प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.6.7.5 TS 4.6.7.5
प्रागा॒च्छस॑नं ॅवा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीद्ध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात् क॒वयो॑ यन्ति रे॒भाः ॥उप॒ प्रागा᳚त् पर॒मं ॅयथ् स॒धस्थ॒मर्वाꣳ॒॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च । अ॒द्या दे॒वान् जुष्ट॑तमो॒ हि ग॒म्या अथाऽऽशा᳚स्ते दा॒शुषे॒ वार्या॑णि ॥
पदपाठः (Word-by-word)
प्रेति॑ । अ॒गा॒त् । शस॑नम् । वा॒जी । अर्वा᳚ । दे॒व॒द्रीचेति॑ देव-द्रीचा᳚ । मन॑सा । दीद्ध्या॑नः ॥ अ॒जः । पु॒रः । नी॒य॒ते॒ । नाभिः॑ । अ॒स्य॒ । अन्विति॑ । प॒श्चात् । क॒वयः॑ । य॒न्ति॒ । रे॒भाः ॥ उप॑ । प्रेति॑ । अ॒गा॒त् । प॒र॒मम् । यत् । स॒धस्थ॒मिति॑ स॒ध - स्थ॒म् । अर्वान्॑ । अच्छ॑ । पि॒तर᳚म् । मा॒तर᳚म् । च॒ ॥ अ॒द्य । दे॒वान् । जुष्ट॑तम॒ इति॒ जुष्ट॑ - त॒मः॒ । हि । ग॒म्याः । अथ॑ । एति॑ । शा॒स्ते॒ । दा॒शुषे᳚ । वार्या॑णि ॥
पदसंख्या: 39