व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हाऽऽ व॑ह । उप॑ य॒ज्ञ्ꣳ ह॒विश्च॑ नः ॥ अ॒पामि॒दं न्यय॑नꣳ समु॒द्रस्य॑ नि॒वेश॑नं । अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे᳚ । अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ नृ॒षदे॒ वड॑ - [ ]
पदपाठः (Word-by-word)
व॒क्षि॒ । यक्षि॑ । च॒ ॥ सः । नः॒ । पा॒व॒क॒ । दी॒दि॒वः॒ । अग्ने᳚ । दे॒वान् । इ॒ह । एति॑ । व॒ह॒ ॥ उपेति॑ । य॒ज्ञ्म् । ह॒विः । च॒ । नः॒ ॥ अ॒पाम् । इ॒दम् । न्यय॑न॒मिति॑ नि - अय॑नम् । स॒मु॒द्रस्य॑ । नि॒वेश॑न॒मिति॑ नि - वेश॑नम् ॥ अ॒न्यम् । ते॒ । अ॒स्मत् । त॒प॒न्तु॒ । हे॒तयः॑ । पा॒व॒कः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । शि॒वः । भ॒व॒ ॥ नमः॑ । ते॒ । हर॑से । शो॒चिषे᳚ । नमः॑ । ते॒ । अ॒स्तु॒ । अ॒र्चिषे᳚ ॥ अ॒न्यम् । ते॒ । अ॒स्मत् । त॒प॒न्तु॒ । हे॒तयः॑ । पा॒व॒कः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । शि॒वः । भ॒व॒ ॥ नृ॒षद॒ इति॑ नृ - सदे᳚ । वट् ।