भवति वैश्वदेव॒त्वाय॑ सम॒न्तं प॒र्यव॑द्यति सम॒न्तमे॒वेन्द्रि॒यं ॅवी॒र्यं॑ ॅयज॑माने दधाति व्य॒त्यास॒-मन्वा॒हानि॑र्दाहा॒याश्व॑ ऋष॒भो वृ॒ष्णिर्ब॒स्तः सादक्षि॑णावृष॒त्वायै॒तयै॒वय॑जेताभिश॒स्यमा॑न ए॒ताश्चेद्वा अ॑स्यदे॒वता॒ अन्न॑म॒दन्त्य॒दन्त्यु॑वे॒वास्य॑ मनु॒ष्याः᳚ ॥
पदपाठः (Word-by-word)
भ॒व॒ति॒ । वै॒श्व॒दे॒व॒त्वायेति॑ वैश्वदेव - त्वाय॑ । स॒म॒न्तमिति॑ सं - अ॒न्तम् । प॒र्यव॑द्य॒तीति॑ परि - अव॑द्यति । स॒म॒न्तमिति॑ सं - अ॒न्तम् । ए॒व । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । यज॑माने । द॒धा॒ति॒ । व्य॒त्यास॒मिति॑ वि - अ॒त्यास᳚म् । अन्विति॑ । आ॒ह॒ । अनि॑र्दाहा॒येत्यनिः॑ - दा॒हा॒य॒ । अश्वः॑ । ऋ॒ष॒भः । वृ॒ष्णिः । ब॒स्तः । सा । दक्षि॑णा । वृ॒ष॒त्वायेति॑ वृष - त्वाय॑ । ए॒तया᳚ । ए॒व । य॒जे॒त॒ । अ॒भि॒श॒स्यमा॑न॒ इत्य॑भि - श॒स्यमा॑नः । ए॒ताः । च॒ । इत् । वै । अ॒स्य॒ । दे॒वताः᳚ । अन्न᳚म् । अ॒दन्ति॑ । अ॒दन्ति॑ । उ॒ । ए॒व । अ॒स्य॒ । म॒नु॒ष्याः᳚ ॥