ते ॥ हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्॒. यो अर्व॑न्तं प्रथ॒मो अ॒द्ध्यति॑ष्ठत् ॥ ई॒र्मान्ता॑सः॒ सिलि॑कमद्ध्यमासः॒ सꣳ शूर॑णासो दि॒व्यासो॒ अत्याः᳚ । हꣳ॒॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्य-मज्म॒मश्वाः᳚ ॥ तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न् तव॑ चि॒त्तं ॅवात॑ इव॒ ध्रजी॑मान् । तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्राऽर॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥ उप॒ - [ ]
पदपाठः (Word-by-word)
ते॒ ॥ हिर॑ण्यशृङ्ग॒ इति॒ हिर॑ण्य - शृ॒ङ्गः॒ । अयः॑ । अ॒स्य॒ । पादाः᳚ । मनो॑जवा॒ इति॒ मनः॑ - ज॒वाः॒ । अव॑रः । इन्द्रः॑ । आ॒सी॒त् ॥ दे॒वाः । इत् । अ॒स्य॒ । ह॒वि॒रद्य॒मिति॑ हविः - अद्य᳚म् । आ॒य॒न्न् । यः । अर्व॑न्तम् । प्र॒थ॒मः । अ॒द्ध्यति॑ष्ठ॒दित्य॑धि - अति॑ष्ठत् ॥ ई॒र्मान्ता॑स॒ इती॒र्म-अ॒न्ता॒सः॒ । सिलि॑कमद्ध्यमास॒ इति॒ सिलि॑क-म॒द्ध्य॒मा॒सः॒ । समिति॑ । शूर॑णासः । दि॒व्यासः॑ । अत्याः᳚ ॥ हꣳ॒॒साः । इ॒व॒ । श्रे॒णि॒श इति॑ श्रेणि - शः । य॒त॒न्ते॒ । यत् । आक्षि॑षुः । दि॒व्यम् । अज्म᳚म् । अश्वाः᳚ ॥ तव॑ । शरी॑रम् । प॒त॒यि॒ष्णु । अ॒र्व॒न्न् । तव॑ । चि॒त्तम् । वातः॑ । इ॒व॒ । ध्रजी॑मान् ॥ तव॑ । शृङ्गा॑णि । विष्ठि॒तेति॒ वि - स्थि॒ता॒ । पु॒रु॒त्रेति॑ पुरु - त्रा । अर॑ण्येषु । जर्भु॑राणा । च॒र॒न्ति॒ ॥ उप॑ ।