राजन् दि॒व आ॒चर॑न्ति । तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ बु॒द्ध्नादग्र॒-मङ्गि॑रोभि-र्गृणा॒नो वि पर्व॑तस्य दृꣳहि॒तान्यै॑रत् । रु॒जद्रोधाꣳ॑सिकृ॒त्रिमा᳚ण्येषाꣳ॒॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार ॥ बु॒द्ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीनां᳚ । वृथा॑ ऽसृजत् प॒थिभि॑ र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
पदपाठः (Word-by-word)
रा॒ज॒न्न् । दि॒वः । आ॒चर॒न्तीत्या᳚ - चर॑न्ति ॥ तेभिः॑ । नः॒ । दे॒व॒ । महि॑ । शर्म॑ । य॒च्छ॒ । शम् । नः॒ । ए॒धि॒ । द्वि॒पद॒ इति॑ द्वि - पदे᳚ । शम् । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ॥ बु॒द्ध्नात् । अग्र᳚म् । अङ्गि॑रोभि॒रित्यङ्गि॑रः-भिः॒ । गृ॒णा॒नः । वीति॑ । पर्व॑तस्य । दृꣳ॒॒हि॒तानि॑ । ऐ॒र॒त् ॥ रु॒जत् । रोधाꣳ॑सि । कृ॒त्रिमा॑णि । ए॒षा॒म् । सोम॑स्य । ता । मदे᳚ । इन्द्रः॑ । च॒का॒र॒ ॥ बु॒द्ध्नात् । अग्रे॑ण । वीति॑ । मि॒मा॒य॒ । मानैः᳚ । वज्रे॑ण । खानि॑ । अ॒तृ॒ण॒त् । न॒दीना᳚म् ॥ वृथा᳚ । अ॒सृ॒ज॒त् । प॒थिभि॒रिति॑ प॒थि - भिः॒ । दी॒र्घ॒या॒थैरिति॑ दीर्घ - या॒थैः । सोम॑स्य । ता । मदे᳚ । इन्द्रः॑ । च॒का॒र॒ ॥