-ज्मन्नुप॑ वेत॒सेऽव॑त्तरं न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि ॥ मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञ्ं । पा॒व॒कव॑र्णꣳ शि॒वं कृ॑धि ॥ पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना᳚ ॥ तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान् - [ ]
पदपाठः (Word-by-word)
ज्मन्न् । उपेति॑ । वे॒त॒से । अव॑त्तर॒मित्यव॑त्-त॒र॒म् । न॒दीषु॑ । आ ॥ अग्ने᳚ । पि॒त्तम् । अ॒पाम् । अ॒सि॒ ॥ मण्डू॑कि । ताभिः॑ । एति॑ । ग॒हि॒ । सा । इ॒मम् । नः॒ । य॒ज्ञ्म् ॥ पा॒व॒कव॑र्ण॒मिति॑ पाव॒क - व॒र्ण॒म् । शि॒वम् । कृ॒धि॒ ॥ पा॒व॒के । एति॑ । चि॒तय॑न्त्या । कृ॒पा ॥ क्षामन्न्॑ । रु॒रु॒चे । उ॒षसः॑ । न । भा॒नुना᳚ ॥ तूर्वन्न्॑ । न । यामन्न्॑ । एत॑शस्य । नु । रणे᳚ । एति॑ । यः । घृ॒णे ॥ न । त॒तृ॒षा॒णः । अ॒जरः॑ ॥ अग्ने᳚ । पा॒व॒क॒ । रो॒चिषा᳚ । म॒न्द्रया᳚ । दे॒व॒ । जि॒ह्वया᳚ ॥ एति॑ । दे॒वान् ।