प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.6.7.2 TS 4.6.7.2
आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥ त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒फ्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्थ् स्यर्व॒न्॒. यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्रं᳚ ॥ इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाꣳ॑ सनि॒तुर्नि॒धाना᳚ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥ आ॒त्मानं॑ ते॒ मन॑सा॒ऽऽराद॑जानाम॒वो दि॒वा - [ ]
पदपाठः (Word-by-word)
आ॒हुः । ते॒ । त्रीणि॑ । दि॒वि । बन्ध॑नानि ॥ त्रीणि॑ । ते॒ । आ॒हुः॒ । दि॒वि । बन्ध॑नानि । त्रीणि॑ । अ॒फ्स्वित्य॑प् - सु । त्रीणि॑ । अ॒न्तः । स॒मु॒द्रे ॥ उ॒त । इ॒व॒ । मे॒ । वरु॑णः । छ॒न्थ्सि॒ । अ॒र्व॒न्न् । यत्र॑ । ते॒ । आ॒हुः । प॒र॒मम् । ज॒नित्र᳚म् ॥ इ॒मा । ते॒ । वा॒जि॒न्न् । अ॒व॒मार्ज॑ना॒नीत्य॑व - मार्ज॑नानि । इ॒मा । श॒फाना᳚म् । स॒नि॒तुः । नि॒धानेति॑ नि - धाना᳚ ॥ अत्र॑ । ते॒ । भ॒द्राः । र॒श॒नाः । अ॒प॒श्य॒म् । ऋ॒तस्य॑ । याः । अ॒भि॒रक्ष॒न्तीय॑भि - रक्ष॑न्ति । गो॒पा इति॑ गो - पाः ॥ आ॒त्मान᳚म् । ते॒ । मन॑सा । आ॒रात् । अ॒जा॒ना॒म् । अ॒वः । दि॒वा ।
पदसंख्या: 50