प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.1.4 TS 2.3.1.4
-त्यव॑गताऽस्य॒ विडन॑वगतꣳ रा॒ष्ट्रमित्या॑हु॒र्ये कृ॒ष्णाः स्युस्तं ॅवा॑रु॒णं च॒रुं निर्व॑पेद्वारु॒णं ॅवै रा॒ष्ट्रमु॒भे ए॒व विशं॑ च रा॒ष्ट्रं चाव॑ गच्छति॒ यदि॒ नाव॒गच्छे॑दि॒म-म॒हमा॑दि॒त्येभ्यो॑ भा॒गं निर्व॑पा॒म्या ऽमुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेदादि॒त्या ए॒वैनं॑ भाग॒धेयं॑ प्रे॒फ्सन्तो॒ विश॒मव॑ - [ ]
पदपाठः (Word-by-word)
अव॑ग॒तेत्यव॑ - ग॒ता॒ । अ॒स्य॒ । विट् । अन॑वगत॒मित्यन॑व - ग॒त॒म् । रा॒ष्ट्रम् । इति॑ । आ॒हुः॒ । ये । कृ॒ष्णाः । स्युः । तम् । वा॒रु॒णम् । च॒रुम् । निरिति॑ । व॒पे॒त् । वा॒रु॒णम् । वै । रा॒ष्ट्रम् । उ॒भे इति॑ । ए॒व । विश᳚म् । च॒ । रा॒ष्ट्रम् । च॒ । अवेति॑ । ग॒च्छ॒ति॒ । यदि॑ । न । अ॒व॒गच्छे॒दित्य॑व-गच्छे᳚त् । इ॒मम् । अ॒हम् । आ॒दि॒त्येभ्यः॑ । भा॒गम् । निरिति॑ । व॒पा॒मि॒ । एति॑ । अ॒मुष्मा᳚त् । अ॒मुष्यै᳚ । वि॒शः । अव॑गन्तो॒रित्यव॑-ग॒न्तोः॒ । इति॑ । निरिति॑ । व॒पे॒त् । आ॒दि॒त्याः । ए॒व । ए॒न॒म् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । प्रे॒फ्सन्त॒ इति॑ प्र-ई॒फ्सन्तः॑ । विश᳚म् । अवेति॑ ।
पदसंख्या: 50