प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.10.1 TS 2.3.10.1
यन्नव॒मैत् तन्नव॑नीतमभव॒द्-यदस॑र्प॒त् तथ् स॒र्पिर॑भव॒द्-यदद्धि॑यत॒ तद् घृ॒तम॑भवद॒श्विनोः᳚ प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ॅययोः᳚ प्रा॒णोऽसि॒ स्वाहेन्द्र॑स्य प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्तां॒ ॅययोः᳚ प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षां दे॒वानां᳚ प्रा॒णो॑ऽसि॒ - [ ]
पदपाठः (Word-by-word)
यत् । नव᳚म् । ऐत् । तत् । नव॑नीत॒मिति॒ नव॑ - नी॒त॒म् । अ॒भ॒व॒त् । यत् । अस॑र्पत् । तत् । स॒र्पिः । अ॒भ॒व॒त् । यत् । अद्ध्रि॑यत । तत् । घृ॒तम् । अ॒भ॒व॒त् । अ॒श्विनोः᳚ । प्रा॒ण इति॑ प्र-अ॒नः । अ॒सि॒ । तस्य॑ । ते॒ । द॒त्ता॒म् । ययोः᳚ । प्रा॒ण इति॑ प्र - अ॒नः । असि॑ । स्वाहा᳚ । इन्द्र॑स्य । प्रा॒ण इति॑ प्र-अ॒नः । अ॒सि॒ । तस्य॑ । ते॒ । द॒दा॒तु॒ । यस्य॑ । प्रा॒ण इति॑ प्र - अ॒नः । असि॑ । स्वाहा᳚ । मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः । प्रा॒ण इति॑ प्र - अ॒नः । अ॒सि॒ । तस्य॑ । ते॒ । द॒त्ता॒म् । ययोः᳚ । प्रा॒ण इति॑ प्र - अ॒नः । असि॑ । स्वाहा᳚ । विश्वे॑षाम् । दे॒वाना᳚म् । प्रा॒ण इति॑ प्र - अ॒नः । अ॒सि॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

" (अथ द्वितीयकाण्डे तृतीयप्रपाठके दशमोनुवाकः)। (आयुष्कामेष्टिमन्त्राः) इष्टिः सांग्रहणी प्रोक्ता नवमे ग्रानकामिनः (णः) ।। अथ व्यवहितेनैकादशानुवकेनायुष्कामेष्टिं विधित्सुर्दशभे तन्मन्त्रान्पठति। कल्पः---“यन्नवमैतन्नवनीतमभवदित्याज्यमवेक्ष्य” इति। अनेन प्राकृत आज्यमसीत्यवेक्षणमन्त्रो बाधितः। पाठस्तु यन्नवमैत्तमिति। यद्यस्मात्कारणाद्दघ्न उदध्रियमाणं सन्नवमैन्नवं नूतन रूपमभवत्तस्मान्नवं च तन्नीतं चेत्युद्धृतस्य सारपिण्डस्य नवतीतनाम संपन्नम्। यद्यस्मात्कारणादग्निसंपर्के सति पिण्डो विलीयमानोसर्पत्प्रसृतोभूत्तस्मात्सर्पिरिति नाम। यस्मात्प्रसृतस्य शीतलपात्रस्थापनेन तत्पुनरध्रियत तद्घनीभूतमभवत्तस्माद्घृतमिति नाम। घृक्षरणदीप्त्योरिति धातोर्नैतद्रूपं किंतु घृतमित्यत्र घकारस्य घकारादेशः। कल्पः---“उपहोमकालेश्विनोः प्राणोसीत्येतैः प्रतिमन्त्रं चतुर उपहोमाञ्जुहोति” इति। पाठस्तु अश्विनोरिति। हे यजमान त्वमश्विनोः प्राणोसि प्राणवत्प्रियोसि। तस्वाद्ययोः प्राणोसि तावश्विनौ तस्य ते प्रियस्य तवायुर्हेतुभूतं प्राणं दत्ताम्। प्राणिमित्येतत्सामर्थ्याल्लभ्यते। तयोरश्विनोरिदमाज्यं स्वाहुतमस्तु। एवमुत्तरेषु योज्यम्। कल्पः—“यत्खादिरं आज्यं तदग्रेणाहवनीयं पर्याहृत्य तेन दक्षिणस्यां वेदिश्रोण्यामासादयति तद्यजमानोवेक्षते घृतस्य धारममूतस्य पन्थामिति ” इति। पाठस्तु घृतस्य धारमिति। घृतस्य धारमवेक्षेतेत्यध्याहारः। कीदृशीं धारम्। अमृतस्य पन्थां कर्मफलस्य साधनत्वेन मार्गभूताम्, इन्द्रेण वृष्टितृणोत्पत्यादिपरम्परया दत्तां संपादिताम, मरुद्भिर्वैश्याधिपैः प्रयतां *क्रयणभाण्डेषु प्रयत्नेन धृताम्। हे घृत तत्वा तथाविधं त्वां विष्णुसदृशो यजमानः पर्यपश्यत्परिपश्यति। इडा पश्वाभिमानीनी देवता तादृशं त्वां गव्यैरयत्प्रेरयति गोषु स्थापयति। कल्पः “अथास्य ब्रह्मा दक्षिणं हस्तं गृह्णाति ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पानमानेन त्वा स्सोमेनेति” इति। पाठस्तु पावमानेनेति। हे यजमान त्वां सविता देव उत्सृजतु दीर्घरोगान्मोचयतु। केन साधनेन। बहिष्पवमानादीना संबन्धिना त्रिवृदादिस्तोमसाध्येन स्तोत्रेण, गायत्रस्य वर्तन्या गायत्रवच्छन्दसो यो मार्गस्तेन सोमाहरणरूपेण यज्ञाङ्गसंपादनेन, उपांशोर्वीर्येणोपांशुग्रहहोमसामर्थ्येन। अत्र प्रतिसाधनं वाक्यभेदेनान्वेतुं त्वेतिशब्दस्य पुनरुक्तिः। किमर्थमुत्सृजत्विति तदुच्यते। जीवातव जीवनहेत्वौषधादिसंपादनाय। तदपि किमर्थमिति तदुच्यते। जीवनस्यायै चिरं जीवितुमिच्छा जीवनस्या तदर्थम्। एवं द्वितीयतृतीयमन्त्रौ योजनीयौ। अग्नेर्मात्रयामीयतेग्निर्यया गीत्या सा गीतिर्मात्रायज्ञायज्ञियस्य गानमित्यर्थः। कल्पः ‘अथ यजमानो हिरण्याद्वृतं निष्पिबतीममग्न आयुषे वर्चसे कृघीतिप्राश्रन्तमभिमन्त्रयते” इति। पाठस्तु *विक्रयाय भाण्डेषु संचितामिति ख, पुस्तकस्य पाठान्तरम्। इममग्न इति। हेग्न इमं यजमानं दीर्घायुषे बलाय च समर्थं कुरु। हे वरुण हे सोम राजन्नस्य यजमानस्य प्रियं रेतः पुत्रोत्पादकं संपादय। हेदितेपृथिवि मातृवदस्मै सुखं प्रयच्छ। विश्वे देवा अयं यजमानो यथा जरदष्टिरसत्तथा कुर्वन्तु। जराया अष्टिर्व्याप्तिर्यस्यासौ जरदष्टिः। बाल्ये यौवने च मरणरहितो जरामायुःसंपूर्तिपर्यन्तां यथा व्यप्नोति तथा कुर्वन्त्वित्यर्थः। कल्पः-- ‘अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युर्दक्षिणं हस्तं गृह्णाति’ इति। पाठस्तु "

अग्निरायुष्मानिति। अग्निरायुष्मान्भवति। तत्कथमिति तदुच्यते। सोग्निर्वनस्पतिभिरायुष्मान्काष्ठेषु प्रक्षिप्यमाणेषु ज्वालापरम्परया वर्धते न तूपशाम्यति। तेनाग्नेरायुषाभिवर्धमानेन त्वमायुष्मन्तं करोमि। एवमुत्तरत्र योज्यम्। सोमः सोमरस ओषधीष्वभिषूयमाणासु वर्धते। यज्ञो दक्षिजाभिर्वशीकृतेष्वृत्विक्षु वर्धते। वेदश्च ब्राह्मणेष्वध्यापकेषु अविच्छेदेन वर्धते। देवाश्च हवीरूपेजामृतेन जीवन्ति। पितरश्च स्वधाकारपूर्वकेण पिण्डादिना जीवन्ति। प्रतिवाक्यमनुषङ्गद्योतनाय तेनत्वायषेति पनः पठ्यते। अत्र विनियोगसंग्रहः ‘ज्योगामयाविनस्त्विष्टौ यन्नवेत्याज्यमीक्षते। अश्विनोरुपहोमा स्युर्घृत स्वाम्याज्यमक्षिते।। स्पृष्ट्वार्त्विजो ब्रह्महस्तं पावेति स्वामिनं जगुः।

इमं घृतं पिबन्तं तु स्वामिनं मन्त्रयेत हि।। अग्निः सोमश्च यज्ञश्च ब्रम्ह देवाः पितेति षट्। यथोचितानुषङ्गैस्तैर्गृह्णीते स्वामिहस्तकम् । दशमे त्वनुवाकेस्मिन्मन्त्राः षोडश वर्णिताः।।” इति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे दीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके दशमोनुवाकः ।। १०।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ 'अग्निं वा एतस्य' इत्यादिपञ्चहविरिष्टिर्वक्ष्यते । तस्यामाज्यावेक्षण अनुवर्तयति - यन्नवमैदित्यादि ॥ यत् यस्मात् नवमैत् नवमेव लब्धिं गच्छति उद्धृतमभवत् तस्मान्नवनीतमभवत्, नवनीतं गतम् । उद्धृतमिति । नवनीतम् । दासीभारादिर्द्रष्टव्यः । यद्वा - नवं नीतमस्येति बहुव्रीहिः । यस्मादसर्पत् विसृतमभवत् तस्मात्सर्पणाद्विसर्पणात् सर्पिरभवत् । यस्मादुपरि तदद्ध्रियत तस्मादपि सृप्तं संहतमभवत्, तस्माद्घृतमभवत् । धृङ् अवस्थाने । छान्दसो वणविपर्यासः । तादृशं च त्वमसि । तव खल्वेता अवस्थाः परोक्षवन्निर्दिश्यन्ते ॥
2 अथोपहोमाः - 'अश्विनोः' इत्यादयश्चत्वारः ॥ अश्विनोः प्राणस्त्वमसि हे यजमान, त[त्व]दधीनजीवनत्वात् । प्राणितीति प्राणः, पचाद्यच् । प्राणवायुर्वा । उपचारो वा - अश्विनोः प्राणस्थानीयस्स्त्वमसि यागद्वारेणोपकारकत्वात् । तस्य तादृशस्य ते तव दत्तां अश्विनौ, कम्? प्राणं, सामर्थ्यात् आयुष्कामेष्टित्वात् । कौ? अश्विनौ ययोः प्राणस्त्वमसि, अत आत्मार्थमेव तव प्राणं दत्तामिति ॥
3 -5इन्द्रस्येत्यादि ॥ समानम् ॥
6 पुनराज्यमवेक्षयति - घृतस्य धारामिति ॥ त्रिष्टुबियम्, बृहती वा ॥ हे आज्य घृतस्य क्षरितस्य विलीनस्य तव धाराम् । यद्वा - उदकधारां वृष्टिहेतुं अमृतस्य अमृतत्वस्य पन्थां यागद्वारेण प्राप्तिहेतुं इन्द्रेण ईश्वरेण दत्तां उत्पादिताम् । यद्वा - इन्द्रेण यजमानेन देवेभ्यो दत्तां प्रयतां प्रकर्षेणोत्पादितां शोधितां वा मरुद्भिः । तत्तादृक्स्वभावं त्वां विष्णुर्व्यापको यजमानो वा पर्यपश्यत् । तत्तादृशं त्वां इडा पृथिवी गवि ऐरयत् उदयादिक्रमेण ऐरयत् उदपादयत् ॥
7 ऋत्विजः पर्याहुः - पावमानेनेत्यादि ॥ हे यजमान त्वां पावमानेन पवमाना बहिष्पवमानादयः तेषां संबन्धिना स्तोमेन स्तवनेन गायत्रस्य छन्दसः वर्तन्या मार्गेण सोमानयनमार्गेण उपांशोः ग्रहस्य वीर्येण त्वामुत्सृजत्विति देवस्सविता त्वामुत्सृजतु आमयान्निर्गमयतु । प्रत्येकान्वयाय त्वेत्यस्यानुवृत्तिः । पावमानेन स्तोमेन त्वामुत्सृजतु गायत्रस्य वर्तन्या त्वामुत्सृजतु, उपांशोर्वीर्येण त्वामुत्सृजत्विति । जीवातवे जीवनहेतवे औषधादयो जीवनस्यायै जीवनप्रदायै । जीवनशब्दात् क्यच्, छन्दस्यसुगागमः, 'अ प्रत्ययात्' इत्यकारप्रत्ययः ॥
8 बृहद्रथन्तरयोस्त्वेत्यादि ॥ समानम् ॥
9 अग्नेस्त्वेत्यादि ॥ अग्निमीयते यया सा अग्नेर्मात्रा अग्नेरात्मा अग्नेरात्मस्थानीयमग्निष्टोमसाम यज्ञायज्ञियम् । समानमन्यत् । जगत्या इति षष्ठ्यर्थे चतुर्थी ॥
10 हिरण्याद्घृतं निष्पिबन्तमनुमन्त्रयते - इममग्न इति । त्रिष्टुबेषा ॥ हे अग्ने इमं घृतम् । उभयलिङ्गो घृतशब्दः । आयुषे वर्चसे बलाय चास्य कृधि कुरु । पूर्ववच्छपो लुक्, धिभावश्च । प्रियं रेतः, सर्वस्य प्रकृतिभूतत्वात् प्रियत्वम् रेतस्त्वं च । हे वरुण हे सोमलताभिमानिन्, हे राजन् चन्द्र । यद्वा - वल्लीनिवृत्त्यर्थं राजशब्देन सोमो विशेष्यते । यूयमप्यस्यायुषे कुरुत । किञ्च - हे अदिते त्वमपि अस्मै यजमानाय मातेव शर्म सुखं यच्छ देहि । हे विश्वेदेवा यूयमपीदं कर्तुमर्हथ । किम् ? यथायं यजमानो जरदष्टिः जीर्णत्वेन अष्टिर्व्याप्तिर्यस्य । जरामश्नुत इति वा जरदष्टिः । छान्दसी रूपसिद्धिः । असत् भवेत् दीर्घायुर्यथा स्यात्तथा कुरुत । यद्वा - अस्य यजमानस्य जरदष्टिः जराव्याप्तिः असत् भवेत् तथा कुरुत दीर्घायुषं कुरुत । जीर्यतेरतृन्प्रत्ययो भावे द्रष्टव्यः । अस्तेर्लेटि अडागमः ॥
11 -16ब्रह्मा यजमानस्य हस्तं गृह्णाति - अग्निरायुष्मानिति ॥ अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सामोदिषु 'आयुष्मान्तेन' इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥
इति द्वितीये तृतीये दशमोनुवाकः ॥