प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.4.1 TS 2.3.4.1
अ॒र्य॒म्णे च॒रुं निर्व॑पथ् सुव॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्यो᳚ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनꣳ॑ सुव॒र्गं ॅलो॒कं ग॑मयत्यर्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒रित्य॒सौ वा आ॑दि॒त्यो᳚ऽर्य॒मा यः खलु॒ वै ददा॑ति॒ सो᳚ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा - [ ]
पदपाठः (Word-by-word)
अ॒र्य॒म्णे । च॒रुम् । निरिति॑ । व॒पे॒त् । सु॒व॒र्गका॑म॒ इति॑ सुव॒र्ग-का॒मः॒ । अ॒सौ । वै । आ॒दि॒त्यः । अ॒र्य॒मा । अ॒र्य॒मण᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ग॒म॒य॒ति॒ । अ॒र्य॒म्णे । च॒रुम् । निरिति॑ । व॒पे॒त् । यः । का॒मये॑त । दान॑कामा॒ इति॒ दान॑-का॒माः॒ । मे॒ । प्र॒जा इति॑ प्र-जाः । स्युः॒ । इति॑ । अ॒सौ । वै । आ॒दि॒त्यः । अ॒र्य॒मा । यः । खलु॑ । वै । ददा॑ति । सः । अ॒र्य॒मा । अ॒र्य॒मण᳚म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः)। (स्वर्गकामादीष्टिविधिः)

तृतीये यज्ञविभ्रष्टो यः कामं प्राप्तुमिच्छति। ब्रह्मवर्चसकामो यः क्लीबत्वाद्यो बिभेति च ।। १ ।।

ग्रामकामो ब्राह्मणो यो विशः स्थापनमिच्छति। एतेषामिष्टयः प्रोक्तास्तत्तत्फलसमाप्तये ।। २ ।।

"अथ चतुर्थे स्वर्गकामादीनामिष्टयो विधातव्याः। तत्र स्वर्गार्थिन इष्टिं विधत्ते अर्यम्णे चरुमिति। प्रतिग्रहार्थिनस्तामेवेष्टिं विधत्ते अर्यम्णे चरुमिति। लोके यः कोऽपि द्रव्यं ददाति सोऽयं ददाति सोऽयं सूर्यवत्कीर्त्या भासमानत्वादर्यमेत्युपचर्यते। तं प्रेरयितुं मुख्यायार्यम्णे चरुर्युक्तः। सभां जिगमिषोरिष्टिं विधत्ते अर्यम्णे चरुमिति। स्वस्ति निर्विघ्नेन, जनतां जनसमूहम्। य समानांना मध्ये श्रैष्ठ्यमलभमानस्तदीयानुजाववरो निकृष्टो वर्तते तस्य श्रैष्ठप्राप्त्यर्थमिष्टिं विधातुं प्रस्तौति इन्द्रो वै देवानामिति। अनु पश्चाज्जातो भ्राताऽनुजस्तस्मादप्यवरोऽनुजावरस्तद्वद्वर्तमान आनुजावरः। अत्यन्तनिकृष्ट इत्यर्थः। ब्रीहिस्तम्बेषु लूनेष्ववशिष्टमूलेभ्योऽनुसूयन्ते पश्चादुत्पद्यन्त इति द्वितीयाफलरूपा ब्रीहयोऽनुषूकाः, तेभ्यो निष्पन्नमानुषूकम्। तेन हविषा प्रजापतिर्दवतानां मध्य इदं श्रैष्ठ्यं प्रापितवान्। बुध्नशब्दोऽस्ति ययोऋचोस्ते बुध्नवत्यौ। अग्रशब्दोऽस्ति ययोऋचोस्ते अग्रवत्यौ। बुध्नादग्रं बुध्नादग्रेणेत्येते अन्त्यानुवाके समाम्नास्यमाने। बुध्नान्मूलादारभ्याग्रमवसानं प्रापयत्। कर्मानुष्ठानकालमारभ्य यावज्जीवं श्रैष्ठयं प्रापितवानित्यर्थः। अथ विधत्ते यो राजन्य इति। य आनुषूक आनुजावर एतस्येयमानुषूकधान्यभागिन्येव देवता युक्ता। सदृशत्वात्। तस्मादानुषूकपुरोडाशः समृद्ध्यै संपद्यते। आनुजावरब्राह्मणस्येष्टिं विधत्ते यो ब्राह्मण इति। अत्र प्र यो जज्ञे महान्मही, इति द्वे याज्यानुवाक्ये स बुध्नादाष्ट अनुषाऽभ्यग्रमिति बुध्नाग्रशब्दयोस्तत्र विद्यमानत्वात्।। इति श्रीमत्सायणाचार्यविरचिते माघवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अर्यम्ण इत्यादि ॥ गतम् । अरीन् यमयतीत्यर्यमा । इन्द्र इति केचित् । यम इत्यपरे । सूर्य इत्यन्ये । याज्याया इन्द्रमनू त्पन्नत्वात् ॥
2 यः खल्विति ॥ दातुरर्यमत्वं ताद्धर्म्यात् ॥
3 स्वस्तीति ॥ अविघ्नेन । तद्गमयतीति । गन्तव्यं स्वस्ति गसयति, अरणहेतुरर्यमेति ॥
4 इन्द्रो वा इत्यादि ॥ आनुजावर इव आसीत् । आनुजावरोपकर्षते [रोपकृष्टतरः] । आनुषूकमिति । अनुषूयन्त इत्यानुषूकाः व्रीहिविशेषाः । ये लूनेभ्यः स्तम्बेभ्यः स्वयं पुनःप्ररोहन्ति तत्प्रभवाणां व्रीहीणामियं संज्ञा । 'सत्सूद्विष' इत्य[इति] क्विप्, अल्पार्थे प्रागिवीयः, सुषामादित्वात्षत्वम् । तेषां विकारः पुरोडाशः आनुषूकः । कोपधादण् । अग्रं प्राधान्यं देवतानां पर्यणयत् सर्वतः प्रापयत् । बुध्नवती इति । 'बुध्नादग्रमङ्गिरोभिः' इति पुरोनुवाक्या, 'बुध्नादग्रेण वि मिमाय मानैः' इति याज्या । बुध्नादेवेति । मूलादेवारभ्य दृढमूलमिति यावत् । आनुजावर इति । अनुजः कनिष्ठः । तस्मान्निकृष्टैश्वर्यो योनुजस्य गुणभूतो भवति सोनुजावरः स एवानुजावरः । 'सान्नाय्यानुजावर' इत्यादिना स्वार्थिकोण् । एषा हीति । य आनुजावरः एतस्य एषा देवता । का ? या आनुषूकस्य, आनुषूकभागी इन्द्र इत्यर्थः ॥
5 यो ब्राह्मण इत्यादि ॥ ब्राह्मणानुजावरविषये बार्हस्पत्यचरुविधिः । शेषो गतः ॥
इति द्वितीये तृतीये चतुर्थोनुवाकः ॥