वि॒श्वक॑र्मा॒ वि द्यामौर्णो᳚न् महि॒ना वि॒श्वच॑क्षाः ॥ किꣳ स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒द्ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रयन्न्॑ ॥ या ते॒ धामा॑नि पर॒माणि॒ याऽव॒मा या म॑द्ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं ॅय॑जस्व त॒नुवं॑ जुषा॒णः ॥ वा॒चस्पतिं॑ ॅवि॒श्वक॑र्माणमू॒तये॑ - [ ]
पदपाठः (Word-by-word)
वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । वीति॑ । द्याम् । और्णो᳚त् । म॒हि॒ना । वि॒श्वच॑क्षा॒ इति॑ वि॒श्व - च॒क्षाः॒ ॥ किम् । स्वि॒त् । वन᳚म् । कः । उ॒ । सः । वृ॒क्षः । आ॒सी॒त् । यतः॑ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । नि॒ष्ट॒त॒क्षुरिति॑ निः - त॒त॒क्षुः ॥ मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । उ॒ । तत् । यत् । अ॒द्ध्यति॑ष्ठ॒दित्य॑धि - अति॑ष्ठत् । भुव॑नानि । धा॒रयन्न्॑ ॥ या । ते॒ । धामा॑नि । प॒र॒माणि॑ । या । अ॒व॒मा । या । म॒द्ध्य॒मा । वि॒श्व॒क॒र्म॒न्निति॑ विश्व - क॒र्म॒न्न् । उ॒त । इ॒मा ॥ शिक्ष॑ । सखि॑भ्य॒ इति॒ सखि॑ - भ्यः॒ । ह॒विषि॑ । स्व॒धा॒व॒ इति॑ स्वधा - वः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒नुव᳚म् । जु॒षा॒णः ॥ वा॒चः । पति᳚म् । वि॒श्वक॑र्माण॒मिति॑ वि॒श्व - क॒र्मा॒ण॒म् । ऊ॒तये᳚ ।