प॒तय॑न्तं पत॒ङ्गं । शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥ अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद् ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥ अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीनां᳚ । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ - [ ]
पदपाठः (Word-by-word)
प॒तय॑न्तम् । प॒त॒ङ्गम् ॥ शिरः॑ । अ॒प॒श्य॒म् । प॒थिभि॒रिति॑ प॒थि - भिः॒ । सु॒गेभि॒रिति॑ सु - गेभिः॑ । अ॒रे॒णुभि॒रित्य॑रे॒णु - भिः॒ । जेह॑मानम् । प॒त॒त्रि ॥ अत्र॑ । ते॒ । रू॒पम् । उ॒त्त॒ममित्यु॑त् - त॒मम् । अ॒प॒श्य॒म् । जिगी॑षमाणम् । इ॒षः । एति॑ । प॒दे । गोः ॥ य॒दा । ते॒ । मर्तः॑ । अन्विति॑ । भोग᳚म् । आन॑ट् । आत् । इत् । ग्रसि॑ष्ठः । ओष॑धीः । अ॒जी॒गः॒ ॥ अन्विति॑ । त्वा॒ । रथः॑ । अन्विति॑ । मर्यः॑ । अ॒र्व॒न्न् । अन्विति॑ । गावः॑ । अन्विति॑ । भगः॑ । क॒नीना᳚म् ॥ अन्विति॑ । व्राता॑सः । तव॑ । स॒ख्यम् । ई॒युः॒ । अन्विति॑ । दे॒वाः । म॒मि॒रे॒ । वी॒र्य᳚म् ।