गमयन्ति॒ यदि॒ नाव॒गच्छे॒दाश्व॑त्थान् म॒यूखा᳚न्थ् स॒प्त म॑द्ध्यमे॒षाया॒मुप॑- हन्यादि॒दम॒ह-मा॑दि॒त्यान् ब॑ध्ना॒म्या ऽमुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रित्या॑दि॒त्या ए॒वैनं॑ ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति॒ यदि॒ नाव॒गच्छे॑दे॒तमे॒वाऽऽदि॒त्यं च॒रुं निर्व॑पेदि॒द्ध्मेऽपि॑ म॒यूखा॒न्थ् सं न॑ह्येदनपरु॒द्ध्यमे॒वाव॑ गच्छ॒त्याश्व॑त्था भवन्तिम॒रुतां॒ ॅवा ए॒त ( ) -दोजो॒ यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति स॒प्त भ॑वन्ति स॒प्त ग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति ।
पदपाठः (Word-by-word)
ग॒म॒य॒न्ति॒ । यदि॑ । न । अ॒व॒गच्छे॒दित्य॑व - गच्छे᳚त् । आश्व॑त्थान् । म॒यूखान्॑ । स॒प्त । म॒द्ध्य॒मे॒षाया॒मिति॑ म॒द्ध्यम - ई॒षाया᳚म् । उपेति॑ । ह॒न्या॒त् । इ॒दम् । अ॒हम् । आ॒दि॒त्यान् । ब॒ध्ना॒मि॒ । एति॑ । अ॒मुष्मा᳚त् । अ॒मुष्यै᳚ । वि॒शः । अव॑गन्तो॒रित्यव॑-ग॒न्तोः॒ । इति॑ । आ॒दि॒त्याः । ए॒व । ए॒न॒म् । ब॒द्धवी॑रा॒ इति॑ ब॒द्ध -वी॒राः॒ । विश᳚म् । अवेति॑ । ग॒म॒य॒न्ति॒ । यदि॑ । न । अ॒व॒गच्छे॒दित्य॑व - गच्छे᳚त् । ए॒तम् । ए॒व । आ॒दि॒त्यम् । च॒रुम् । निरिति॑ । व॒पे॒त् । इ॒द्ध्मे । अपीति॑ । म॒यूखान्॑ । समिति॑ । न॒ह्ये॒त् । अ॒न॒प॒रु॒द्ध्यमित्य॑नप - रु॒द्ध्यम् । ए॒व । अवेति॑ । ग॒च्छ॒ति॒ । आश्व॑त्थाः । भ॒व॒न्ति॒ । म॒रुता᳚म् । वै । ए॒तत् ( ) । ओजः॑ । यत् । अ॒श्व॒त्थः । ओज॑सा । ए॒व । विश᳚म् । अवेति॑ । ग॒च्छ॒ति॒ । स॒प्त । भ॒व॒न्ति॒ । स॒प्तग॑णा॒ इति॑ स॒प्त - ग॒णाः॒ । वै । म॒रुतः॑ । ग॒ण॒श - इति॑ गण - शः । ए॒व । विश᳚म् । अवेति॑ । ग॒च्छ॒ति॒ ॥