प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.7.1 TS 2.3.7.1
दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् तान् दे॒वानसु॑रा अजय॒न् ते दे॒वाः प॑राजिग्या॒ना असु॑राणां॒ ॅवैश्य॒मुपा॑ऽऽय॒न् तेभ्य॑ इन्द्रि॒यं ॅवी॒र्य॑मपा᳚क्राम॒त् तदिन्द्रो॑ऽचाय॒त् तदन्वपा᳚क्राम॒त् तद॑व॒रुधं॒ नाश॑क्नो॒त् तद॑स्मादभ्य॒र्द्धो॑ ऽचर॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तमे॒तया॒ सर्व॑पृष्ठयाऽयाजय॒त् तयै॒वास्मि॑न्निन्द्रि॒यं ॅवी॒र्य॑मदधा॒द्य इ॑न्द्रि॒यका॑मो - [ ]
पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं-य॒त्ताः॒ । आ॒स॒न्न् । तान् । दे॒वान् । असु॑राः । अ॒ज॒य॒न्न् । ते । दे॒वाः । प॒रा॒जि॒ग्या॒ना इति॑ परा - जि॒ग्या॒नाः । असु॑राणाम् । वैश्य᳚म् । उपेति॑ । आ॒य॒न्न् । तेभ्यः॑ । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अपेति॑ । अ॒क्रा॒म॒त् । तत् । इन्द्रः॑ । अ॒चा॒य॒त् । तत् । अनु॑ । अपेति॑ । अ॒क्रा॒म॒त् । तत् । अ॒व॒रुध॒मित्य॑व - रुध᳚म् । न । अ॒श॒क्नो॒त् । तत् । अ॒स्मा॒त् । अ॒भ्य॒र्द्ध इत्य॑भि - अ॒र्द्धः । अ॒च॒र॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तम् । ए॒तया᳚ । सर्व॑पृष्ठ॒येति॒ सर्व॑ - पृ॒ष्ठ॒या॒ । अ॒या॒ज॒य॒त् । तया᳚ । ए॒व । अ॒स्मि॒न्न् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अ॒द॒धा॒त् । यः । इ॒न्द्रि॒यका॑म॒ इती᳚न्द्रि॒य - का॒मः॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः)। (इन्द्रियसामर्थ्यशरीरसामर्थ्यकामस्येष्टिविधिः)

षष्ठेऽन्नादनकामस्य त्रिधातुर्यांग ईरितः।। अथेन्द्रियसामर्थ्यं शरीरसामथ्यं च कामयमानस्येष्टिं विधातुं प्रस्तौति

"देवासुरा इति। पराजिग्यानाः पराजयं प्राप्नुवन्तो देवा असुराणां संबन्धि वैश्यं प्राप्ताः विशो भावो वैश्यम्, असुरसेवकप्रजारूपत्वमित्यर्थः। तदानीं तेषां यदिन्द्रियसामर्थ्यं यच्छरीरसामर्थ्यं तदुभयं तेभ्यो देवेभ्योऽपाक्रामत्। इन्द्रस्तद्विदित्वा तत्सामर्थ्यद्वयमनु स्वयमप्यवरोद्धुमकामत्। गत्वा च तदवरोद्धुं नाशक्नोत्। तदानीमिन्द्रोऽस्मात्सामर्थ्यद्वयादभिप्राप्तार्धः सन्नचरत्। तत इतरार्धप्राप्त्यर्थं प्रजापतिमुपसेव्य सर्वपृष्ठयेष्ट्या संपूर्णं प्राप्तवान्। रथंतरबृहद्वैरूपवैराजशाक्वररैवतसाध्यानि सर्वाणि पृष्ठस्तोत्राणि तैर्युक्त इन्द्रोऽत्र देवता। तस्मादियमिष्टिः सर्वपृष्ठा। नात्र स्तोत्रपाठः प्रयोक्तव्यः, किं तु स्तोत्राभिज्ञत्वं देवताया विशेषणम्।। इदानीं विधत्ते य इन्द्रियकाम इति। राथंतरादिगुणाविशिष्टाः षडिन्द्रविशेषा एता एव देवता इत्युच्यन्ते।।तान्देवताविशेषान्विधत्ते यदिन्द्रायेति। पृष्ठस्तोत्रनिष्पादकं रथंतरं साम वेत्तीति राथंतरः। एवं बार्हतादिषु योज्यम्। अग्नीन्द्रादीना रथंतरादिसामाभिमानित्वाद्राथंतरत्वादिविशेषणैस्तदीयतेजः प्राप्तिर्भवति। पूर्वोक्तत्रिधाताविव विशेषं विधत्ते—"

"उत्तानेष्विति। अत्र निर्वापविधिभेदात्पुरोडाशषट्कप्राप्तेस्तदपवादायैकत्वं विधत्ते द्वादशकपाल इति। अन्यत्र वैश्वदेवं द्वादशकपालं ग्रामकाम इत्यादि विधानात्कपालगतद्वादशसंख्या विश्वेषां देवानां प्रिया। अतोऽत्रापि यथोक्तगुणविशिष्टानां विश्वेषामिन्द्रादिदेवानां प्राप्तिर्भवति। यदुक्तं सूत्रकारेण—सर्वपृष्ठां निर्वपति यदिन्द्राय राथंतरायेति यथासामाभ्नातं द्वादशसूत्तानेषु कपालेष्वधिश्रयति प्रचरणकाले पूर्वार्धात्प्रथमां देवतां यजत्येवमितराः प्रदक्षिणमुत्तरापवर्गं समन्तं पर्यवद्यति इत्युक्तम् ति)। अभि त्वा शूर नोनुम इति षड्ऋचो व्यत्यासमन्वाहेति (ह) कदा चन स्तरीरसीति चतुर्थं दधाति इति च। तत्र पूर्वार्धादित्यादिनोक्तं सर्वतोऽवदानं विधत्ते समन्तमिति। चतुर्थप्रपाठकस्यान्त्यानुवाके समाम्नास्यमानाना त्वा शूर नोनुम इत्यादीनां पञ्चानामृचां चतुर्थीत्वेन प्रक्षेष्यमाणायाः चन स्तरीरसीत्यस्याश्च पूर्वोक्तत्रिधातुन्यायेनैकैकस्याःपुरोनुवाक्यात्वं याज्या विधत्ते व्यत्यासमिति। चोदकप्राप्तामन्वाहार्यदक्षिणां बाधितुं विधत्ते अश्व ऋषभ इति। अविजातौ पुमान्वृष्णिः अजजातौ पुमान्वस्तः वृषत्वाय पुस्त्वाधिक्याय। मिथ्यापवादपरिहारार्थं तामेवेष्टिं विधत्ते एतयैवेति। एता राथंतरेन्द्रादयो देवता अस्यान्नं पुरोडाशरूपं यद्यदन्ति तदानीं मनुष्याः सर्वथाऽप्यदन्त्येव वैदमनूच्याचार्योऽन्तेवासिनमनुशास्ति इत्यादौ शिष्यानुशासने शिष्यस्य मिथ्यापवादयुक्तेषु व्यवहारसंदेहे साति शिष्टाचारेण निर्णय आम्नातः-“यथा ते तेषु वर्तेरन्, तथा तेषु वर्तेथाः” इति। यदा मनुष्येष्वपि शिष्टानामाचारो नियामकस्तदा देवतानामाचारो नियामक इति किमु वक्तव्यमिभिप्रेत्यादन्त्येवेत्यवस्थापितम्। "

अथ मीमांसा।

तृतीयाध्यायस्य पञ्चमपादे चिन्तितम्— “रथंतरादिभिर्भिन्ना इन्द्रास्तेषां न भिद्यते। पुरोडाशस्तत्र शेषकार्य किं भिद्यते न वा। भिद्येत कर्मणां भेदाच्चोदकैः पृथगुक्तितः। शेषस्य सर्वतुल्यत्वात्तत्कार्यं सकृदिष्यताम्।।”

(य) इन्द्रियकामो वीर्यकामः स्यात्तमेतया सर्वपृष्ठया याजयेदिति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते—“इन्द्राय राथंतरायेन्द्राय बार्हतायेन्द्राय वैराजायेन्द्राय शाव्करायेयन्द्राय रैवताय” इति। तत्र स्वरूपेणैकोऽपीन्द्रः पृष्ठस्तो त्रेषु षट्सु विहितानां षण्णां रथंतरादिसाम्नां संबन्धेन विशेष्यमाणः षोढा भिद्यते। तासां सर्वासामिन्द्रदैवतानामेक एव पुरोडाशो विधीयते—“द्वादशकपालः पुरोडाशो भवति वैश्वदेवत्वाय” इति। तस्मिन्पुरोडाश उक्तदेवताभ्यः पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्योऽवदानं श्रूयते “समन्तं पर्यवद्यति” इति। तत्र देवता प्रदेन प्रदानभेदेन च कर्मणां भेदे सति चोदकैः पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्यं षट्कृत्वः पृथक्कर्तव्यमिति चेन्मैवम्। शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् तस्मात्सकृदेव कार्यम्।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके

सप्तमोऽनुवाकः ।। ७ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

'देवासुरा इत्यादि ॥ पराजीग्यानाः पराजयं प्राप्तवन्तः । लिटः कानच्, 'सन्लिटोर्जेः' इति कुत्वम् । वैश्यं विट्त्वं, विशः प्रजाः किङ्करादयः । गुणवचनलक्षणष्ष्यञ् । तेभ्य इति । वैश्यं प्रतिपद्यमानेभ्यः देवेभ्यस्तेषामिन्द्रियं वीर्यं चापाक्रामत् । इन्द्रस्तच्छ्रुत्वा तदनु देवसकाशादपाक्रामत् तदवरुरुत्सया । अथ तदवरोद्धुं नाशक्नोत् । 'शकिणमुल्कमुलौ' इति कमुल् । तदस्मादिति । तत् तदा अस्मादिन्द्रियात् वीर्याच्च अभ्यर्धः अर्धमभिगतः न सर्वं, स्ववीर्येणार्धं लब्ध्वाचरदिन्द्रः । अथार्धान्तरं लिप्समानः प्रजापतिमुपाधावत् । स चैनं सर्वपृष्ठेष्ट्यायाजयत् । सर्वाणि पृष्ठानि स्तोत्राणि रथन्तरबृहद्वैरूपवैराजशाक्वररैवताख्यानि यस्यामिन्द्रविशेषणत्वेन सन्ति सा तथाक्तो । तयेत्यादि । गतम् ॥

2 एता इति ॥ राथन्तरादीन्द्रविशेषान् । यदित्यादि । रथन्तरस्य पृष्ठसाम्नस्सम्बन्धी राथन्तरः । उत्सादित्वादञ् । एवं बार्हतायेत्यत्रापि । वैरूपादयोऽणन्ताः ॥
3 यदेवाग्नेरित्यादि ॥ रथन्तरस्याग्निभक्तत्वात् । यथा 'तमग्निर्देवतान्वसृज्यत गायत्री छन्दो रथन्तरं साम' इति । एवं सर्वत्र द्रष्टव्यम् ॥
4 उत्तानेष्वित्यादि ॥ व्याख्यातम् । तत्रायं प्रयोगः - इन्द्राय राथन्तराय चतुरो मुष्टीन् व्रीहीणां निरुप्य पुनरपि बार्हताद्यै एकैकस्यै देवतायै चतुरश्चतुरो मुष्टीन्निरुप्य हविष्कृता वाचं विसृज्य गार्हपत्ये द्वादशोत्तानानि कपालान्युपधायाधिश्रयतीति ॥
5 द्वादशकपाल इति ॥ एकः पुरोडाशो द्वादशकपालः कार्यः वैश्वदेवत्वाय द्वादशकपालस्य विश्वेदेवसम्बन्धित्वात् ॥
6 समन्तमिति ॥ पूर्वार्धादारभ्य प्रदक्षिणमुत्तरापवर्गं परितोवद्यति ॥
7 व्यत्यासमिति ॥ 'त्वामिद्धि हवामहे' इति षडृचो व्यत्यस्यान्वाह । तद्यथा - 'इन्द्राय राथन्तरायानुब्रूहि' इत्युक्ते 'अभि त्वा शूर नोनुमः' इत्यनूच्य 'त्वामिद्धि हवामहे' इति यजति । 'इन्द्राय बार्हतायानुब्रूहि' इत्युक्ते 'त्वामिद्धि हवामहे' इति यजति । 'इन्द्राय बार्हतायानुब्रूहि' इत्युक्ते 'त्वामिद्धि हवामहे' इत्यनूच्य 'यद्याव इन्द्रते' इति यजति । 'इन्द्राय वैरूपायानुब्रूहि' इत्युक्ते 'यद्याव इन्द्र' इत्यनूच्य 'पिबा सोममिन्द्र' इति यजति । 'इन्द्राय वैराजायानुब्रूहि 'इत्युक्ते 'पिबा सोममिन्द्र' इत्यनूच्य 'कदा चन स्तरीरसि' इति यजति । 'इन्द्राय शाक्वरायानुब्रूहि' इत्युक्ते 'कदा चन स्तरीरसि' इत्यनूच्य 'रेवतीर्नस्सधमादः' इति यजति । 'इन्द्राय रैवतायानुब्रूहि' इत्युक्ते 'रेवतीर्नस्सधमादः' इत्यनूच्य 'अभि त्वा शूर नोनुमः' इति यजति ॥
8 अश्व इत्यादि ॥ अन्वाहार्यमासाद्य अश्वादीन् दक्षिणां दद्यात् । वृषत्वायेति । वृषत्वं सेक्तृवं वीर्यवत्त्वम् । एषां दानं वृषत्वाय भवति यजमानस्य ; सेक्तृत्वादेषाम् ॥
9 अभिशस्यमान इति ॥ परिवदनारोपणं दूषणमभिशंसः । एताश्चेदिति । एता देवता अस्यान्नमदन्ति चेत् अदन्त्येवास्यान्नं मनुष्याः ; अभिशस्तत्वान्मुक्तो भोज्यान्न एव भवतीति यावत् । 'उकारोपृक्तः प्रकृत्या वकारोन्तरेः' इति संहितायां वकार आगमः, 'तन्वादीनां बहुलम्' इति संहितायामुवङ्वा ॥
इति द्वितीये तृतीये सप्तमोनुवाकः ॥