प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.11.4 TS 2.3.11.4
-ह प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्-रथन्त॒रयो᳚स्त्वा॒ स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒-ऽऽत्मान॑-मे॒वास्मि॑न्ने॒तेन॑ दधात्यृ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नं भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒ तद्धिर॑ण्याद् - [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । अ॒स्मि॒न्न् । ए॒तेन॑ । द॒धा॒ति॒ । बृ॒ह॒द्र॒थ॒न्त॒रयो॒रिति॑ बृहत्-र॒थ॒न्त॒रयोः᳚ । त्वा॒ । स्तोमे॑न । इति॑ । आ॒ह॒ । ओजः॑ । ए॒व । अ॒स्मि॒न्न् । ए॒तेन॑ । द॒धा॒ति॒ । अ॒ग्नेः । त्वा॒ । मात्र॑या । इति॑ । आ॒ह॒ । आ॒त्मान᳚म् । ए॒व । अ॒स्मि॒न्न् । ए॒तेन॑ । द॒धा॒ति॒ । ऋ॒त्विजः॑ । परीति॑ । आ॒हुः॒ । याव॑न्तः । ए॒व । ऋ॒त्विजः॑ । ते । ए॒न॒म् । भि॒ष॒ज्य॒न्ति॒ । ब्र॒ह्मणः॑ । हस्त᳚म् । अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ । परीति॑ । आ॒हुः॒ । ए॒क॒धेत्ये॑क - धा । ए॒व । यज॑माने । आयुः॑ । द॒ध॒ति॒ । यत् । ए॒व । तस्य॑ । तत् । हिर॑ण्यात् ।
पदसंख्या: 50