तस्य॑ ते ददतु॒ येषां᳚ प्रा॒णोऽसि॒ स्वाहा॑ घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिन्द्रे॑ण द॒त्तां प्रय॑तां म॒रुद्भिः॑ । तत् त्वा॒ विष्णुः॒ पर्य॑पश्य॒त् तत् त्वेडा॒ गव्यैर॑यत् ॥ पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपाꣳ॒॒शो र्वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ् सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ बृहद्-रथन्त॒रयो᳚स्त्वा॒ स्तोमे॑न त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ् - [ ]
पदपाठः (Word-by-word)
तस्य॑ । ते॒ । द॒द॒तु॒ । येषा᳚म् । प्रा॒ण इति॑ प्र-अ॒नः । असि॑ । स्वाहा᳚ । घृ॒तस्य॑ । धारा᳚म् । अ॒मृत॑स्य । पन्था᳚म् । इन्द्रे॑ण । द॒त्ताम् । प्रय॑ता॒मिति॒ प्र - य॒ता॒म् । म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ ॥ तत् । त्वा॒ । विष्णुः॑ । परीति॑ । अ॒प॒श्य॒त् । तत् । त्वा॒ । इडा᳚ । गवि॑ । ऐर॑यत् ॥ पा॒व॒मा॒नेन॑ । त्वा॒ । स्तोमे॑न । गा॒य॒त्रस्य॑ । व॒र्त॒न्या । उ॒पाꣳ॒॒शोरित्यु॑प-अꣳ॒॒शोः । वी॒र्ये॑ण । दे॒वः । त्वा॒ । स॒वि॒ता । उदिति॑ । सृ॒ज॒तु॒ । जी॒वात॑वे । जी॒व॒न॒स्यायै᳚ । बृ॒ह॒द्र॒थ॒न्त॒रयो॒रिति॑ बृहत् - र॒थ॒न्त॒रयोः᳚ । त्वा॒ । स्तोमे॑न । त्रि॒ष्टुभः॑ । व॒र्त॒न्या । शु॒क्रस्य॑ । वी॒र्ये॑ण । दे॒वः । त्वा॒ । स॒वि॒ता । उदिति॑ ।