प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.11.1 TS 2.3.11.1
अ॒ग्निं ॅवा ए॒तस्य॒ शरी॑रं गच्छति॒ सोमꣳ॒॒ रसो॒ वरु॑ण एनं ॅवरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒ ॅवाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒ यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेदाग्ने॒य -म॒ष्टाक॑पालꣳ सौ॒म्यं च॒रुं ॅवा॑रु॒णं दश॑कपालꣳ सारस्व॒तं च॒रुमा᳚ग्नावैष्ण॒व-मेका॑दशकपाल-म॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रसं॑ - [ ]
पदपाठः (Word-by-word)
अ॒ग्निम् । वै । ए॒तस्य॑ । शरी॑रम् । ग॒च्छ॒ति॒ । सोम᳚म् । रसः॑ । वरु॑णः । ए॒न॒म् । व॒रु॒ण॒पा॒शेनेति॑ वरुण - पा॒शेन॑ । गृ॒ह्णा॒ति॒ । सर॑स्वतीम् । वाक् । अ॒ग्नाविष्णू॒ इत्य॒ग्ना - विष्णू᳚ । आ॒त्मा । यस्य॑ । ज्योक् । आ॒मय॑ति । यः । ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । स्यात् । यः । वा॒ । का॒मये॑त । सर्व᳚म् । आयुः॑ । इ॒या॒म् । इति॑ । तस्मै᳚ । ए॒ताम् । इष्टि᳚म् । निरिति॑ । व॒पे॒त् । आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । सौ॒म्यम् । च॒रुम् । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् । सा॒र॒स्व॒तम् । च॒रुम् । आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । अ॒ग्नेः । ए॒व । अ॒स्य॒ । शरी॑रम् । नि॒ष्क्री॒णातीति॑ निः - क्री॒णाति॑ । सोमा᳚त् । रस᳚म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे तृतीयप्रपाठक एकादशोनुवाकः)। (आयुष्कामेष्टिविधिः) इष्टेर्विधास्यमाताया दशमे मन्त्र ईरितः। अथाकादशे तामिष्टिं विधातुं प्रस्तौति अग्निं वा इति। यं दीर्घव्याधिः पीडयति एतस्य शरीरमग्निं प्रविशति, मांसभक्षणेन कृशत्वात्। सोमेन रसस्वीकाराद्वलक्षयः। वरुणपाशेन ग्रहणादुदरादिव्यथा। सरस्वतीमेतदीया वाग्भाषा गच्छति, तेनायं भाषितुं न शक्नोति। जीवात्मा त्वग्नाविष्णू प्राप्नोति, तेन मुमूर्षति। इदानीं विधत्ते यो ज्योगामयावीति । ज्योगामयाविनो रोगपरिहारार्थमरोगस्य चापमृत्युपरिहारार्थमियं पञ्चहविकेष्टिः मन्त्रं विनियुङ्क्ते यन्नवमैत्तदीति। मन्त्रोक्तैर्नवनीतसर्पिर्घृतनिर्वचनैरस्याज्यस्यैतद्विद्यमानरूपं महिमानं ख्यापनाय मन्त्रौ व्याचष्टे। यद्वा मन्त्रस्यैतत्स्वरूपमेव घृतस्य महिमानं व्याचष्टे। मन्त्राक्षरेरेव स्पष्टं प्रतीयते नाव पृथग्वक्तव्यमस्तीत्यर्थः। उपहोममन्त्रान्व्याचष्टे अश्विनोरिति। यजमानस्याज्यावेक्षणमन्त्रे स्पष्टार्थतां दर्शयति"

"घृतस्येति। ऋत्विग्भिः पठ्यमानानां मन्त्राणां तात्पर्य दर्शयति पावमानेनेति। पवमानस्य वायोः प्राणरूपत्वात्तेन प्राणस्थापनं, बृहद्रथंतरयोः पृष्ठस्तोत्रप्रकृतित्वेन सारत्वात्तेनौजोधारणम्। अग्नेरात्मा मीयतेनयेत्युक्तत्वात्तेनात्मस्थापनम्। एतेषां पाठं विधत्ते ऋत्विज इति। पाठकाले हस्तग्रहणं विधत्ते ब्रह्मणो हस्तमिति। एकधैव सर्वषामृत्विजामैकमत्येनैव यजमानस्य यदेषायुः संपादनीयमस्ति तत्सर्वं तस्मिन्यजमाने स्थापयन्ति। यदुक्तं सूत्रकारेण----‘पात्रसंपादनकाले खादिरं पात्रं चतुस्रक्ति प्रयुङक्ते ,सौवर्णस्य प्रवर्तं शतमानस्य कृतम्, अथो खलु यावतीः समा एष्यन्मन्येत वावन्मान स्यात्’ इति। आज्यग्रहणकाले तूष्णीं खादिरे चतुर्गृहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्प्रवर्तमवदधाति” इति च। प्रवर्तः कर्णाभरणं कुण्डलम्। (तत्र घृते स्थापितात्प्रवर्तान्निष्पीडितस्य घृतस्य पानं विधत्ते हिरण्यादिति। तस्य परिमाणं द्वेधा विधत्ते शतमानमिति। शतमानं पञ्चपणपरिमितमित्यसकृदुक्तम्। अथवा रुग्णो यजमानो योवतो भाविनः संवत्सरान्प्राप्नोत्वित्यध्वर्युर्युर्मन्यते तावद्भिर्मानैः परिमितं कर्तव्यम्। मानशब्दो गुञ्जाबीजं ब्रूते। रुग्णस्यातीतमायुः परित्यज्या गामिन आयुषो यावन्तः संवत्सरा एतस्य मनसि निश्चितास्तावद्भिर्गुञ्जाबीजैः परिमितमित्यर्थः। प्राश्नतो यजमानस्याभिमन्त्रणमन्त्रे प्रथमचरमभागयोरभिप्रायं दर्श यति इदमग्न इति। आयुषञ्चरमभागस्थाया जराया अष्टिर्व्याप्तिर्यस्य। अथवा जीर्यत्यष्टिरशनं यस्यासौ जरदष्टिः नीरोग इत्यर्थः। अध्वर्यार्यजमानदक्षिण हस्तग्रहणं विधत्ते अग्निरायुष्मानिति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायभाष्ये द्वितीयकाण्डे तृतीयप्रपाठक एकादशोनुवाकः।। ११।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इदानीं तां पञ्चहविषमिष्टिं विदधाति - अग्निं वा इत्यादि ॥ यस्य ज्योक् नित्यमामयत्यामयः तस्य शरीरादीन्यग्न्यादीन् देवान् गच्छन्ति स्व कारणानुप्रवेशात् कार्यरूपनाशात्कर्तरि का र्यशक्त्युपसंहारस्स्यात् । 'रुजार्थानाम्' इति यस्येति कर्मणि षष्ठी । यो ज्योगामयावीत्यादि ॥ गतम् ॥
2 अग्नेरेवेत्यादि ॥ यत्रयत्र शरीरादीनि गतानि तेभ्यस्तानि निष्क्रीणाति हविःप्रदानेन । ततोसौ यजमानः यद्यपि गतासुर्भवति जीवत्येव, किं पुनरायुश्शेषवतामामयनिवृत्तिर्भवतीति । यद्वा - यागबलेन आमयश्च नश्यति, सर्वं चायुश्शतसंवत्सरप्रमाणं लभते ॥
3 आज्यमवेक्षत इति ॥ अस्य मन्त्रस्यैतद्रूपमेव विनैव व्याख्यानं आज्यस्य महिमानं व्याचष्टे व्याकरोति अवस्थात्रयविवरणात् ॥
4 अश्विनोरित्यादि ॥ पुरस्तात्स्विष्टकृतः स्रुवाहुत्युपहोममन्त्रा एते ॥
5 घृतस्य धारामित्यादि ॥ अनेन यजमानमाज्यमवेक्षयति । यथायजुरिति । अमृतत्वप्राप्तिहेतुत्वमस्य यथा यजुर्वदति एतदेव भवति ॥
6 पावमानेनेत्यादि ॥ ब्रह्मणो हस्तमन्वारभ्य ऋत्विजः पर्याहुरिमान् मन्त्रान् । तदेवाह - ऋत्विजः पर्याहुरिति । परित आसीना आहुः । ब्रह्मण इति । हस्तमन्वारभ्य परिवचनात्सर्वमस्यायुरेकधा कृत्वा अस्मिन् दधति यदेव तस्यायुस्तदेव दधति ॥
7 हिरण्यादिति ॥ अयमत्र प्रयोगः - यावतीस्समा एष्यन्मन्येत तावन्मानं सौवर्णं प्रवर्तं कुण्डलमुपकल्प्य खादिरे नवे पात्रे उपस्तीर्णाभिघारितं सह हविर्भिरन्तर्वेद्यासाद्य उपहोमान् हुत्वा संस्रावैः प्रवर्तमभिघार्य अग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निधाय यजमानमवेक्षयति । अथायमवेक्ष्यास्माद्धिरण्यान्निष्पतत् घृतं पिबति । यद्वा - हिरण्यलग्नं घृतं निष्शेषं पिबति । आयुर्वा इति । उभयत्रापि तद्धेतुत्वात्ताच्छब्द्यम् । शतमानमिति । शतगुञ्जाप्रमाणं प्रवर्ताकारं सुवर्णं भवति । गुञ्जफलाकारः कर्णवेष्टः । प्रवर्तस्य शतसंख्यात्वात्तत्प्रमाणयुषामस्य लाभः । अथो खल्विति पक्षान्तरं दर्शयति । यावतस्संवत्सरानेष्यन् जीवितुं मन्येत तावन्मानं कुर्यात् प्रवर्तकम् । यजमानस्य गतानि वर्षाणि शताच्छोधयित्वा शिष्टसम्मितक्रमनिर्मितं कुर्यात् । एवं हि अभिमतसङ्ख्यान्वयात् समृद्ध्यै भवति ॥
8 इममग्न आयुष इति ॥ घृतं निष्पिबन्तमनुमन्त्रयते । जरदष्टिमेवेति । जराप्राप्त्या दीर्घायुष्ट्वं लक्ष्यते ॥
9 अग्निरायुष्मानिति ब्रह्मा यजमानस्य हस्तं गृह्णाति ॥
इति द्वितीये तृतीये एकादशोनुवाकः ॥