सुदानव ए॒ना वि॒श्पति॑ना॒ऽभ्य॑मुꣳ राजा॑न॒मित्या॑ह मारु॒ती वै विड् ज्ये॒ष्ठो वि॒श्पति॑र्वि॒शैवैनꣳ॑ रा॒ष्ट्रेण॒ सम॑र्द्धयति॒ यः प॒रस्ता᳚द् ग्राम्यवा॒दी स्यात् तस्य॑ गृ॒हाद्-व्री॒हीना ह॑रेच्छु॒क्लाꣳश्च॑ कृ॒ष्णाꣳश्च॒ वि चि॑नुया॒द्ये शु॒क्लाः स्युस्तमा॑दि॒त्यं च॒रुं निर्व॑पेदादि॒त्या वै दे॒वत॑या॒ विड्विश॑मे॒वाव॑ गच्छ॒ - [ ]
पदपाठः (Word-by-word)
सु॒दा॒न॒व॒ इति॑ सु - दा॒न॒वः॒ । ए॒ना । वि॒श्पति॑ना । अ॒भीति॑ । अ॒मुम् । राजा॑नम् । इति॑ । आ॒ह॒ । मा॒रु॒ती । वै । विट् । ज्ये॒ष्ठः । वि॒श्पतिः॑ । वि॒शा । ए॒व । ए॒न॒म् । रा॒ष्ट्रेण॑ । समिति॑ । अ॒र्द्ध॒य॒ति॒ । यः । प॒रस्ता᳚त् । ग्रा॒म्य॒वा॒दीति॑ ग्राम्य - वा॒दी । स्यात् । तस्य॑ । गृ॒हात् । व्री॒हीन् । एति॑ । ह॒रे॒त् । शु॒क्लान् । च॒ । कृ॒ष्णान् । च॒ । वीति॑ । चि॒नु॒या॒त् । ये । शु॒क्लाः । स्युः । तम् । आ॒दि॒त्यम् । च॒रुम् । निरीति॑ । व॒पे॒त् । आ॒दि॒त्या । वै । दे॒वत॑या । विट् । विश᳚म् । ए॒व । अवेति॑ । ग॒च्छ॒ति॒ ।