अ॑पान॒दा व्या॑न॒दाश्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यं ते॑ अ॒स्मत् त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यꣳस॒द्विश्वं॒ न्य॑त्रिणं᳚ । अ॒ग्निर्नो॑ वꣳसते र॒यिं ॥ सैनाऽनी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्-दि॑दीहि ॥
पदपाठः (Word-by-word)
अ॒पा॒न॒दा इत्य॑पान - दाः । व्या॒न॒दा इति॑ व्यान - दाः । च॒क्षु॒र्दा इति॑ चक्षुः-दाः । व॒र्चो॒दा इति॑ वर्चः-दाः । व॒रि॒वो॒दा इति॑ वरिवः-दाः ॥ अ॒न्यम् । ते॒ । अ॒स्मत् । त॒प॒न्तु॒ । हे॒तयः॑ । पा॒व॒कः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । शि॒वः । भ॒व॒ ॥ अ॒ग्निः । ति॒ग्मेन॑ । शो॒चिषा᳚ । यꣳस॑त् । विश्व᳚म् । नीति॑ । अ॒त्रिण᳚म् ॥ अ॒ग्निः । नः॒ । वꣳ॒॒स॒ते॒ । र॒यिम् ॥ सः । ए॒ना । अनी॑केन । सु॒वि॒दत्र॒ इति॑ सु-वि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा᳚ । दे॒वान् । आय॑जिष्ठ॒ इत्या-य॒जि॒ष्ठः॒ । स्व॒स्ति ॥ अद॑ब्धः । गो॒पा इति॑ गो - पाः । उ॒त । नः॒ । प॒र॒स्पा इति॑ परः - पाः । अग्ने᳚ । द्यु॒मदिति॑ द्यु - मत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥