श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिं᳚ ॥ स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लꣳ रु॑रोज फलि॒गꣳ रवे॑ण । बृह॒स्पति॑रु॒स्त्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्- वाव॑शती॒रुदा॑जत् ॥ मरु॑तो॒ यद्ध॑ वो दि॒वोया वः॒ शर्म॑ ॥अ॒र्य॒मा ऽऽया॑ति वृष॒भस्तुवि॑ष्मान् दा॒ता वसू॑नां पुरुहू॒तो अर्.हन्न्॑ । स॒ह॒स्रा॒क्षो गो᳚त्र॒भिद्-वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णं दधातु ॥ये ते᳚ऽर्यमन् ब॒हवो॑ देव॒यानाः॒ पन्था॑नो - [ ]
पदपाठः (Word-by-word)
श्र॒द्धाम॑ना॒ इति॑ श्र॒द्धा - म॒नाः॒ । ह॒विषा᳚ । ब्रह्म॑णः । पति᳚म् ॥ सः । सु॒ष्टुभेति॑ सु - स्तुभा᳚ । सः । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒गम् । रवे॑ण ॥ बृह॒स्पतिः॑ । उ॒स्त्रियाः᳚ । ह॒व्य॒सूद॒ इति॑ हव्य - सूदः॑ । कनि॑क्रदत् । वाव॑शतीः । उदिति॑ । आ॒ज॒त् ॥ मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । या । वः॒ । शर्म॑ ॥ अ॒र्य॒मा । एति॑ । या॒ति॒ । वृ॒ष॒भः । तुवि॑ष्मान् । दा॒ता । वसू॑नाम् । पु॒रु॒हू॒त इति॑ पुरु - हू॒तः । अर्.हन्न्॑ ॥ स॒ह॒स्रा॒क्ष इति॑ सहस्र - अ॒क्षः । गो॒त्र॒भिदिति॑ गोत्र-भित् । वज्र॑बाहु॒रिति॒ वज्र॑ - बा॒हुः॒ । अ॒स्मासु॑ । दे॒वः । द्रवि॑णम् । द॒धा॒तु॒ ॥ ये । ते॒ । अ॒र्य॒म॒न्न् । ब॒हवः॑ । दे॒व॒याना॒ इति॑ देव - यानाः᳚ । पन्था॑नः ।