प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.6.2.3 TS 4.6.2.3
पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । कꣳ स्वि॒द्गर्भं॑ प्रथ॒मं द॑द्ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ ॥ तमिद्गर्भं॑ प्रथ॒मं द॑द्ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ । अ॒जस्य॒ नाभा॒वद्ध्येक॒-मर्पि॑तं॒ ॅयस्मि॑न्नि॒दं ॅविश्वं॒ भुव॑न॒मधि॑ श्रि॒तं ॥ वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्-ग॑न्ध॒र्वो अ॑भवद् द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीना - [ ]
पदपाठः (Word-by-word)
पृ॒थि॒व्या । प॒रः । दे॒वेभिः॑ । असु॑रैः । गुहा᳚ । यत् ॥ कम् । स्वि॒त् । गर्भ᳚म् । प्र॒थ॒मम् । द॒द्ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒मग॑च्छ॒न्तेति॑ सं - अग॑च्छन्त । विश्वे᳚ ॥ तम् । इत् । गर्भ᳚म् । प्र॒थ॒मम् । द॒द्ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒मग॑च्छ॒न्तेति॑ सं - अग॑च्छन्त । विश्वे᳚ ॥ अ॒जस्य॑ । नाभौ᳚ । अधीति॑ । एक᳚म् । अर्पि॑तम् । यस्मिन्न्॑ । इ॒दम् । विश्व᳚म् । भुव॑नम् । अधीति॑ । श्रि॒तम् ॥ वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । हि । अज॑निष्ट । दे॒वः । आत् । इत् । ग॒न्ध॒र्वः । अ॒भ॒व॒त् । द्वि॒तीयः॑ ॥ तृ॒तीयः॑ । पि॒ता । ज॒नि॒ता । ओष॑धीनाम् ।
पदसंख्या: 50