7 न रु॒द्रं प्र॒जा अ॑न्ववसृ॒जति॑
PS5.8 शा॒न्तम॒ग्नीथ् सोमं॑ भक्षय॒त्यग्नी॒-न्नेष्टु॑रु॒पस्थ॒मा सी॑द॒-
PS5.9 [ ]
PS6.1 नेष्टः॒ पत्नी॑-मु॒दान॒येत्या॑हा॒-ग्नीदे॒व नेष्ट॑रि॒ रेतो॒
PS6.2 दधा॑ति॒ नेष्टा॒ पत्नि॑यामुद्-गा॒त्रा सं
PS6.3 ख्या॑पयति प्र॒जाप॑ति॒र्वा ए॒ष यदु॑द्गा॒ता
PS6.4 प्र॒जानां᳚ प्र॒जन॑नाया॒प उप॒ प्र
PS6.5 व॑र्तयति॒ रेत॑ ए॒व तथ्
PS6.6 सि॑ञ्चत्यू॒रुणोप॒ प्र व॑र्तयत्यू॒रुणा॒ हि
PS6.7 रेतः॑ सि॒च्यते॑ नग्नं॒ कृत्यो॒-रुमुप॒
PS6.8 प्र व॑र्तयति य॒दा हि
PS6.9 न॒ग्न ऊ॒रुर्भव॒त्यथ॑ मिथु॒नी (
PS6.10 ) भ॑व॒तोऽथ॒ रेतः॑ सिच्य॒तेऽथ॑
PS6.11 प्र॒जाः प्र जा॑यन्ते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 6.5.8.1 TS 6.5.8.1
प्रा॒णो वा ए॒ष यदु॑पाꣳ॒॒शु-र्यदु॑पाꣳशुपा॒त्रेण॑ प्रथ॒मश्चो᳚त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते᳚ प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र्वा ए॒ष यदा᳚ग्रय॒णः प्रा॒ण उ॑पाꣳ॒॒शुः पत्नीः᳚ प्र॒जाः प्र ज॑नयन्ति॒ यदु॑पाꣳशुपा॒त्रेण॑ पात्नीव॒तमा᳚ग्रय॒णाद्-गृ॒ह्णाति॑ प्र॒जानां᳚ प्र॒जन॑नाय॒ तस्मा᳚त् प्रा॒णं प्र॒जा अनु॒ प्र जा॑यन्ते दे॒वा वा इ॒त इ॑तः॒ पत्नीः᳚ सुव॒र्गं- [ ]
पदपाठः (Word-by-word)
प्रा॒ण इति॑ प्र - अ॒नः । वै । ए॒षः । यत् । उ॒पाꣳ॒॒शुरित्यु॑प-अꣳ॒॒शुः । यत् । उ॒पाꣳ॒॒शु॒पा॒त्रेणेत्यु॑पाꣳशु - पा॒त्रेण॑ । प्र॒थ॒मः । च॒ । उ॒त्त॒म इत्यु॑त् - त॒मः । च॒ । ग्रहौ᳚ । गृ॒ह्येते॒ इति॑ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । अन्विति॑ । प्र॒यन्तीति॑ प्र - यन्ति॑ । प्रा॒णमिति॑ प्र - अ॒नम् । अनु॑ । उदिति॑ । य॒न्ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । ए॒षः । यत् । आ॒ग्र॒य॒णः । प्रा॒ण इति॑ प्र - अ॒नः । उ॒पाꣳ॒॒शुरित्यु॑प-अꣳ॒॒शुः । पत्नीः᳚ । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । ज॒न॒य॒न्ति॒ । यत् । उ॒पाꣳ॒॒शु॒पा॒त्रेणेत्यु॑पाꣳशु - पा॒त्रेण॑ । पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् । आ॒ग्र॒य॒णात् । गृ॒ह्णाति॑ । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । तस्मा᳚त् । प्रा॒णमिति॑ प्र - अ॒नम् । प्र॒जा इति॑ प्र-जाः । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । दे॒वाः । वै । इ॒त इ॑त॒ इती॒तः - इ॒तः॒ । पत्नीः᳚ । सु॒व॒र्गमिति॑ सुवः-गम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

पात्नीवतस्य ग्रहस्य पात्रं विधत्ते —

“प्राणो वा एष यदुपांशुर्यदुपांशुपात्रेण प्रथमश्चोत्तमश्च ग्रहौ गृह्येते प्राणमेवानु प्रयन्ति प्राणमनूद्यन्ति” (सं. का. ६ प्र. ५ अ. ८) इति।

उपांशोः प्राणत्वं पूर्वमुक्तम्। वाचस्पतये पवस्वेत्यनेन गृहीतः प्रथमो ग्रहः। बृहस्पतिसुतस्येति गृह्यमाणश्चोत्तमो ग्रहः। यद्यपि दधिग्रहः पूर्वभावो तथाऽपि नासौ सोमग्रहः। अदाभ्यांशू सोमग्रहावपि न तौ नित्यौ। तस्मान्नित्येषु सामग्रहेषूपांशुरेव प्रथमः। हारियोजनस्य पश्चाद्भावित्वेऽप्यग्निष्टोमसाम्नि समाप्ते सति यज्ञशेषत्वेनानुष्ठानम्। तस्मादग्निष्टोमापेक्षया पात्नीवतस्योत्तमत्वम्।तयोः प्रथमोत्तमयोरुपांशुपात्रेण ग्रहणं कुर्यात्। तथा सति प्राणमेवानुसृत्य प्रयन्ति प्रारभन्ते। उद्यन्ति समापयन्ति।

पात्नीवतग्रहं विधत्ते —

“प्रजापतिर्वा एष यदाग्रयणः प्राण उपांशुः पत्नीः प्रजाः प्र जनयन्ति यदुपांशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति प्रजानां प्रजननाय तस्मात्प्राणं प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।

पत्नीरिति प्रथमा। प्राणमनु प्राणयुक्ताः प्रजा उत्पद्यन्ते।

विहितं ग्रहं प्रशंसति —

“देवा वा इतइतः पत्नीः सुवर्गं लोकमाजिगांसन्ते सुवर्गं लोकं प्राजानन्त एतं पात्नीवतमपश्यन्तमगृह्णत ततो वै ते सुवर्गं लोकं प्राजानन्यत्पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ८) इति।

(देवाः) पत्नीरित इतः पात्नीवतग्रहमुपेक्ष्यान्यस्माद्ग्रहात् (स्वर्गं ज्ञातिमिच्छन्तोऽपि न प्रज्ञातवन्तः। पात्नीवतग्रहणेन तु प्रज्ञातवन्तः।) इत्येतद्ग्रहो गृह्यते।

एतद्गृहे घृतमेलनं विधत्ते —

“स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस्तं घृतं वज्रं कृत्वाऽघ्नन्तं निरिन्द्रियं भूतमगृह्णन्तस्मात्स्त्रियो निरिन्द्रिया अदायादीरपि पापात्पुस उपस्तितरं वदन्ति यद्घृतेन पात्नीवत श्रीणाति वज्रेणैवैनं वशे कृत्वा गृह्णाति”(सं. का. ६ प्र. ५ अ. ८) इति।

नातिष्ठत स्त्रीदेवताकत्वमसहमानः स्वात्मानं न प्रकाशितवान्। अघ्नन्नताड-यन्। निरिन्द्रियं भूतं निर्वीर्यं जातम्। यस्मात्स्त्रीदेवताभ्यो गृह्यमाणः सोमो निःसामर्थ्यस्तस्माल्लोके स्त्रियः सामर्थ्यरहिता अपत्येषु दायभाजो न भवन्ति। पापात्पतितादपि पुंसोऽप्युपस्तितरं क्षीणतरं स्त्रीस्वरूपं वदन्ति।

आम्नातस्य बृहस्पतिसुतस्येति मन्त्रस्य शेषं पूरयित्वा व्याचष्टे —

“उपयामगृहीतोऽसीत्याहेयं वा उपयामस्तस्मादिमां प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।

उपेताः प्रजा यच्छति उत्पादधारणादिना व्यवस्थापयतीत्युपयामो भूभागविशेषः।

बृहस्पतिशब्दस्यैव प्रयोगेऽभिप्रायमाह —

“बृहस्पतिसुतस्य त इत्याह ब्रह्म वै देवानां बृहस्पतिब्रर्ह्मणैवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।

इन्दुशब्दो द्रवत्वसाम्येन रेत उपलक्षयतीत्याह —

“इन्दो इत्याह रेतो वा इन्दू रेत एव तद्दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।

इन्द्रियशब्देन तत्कार्यभूताः प्रजा उपलक्षन्त इत्याह —

“इन्द्रियाव इत्याह प्रजा वा इन्द्रियं प्रजा एवास्मै प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।

अग्निशब्दपत्नीवच्छब्दयोरभिप्रायं दर्शयति —

“अग्ना३ इत्याहाग्निर्वै रेतोधाः पत्नीव इत्याह मिथुनत्वाय” (सं. का. ६ प्र. ५ अ. ८) इति।

त्वष्टृशब्दप्रयोजनमाह —

“सजूर्देवेन त्वष्ट्रा सोमं पिबेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।

पात्नीवतग्रहस्य होममन्त्रे त्वष्टुः परामर्शो न युक्त इति शङ्कां वारयति —

“देवा वै त्वष्टारमजिघासन्त्स पत्नीः प्रापद्यत तं न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति तस्मात्पात्नीवते त्वष्ट्रेऽपि गृह्यते”(सं. का. ६ प्र. ५ अ. ८) इति।

यस्मात्पत्नीः शरणं गतस्तस्मात्त्वष्टा पत्नीरनुभागी भवति।

सादनस्य प्रसक्तौ तद्वारयति —

“न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।

अनुवषट्कारे तूपांशुत्वगुणं विधत्ते —

“नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेद्यन्नानुवषट्कुर्यादशा-न्तमग्नीत्सोमं भक्षयेदुपाश्वनु वषट्करोति न रुद्रं प्रजा अन्ववसृजति शान्तम-ग्नीत्सोमं भक्षयति” (सं. का. ६ प्र. ५ अ. ८) इति।

अन्ववसृजेदनुप्राप्य सृष्टिं वारयेत्। अशान्तमनिष्टकरम्।

अग्नीन्नेष्ट्रोरध्वर्योः प्रैषमन्त्रमुत्पादयति —

“अग्नीन्नेष्टुरुपस्थमा सीद नेष्टः पत्नीमुदानयेत्याहाग्नीदेव नेष्टरि रेतो दधाति नेष्टा पत्नियाम्” (सं. का. ६ प्र. ५ अ. ८) इति।

हे आग्नीध्र नेष्टुः समीपमागत्योपविश। हे नेष्टः पत्नीमुत्थाप्येहाऽऽनय। अनेन प्रैषद्वयेन रेतः प्रजोत्पादनसामर्थ्योपेतं स्थापितं भवति।

नेष्टुकारयितृकमुद्गातृकर्तृकं पत्नीविषयं दर्शनं विधत्ते —

“उद्गात्रा सं ख्यापयति प्रजापतिर्वा एष यदुद्गाता प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ८) इति।

पत्नीकर्तृकं पन्नेजनीसंज्ञकजलस्य प्रवर्तनं विधत्ते —

“अप उप प्र वर्तयति रेत एव तत्सिञ्चति” (सं. का. ६ प्र. ५ अ. ८) इति।

प्रवर्तनाय तज्जलप्रक्षेपस्य स्थानं विधत्ते –

“ऊरुणोप प्र वर्तयत्यूरुणा हि रेतः सिच्यते” (सं. का. ६ प्र. ५ अ. ८) इति।

ऊरुप्रदेशे वस्त्रापनयनं विधत्ते —

“नग्नंकृत्योरुमुप प्र वर्तयति यदा हि नग्न ऊरुर्भवत्यथ मिथुनी भवतोऽथ रेतः सिच्यतेऽथ प्रजाः प्र जायन्ते” (सं. का. ६ प्र. ४अ. ८) इति।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्राणो वा एष इत्यादि ।। प्राणापानाभ्यामेवोपांश्वन्तर्यामावित्युक्तत्वात् । प्रथमः उपांशुरुत्तमः पात्नीवतः । अग्निष्टोमं प्रकृत्योच्यते । प्राणमेवेत्यादि । प्राणमनु प्राणेन सह प्रयन्ति प्रारभन्ते, प्राणेन सहोद्यन्ति समापयन्ति । 'तृतीयार्थे' इत्यनोः कर्मप्रवचनीयत्वम् । प्रजापतिर्वा इत्यादि । गतम् । तस्मादिति । प्राणमनु प्राणेन सहैव प्रजा जायन्ते ।।
2 देवा वा इत्यादि ।। इतइतः स्थापयित्वा पत्नीस्ता अनादृत्य स्वर्गं गन्तुमैच्छन्, सामर्थ्यलभ्यार्थात् । यद्वा - वर्जयित्वेत्यस्यार्थे इतइत इति वर्तते । गमेस्सनि 'अज्झनगमां सनि' इति दीर्घत्वम्, छान्दस इडभावः । ते स्वर्गं न प्राजानन् न प्रज्ञातवन्तः । त एतमित्यादि । गतम् ।।
3 स सोम इत्यादि ।। स स्त्रीभ्यो गृह्यमाणस्सोमः नातिष्ठत नात्मानं प्रकाशितवान् स्त्रीभ्यो ग्रहणमसहमानः । प्रकाशने आत्मनेपदम् । घृतं वज्रं कृत्वा तेन तमघ्नन् । ततस्तेन घृतवधेन निरिन्द्रियं गतसारं भूतं संजातमगृह्णन् ग्रहत्वेन संपादितवन्तः पत्नीभ्यः । तस्मात् स्त्रियो निरिन्द्रियाः निरिन्द्रियसोमसंबन्धात् अदायादो अदायाद्यः अदायभुजः । निरिन्द्रियत्वादेव पापात्पतितादेः पुंसोपि उपस्तितरं वदन्ति निरिन्द्रियं सोमम् । तस्मात्तादृशसोमसंबन्धात् स्त्रियो दायभाजो न भवन्ति । उप भवति गुणभावेन वर्तते इति उपस्तिः, उपपूर्वादस्तेः 'क्तिच्क्तौ च' इति क्तिच्, 'छन्दस्युभयथा' इति तस्य सार्वधातुकत्वाद्भूभावाभावः, अल्लोपश्च । यद्घृतेनेत्यादि । गतम् ।
4 इयं वा इति ।। पृथिव्यात्मकेनोपयामेन प्रजात्मकस्य पात्नीवतस्य ग्रहणादिमां पृथिवीमनु प्रजाः प्रजायन्ते । बृहस्पतिसुतस्येत्यादि । ग्रहणमन्त्रस्य व्याख्या । पत्नीव इति । प्रथमेनामन्त्रितेन दूराद्धूतत्वस्य गतत्वात् इदमप्लुतमेवोपादीयते ।।
5 देवा वा इत्यादि ।। त्वष्टारं हन्तुमैच्छन् देवाः । स च त्वष्टा पत्नीः प्रापद्यत शराणं गतः । तमित्यादि । व्याख्यातप्रायम् । तस्मात्पात्नीवते त्वष्ट्रेऽपिगृह्यते 'त्वष्ट्रा सोमं पिब' इति मन्त्रलिङ्गात् । न सादयतीत्यादि । गतम्11 ।।
6 अशान्तमिति ।। अनिष्टकारणमशान्तमभक्षितं स्यात्; तस्मादुपांश्विति विधिः । न रुद्रमित्यादि । गतम् ।।
7 अग्रीदित्यादिः प्रैषः, तदेकदेशं व्याचष्टे - नेष्टरि रेतो दधात्याग्नीघ्रः तदुपस्थानेन, नेष्टा च पत्न्यां रेतो दधाति तदुदानयनेन ।।
8 उद्गात्रेत्यादि ।। गतम् । स्वयं प्रजापतिरेवोद्गाता, तस्मात्तेन संख्यापनाप्रदर्शनं प्रजानां प्रजननाय भवति । उपप्रवर्तयतीति । समीपे तस्यास्स्रावयति रेतस्सेकस्थानीयं तत् भवति ।।
9 ऊरुणेति विधिः ।। ऊरुत्वोपलक्षिते देशे उपप्रवर्तयति । ऊरुणा हीति । ऊरूपबृंहितेन प्रजननेनेत्यर्थः । नग्नंकृत्य वास उद्घाट्य । ऊर्यादिर्मकारान्तो द्रष्टव्यः । ल्यपि गतित्वात्कृदुत्तरपदप्रकृतिस्वरत्वम् । यदा हीत्यादि । ऊरुः ऊरुमान् प्रजननप्रदेशो यदा नग्नो भवति उद्घाटितवसनः क्रियते अथानन्तरमेव स्त्रीपुंसौ मिथुनीभवतः मैथुनं गच्छतः, अथानन्तरमेव रेतस्सिच्यते, अथ ततः पतितं निषिक्तं रेतः प्रजात्वेन परिणतं भवति । तस्मान्महाफलत्वान्नग्नकरणस्य नग्नंकृत्योरुमुपप्रवर्तयतीति ।।
इति षष्ठे पञ्चमे अष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 6.5.8.2 TS 6.5.8.2
ॅलो॒कम॑जिगाꣳस॒न् ते सु॑व॒र्गं ॅलो॒कं न प्राजा॑न॒न् त ए॒तं पा᳚त्नीव॒तम॑पश्य॒न् तम॑गृह्णत॒ ततो॒ वै ते सु॑व॒र्गं ॅलो॒कं प्राजा॑न॒न्॒. यत् पा᳚त्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्तं घृ॒तं ॅवज्रं॑ कृ॒त्वाऽघ्न॒न् तं निरि॑न्द्रियं भू॒तम॑गृह्ण॒न् तस्मा॒थ् स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पात् पुꣳ॒॒स उप॑स्तितरं- [ ]
पदपाठः (Word-by-word)
लो॒कम् । अ॒जि॒गाꣳ॒॒स॒न्न् । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । न । प्रेति॑ । अ॒जा॒न॒न्न् । ते । ए॒तम् । पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् । अ॒प॒श्य॒न्न् । तम् । अ॒गृ॒ह्ण॒त । ततः॑ । वै । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । प्रेति॑ । अ॒जा॒न॒न्न् । यत् । पा॒त्नी॒व॒त इति॑ पात्नी - व॒तः । गृ॒ह्यते᳚ । सु॒व॒र्गसेति॑ सुवः - गस्य॑ । लो॒कस्य॑ । प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । सः । सोमः॑ । न । अ॒ति॒ष्ठ॒त॒ । स्त्री॒भ्यः । गृ॒ह्यमा॑णः । तम् । घृ॒तम् । वज्र᳚म् । कृ॒त्वा । अ॒घ्न॒न्न् । तम् । निरि॑न्द्रिय॒मिति॒ निः - इ॒न्द्रि॒य॒म् । भू॒तम् । अ॒गृ॒ह्ण॒न्न् । तस्मा᳚त् । स्त्रियः॑ । निरि॑न्द्रिया॒ इति॒ निः-इ॒न्द्रि॒याः॒ । अदा॑यादी॒रित्यदा॑य-अ॒दीः॒ । अपीति॑ । पा॒पात् । पुꣳ॒॒सः । उप॑स्तितर॒मित्युप॑स्ति - त॒र॒म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 6.5.8.3 TS 6.5.8.3
ॅवदन्ति॒ यद्-घृ॒तेन॑ पात्नीव॒तꣳ श्री॒णाति॒ वज्रे॑णै॒वैनं॒ ॅवशे॑ कृ॒त्वा गृ॑ह्णा-त्युपया॒मगृ॑हीतो॒ऽसीत्या॑हे॒यं ॅवा उ॑पया॒मस्तस्मा॑दि॒मां प्र॒जा अनु॒ प्र जा॑यन्ते॒ बृह॒स्पति॑सुतस्य त॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्र ज॑नयतीन्दो॒ इत्या॑ह॒ रेतो॒ वा इन्दू॒ रेत॑ ए॒व तद्-द॑धातीन्द्रियाव॒ इ- [ ]
पदपाठः (Word-by-word)
व॒द॒न्ति॒ । यत् । घृ॒तेन॑ । पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् । श्री॒णाति॑ । वज्रे॑ण । ए॒व । ए॒न॒म् । वशे᳚ । कृ॒त्वा । गृ॒ह्णा॒ति॒ । उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । इ॒यम् । वै । उ॒प॒या॒म इत्यु॑प - या॒मः । तस्मा᳚त् । इ॒माम् । प्र॒जा इति॑ प्र - जाः । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑-सु॒त॒स्य॒ । ते॒ । इति॑ । आ॒ह॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । ज॒न॒य॒ति॒ । इ॒न्दो॒ इति॑ । इति॑ । आ॒ह॒ । रेतः॑ । वै । इन्दुः॑ । रेतः॑ । ए॒व । तत् । द॒धा॒ति॒ । इ॒न्द्रि॒या॒व॒ इती᳚न्द्रिय - वः॒ । इति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 6.5.8.4 TS 6.5.8.4
-त्या॑ह प्र॒जा वा इ॑न्द्रि॒यं प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒त्यग्ना(3) इत्या॑हा॒ग्निर्वै रे॑तो॒धाः पत्नी॑व॒ इत्या॑ह मिथुन॒त्वाय॑ स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पि॒बेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानाꣳ॑ रूप॒कृद्-रू॒पमे॒व प॒शुषु॑ दधाति दे॒वा वै त्वष्टा॑रमजिघाꣳस॒न्थ् स पत्नीः॒ प्राप॑द्यत॒ तं न प्रति॒ प्राय॑च्छ॒न् तस्मा॒दपि॒- [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । प्र॒जा इति॑ प्र - जाः । वै । इ॒न्द्रि॒यम् । प्र॒जा इति॑ प्र-जाः । ए॒व । अ॒स्मै॒ । प्रेति॑ । ज॒न॒य॒ति॒ । अग्ना(3) इ । इति॑ । आ॒ह॒ । अ॒ग्निः । वै । रे॒तो॒धा इति॑ रेतः - धाः । पत्नी॑व॒ इति॒ पत्नी᳚ - वः॒ । इति॑ । आ॒ह॒ । मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ । स॒जूरिति॑ स - जूः । दे॒वेन॑ । त्वष्ट्रा᳚ । सोम᳚म् । पि॒ब॒ । इति॑ । आ॒ह॒ । त्वष्टा᳚ । वै । प॒शू॒नाम् । मि॒थु॒नाना᳚म् । रू॒प॒कृदिति॑ रूप - कृत् । रू॒पम् । ए॒व । प॒शुषु॑ । द॒धा॒ति॒ । दे॒वाः । वै । त्वष्टा॑रम् । अ॒जि॒घाꣳ॒॒स॒न्न् । सः । पत्नीः᳚ । प्रेति॑ । अ॒प॒द्य॒त॒ । तम् । न । प्रति॑ । प्रेति॑ । अ॒य॒च्छ॒न्न् । तस्मा᳚त् । अपीति॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 6.5.8.5 TS 6.5.8.5
वद्ध्यं॒ प्रप॑न्नं॒ न प्रति॒ प्रय॑च्छन्ति॒ तस्मा᳚त् पात्नीव॒ते त्वष्ट्रेऽपि॑ गृह्यते॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट् करोति॒ यद॑नुवषट् कु॒र्याद्-रु॒द्रं प्र॒जा अ॒न्वव॑सृजे॒द्-यन्नानु॑वषट्कु॒र्या-दशा᳚न्त-म॒ग्नीथ् सोमं॑ भक्षयेदुपाꣳ॒॒श्वनु॒ वष॑ट् करोति॒ न रु॒द्रं प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम॒ग्नीथ् सोमं॑ भक्षय॒त्यग्नी॒-न्नेष्टु॑रु॒पस्थ॒मा सी॑द॒- [ ]
पदपाठः (Word-by-word)
वद्ध्य᳚म् । प्रप॑न्न॒मिति॒ प्र - प॒न्न॒म् । न । प्रति॑ । प्रेति॑ । य॒च्छ॒न्ति॒ । तस्मा᳚त् । पा॒त्नी॒व॒त इति॑ पात्नी - व॒ते । त्वष्ट्रे᳚ । अपीति॑ । गृ॒ह्य॒ते॒ । न । सा॒द॒य॒ति॒ । अस॑न्नात् । हि । प्र॒जा इति॑ प्र - जाः । प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । न । अन्विति॑ । वष॑ट् । क॒रो॒ति॒ । यत् । अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् । रु॒द्रम् । प्र॒जा इति॑ प्र - जाः । अ॒न्वव॑सृजे॒दित्य॑नु - अव॑सृजेत् । यत् । न । अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु-व॒ष॒ट्कु॒र्यात् । अशा᳚न्तम् । अ॒ग्नीदित्य॑ग्नि-इत् । सोम᳚म् । भ॒क्ष॒ये॒त् । उ॒पाꣳ॒॒श्वित्यु॑प - अꣳ॒॒शु । अन्विति॑ । वष॑ट् । क॒रो॒ति॒ । न । रु॒द्रम् । प्र॒जा इति॑ प्र - जाः । अ॒न्व॒व॒सृ॒जतीत्य॑नु - अ॒व॒सृ॒जति॑ । शा॒न्तम् । अ॒ग्नीदित्य॑ग्नि - इत् । सोम᳚म् । भ॒क्ष॒य॒ति॒ । अग्नी॒दित्यग्नि॑ - इ॒त् । नेष्टुः॑ । उ॒पस्थ॒मित्यु॒प - स्थ॒म् । एति॑ । सी॒द॒ ।
पदसंख्या: 50
पञ्चशत् 6 #
TS 6.5.8.6 TS 6.5.8.6
नेष्टः॒ पत्नी॑-मु॒दान॒येत्या॑हा॒-ग्नीदे॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒ पत्नि॑यामुद्-गा॒त्रा सं ख्या॑पयति प्र॒जाप॑ति॒र्वा ए॒ष यदु॑द्गा॒ता प्र॒जानां᳚ प्र॒जन॑नाया॒प उप॒ प्र व॑र्तयति॒ रेत॑ ए॒व तथ् सि॑ञ्चत्यू॒रुणोप॒ प्र व॑र्तयत्यू॒रुणा॒ हि रेतः॑ सि॒च्यते॑ नग्नं॒ कृत्यो॒-रुमुप॒ प्र व॑र्तयति य॒दा हि न॒ग्न ऊ॒रुर्भव॒त्यथ॑ मिथु॒नी ( ) भ॑व॒तोऽथ॒ रेतः॑ सिच्य॒तेऽथ॑ प्र॒जाः प्र जा॑यन्ते ॥
पदपाठः (Word-by-word)
नेष्टः॑ । पत्नी᳚म् । उ॒दान॒येत्यु॑त् - आन॑य । इति॑ । आ॒ह॒ । अ॒ग्नीदित्य॑ग्नि-इत् । ए॒व । नेष्ट॑रि । रेतः॑ । दधा॑ति । नेष्टा᳚ । पत्नि॑याम् । उ॒द्गा॒त्रेत्यु॑त्-गा॒त्रा । समिति॑ । ख्या॒प॒य॒ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वै । ए॒षः । यत् । उ॒द्गा॒तेत्यु॑त् - गा॒ता । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । अ॒पः । उप॑ । प्रेति॑ । व॒र्त॒य॒ति॒ । रेतः॑ । ए॒व । तत् । सि॒ञ्च॒ति॒ । ऊ॒रुणा᳚ । उप॑ । प्रेति॑ । व॒र्त॒य॒ति॒ । ऊ॒रुणा᳚ । हि । रेतः॑ । सि॒च्यते᳚ । न॒ग्न॒ङ्कृत्येति॑ नग्नम् - कृत्य॑ । ऊ॒रुम् । उप॑ । प्रेति॑ । व॒र्त॒य॒ति॒ । य॒दा । हि । न॒ग्नः । ऊ॒रुः । भव॑ति । अथ॑ । मि॒थु॒नी ( ) । भ॒व॒तः॒ । अथ॑ । रेतः॑ । सि॒च्य॒ते॒ । अथ॑ । प्र॒जा इति॑ प्र - जाः । प्रेति॑ । जा॒य॒न्ते॒ ॥
पदसंख्या: 58