हर्य॑तं ॅवृषणा जु॒षेथां᳚ । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ ॅयज॑मानाय॒ शं ॅयोः ॥ आप्या॑यस्व॒ सं ते᳚ ॥ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒ना-मु॑प॒मश्र॑वस्तमं । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं । स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ ॅयः पि॒तर॑मा॒विवा॑सति - [ ]
पदपाठः (Word-by-word)
हर्य॑तम् । वृ॒ष॒णा॒ । जु॒षेथा᳚म् ॥ सु॒शर्मा॒णेति॑ सु - शर्मा॑णा । स्वव॒सेति॑ सु - अव॑सा । हि । भू॒तम् । अथ॑ । ध॒त्त॒म् । यज॑मानाय । शम् । योः ॥ एति॑ । प्या॒य॒स्व॒ । समिति॑ । ते॒ ॥ ग॒णाना᳚म् । त्वा॒ । ग॒णप॑ति॒मिति॑ ग॒ण - प॒ति॒म् । ह॒वा॒म॒हे॒ । क॒विम् । क॒वी॒नाम् । उ॒प॒मश्र॑वस्तम॒मित्यु॑प॒मश्र॑वः-त॒म॒म् ॥ ज्ये॒ष्ठ॒राज॒मिति॑ ज्येष्ठ-राज᳚म् । ब्रह्म॑णाम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । एति॑ । नः॒ । शृ॒ण्वन्न् । ऊ॒तिभि॒रित्यू॒ति - भिः॒ । सी॒द॒ । साद॑नम् ॥ सः । इत् । जने॑न । सः । वि॒शा । सः । जन्म॑ना । सः । पु॒त्रैः । वाज᳚म् । भ॒र॒ते॒ । धना᳚ । नृभि॒रिति॒ नृ - भिः॒ ॥ दे॒वाना᳚म् । यः । पि॒तर᳚म् । आ॒विवा॑स॒तीत्या᳚ - विवा॑सति ।