प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.5.1 TS 2.3.5.1
प्र॒जाप॑ते॒स्त्रय॑स्त्रिꣳशद् दुहि॒तर॑ आस॒न् ताः सोमा॑य॒ राज्ञे॑ऽददा॒त् तासाꣳ॑ रोहि॒णीमुपै॒त् ता ईर्ष्य॑न्तीः॒ पुन॑रगच्छ॒न् ता अन्वै॒त् ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒थ् सो᳚ऽब्रवीदृ॒तम॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र्दास्या॒मीति॒ स ऋ॒तमा॑मी॒त् ता अ॑स्मै॒ पुन॑रददा॒त् तासाꣳ॑ रोहि॒णीमे॒वोप॒त् - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । दु॒हि॒तरः॑ । आ॒स॒न्न् । ताः । सोमा॑य । राज्ञे᳚ । अ॒द॒दा॒त् । तासा᳚म् । रो॒हि॒णीम् । उपेति॑ । ऐ॒त् । ताः । ईर्ष्य॑न्तीः । पुनः॑ । अ॒ग॒च्छ॒न्न् । ताः । अन्विति॑ । ऐ॒त् । ताः । पुनः॑ । अ॒या॒च॒त॒ । ताः । अ॒स्मै॒ । न । पुनः॑ । अ॒द॒दा॒त् । सः । अ॒ब्र॒वी॒त् । ऋ॒तम् । अ॒मी॒ष्व॒ । यथा᳚ । स॒मा॒व॒च्छ इति॑ समावत् - शः । उ॒पै॒ष्यामीत्यु॑प - ए॒ष्यामि॑ । अथ॑ । ते॒ । पुनः॑ । दा॒स्या॒मि॒ । इति॑ । सः । ऋ॒तम् । आ॒मी॒त् । ताः । अ॒स्मै॒ । पुनः॑ । अ॒द॒दा॒त् । तासा᳚म् । रो॒हि॒णीम् । ए॒व । उपेति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे तृतीयपाठके पञ्चमोनुऽवाकः।) (राजयक्ष्मगृहीतस्येष्टिविधिः)

स्वर्मकामो दानकामः सभां गन्तुं य इच्छति। राजन्यो ब्राह्मणश्च द्वौ यौ स्यातामानुजावरौ।।

तुर्येनुवाक एतेषामाम्नाता इष्टयः क्रमात् ।। १ । । पञ्चमे राजयक्ष्मगृहीतस्येष्टिं विधातुं प्रस्तौति

"प्रजापतेरिति। अम्बा दुला नितत्निरभ्रयन्ती मेघयन्ती वर्षयन्ती चुषुणीका इत्येवमाम्नाताः सप्त कृत्तिकाः। अवशिष्टा अश्विन्यादयः षड्विंशतिता (स्ता) रकाः। ता एतास्त्रयस्त्रिंशत्। तत्र रोहिणीव्यक्तिरिका ईर्ष्यन्तीस्तदीयं सुखमसहमानाः पुनः प्रजापतिमगच्छन्। सोमस्ता अनुगम्य प्रजापतिं याचितवान्। स प्रजापतिरेवमब्रवीच्छपथं प्रतिपद्यस्व तद्यथा समावच्छः साम्येन ता उपैष्यामिति ततस्ताः पुनर्दास्यामीति। स च सोमः शपथं कृत्वा ताः स्वीकृत्य शपथमुल्लङ्घ्य पूर्ववद्रोहिणीमेवोपैत। ततः स यक्ष्मव्याधिगृहीतोऽभूत्। ततो राजानं यक्ष्मः प्राप्तवानीति व्युत्पत्ता राजयक्ष्मनाम्नो व्याधेर्जन्म संपन्नम्। य स्माज्जायाभ्यो विमित्तभूताभ्यो व्याधिमलभत तस्माज्जायेन्यनामकस्य व्याधेर्जन्म संपन्नम्। त एते त्रयो यक्ष्मव्याधेरवान्तरविशेषाः, सज्जन्मवेदिनो व्याधेरलाभः फलम्। तत सोमेन नमस्कृताः सेविताश्चैताः सर्वाः साम्येनोपगमनं वरं वृत्वा व्याधिपरिहाराय चरुं निरुप्य सोमं तस्मात्पापात्स्रामात्प्रबलाद्रोगादमोचयत्। इदानीं विधत्ते यः पापयक्ष्मेति। आदित्यानित्यर्थवादे श्रवणादस्य चरोरदितिदेवता न भवति। पौर्णमासीं वारयितुं विधत्ते अमावास्यायामिति। अमावास्यायामतीतायां शुक्लप्रतिपदमारभ्य सोमस्य कलावृद्ध्याऽऽप्यायनं भवति। चतुर्थप्रपाठकस्यान्त्यानुवाके समाम्नास्यमाने ऋचौ विधत्ते नवोनव इति। ते एते ऋचो तत्रैव व्याख्यास्येये। प्रथमायामृच्यन्ते दीर्घमायुस्तिरतीत्युक्तत्वात्तत्पाठेनाऽऽयुष्प्राप्तिः। अमावास्यायामादित्ये प्रविष्टानां चन्द्रकलानां पुनरादित्यादेव चन्द्रेण लब्धत्वाच्चन्द्रोत्कर्ष आदित्यस्यैवोत्कर्ष इति कृत्वा तस्या ऋच आदित्यचराववैयधिकरण्यम्। द्वितीयस्यामृच्याप्याययतीति श्रवणात्तयर्चा यजमानस्याऽऽप्यायनं युक्तम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रजापतेस्त्रयस्त्रिंशदित्यादि ॥ अश्विन्यादयस्सप्तविंशतिस्तारकाभिमानिन्यः ; ऋद्ध्या दयष्षडन्या इत्येके । अन्ये तु - षट्कृत्तिकाः अभिजिदेका अश्विन्यादयष्षद्विंशतिरिति त्रयस्त्रिंशत्तारका इत्याहुः । ईर्ष्यन्तीरिति । सपत्नीबहुमानमसहमानाः पितरमेव पुनरगच्छन् । ता अन्वगच्छत् सोमः अयाचत प्रजापतिम् । ततस्तास्सोमाय नाददात्प्रजापतिः । अथ स प्रजापतिरब्रवीत् सोमं ऋतं सत्यममीष्व प्रतिपद्यस्व शपथं कुरु, सत्येनेति यावत् । शपो लुक्, छान्दस इडागमः । शपथप्रयोगं दर्शयति - यथेति । यथा इदमर्थरूपं समावच्छ उपैष्यामीति एवं शपथः क्रियताम् । अथैतास्तुभ्यं पुनर्दास्यामीति । समादावतुप् स्वार्थिकः । सममित्यर्थः । ततः 'सङ्ख्यैकवचनात्' इति शसः क्रियाविशेषणत्वात्कर्मत्वम् । सर्वेष्वप्यहस्सु सममेवैताः सर्वा उपेष्यामीत्यर्थः । स सोमस्तथाकरोत्, प्रजापतिश्च पुनरदात् । अथ सोमः पुनरपि तासां मध्ये रोहिणीमेवोपैत्, अथ सत्यातिक्रमात् तं सोमं यक्ष्मः क्षयरोगः आर्तमकरोत् । यक्ष पूजायाम्, औणादिको मन्प्रत्ययः । रोगोत्तमत्वं पूजा । राजानमित्यादि । राज्ञो यक्ष्मः राजयक्ष्म इति । पापीयानिति । पुरुषान्तरयक्ष्मात्पापतरत्वात्पापश्चासौ यक्ष्मश्चेति । जायाभ्य इति । 'तत आगतः' इति छान्दस एन्यः । य एवमिति । एकस्यैव यक्ष्मस्य निमित्तभेदेन त्रित्वमुपचर्यते । विन्दतीति । बाधितुं न लभन्ते । अथ सोमः प्रजापतिं मुक्त्वा एता जाया नमस्यन् पूजयन् उपाधावत् आर्तोस्मि प्रसीदन्तु भवत्य इति । अथ ता अब्रुवन् वरं वृणामहै सममेव चास्मानुपायः उपगच्छेति तुल्यप्रतिपत्तयो वयं स्यामेति । इत्थमिदं करिष्यामीति सोमेनाभ्युपगते तस्मै आदित्यं चरुं निरवपन् जायाः, तेनैव पापात्स्रामाद्रोगादेनममुञ्चन् ॥
2 य इत्यादि ॥ गतम् । अमावास्यायामिति शुक्लप्रतिपत्प्रभृति आप्यायते चन्द्रः, तमनु यममानमाप्याययति ॥

एवैनमिति । एतया आप्याययत्येव ॥

इति द्वितीये तृतीये पञ्चमोनुवाकः ॥