पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
पात्नीवतस्य ग्रहस्य पात्रं विधत्ते —
“प्राणो वा एष यदुपांशुर्यदुपांशुपात्रेण प्रथमश्चोत्तमश्च ग्रहौ गृह्येते प्राणमेवानु प्रयन्ति प्राणमनूद्यन्ति” (सं. का. ६ प्र. ५ अ. ८) इति।
उपांशोः प्राणत्वं पूर्वमुक्तम्। वाचस्पतये पवस्वेत्यनेन गृहीतः प्रथमो ग्रहः। बृहस्पतिसुतस्येति गृह्यमाणश्चोत्तमो ग्रहः। यद्यपि दधिग्रहः पूर्वभावो तथाऽपि नासौ सोमग्रहः। अदाभ्यांशू सोमग्रहावपि न तौ नित्यौ। तस्मान्नित्येषु सामग्रहेषूपांशुरेव प्रथमः। हारियोजनस्य पश्चाद्भावित्वेऽप्यग्निष्टोमसाम्नि समाप्ते सति यज्ञशेषत्वेनानुष्ठानम्। तस्मादग्निष्टोमापेक्षया पात्नीवतस्योत्तमत्वम्।तयोः प्रथमोत्तमयोरुपांशुपात्रेण ग्रहणं कुर्यात्। तथा सति प्राणमेवानुसृत्य प्रयन्ति प्रारभन्ते। उद्यन्ति समापयन्ति।
पात्नीवतग्रहं विधत्ते —
“प्रजापतिर्वा एष यदाग्रयणः प्राण उपांशुः पत्नीः प्रजाः प्र जनयन्ति यदुपांशुपात्रेण पात्नीवतमाग्रयणाद्गृह्णाति प्रजानां प्रजननाय तस्मात्प्राणं प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।
पत्नीरिति प्रथमा। प्राणमनु प्राणयुक्ताः प्रजा उत्पद्यन्ते।
विहितं ग्रहं प्रशंसति —
“देवा वा इतइतः पत्नीः सुवर्गं लोकमाजिगांसन्ते सुवर्गं लोकं प्राजानन्त एतं पात्नीवतमपश्यन्तमगृह्णत ततो वै ते सुवर्गं लोकं प्राजानन्यत्पात्नीवतो गृह्यते सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ६ प्र. ५ अ. ८) इति।
(देवाः) पत्नीरित इतः पात्नीवतग्रहमुपेक्ष्यान्यस्माद्ग्रहात् (स्वर्गं ज्ञातिमिच्छन्तोऽपि न प्रज्ञातवन्तः। पात्नीवतग्रहणेन तु प्रज्ञातवन्तः।) इत्येतद्ग्रहो गृह्यते।
एतद्गृहे घृतमेलनं विधत्ते —
“स सोमो नातिष्ठत स्त्रीभ्यो गृह्यमाणस्तं घृतं वज्रं कृत्वाऽघ्नन्तं निरिन्द्रियं भूतमगृह्णन्तस्मात्स्त्रियो निरिन्द्रिया अदायादीरपि पापात्पुस उपस्तितरं वदन्ति यद्घृतेन पात्नीवत श्रीणाति वज्रेणैवैनं वशे कृत्वा गृह्णाति”(सं. का. ६ प्र. ५ अ. ८) इति।
नातिष्ठत स्त्रीदेवताकत्वमसहमानः स्वात्मानं न प्रकाशितवान्। अघ्नन्नताड-यन्। निरिन्द्रियं भूतं निर्वीर्यं जातम्। यस्मात्स्त्रीदेवताभ्यो गृह्यमाणः सोमो निःसामर्थ्यस्तस्माल्लोके स्त्रियः सामर्थ्यरहिता अपत्येषु दायभाजो न भवन्ति। पापात्पतितादपि पुंसोऽप्युपस्तितरं क्षीणतरं स्त्रीस्वरूपं वदन्ति।
आम्नातस्य बृहस्पतिसुतस्येति मन्त्रस्य शेषं पूरयित्वा व्याचष्टे —
“उपयामगृहीतोऽसीत्याहेयं वा उपयामस्तस्मादिमां प्रजा अनु प्र जायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।
उपेताः प्रजा यच्छति उत्पादधारणादिना व्यवस्थापयतीत्युपयामो भूभागविशेषः।
बृहस्पतिशब्दस्यैव प्रयोगेऽभिप्रायमाह —
“बृहस्पतिसुतस्य त इत्याह ब्रह्म वै देवानां बृहस्पतिब्रर्ह्मणैवास्मै प्रजाः प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।
इन्दुशब्दो द्रवत्वसाम्येन रेत उपलक्षयतीत्याह —
“इन्दो इत्याह रेतो वा इन्दू रेत एव तद्दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।
इन्द्रियशब्देन तत्कार्यभूताः प्रजा उपलक्षन्त इत्याह —
“इन्द्रियाव इत्याह प्रजा वा इन्द्रियं प्रजा एवास्मै प्र जनयति” (सं. का. ६ प्र. ५ अ. ८) इति।
अग्निशब्दपत्नीवच्छब्दयोरभिप्रायं दर्शयति —
“अग्ना३ इत्याहाग्निर्वै रेतोधाः पत्नीव इत्याह मिथुनत्वाय” (सं. का. ६ प्र. ५ अ. ८) इति।
त्वष्टृशब्दप्रयोजनमाह —
“सजूर्देवेन त्वष्ट्रा सोमं पिबेत्याह त्वष्टा वै पशूनां मिथुनाना रूपकृद्रूपमेव पशुषु दधाति” (सं. का. ६ प्र. ५ अ. ८) इति।
पात्नीवतग्रहस्य होममन्त्रे त्वष्टुः परामर्शो न युक्त इति शङ्कां वारयति —
“देवा वै त्वष्टारमजिघासन्त्स पत्नीः प्रापद्यत तं न प्रति प्रायच्छन्तस्मादपि वध्यं प्रपन्नं न प्रति प्र यच्छन्ति तस्मात्पात्नीवते त्वष्ट्रेऽपि गृह्यते”(सं. का. ६ प्र. ५ अ. ८) इति।
यस्मात्पत्नीः शरणं गतस्तस्मात्त्वष्टा पत्नीरनुभागी भवति।
सादनस्य प्रसक्तौ तद्वारयति —
“न सादयत्यसन्नाद्धि प्रजाः प्रजायन्ते” (सं. का. ६ प्र. ५ अ. ८) इति।
अनुवषट्कारे तूपांशुत्वगुणं विधत्ते —
“नानु वषट्करोति यदनुवषट्कुर्याद्रुद्रं प्रजा अन्ववसृजेद्यन्नानुवषट्कुर्यादशा-न्तमग्नीत्सोमं भक्षयेदुपाश्वनु वषट्करोति न रुद्रं प्रजा अन्ववसृजति शान्तम-ग्नीत्सोमं भक्षयति” (सं. का. ६ प्र. ५ अ. ८) इति।
अन्ववसृजेदनुप्राप्य सृष्टिं वारयेत्। अशान्तमनिष्टकरम्।
अग्नीन्नेष्ट्रोरध्वर्योः प्रैषमन्त्रमुत्पादयति —
“अग्नीन्नेष्टुरुपस्थमा सीद नेष्टः पत्नीमुदानयेत्याहाग्नीदेव नेष्टरि रेतो दधाति नेष्टा पत्नियाम्” (सं. का. ६ प्र. ५ अ. ८) इति।
हे आग्नीध्र नेष्टुः समीपमागत्योपविश। हे नेष्टः पत्नीमुत्थाप्येहाऽऽनय। अनेन प्रैषद्वयेन रेतः प्रजोत्पादनसामर्थ्योपेतं स्थापितं भवति।
नेष्टुकारयितृकमुद्गातृकर्तृकं पत्नीविषयं दर्शनं विधत्ते —
“उद्गात्रा सं ख्यापयति प्रजापतिर्वा एष यदुद्गाता प्रजानां प्रजननाय” (सं. का. ६ प्र. ५ अ. ८) इति।
पत्नीकर्तृकं पन्नेजनीसंज्ञकजलस्य प्रवर्तनं विधत्ते —
“अप उप प्र वर्तयति रेत एव तत्सिञ्चति” (सं. का. ६ प्र. ५ अ. ८) इति।
प्रवर्तनाय तज्जलप्रक्षेपस्य स्थानं विधत्ते –
“ऊरुणोप प्र वर्तयत्यूरुणा हि रेतः सिच्यते” (सं. का. ६ प्र. ५ अ. ८) इति।
ऊरुप्रदेशे वस्त्रापनयनं विधत्ते —
“नग्नंकृत्योरुमुप प्र वर्तयति यदा हि नग्न ऊरुर्भवत्यथ मिथुनी भवतोऽथ रेतः सिच्यतेऽथ प्रजाः प्र जायन्ते” (सं. का. ६ प्र. ४अ. ८) इति।