प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 2.3.9.1 TS 2.3.9.1
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विद् ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद् ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विदा म॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताः कु॑मा॒राः सम॑नस॒स्तान॒हं का॑मये हृ॒दा ते मां का॑मयन्ताꣳ हृ॒दा तान् म॒ आम॑नसः कृधि॒ स्वाहा ऽऽम॑नम॒स्या - [ ]
पदपाठः (Word-by-word)
ध्रु॒वः । अ॒सि॒ । ध्रु॒वः । अ॒हम् । स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । भू॒या॒स॒म् । धीरः॑ । चेत्ता᳚ । व॒सु॒विदिति॑ वसु - वित् । ध्रु॒वः । अ॒सि॒ । ध्रु॒वः । अ॒हम् । स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । भू॒या॒स॒म् । उ॒ग्रः । चेत्ता᳚ । व॒सु॒विदिति॑ वसु - वित् । ध्रु॒वः । अ॒सि॒ । ध्रु॒वः । अ॒हम् । स॒जा॒तेष्विति॑ स - जा॒तेषु॑ । भू॒या॒स॒म् । अ॒भि॒भूरित्य॑भि - भूः । चेत्ता᳚ । व॒सु॒विदिति॑ वसु - वित् । आम॑न॒मित्या - म॒न॒म् । अ॒सि॒ । आम॑न॒स्येत्या - म॒न॒स्य॒ । दे॒वाः॒ । ये । स॒जा॒ता इति॑ स - जा॒ताः । कु॒मा॒राः । सम॑नस॒ इति॒ स - म॒न॒सः॒ । तान् । अ॒हम् । का॒म॒ये॒ । हृ॒दा । ते । माम् । का॒म॒य॒न्ता॒म् । हृ॒दा । तान् । मे॒ । आम॑नस॒ इत्या - म॒न॒सः॒ । कृ॒धि॒ । स्वाहा᳚ । आम॑न॒मित्या - म॒न॒म् । अ॒सि॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे तृतीयप्रपाठके नवमोनुऽवाकः।) (सांग्रणीष्टिविधिः) अष्टमे दृष्टिकामस्य त्रिहविष्केष्टिरीरिता। अथ नवमे सांग्रहणीष्टिं विधास्यन्नादौ चोदकप्राप्तान्गन्धर्वोऽसि विश्वावसुरित्यादिकान्परिधिमन्त्रानपवदितुं मन्त्रान्तराणि दर्शयति ध्रुवोसीति। हे मध्यमपरिधे त्वं स्थिरोसि त्वदीयस्थापनेनाहमपि ज्ञातिषुमध्ये स्थिरो भूयासम्। किंच, धैर्यवानभिज्ञो धनवांश्च भूयासम्। एवं दक्षिणोत्तरपरिधिमन्वयोर्व्याख्या। ज्ञातीनां प्रतिवादित्वराहित्यायाज्ञाधारित्वमुग्रत्वम्। आज्ञामुल्लङ्घ्य प्रतिवादिनस्तिरस्कृत्वमभिभत्वम्। परिधिमन्त्रानाम्नायोपहोममन्त्रान्पठति आमनमस्येति। अत्र सजाताः कुमारा इति पदभेदमवलम्ब्यावशिष्टानुषङ्गेण मन्त्रद्वयं द्रष्टव्यम्। सजातानाकामयितुं मनुत इत्यामनम्। हे हूयमाना ज्य त्वं तादृशमसि। अत आमनस्य सजातानाकामयितुं मन्वानस्य यजमानस्य ये सजाता ज्ञातिप्रभृतयः समनसः समनस्का अनुकूलाः सन्ति हे देवास्तान्सजातानहं हृदा चित्तेन कामये। ते च मां हृदा कामयन्ताम्। तान्सजातान्मे मदर्थमामनोस मामाकामयितुं मन्वानान्कुरु। इदमाज्यं स्वाहुतम्। एवं कुमारमन्त्रस्त्रीमन्त्रौ व्याख्येयौ। इदानीमिष्टिं विधत्ते वैश्वदेवीमिति। मनसा परस्परमैकमत्येन सम्यक्स्वीकारः संग्रहणम्। तद्यस्यामिष्टावस्ति सा सांग्रहणी। तदेतदभिप्रेत्येष्टिविशेषणं प्रशंसति सांग्रहणीति। ज्ञातिमनसः स्वाधीनत्वेन ग्रहणं मनोग्रहणं, तदेव सम्यग्ग्रहणमित्युच्यते। ततः सांग्रहण्येष्ट्या सजातानां मनांसि स्वाधीन करोति। आदावाभ्नादान्मन्त्रान्विनियुङक्ते-"

ध्रुवोसीति। त्रिष्वपि मन्त्रेषु भूयासमित्यभिधानादाशासनं गम्यते। किं चैवं विदुषस्तैर्मन्त्रैः परिधाने सति सजातेषु मध्ये मन्त्रैः प्रार्थितम सर्वमधिकं संपद्यते। मन्त्रान्तराणि विनियुङक्ते आमनमसीति। अत्र सजाता ईत्यन्ते मन्त्रभागे सप्रनस इत्याद्युक्तभागोनुषञ्जनीयः। कुमारा इत्यादिके मन्त्रभाग आमनमसीत्यादिमन्त्रपूर्वभागोनुषञ्जनीयः। तथा सति त्रिभिर्मन्त्रैराहुतित्रयं संपद्यते। स्वकुले स्वजातिषु मध्येमे च ये महान्तः पुरुषाः प्रौढा ये च क्षुल्लका बाला याश्च पत्नीभगिनीमात्रादयः स्त्रिय एतावन्त एवापेक्षिताः सजातास्ताननयेष्ट्या स्वाधीनान्करोति। ते च जना स्वाधीना एव सन्त एनं सेवन्ते। अत्र विनियोगसंग्रहः-- ‘सांग्रहण्यां तु परिधीन्परिधत्ते ध्रुवस्त्रयात्। आमनेति त्रिभिस्तत्र उपहोमास्त्रयो मताः।। मन्त्रभेदः सजातेति कुमारेति पदद्वयात्’ ।।

"अत्र मीमांसा। दशमाध्यायस्च श्चतुर्थपादे चिन्तितम्। आमनाहुतिभिर्बाध्या अनुयाजा न वाग्रिमः। वित्वलिङ्गादिशिष्टोक्तेर्भेदो मध्योक्तितोन्तिमः ’।। इति। ‘सांग्रहणीष्टौ श्रूयते--- आमनस्यामनस्यदेवा इति तिस्र आहुतीर्जुहोति’ इति। एताभिस्तिसृभिराहुतिभिः प्राकृतास्रयोनूयाजा बाध्याः। कुतः। त्रित्वलिङ्गात। पूर्वाधिकरणे सप्तदशसंख्याविशिष्टप्राकृतपश्वभावेन मा भूद्बा ध्यत्वम्। इह तु त्रित्वविशिष्टत्वादनूजाया बाध्यन्ताम्। यदा-- तदनुवादेन मन्त्रगुणविधानात्प्राकृतमन्त्रबाध इति पूर्वः पक्षः। किं त्रित्वमात्रमनूद्य मन्त्र सहिता आहूतयो विधियन्ते, आहोस्वित्रित्वविशिष्टा आहुतीरनूद्य मन्त्रविधिः आद्ये त्रित्वनग्न्यादिष्वपि सत्वेन नानूयाजलिङ्गम्। द्वितीये विशेषणविशेष्ययोरुद्देश्ययोरेर्भेदेन वाक्यं भिद्येत। तत्कर्मान्तरविधानान्न वाधः, किंतु समूच्चयः। तत्र मध्योक्तिर्लिङ्गम्। तथा चाम्नायते—“यत्प्रयाजानूयाजानां पुरस्ताद्वोपरिष्टाद्वा जुहूयाद्बहिरात्मन्सजातामादधीताथ यन्मध्यतो जुहोति मध्यत एव सजातानात्यन्धते” इति। तस्मादामनहोमानामनूयाजैः सह समुच्चयः।।"

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके

नवमोनुवाकः ।। ९।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ साङ्ग्रहिणीमिष्टिं विधास्यति । तस्यां परिधिपरिधानमन्त्राः एते - ध्रुवोसीत्याद्याः । याजमानेषु व्याख्यातप्रायाः । ध्रुवो नित्योसि ; अहमपि सजातेषु ध्रुवो भूयासम् । धीरो धारयिता चेत्ता ज्ञाता वसुवित् धनानां वा लब्धा च भूयासम् ॥
2 अथ द्वितीयः - ध्रुवोसीत्यादि ॥ गतम् । उग्र उद्गूर्णः चेत्ता च वसुविच्च भूयासम् ॥
3 अथ तृतीयः - ध्रुवोसीत्यादि ॥ गतम् अभिभूः अभिभविता शत्रूणां छेत्ता वसुविच्च भूयासमिति ॥
4 अथ तस्यामेव पुरस्तात् स्विष्टकृत उपहोमाः - आमनमसीत्याद्याः ॥ एताश्च तिस्रः पञ्चपदाः पङ्क्तयः । 'आमनमस्यामनस्य देवा ये सजातास्समनसः' इति प्रथमा । 'ये कुमाराः' इति द्वितीया । 'यास्त्रियः' इति तृतीया । तत्र 'आमनमसि' इत्यादिकं सर्वं द्वितीयेपि मन्त्रे विनियुज्यते । तृतीये तु मन्त्रलिङ्गभेदात् सर्वं पुनराम्नायते । एते उपहोमाः सांग्रहिण्या एवाङ्गभूताः । आमनमिति च आमननकारणं सांग्रहिण्याख्यं कर्मोच्यते, हूयमानं वाज्यम् । अत्र सामर्थ्यात् समस्समासे आकार आगतः । संगृहीतं मनोस्मिन्निति आमनं । छान्दसोन्त्यलोपः । यद्वा - आभिमुख्येन मननं करोतीत्यामनम् । पचाद्यच्, छान्दसं पूर्वपदप्रकृतिस्वरत्वम् । पचाद्यजन्तेन वा प्रादिसमासः । ईदृशस्यास्य संबन्धिनो हे देवाः यूयमपीदं श्रोतुमर्हन्ति यदामनं ब्रूमहे इति देवम्ये आवेद्य पुनरप्यामनमाह – ये सजाता मया समानजन्मानः । कुमाराणां स्त्रीणां च वक्ष्यमानत्वात् महान्तः पुंस इति गम्यते । ब्राह्मणं च भविष्यति - 'एतावन्तो वै सजाता ये महान्तो ये क्षुल्लका यास्स्त्रियः' इति । तत्र गोबलीवर्दन्यायेन प्रथमे महतां ग्रहणम् । समनसः समानमनसः संगतमनसो वा ये सजाता महान्तो मम समनसः तानहं कामये हृदा हृदयेन ; समनस एव सदा कामये । तेपि मां तादृशमेव कामयन्ताम् हृदा हृदयेन । अवधानार्थं हृदयग्रहणम् । त्वमपि तानामनसः आगतमनसः सङ्गृहीतमनसः कृधि कुरु । शपो लुकि 'श्रुशृणुपॄकृवृभ्यः' इति धिभावः । स्वाहुतमिदं करोमीति ॥
5 अथ द्वितीयः - आमनमित्यादि ॥ बाल्ययौवनयोर्मध्ये वर्तमानाः कुमाराः । समानमन्यत् स्वाहान्तम् ॥
6 अथ - तृतीयः - आमनमित्यादि ॥ सर्वं ; स्त्रीलिङ्गन्तु विशेषः ॥
7 इदानीमिष्टं विदधाति - वैश्वदेवीमित्यादि ॥ मनसस्संग्रहणस्य हेतुत्वेन संबन्धिनी सांग्रहणी इष्टिः । चरुरत्रश्रप्यते ॥
8 ध्रुवोसीत्यादिना आम्नातानां मन्त्राणां विनियोगं दर्शयति - आशिषमिति ॥ ध्रुवो भूयासमित्यादिकाम् । अथो अपिच सजातेषु मध्ये एतत्सर्वं भवति यद्ध्रुवत्वं धीरत्वं वसुवत्त्वमित्यादि । एतत्सर्वं यथा श्रूयते तथा भवतिएतत्सर्वं प्राप्नोति । भू प्राप्तौ । न ग्रामप्राप्तिमात्रमेवेति भावः । यस्यैवंविदुष एतैर्मन्त्रिरेते परिधयः परिधीयन्ते ॥
9 'आमनम्' इत्यादि स्विष्टकृतः पुरस्तात् तिस्स्रस्रुवाहुतीरुपजुहोति । क्षुल्लकाः क्षुद्राः कुमाराः । क्षुधा लान्तीति क्षुल्लकाः । कान्तात्कुत्सायां प्रतिषेधः [... यां प्रागिवीयः] कः ॥
इति द्वितीये तृतीये नवमोनुवाकः ॥