प्र यो ज॒ज्ञे वि॒द्वाꣳ अ॒स्य बन्धुं॒ ॅविश्वा॑नि दे॒वो जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मद्ध्या᳚न्नी॒चादु॒च्चा स्व॒धया॒ऽभि प्रत॑स्थौ ॥म॒हान् म॒ही अ॑स्तभाय॒द्वि जा॒तो द्याꣳ सद्म॒ पार्थि॑वं च॒ रजः॑ । स बु॒द्ध्नादा᳚ष्ट ज॒नुषा॒ऽभ्यग्रं॒ बृह॒स्पति॑ र्दे॒वता॒यस्य॑ स॒म्राट् ॥ बु॒द्ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः ( ) । भि॒नद्व॒लं ॅवि पुरो॑ दर्दरीति॒ कनि॑क्रद॒थ् सुव॑र॒पो जि॑गाय ॥
पदपाठः (Word-by-word)
प्रेति॑ । यः । ज॒ज्ञे । वि॒द्वान् । अ॒स्य । बन्धु᳚म् । विश्वा॑नि । दे॒वः । जनि॑मा । वि॒व॒क्ति॒ ॥ ब्रह्म॑ । ब्रह्म॑णः । उदिति॑ । ज॒भा॒र॒ । मद्ध्या᳚त् । नी॒चा । उ॒च्चा । स्व॒धयेति॑ स्व - धया᳚ । अ॒भि । प्रेति॑ । त॒स्थौ॒ ॥ म॒हान् । म॒ही इति॑ । अ॒स्त॒भा॒य॒त् । वीति॑ । जा॒तः । द्याम् । सद्म॑ । पार्त्थि॑वम् । च॒ । रजः॑ ॥ सः । बु॒द्ध्नात् । आ॒ष्ट॒ । ज॒नुषा᳚ । अ॒भीति॑ । अग्र᳚म् । बृह॒स्पतिः॑ । दे॒वता᳚ । यस्य॑ । स॒म्राडिति॑ सं-राट् ॥ बु॒द्ध्नात् । यः । अग्र᳚म् । अ॒भ्यर्तीत्य॑भि-अर्ति॑ । ओज॑सा । बृह॒स्पति᳚म् । एति॑ । वि॒वा॒स॒न्ति॒ । दे॒वाः ( ) ॥ भि॒नत् । व॒लम् । वीति॑ । पुरः॑ । द॒र्द॒री॒ति॒ । कनि॑क्रदत् । सुवः॑ । अ॒पः । जि॒गा॒य॒ ॥