प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.13.1 TS 2.3.13.1
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳ ह॑सो मुञ्चतं॒ ॅया वा॑मिन्द्रा वरुणा सह॒स्या॑ रक्ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ ममꣳ ह॑सो मुञ्चतं॒ ॅयो वा॑मिन्द्रा वरुणा व॒ग्नौ स्राम॒स्तं ॅवा॑ मे॒ तेना व॑यजे॒यो वा॑मिन्द्रा वरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ चतु॑ष्पाथ्सु गो॒ष्ठे गृ॒हेष्व॒फ्‌स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तं ॅवा॑ मे॒ तेनाव॑ यज॒ इन्द्रो॒ वा ए॒तस्ये᳚ - [ ]
पदपाठः (Word-by-word)
या । वा॒म् । इ॒न्द्रा॒व॒रु॒णेती᳚न्द्रा - व॒रु॒णा॒ । य॒त॒व्या᳚ । त॒नूः । तया᳚ । इ॒मम् । अꣳह॑सः । मु॒ञ्च॒त॒म् । या । वा॒म् । इ॒न्द्रा॒व॒रु॒णेती᳚न्द्रा - व॒रु॒णा॒ । स॒ह॒स्या᳚ । र॒क्ष॒स्या᳚ । ते॒ज॒स्या᳚ । त॒नूः । तया᳚ । इ॒मम् । अꣳह॑सः । मु॒ञ्च॒त॒म् । यः । वा॒म् । इ॒न्द्रा॒व॒रु॒णा॒विती᳚न्द्रा - व॒रु॒णौ॒ । अ॒ग्नौ । स्रामः॑ । तम् । वा॒म् । ए॒तेन॑ । अवेति॑ । य॒जे॒ । यः । वा॒म् । इ॒न्द्रा॒व॒रु॒णेती᳚न्द्रा - व॒रु॒णा॒ । द्वि॒पाथ्स्विति॑ द्वि॒पात् - सु॒ । प॒शुषु॑ । चतु॑ष्पा॒थ्स्विति॒ चतु॑ष्पात् - सु॒ । गो॒ष्ठ इति॑ गो- स्थे । गृ॒हेषु॑ । अ॒फ्स्वित्य॑प् - सु । ओष॑धीषु । वन॒स्पति॑षु । स्रामः॑ । तम् । वा॒म् । ए॒तेन॑ । अवेति॑ । य॒जे॒ । इन्द्रः॑ । वै । ए॒तस्य॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः।) (पाप्मना गृहीतस्येष्टिविधिः) चतुष्कपाला विहिता द्वादशे त्वश्वदानिनः।

"अथ त्रयोदशे पाप्मना गृहीतस्येष्टिं विधित्सुरादौ मन्त्रान्पठति। कल्पः---‘एन्द्रावरुणं पुरोडाशं निरुप्यैन्द्रावरुणीं पयस्यां निर्वपेदुद्वास्यालं कृत्य पयस्यायां पुरोडाशमवदधात्येतयैव प्रच्छाद्यासादयत्यथास्मात्प्रतिदिशं पयस्यां व्यूहति या वामिन्द्रावरुणा यतव्या तनुरित्येतैरेव पुनः समूहति मुञ्चतमित्यस्य स्थानेमुक्तमिति मन्त्रान्तान्संनमति सहैव पयस्यायाः पुरोडाशस्यावद्यति यो वामिन्द्रावरुणावग्नौ स्राम इत्युपहोमाः’ इति। तत्र प्रथमस्य प्यूहनमन्त्रस्य पाठस्तु या वामिति। हे इन्द्रावरुणौ वां युवयोर्या तनूर्यतव्या पापाम्मोचने प्रयत्नवती तया तन्वा यजमानं पापान्मोचयतम्। द्वितीयतृतीयचतुर्थमन्त्राणां पाठस्तुं। या वामिति। सहस्येत्यत्र तनूरित्यस्यान्त्यभागस्यानुषङ्गः। तेजस्येत्यत्र या वामित्याद्यभागस्यानषङ्गःष। रक्षस्येत्यत्रोभयोर्भामनारनुषङ्गः। सहो बलं तदर्हतीति सहस्या। रक्षो रक्षणं तदर्हतीति रक्षस्या। तेजो रोचनशक्तिस्तदर्हतीति तेजस्या उपहामे प्रथममन्त्रस्य पाठस्तु यो वामिति। इन्द्रावरुणाग्नौ वां युवयोर्यः स्रामः पापविशेषो युवयोर्होमार्थे वह्नौ यजमानेन योपराधः कृतस्तमपराधं युवयोः संवन्धिनैतेन होमेनावयजे विनाशयामि। द्वितीयादीनां सप्तानां मन्त्राणां पाठस्तु यो वामिति। द्विपात्सु पशुष्वित्यत्र स्रामस्तं वामित्याद्युत्तरभागस्यामनुषङ्गः। वनस्पतिषु स्राम इत्यत्र यो वामित्यादेः प्रथमभागस्यानुषङ्गः। * चतुष्पात्स्वदिषु पञ्चसु पूर्वोत्तरभागयोरनुषङ्गः। हे इन्द्रावरुणौ युवयोः संबन्धी यो यजमानस्य द्विपात्सु पशुषु मनुष्यादिरूपेषु यः स्रामः पापविशेषस्तं पापविशेषं युवयोः संबन्धिनैतेन कर्मणा विनाशयामि। एवं सर्वत्र योज्यम्। अथेष्टिं विधत्ते *चतुष्पास्त्विति मन्त्रे तु चतुष्पात्स्वित्यनन्तरं पशुष्वितिपदस्यानुषङ्गो ज्ञेयः। इन्द्रो वा इति। य पापगृहीत एसदीयेनेन्द्रियेण सहेन्द्रोपगच्छति, वरुणो रोगेणैनं बाधते, अतः पाप्मना गृहीतस्य तदुभयविषयेष्टिः। पयसि प्रभवामिक्षा पयस्या। तां प्रशंसति पयस्येति। पयः शब्देन क्षीरादिसात्विकाहारजनितश्रध्दया कृतं पुण्यमुपलक्ष्यते। तत्पुण्यानुष्ठानमेवैतस्माद्यजमानाद्यद्यपक्रामति तदानीमेव पाप्मना गृहीता भवति। यद्यत्र हविः पयस्या भवेत्तर्ह्यस्मिन्यजमाने तया पयस्ययाहारोपलक्षितं पुण्यमाहितं भवति। यथाप्राप्तं कंचिदंशविशेषं विधत्ते पयस्यायामिति। शरीरसदृशस्य कठिनस्य पुरोडाशस्य प्रक्षेपेणैनं यजमानमात्मन्वन्तं दृढशरीरोपेतं करोति। सति हि पापे तज्जन्यरोगेण शरीरस्यादर्ढ्यम्। किंच * पयस्याधारत्वेन यजमानमप्यायतनवन्तं गृहग्रामादिरूपाधारवन्तं (करोति)। या वामिन्द्रावरुणेत्यादिमन्त्रर्हविषो विभागं विधत्ते चतुर्धेति। विभक्तस्यैकीभावं विधत्ते पुनरिति। मिश्रितयोः पुरोडाशामिक्षयोः सहाबदानं विधत्ते समृह्यावेति। यथा लोके वैरिणा मुक्तमाविध्दं स्वशरीरं बाणादिकं संदशादिना निष्कृष्य छिनत्ति तादृगेव तत्समूह्यावदानं संपद्यते। उपहोमे प्रथममन्त्रं व्याचष्टे यो वामिति। होमाधारेग्नौ कृतेन स्रामेणापराघेन दुरिष्टिर्भवति तमपराधमवजय इत्युक्त्या तस्या दुरिष्टेः सकाशादेनं यजमानं रक्षति । अवशिष्टानां मन्त्राणां तात्पर्यं दर्शयति यो वामिन्द्रेति। पशुषु स्रामस्तं वामित्येवमनुषङ्गो योजयित्वा प्रदर्शितः। प्राण्युपजीवनयोग्या अबादयः पञ्च पदार्थाः। तत्र पशुशब्देन द्विपादचतुष्पादश्च गृह्यते। गृहा () अत्रोपल्लक्ष्यन्ते। या एतावत्य उपजीवनीयास्ताः सर्वा अपि यजमानार्थं वरुणपाशादुपद्रवान्मोचयति अत्र विनियोसंग्रहः * पुरोडाशस्येति शेषः । () अपिना गोष्ठोपलक्षणमभिप्रेतम्। “यावामिति चतुर्मन्त्रैश्चतुर्धा व्यूहते हविः।"

यो वामित्यष्टभिर्मन्त्रैरुपहोमा उदीरिताः।। द्विपात्स्वित्यादिना मन्त्रभेदः सप्तविधो भवेत्।

त्रयोदशेनुवाकेऽस्मिन्मन्त्रा द्वादश कीर्तिताः।। ” इति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय

तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके त्रयोदशोनुवाकः।। १३।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 'यः पाप्मना गृहीतस्स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेत्' इत्यादि कारणं वक्ष्यति । तां पुरोडाशाच्चतुर्धा कृत्वा व्यूहति - यावामिन्द्रावरुणेति चतुर्भिर्मन्त्तैः ॥ यतव्या सहस्या रक्षस्या तेजस्येति चतुर्णां विशेषः । शेषस्तुल्यः । हे इन्द्रावरुणा इन्द्रावरुणौ । 'सुपां सुलुक्' इत्याकारः । 'देवताद्वन्द्वे च' इति पूर्वपदस्यानङ् । वां युवयोः या यतव्या तनूः शरीरं । यातूनि यातुधानाः रक्षांसि तेषां हननी रक्षोयातूनां हन्त्रीति यावत् । तया तन्वा इमं यजमानं अंहसः पापात् अमुञ्चतं शोधयतम् ॥
2 यावामित्यादि ॥ या सहस्या तनूः सहो बलं अभिभवितृत्वं तद्वती । 'मत्वर्थे मासतन्वोः' इति यत् । समानमन्यत् ॥
3 यावामित्यादि ॥ या रक्षस्या तनूः रक्षसां हननी । स एव यत् । ततोनुषङ्गः ॥
4 यावामित्यादि ॥ या तेजस्या तनूः तेजस्विनी । पूर्ववन्मत्वर्थीयो यत् । स्पष्टमन्यत् ॥
5 -12अथोपहोमा अष्टौ - योवामित्यादयः ॥ अग्न्यादयो वनस्पत्यन्ता विशेषाः । शिष्टमष्टस्वप्यनुषज्यते । स्रावयति नाशयतीति स्रामः पाप्मा येनायं गृहीतः । यो वां युवयोस्सम्बन्धिनो यजमानस्य अग्नौ स्रामः अग्न्याधारः पाप्मा तेन कृतः तं वा युवयोस्सम्बन्धिनानेन कर्मणा अवयजे नाशयामि हे इन्द्रावरुणौ । अवपूर्वो यजिर्विनाशकर्मा । 'यो द्विपास्तु पशुषु स्रामः' इति द्वितीये । द्विपादो मनुष्याः । ' सङ्ख्यासुपूर्वस्य' इति लोपस्समासान्तः, 'पादः पत्' इति पद्भावः, 'द्वित्रिभ्यां पाद्दन्' इत्युत्तरपदान्तोदात्तत्वम् । 'यश्चतुष्पात्सु पशुषु स्रामः' इति तृतीये । स्वरवर्जं पूर्ववत् । गवादयः चतुष्पादः । 'योगोष्ठे' इति चतुर्थे । गावस्तिष्ठन्त्यस्मिन्निति 'सुपि स्थः' इति कः । 'अम्बाम्ब' इत्यादिना षत्वम् । 'यो गृहेषु' इति पञ्चमे । 'गेहे कः' इति कः । 'योप्सु' इति षष्टे । 'ऊडिदम्' इति विभक्तेरुदात्तत्वम् । 'य ओषधीषु' इति सप्तमे । यवादयः ओषधयः । 'ओषधेश्च विभक्तौ' इति दीर्घत्वम् । 'यो वनस्पतिषु' इत्यष्टमे । पलाशादयो वनस्पतयः । वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । पारस्करप्रभृतित्वात् सुट् ॥
13 अथातः पयस्यां विदधाति ब्राह्मणम् - इन्द्रो वा एतस्येत्यादि ॥ अस्येन्द्रियेण सह इन्द्रोपक्रामति, वरुणश्चैनं वरुणपाशेन गृह्णाति, यः पाप्मना गृहीतो भवति । यस्मादेवं तस्माद्यः पाप्माना गृहीतस्स्यात् तस्मै तत्पापशमनार्थं ऐन्द्रावरुणीं पयस्यां निर्वपेत् । पयसि भवः पयस्या आमिक्षा । अत्रायं प्रयोगः - इन्द्रावरुणाभ्यां चतुरो मुष्टीन्व्रीहीणान्निरुप्य दक्षिणार्धे गार्हपत्यस्यैकादश कपालान्युपदधाति । यदैवं पुरोडाशमधिवृणक्ति तदा एतामामिक्षां गार्हपत्ये अधिश्रयति । अथैतं पुरोडाशमुपस्तीर्णाभिघारितमुद्वास्यामिक्षायां संप्रवेश्या न्तर्वेद्यासादयतीति ॥
14 पयस्या भवतीत्यादि ॥ गतम् ॥
15 पयस्यायामिति ॥ आमिक्षायां संप्रच्छाद्य पुरोडाशमासादयति - आत्मन्वन्तमिति । आत्मवत्त्वं बलवत्वम् । 'अनोनुट्' 'ह्रस्वनुड्भ्याम्' इति मतुप उदात्तत्त्वम् । अथो अपि च आयतनवन्तं गृहवन्तमेवैनं करोति अनेन प्रच्छादनेन पयस्यायां पिधानेन ॥
16 चतुर्धेति ॥ प्रतिदिशं पयस्यां व्यूहति पुरोडाशं चतुर्धा कृत्वा व्यूहति । एतेन दिक्षु प्रतिष्ठितो भवति ॥
17 पुनस्समूहतीति ॥ दिग्भ्योवकृष्य समूहीकरोति । दिग्भ्य एवाकृष्यास्मै यजमानाय भेषजं पापरोगशमनं करोति ॥
18 समूह्येति ॥ पयस्यया सह पुरोडाशस्यावद्यति । यथेति । आविद्धं दोषेण पीडितं निष्कृन्तति कर्तनेन निष्कालितदोषं करोति तादृशीदं [दृशमिदं] समूह्यावदानम् ॥
19 यो वामित्यादय उक्ता उपहामोः ॥ दुरिष्ट्या इति । अग्नौ कृतं पापं दुरिष्टिरेवेति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
20 'यो वामिन्द्रावरुणा द्विपात्सु पशुषु स्रामः' इति द्वितीयमन्त्रं दर्शयति । उपलक्षणं चैतत्तृतीयादीनाम् । एतावतीर्वा इत्यादि । प्रजायन्त इति प्रजाः । 'अन्येष्वपि दृश्यते' इति डः । आप ओषधयो वनस्पतयः पशवश्च द्विप्रकारा इत्येतावत्यः प्रजाः प्राणिनामुपजीवनीयाः । तस्मादुपजीवनत्वादेषामेव मन्त्रेषूपादानम् न सर्वादीनामिति भावः । एताश्च एतैरुपहोमैः वरुणपाशात् मुञ्चत्यस्मै यजमानाय, यथास्यापहतपाप्मन उपजीवास्स्युरिति ॥
इति तृतीये त्रयोदशोनुवाकः ॥